अध्यायः 104

समयबन्धपूर्वकं गङ्गाशान्तन्वोर्विवाहः ॥ 1 ॥

वैशंपायन उवाच ।
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा ॥
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम् ।
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता ॥
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम् ।
प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम् ॥
कालोऽयमिति मत्वा सा वसूनां शापचोदिता ।
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा ॥
गङ्गोवाच ।
भविष्यामि महीपाल महिषी ते वशानुगा ।
न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथंचन ॥
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम् ।
न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम् ॥
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव ।
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥
एष मे समयो राजन्भज मां त्वं यथेप्सितम् ।
अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो ॥
वैशंपायन उवाच ।
तथेति सा यदा तूक्ता तदा भरतसत्तम ।
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः ।
रथमारोप्य तां देवीं जगाम स तया सह ॥
सा च शान्तनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा ।
आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी ॥
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् ।
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च ॥
उपचारेण च रहस्तुतोष जगतीपतिः ।
स राजा परमप्रीतः परमस्त्रीप्रलालितः ॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी ।
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी ॥
भाग्योपनतकामस्य भार्या चोपनताऽभवत् ।
शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः ॥
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः ।
राजानं रमयामास यथा रज्येत स प्रभुः ॥
स राजा रतिसक्तोऽभूदुत्तमस्त्रीगुणैर्हृतः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥