अध्यायः 110
संग्रहेण अम्बाचरित्रकथनम् ॥ 1 ॥
अम्बोवाच ।
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः ।
साहं धर्माच्च कामाच्च विहीना शोकधारिणी ॥
अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः ।
इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति ॥
अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति ।
तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः ॥
नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात् ।
अगच्छत्सोमकं साऽम्बा पाञ्चालेषु यशस्विनम् ॥
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम् ।
सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम् ॥
पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ ।
भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे ॥
यज्ञसेनाभिधावेह पाणिमालम्ब्य चोद्धर ।
तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः ॥
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ ।
***न्त्येवं न विन्दामि राजन्यं शरणं क्वचित् ॥
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति ।
समागम्य तु राजानो मयोक्ता राजसत्तमाः ॥
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः ।
इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः ॥
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत् ।
प्रसीद यज्ञसेनेह गतिर्मे भव सोमक ॥
यज्ञसेन उवाच ।
जानामि त्वां बोधयामि राजपुत्रि विशेषतः ।
यथाशक्ति यथाधर्मं बलं संधारयाम्यहम् ॥
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे ।
तस्यापनयने हेतुं संविधातुमहं प्रभुः ॥
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः ।
ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते ॥
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात् ।
न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम् ॥
न हि भीष्मादहं धर्मं शक्तो दातुं कथंचन ।
वैशंपायन उवाच ।
इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत् ॥
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम् ।
तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः ॥
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय ॥
अम्बोवाच ।
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते ।
न तु तस्यान्यथा भावो दैवमेतदमानुषम् ॥
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते ।
स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् ॥
वैशंपायन उवाच ।
तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः ।
ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत ॥
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया ।
तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् ॥
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम् ।
गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी ॥
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः ।
गङ्गाद्वारे विभजनं भविता नचिरादिव ॥
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम् ।
आराधयितुमीहस्व सम्यक्परिचरस्व तम् ॥
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने ।
तं तदाचर भद्रं ते स ते श्रेयो विधास्यति ॥
ततो विभजनं तत्र गन्धर्वाणामवर्तत ।
तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ ॥
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह ।
इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते ॥
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ ।
ततः पुमान्समभवच्छिखण्डी परवीरहा ॥
स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः ।
लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः ॥
ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत् ।
तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः ॥
स्वदेशमभिसंपदे पाञ्चालं कुरुनन्दन ।
सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः ॥
उवाच भवता भीष्मान्न भेतव्यं कथंचन ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥
1-110-10 पाञ्चालानां च ये वराः ते राजानः मयोक्ता इति पूर्वेण संबन्धः ॥ 1-110-14 ईश्वरो नहि ॥ 1-110-16 भीष्मात् भीष्ममपेक्ष्य ॥ 1-110-24 विभजनं उत्सवविशेषः ॥ दशाधिकशततमोऽध्यायः ॥ 110 ॥