अध्यायः 167
हिडिम्बावधे प्रवृत्तस्य भीमस्य युधिष्ठिरकृतं निवारणं ॥ 1 ॥ हिडिम्बया स्वस्य धर्मज्ञत्वस्य भविष्यज्ज्ञत्वस्य च प्रकटनम् ॥ 2 ॥ हिडिम्बाया धर्मिष्ठतां ज्ञात्वा तदङ्गीकरणे भीमं प्रति कुन्त्या आज्ञा ॥ 3 ॥
वैशंपायन उवाच ।
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः ।
अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति ॥
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् ।
अभिपूज्य ततः सर्वान्भीमसेनमभाषत ॥
अहं ते दर्शादेव मन्मथस्य वशं गता ।
क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती ॥
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम् ।
अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् ॥'
भीमसेन उवाच ।
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् ।
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम् ॥
युधिष्ठिर उवाच ।
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः ।
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव ॥
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् ।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥
वैशंपायन उवाच ।
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः ।
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत् ॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् ।
तदिदं मामनुप्राप्तं भीमसेनकृते शुभे ॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया ।
सोऽयमभ्यागतः कालो भविता मे सुखोदयः ॥
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा ।
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥
वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी ।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥
यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि ।
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥
भर्त्राऽनेन महाभागे संयोजय सुतेन ह ।
समुपादाय गच्छेयं यथेष्टं देवरूपिणम् ।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे ॥
`अहं हि समये लप्स्ये प्राग्भ्रातुरपर्वजनात् ।
ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया ॥
यथायथा विक्रमते यथारिमधितिष्ठति ।
तथातथा समासाद्य पाण्डवं काममोहिता ॥
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी ।
ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी ॥
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी ।
सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् ॥
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम् ।'
वृजिने तारयिष्यामि दासीवच्च नरर्षभाः ॥
पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव ।
यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥
`एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति ।
भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः ॥
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा ।'
आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित् ॥
सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता ।
आपत्सु यो धारयति स वै धर्मविदुत्तमः ॥
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ।
पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम् ॥
येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ।
`महतोऽत्र स्त्रियं कामाद्वाधितां त्राहि मामपि ॥
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः ।
तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः ॥
दिव्यज्ञानेन जानामि व्यतीतानागतानहम् ।
तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् ॥
अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ ।
श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् ॥
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ ।
धार्तराष्ट्राद्विवासं च दहनं वारणावते ॥
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा ।
आवासे शालिहोत्रस्य स वो वासं विधास्यति ॥
वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः ।
पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः ॥
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः ।
कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह ॥
रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् ।
वैशंपायन उवाच ।
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् ॥
युधिष्ठिरं महाप्राज्ञं सर्वधर्मविशारदम् ।
कुन्त्युवाच ।
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत ॥
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै ।
भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी ॥
भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि ।'
युधिष्ठिर उवाच ।
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः ॥
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ।
`नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी ॥'
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् ।
भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे ॥
अहस्सु विहरानेन यथाकामं मनोजवा ।
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः ।
एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् ॥
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया ।
नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥
1-167-5 भ्रातृसेवितं पन्थानं मृत्युम् ॥ सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥