अध्यायः 101
भरतचरित्रकथनम् ॥ 1 ॥ तद्वंशकथनं च ॥ 2 ॥
`वैशंपायन उवाच । 
					दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः ।'
							तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः ॥
						
					भास्वरं दिव्यमजितं लोकसंनादनं महत् ।
						स विजित्य महीपालांश्चकार वशवर्तिनः ॥
					चचार च सतां धर्मं प्राप्य चानुत्तमं यशः ।
						स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् ॥
					ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ।
						याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् ॥
					श्रीमद्गोविततं नाम वाजिमेधमवाप सः ।
						यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥
					सोऽश्वमेधशतैरीजे यमुनामनु तीरगः ।
						त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥
					दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः ।
						तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥
					भरतस्य वरस्त्रीषु पुत्राः संजज्ञिरे पृथक् ।
						नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान् ॥
					ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् ।
						ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥
					ततो महद्भिः क्रतुभिरीजानो भरतस्तदा ।
						लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत ॥
					ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः ।
						भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥
					ततो दिविरथो नाम भुमन्योरभवत्सुतः ।
						सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ॥
					पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः ।
						तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ॥
					राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ।
						सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम् ॥
					पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम् ।
						ममज्जेव मही तस्य भूरिभारावपीडिता ॥
					हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् ।
						सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ॥
					चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ।
						प्रवृद्धजनसस्या च सर्वदैव व्यरोचत ॥
					ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः ।
						अजमीढं सुमीढं च पुरुमीढं च भारत ॥
					अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः ।
						षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत ॥
					ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ ।
						केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ ॥
					विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम् ।
							तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः ।
						
						अन्वयाः कुशिका राजञ्जन्होरमिततेजसः ॥
						
					जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् ।
						ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥
					आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् ।
						संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम् ॥
					व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा ।
						क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥
					अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ।
						चालयन्वसुधां चेमां बलेन चतुरङ्गिणा ॥
					अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम् ।
						अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥
					ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः ।
						राजा संवरणस्तस्मात्पलायत महाभयात् ॥
					`ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम्' ।
							सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा ।
						
						नदीविपयपर्यन्ते पर्वतस्य समीपतः ॥
						
					तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ।
						तेषां निवसतां तत्र सहस्रं परिवत्सरान् ॥
					अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ।
						तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ॥
					अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ।
						निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥
					तमासने चोपविष्टं राजा वव्रे स्वयं तदा ।
						पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि ॥
					ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ।
						अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ॥
					विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ।
						भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोतोतमम् ॥
					पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ।
						ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ॥
					आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ।
						ततः संवरणात्सौरी तपती सुषुवे कुरुम् ॥
					राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ।
							`महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम् ।'
						
						तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं ॥
						
					कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ।
						अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम् ॥
					जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम ।
						पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥
					अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान् ।
						आदिराजो विराजश्च शाल्मलिश्च महाबलः ॥
					उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः ।
							एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ।
						
						जनमेजयादयः सप्त तथैवान्ये महारथाः ॥
						
					परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ।
						कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान् ॥
					इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ।
						जनमेजयस्य तनया भुवि ख्याता महाबलाः ॥
					धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ।
						निषधश्च महातेजास्तथा जाम्बूनदो बली ॥
					कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ।
						सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः ॥
					धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः ।
						हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः ॥
					हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः ।
						धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि ॥
					प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत ।
						प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि ॥
					प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ ।
						देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥
					देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया ।
						शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥
					भरतस्यान्वयास्त्वेते देवकल्पा महारथाः ।
						बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥
					एवंविधा महाभागा देवरूपाः प्रहारिणः ।
						अन्ववाये महाराज ऐलवंशविवर्धनाः ॥
					`गङ्गातीरं समागम्य दीक्षितो जनमेजय ।
						अश्वमेधसहस्राणि वाजपेयशतानि च ॥
					पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः ।
						अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः ॥
					वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः ।
						दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ॥
					पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ ।
						जम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥
					यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः ।
						सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः ॥
					स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः ।
						हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम् ॥
					दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः ।
						भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् ॥
					बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून् ।
						ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा ॥
					भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।'
							भरतस्यान्वये जाता देवकल्पा महारथाः ॥
						
					बहवो ब्रह्मकल्पाश्च बभूवुः क्षत्रसत्तमाः ।
						तेषामपरिमेयानि नामधेयानि सन्त्युत ॥
					तेषां कुले यथा मुख्यान्कीर्तयिष्यामि भारत ।
						महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोत्तरशततमोऽध्यायः ॥ 101 ॥
1-101-9 वितथं विगतस्तथाभावो जनकसादृश्यं यत्र तत्तादृशं पुत्रजन्म ॥ 1-101-23 आर्क्षे ऋक्षपुत्रे ॥ 1-101-24 क्षयैर्नाशहेतुभिः क्षुत्प्रभृतिभिः ॥ 1-101-26 अभ्ययात्तं संवरणम् । एनं संवरणमेव ॥ 1-101-35 बलिभृतः करदान् ॥ 1-101-36 सौरी सूर्यकन्या ॥ 1-101-40 अश्ववत एवाविक्षिदिति संज्ञान्तरम् ॥ एकोत्तरशत्ततमोऽध्यायः ॥ 101 ॥
