अध्यायः 142

द्रोणेनास्त्रशिक्षायां कुरुपाण्डवानां शिष्यत्वेनाङ्गीकारः ॥ 1 ॥ विद्याभ्याससमाप्त्यनन्तरं बहुशः परीक्षितस्यार्जुनस्य द्रोणाचार्याद्विशेषशिक्षाप्राप्तिः ॥ 2 ॥ मृण्मयद्रोणप्रतिमाराधनेन एकलव्यस्य धनुर्वेदप्रतिभानं ॥ 3 ॥ मृगयार्थं गतेषु कुरुपाण्डवेषु एकलव्येन बाणैः शुनो मुखपूरणम् ॥ 4 ॥ अर्जुनप्रार्थनया द्रोणेनैकलव्यं प्रतिगम्य गुरुदक्षिणात्वेन दक्षिणाङ्गुष्ठ याचनम् ॥ 5 ॥ एकलव्येन दक्षिणाङ्गुष्ठस्य छित्वा दानम् ॥ 6 ॥ द्रोणेन शिष्यपरीक्षा ॥ 7 ॥ शिष्यपरीक्षायां युधिष्ठिरा दीनां निराकरणम् ॥ 8 ॥

`वैशंपायन उवाच ।
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह ।
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥
शिष्य इति ददौ राजन्द्रोणाय विधिपूर्वकम् ।
तदा द्रोणोऽब्रवीद्वाक्यं भीष्मं बुद्धिमतां वरम् ॥
कृपस्तिष्ठति चाचार्यः शस्त्रज्ञः प्राज्ञसंमतः ।
मयि तिष्ठति चेद्विप्रो वैमनस्यं गमिष्यति ॥
युष्मान्किंचिच्च याचित्वा धनं संगृह्य हर्षितः ।
स्वमाश्रमपदं राजन्गमिष्यामि यथागतम् ॥
एवमुक्ते तु विप्रेन्द्रं भीष्मः प्रहरतां वरः ।
अब्रवीद्द्रोणमाचार्यमुख्यं शस्त्रविदां वरम् ॥
कृपस्तिष्ठतु पूज्यश्च भर्तव्यश्च मया सदा । त्वं गुरुर्भव पौत्राणामाचार्यस्त्वं मतो मम ।
प्रतिगृह्णीष्व पुत्रांस्त्वमस्त्रज्ञान्कुरु वै सदा ॥'
वैशंपायन उवाच ।
ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः ।
विशश्राम महातेजाः पूजितः कुरुवेश्मनि ॥
विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान् ।
शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च ॥
गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम् ।
भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः ॥
स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ।
पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः ॥
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् ।
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा ॥
द्रोण उवाच ।
कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते ।
कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशांपते ।
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप ॥
ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः ।
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥
`अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत् ।
सखायं विद्धि ते पार्थं मया दत्तः प्रगृह्यताम् ॥
साधुसाध्विति तं पार्थः परिष्वज्येदमब्रवीत् ।
अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः ॥
शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम ।
इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः' ॥
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च ।
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥
राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ ।
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ।
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा ॥
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ।
दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान् ॥
अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया ।
शिक्षाभुजवलोद्योगैस्तेषु सर्वेषु पाण्डवः ॥
अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः ।
तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च ॥
सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः ।
ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत ॥
एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत् ।
कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात् ॥
पुत्राय च ददौ कुम्भमविलम्बनकारणात् ।
यावत्ते नोपगच्छ्ति तावदस्मै परां क्रियाम् ॥
द्रोण आचष्ट पुत्राय कर्म तज्जिष्णुरौहत ।
ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् ॥
सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः ।
आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक् ॥
न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः ।
अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने ॥
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ।
तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् ॥
आहूय वचनं द्रोणो रहः सूदमभाषत । अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन ।
न चाख्येयमिदं चापि मद्वाक्यं विजयेत्वया ॥
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने ।
तेन तत्र प्रदीपः स दीप्यमानो विलोपितः ॥
भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते ।
हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात् ॥
तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः ।
योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः ॥
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत ।
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥
द्रोण उवाच ।
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः ।
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥
वैशंपायन उवाच ।
ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च ।
रथेषु भूमावपि च रणशिक्षामशिक्षयत् ॥
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु ।
द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान् ॥
तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः ।
सजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥
`तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः ।' ततो निषादराजस्य हिरण्यधनुषः सुतः ।
एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् ।
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥
`द्रोण उवाच ।
शिष्योऽसि मम नैषादे प्रयोगे बलत्तरः ।
निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः ॥
वैशंपायन उवाच ।'
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः ।
अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम् ॥
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा ।
इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥
परया श्रद्धयोपेतो योगेन परमेण च ।
विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥
`लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत ।' अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः ।
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया ।
राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥
तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया ।
श्वाचरन्स पथा क्रीडन्नैषादिं प्रति जग्मिवान् ॥
स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाघरम् ।
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे ।
लाघवं दर्शन्नस्त्रे मुमोच युगपद्यथा ॥
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह ।
तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः ॥
लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा ।
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् ।
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् ।
तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत ॥
एकलव्य उवाच ।
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् ।
द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम् ॥
वैशंपायन उवाच ।
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः ।
यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम् ॥
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् ।
रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत् ॥
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः ।
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः ।
वैशंपायन उवाच ।
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् ।
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् ।
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् ।
अभिगम्योपसंगृह्य जगाम शिरसा महीम् ॥
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः ।
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः ।
यदि शिष्योऽसि मे वीर वेतनं दीयतां मम ॥
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् ।
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥
न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम ।
वैशंपायन उवाच ।
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति ॥
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् ।
प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा ॥
तथैव हृष्टवदनस्तथैवादीनमानसः ।
छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥
ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत ।
न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः ।
द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं ॥
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः ।
दुर्योधनश्च भीमश्च सदा संरब्धणानसौ ॥
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् ।
तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ ॥
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ।
प्रथितः सागरान्तायां रथयूथपयूथपः ॥
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः ।
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः ॥
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ।
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् ।
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम् ॥
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान् ।
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः ॥
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् ।
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥
द्रोण उवाच ।
शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः ।
भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः ॥
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम् ।
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥
वैशंपायन उवाच ।
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः ।
संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम् ॥
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः ।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् ।
स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥
पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज ।
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत ।
अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि ॥
तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम् ।
भन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः ॥
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव ।
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः ।
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् ।
यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

1-142-12 यत्प्रदेयं मे इति पाठान्तरम् ॥ 1-142-22 द्रोणमभ्ययात् द्रोणतुल्योऽभवत् ॥ 1-142-27 औहत तर्कितवान् ॥ 1-142-28 अपृथक् सहैवास्ते ॥ 1-142-29 अतो न व्यहीयत न विहीनोऽभूत् ॥ 1-142-30 योगमैकाग्र्यम् ॥ 1-142-33 अनुग्रहणमभ्यासः ॥ 1-142-34 योग्यामभ्यासम् ॥ 1-142-35 उत्थायोपेत्येति क्रमः ॥ 1-142-41 तेषामन्ववेक्षया तेभ्योऽधिको माभूदिति बुद्ध्या ॥ 1-142-43 महीमयं मृण्मयम् ॥ 1-142-44 इष्वस्त्रे इषुप्रयोगे योगमैकाग्र्यम् ॥ 1-142-45 लघुत्वं शीघ्रप्रयोक्तृत्वम् ॥ 1-142-64 वेतनं गुरुदक्षिणारूपम् ॥ 1-142-70 नाधिकोऽन्योऽर्जुनादभूत इति पाठान्तरम् ॥ 1-142-71 गदायोग्यौ गदायुद्धेऽभ्यासवन्तौ ॥ 1-142-72 त्सारुकौ खङ्गयुद्धे कुशलौ ॥ 1-142-79 भासं पक्षिविशेषम् ॥ द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥