अध्यायः 009
देवदूतवचनेन रुरुकृतस्वार्धायुः प्रदानेन प्रमद्वराजीवनं तया सह रुरोर्विवाहश्च ॥ 1 ॥
सौतिरुवाच ।
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु ।
रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः ॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु ।
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम् ॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी ।
`प्राणानपहरन्तीव पूर्णचन्द्रनिभानना ॥
यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा ।
मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति ॥
पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे ।'
बान्धवानां च सर्वेषां किं नु दुःखमतःपरम् ॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि ।
सम्यगाराधितास्तेन संजीवतु मम प्रिया ॥
यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः ।
प्रमद्वरा तथाद्यैषा समुत्तिष्ठतु भामिनी ॥
[एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च ।
देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने ॥]
`कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि ।
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया ॥
विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः ।
दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः ॥
स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः ।
उवाच देववचनं रुरुमाभाष्य दुःखितम् ॥
देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम् ।
त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम ॥'
अभिधत्से ह यद्वाचा रुरो दुःखान्न तन्मृषा ।
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता ।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन ॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः ।
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम् ॥
रुरुरुवाच ।
क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर ।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥
देवेदूत उवाच ।
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन ।
एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा ॥
रुरुरुवाच ।
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम ।
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया ॥
सौतिरुवाच ।
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा ।
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे ॥
धर्मराज उवाच ।
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि ।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥
सौतिरुवाच ।
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा ।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः ।
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत ॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा ।
विवाहं तौ च रेमाते परस्परहितैषिणौ ॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम् ।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः ।
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा ॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् ।
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥
तत उद्यम्य दम्डं स कालदण्डोपमं तदा ।
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः ॥
नापराध्यामि ते किंचिदहमद्य तपोधन ।
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वाणि पौलोमपर्वणि नवमोऽध्यायः ॥ 9 ॥
1-9-13 गतायुषः आयुर्नास्ति पुनर्न भवतीत्यर्थः ॥ 1-9-23 भविष्ये जातके ॥ 1-9-25 जिह्मगानां सर्पाणां ॥ 1-9-27 डुण्डुभं जलसर्पं ॥ नवमोऽध्यायः ॥ 9 ॥