अध्यायः 085

ब्रह्मचर्याद्याश्रमविषयकाष्टकययातिप्रश्नप्रतिवचनम् ॥ 1 ॥

अष्टक उवाच ।
चरन्गृहस्थः कथमेति धर्मा- न्कथं भिक्षुः कथमाचार्यकर्मा ।
वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन्संप्रति वेदयन्ति ॥
ययातिरुवाच ।
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी ।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्याशीलः सिध्यति ब्रह्मचारी ॥
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च ।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी ।
तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः ॥
अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः ।
अनोकशायी लघुरल्पप्रसार- श्चरन्देशानेकचरः स भिक्षुः ॥
रात्र्या यया वाऽभिजिताश्च लोका भवन्ति कामाभिजिताः सुखाश्च ।
तामेव रात्रिं प्रयतेत विद्वा- नरण्यसंस्थो भवितुं यतात्मा ॥
दशैव पूर्वान्दश चापरांश्च ज्ञातीनथात्मानमथैकविंशम् ।
अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् ॥
अष्टक उवाच ।
कतिस्विदेव मुनयः कति मौनानि चाप्युत ।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥
ययातिरुवाच ।
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥
अष्टक उवाच ।
कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥
ययातिरुवाच ।
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् ।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः ।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् ।
तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः ।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् ।
असितं सितकर्माणं कस्तमर्हति नार्चितुम् ॥
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः ।
स च लोकमिमं जित्वा लोकं विजयते परम् ॥
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ।
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥
आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः ।
अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते ॥
सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा । विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम् ।
क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् ॥
अष्टक उवाच ।
नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः ।
नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते ॥
ययातिरुवाच ।
अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः ।
द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥
इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

1-85-1 अस्मिन्धर्मे विषये बहूनि प्राप्तिद्वाराणि वेदयन्ति वैदिकाः ॥ 1-85-4 स्ववीर्यजीवी स्वप्रयत्नलब्धजीविकः ॥ 1-85-5 अनोकशायी यत्र क्वचनशायी । लघुः परिग्रहशून्यः ॥ 1-85-6 तामेव रात्रिं तदैव सर्वपरिग्रहं संन्यस्य अरण्यसंस्थो भवितुं प्रयतेत ॥ 1-85-8 संन्यासः कतिधेति पृच्छति । कतिस्विदिति ॥ 1-85-9 संन्यासं चतुष्प्रकारमभिप्रेत्य प्रथमं कुटीचकबहूदकरूपं भेदद्वयमाह । अरण्येति ॥ 1-85-10 ग्रामारण्ययोः पृष्ठतःकरणं कथमिति पृच्छति । कथमिति ॥ 1-85-11 कृटीचकं विशिनष्टि । न ग्राम्यमिति ॥ 1-85-12 बहूदकं विशिनष्टि । अनग्निरिति ॥ 1-85-14 हंसपरमहंसौ प्रस्तौति । यस्त्विति ॥ 1-85-15 धौतदन्तं शुद्धाहारम् । कृत्तनखं त्यक्तहिंसासाधनम् । सदा स्नातं नित्यं शुद्धचित्तम् । अलंकृतं शमादिना । असितं बन्धरहितम् । सितकर्माणं शुद्धकर्माणम् ॥ 1-85-18 आस्यस्य यावदपेक्षितं तावदेव मृगयते नतु परदिनार्थणार्जयतीत्यर्थः ॥ पञ्चाशीतितमोऽध्यायः ॥ 85 ॥