अध्यायः 149
द्रुपदस्य याजोपयाजसमीपगमनम् ॥ 1 ॥ उपयाजेन
द्रोणविनाशकपुत्रोत्पादनार्थं याजनाय प्रार्थिते याजनस्य प्रत्याख्यानम् ॥ 2 ॥
याजेनाङ्गीकारे यजनारम्भः ॥ 3 ॥ अपत्यप्रदहविःप्राशनार्थं द्रुपदपत्न्या
आह्वाने गर्वात्तया विलम्बनम् ॥ 4 ॥ क्रुद्धाभ्यां याजोपयाजाभ्यां अग्नौ
हृविषो होमेनाग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिः ॥ 5 ॥ द्वितीयहविषो होमेन
पाञ्चाल्या उत्पत्तिः ॥ 6 ॥ तयोर्नामकरणम् ॥ 7 ॥
द्रोणाद्धृष्टद्युम्नस्यास्त्रशिक्षणम् ॥ 8 ॥
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा ।
क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम् ॥
हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च ।
द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान् ॥
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ।
नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन् ॥
निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया ।
न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान् ॥
पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम् ।
प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च ॥
कर्तुं प्रयतमानो वै न शशाक पराजयम् ।
अभितः सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन् ॥
ब्राह्मणावसथं पुण्यमाससाद महीपतिः ।
तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः ॥
तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ ।
याजोपयाजौ ब्रह्मर्षी भ्रातरौ पृषतात्मजः ॥
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ।
अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ॥
स उपामन्त्रयामास सर्वकामैरतन्द्रितः ।
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ॥
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ।
गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदम् ॥
पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम् ।
अर्हयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः ॥
येन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे ।
कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति ॥
वैशंपायन उवाच ।
स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा ।
उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम् ॥
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव ।
उपयाज चरस्वैतत्प्रदास्यामि धनं तव ॥
उपयाज उवाच ।
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम् ।
वैशंपायन उवाच ।
प्रत्याख्यातस्तु तेनैवं स वै सज्जनसंनिधौ ॥
आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा ।
ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः ॥
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा ।
ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने ॥
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ।
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ॥
विमर्शं हि फलादाने नायं कुर्यात्कथंचन ।
नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान् ॥
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत् ।
संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च ॥
भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा ।
कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः ॥
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन् ।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा ॥
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः ।
एवं फलार्थिनस्त्समान्मन्येऽहं तर्कचक्षुषा ॥
तं वै गच्छेह नृपते त्वां स संयाजयिष्यति ॥
वैशंपायन उवाच ।
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् ।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥
भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह ।
गोशतानि ददान्यष्टौ याज याजय मां विभो ॥
द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम् ।
ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत् ॥
तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति ।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥
अर्जुनस्यापि वै भार्या भवेद्या वरवर्णिनी ।
स हि ब्रह्मविदां श्रेष्ठो ब्राह्मे क्षात्रेऽप्यनुत्तमः ॥
ततो द्रोणस्तु माऽजैषीत्सखिविग्रहकारणात् ।
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ॥
भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः ।
द्रोणस्य शरजालानि रिपुदेहहराणि च ॥
षडरत्नि धनुश्चास्य खड्गमप्रतिम तथा ।
स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम् ॥
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ।
कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमो रणे ॥
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ॥
सहितं क्षत्रवेगेन ब्रह्मवेगेन सांप्रतम् ।
उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम् ॥
नेषवस्तमपाकुर्युर्न च प्रासा न चासयः ।
ब्राह्मं तस्य महातेजो मन्त्राहुतिहुतं यथा ॥
तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि ।
शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम् ॥
ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते ।
सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान् ॥
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥
द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान् ।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम् ॥
वैशंपायन उवाच ।
तथेत्युक्त्वा तुं तं याजो यज्ञार्थमुपकल्पयन् ।
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥
द्रुपदं च महाराजमिदं वचनमब्रवीत् ।
मा भैस्त्वं संप्रदास्यामि कर्मणा भवतः सुतम् ॥
क्षिप्रमुत्तिष्ठ चाव्यग्रः संभारानुपकल्पय ।
वैशंपायन उवाच ।
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः ॥
ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि कथाक्रमम् ।
याजो द्रोणविनाशाय याजयामास तं नृपम् ॥
गुर्वर्थेऽयोजयत्कर्म याजस्यापि समीपतः ।
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ॥
आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै ।
इह पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता स तथाविधः ॥
वैशंपायन उवाच ।
भारद्वाजस्य हन्तारं सोऽभिसन्धाय पार्थिवः ।
आजहेऽथ तदा राजन्द्रुपदः कर्म सिद्धये ॥
ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि ।
कौसवी नाम तस्यासीद्या वै तां पुत्रगृद्धिनः ॥
सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा ।
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा ॥
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ।
कुमारश्च कुमारी च पितृवंशविवृद्धये ॥
पृषत्युवाच ।
नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च ।
न पत्नी तेऽस्मि सूत्यर्थे तिष्ठ याज मम प्रिये ॥
याज उवाच ।
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।
कथं कामं न संदध्यात्पृषति प्रेहि तिष्ठ वा ॥
वैशंपायन उवाच ।
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥
ज्वालावर्णो घोररूपः किरीटी वर्म धारयन् ।
वीरः सखङ्गः सशरो धनुष्मान्स नदन्मुहुः ॥
सोऽभ्यरोहद्रथवरं तेन च प्रययौ तदा ।
जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत् ॥
एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते ।
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ॥
राज्ञः शोकापहो जात एष द्रोणवधाय हि ।
इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा ॥
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधुसाध्विति ।
द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते ॥
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ।
प्रत्याख्याते पृषत्या च याजके भरतर्षभ ॥
पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा ।
अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा ॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
मानुषं विग्रहं कृत्वा साक्षाच्छ्रीरिव वर्णिनी ॥
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ।
देवदानवयक्षाणामीप्सिता वरवर्णिनी ॥
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति ॥
सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् ।
न चैनान्हर्षसंपन्नानियं सेहे वसुन्धरा ॥
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः ।
कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ ॥
श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा ।
तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी ॥
न वै मदन्यां जननीं जानीयातामिमाविति ।
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ॥
तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः ।
धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्संभवादपि ॥
धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति ।
कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः ॥
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ।
वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा ॥
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥
सर्वास्त्राणि स तु क्षिप्रमाप्तवान्परया धिया ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥
1-149-63 क्रोशात् क्रोशमभिव्याप्य ॥ 1-149-71
द्युम्नाद्युत्संभवात् हिरण्यादिभिः सह जातत्वात् ॥ ऊनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥