अध्यायः 126
विदुरस्य विवाहः पुत्रोत्पत्तिश्च ॥ 1 ॥ व्यासस्य वरेण
गान्धार्यां धृतराष्ट्राद्गर्भोत्पत्तिः ॥ 2 ॥ पाण्डोः पुत्रोत्पत्तौ चिन्ता ॥ 3 ॥
अथ पारसवीं कन्यां देवकस्य महीपतेः ।
रूपयौवनसंपन्नां स सुश्रावापगासुतः ॥
ततस्तु वरयित्वा तामानीय भरतर्षभः ।
विवाहं कारयामास विदुरस्य महामतेः ॥
तस्यां चोत्पादयामास विदुरः कुरुनन्दन ।
पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः ॥
ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय ।
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥
पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः ।
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥
जनमेजय उवाच ।
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम ।
कियता चैव कालेन तेषामायुश्च किं परम् ॥
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् ।
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ।
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ॥
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः ।
एतद्विद्वन्यथान्यायं विस्तरेण तपोधन ॥
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ।
वैशंपायन उवाच ।
ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम् ॥
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ।
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ॥
ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः ॥
गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः ।
अगच्छत्परमं दुःखमपत्यार्थमरिन्दम ॥
गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः ।
मृगाभिशापादात्मानं शोचन्नुपरतक्रियः ॥
स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि ।
देहान्यासे कृतमना इदं वचनमब्रवीत् ॥
पाण्डुरुवाच ।
चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि ।
पितृदेवमनुष्याणामृषीणामथ भामिनि ॥
एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित् ।
न तस्य लोकाः सन्तीति तता लोकविदो विदुः ॥
यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन् ।
पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान् ॥
ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः ।
पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते ॥
देहनाशे भवेन्नाशः पितॄणामेष निश्चयः ।
इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति ॥
इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः ।
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना ॥
तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा ।
वैशंपायन उवाच ।
स समानीय कुन्तीं च माद्रीं च भरतर्षभः ॥
आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् ।
उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि ॥
अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः ।
अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि ।
ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित् ॥
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् ।
अपत्योत्पादने यत्नमापदि त्वं समर्थय ॥
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता ।
इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः ॥
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः ।
सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते ।
अनपत्यः शुभाँल्लोकान्नप्राप्स्यामीति चिन्तयन् ॥
`अनपत्यो हि मरणं कामये नैव जीवितम् ।'
मृगाभिशापं जानासि विजने मम केवलम् ।
नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा ॥
इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने ।
षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे ॥
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः ।
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः ।
सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः ॥
पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम् ।
उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि ॥
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः ।
आत्मशुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत् ॥
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ॥
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ।
शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति ॥
`या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी ।
अवाह तां तु कैकेयः शारदाण्डायनिर्महान् ॥'
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि ।
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ॥
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ।
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् ॥
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ।
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् ।
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥
1-126-26 धर्मसंहिता धर्ममयी ॥ 1-126-30 धर्मदर्शने
धर्मशास्त्रे उक्ता इति शेषः । बन्धुदायादारिक्थहराः । अबन्धुदायादास्तदन्ये ॥ 1-126-35 प्रहेष्यामि गतिवृद्धिकर्मणो हिनोते रूपम् । अद्येति
क्षिप्रवचनसंयोगाल्लृट् । त्वां शरणं गतोऽस्मि वर्धयामि वेति चार्थः ॥ 1-126-36
विद्धि लभस्व । शारदण्डायनेर्भार्याम् ॥ 1-126-38 गुरुणा भर्त्रा । पुष्पेण
आर्तवेन निमित्तेन स्नाता ॥ 1-126-40 यत यतस्व ॥ षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥