अध्यायः 171
(अथ बकवधपर्व ॥ 10 ॥)
एकचक्रायां भिक्षामटतः पाण्डवान्दृष्ट्वा पौराणां वितर्कः ॥ 1 ॥ कुम्भकाराद्भीमस्य महत्तरपात्रलाभः ॥ 2 ॥ सभार्यस्य तद्गृहस्वामिनो ब्राह्मणस्य क्रन्दितं श्रुतवत्याः कुन्त्याः भीमानुमत्या ब्राह्मणान्तर्गृहप्रवेशः ॥ 3 ॥ ब्राह्मणप्रलापः ॥ 4 ॥
जनमेजय उवाच ।
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥
वैशंपायन उवाच ।
एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः ।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥
रमणीयानि पश्यन्तो वनानि विविधानि च ।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥
चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते ।
`युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते ॥
भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः ।
बभूवुर्नागराणां च गुणैः संप्रियदर्शनाः ॥
नागरा ऊचुः ।
दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः ।
भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः ॥
नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः ।
चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह ॥
सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः ।
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् ॥
बन्धूनामागमान्नित्यमुपचारैस्तु नागराः ।
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् ॥
मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः ।
माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति ॥
दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम् ।
भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम् ॥
त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः ।
मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम् ॥
सर्वं संपूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक् ।
विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक् ॥
अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः ।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः ॥
स नाशितश्च भवति कल्याणान्नभुजिः पुरा ।
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् ॥
आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत् ।
तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम ॥
तथैव वसतां तत्र तेषां राजन्महात्मनाम् ।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥
भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु ।
कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम् ॥
कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम् ।
प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा ॥
तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे ।
मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत् ॥
चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन् ।
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च ॥
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च ।
एवमेव सदा भुक्त्वा मात्रे वदति वै रहः ।
न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा ॥'
ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः ।
संगत्य भीमसेनस्तु तत्रास्ते पृथया सह ॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥
रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा ।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे ॥
मथ्यमानेव दुःखेन हृदयेन पृथा तदा ।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने ।
अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः ॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ॥
कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम् ॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।
न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥
भीमसेन उवाच ।
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥
वैशंपायन उवाच ।
एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम् ।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते ॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः ।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी ॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।
दुहित्रा चैव सहितं ददर्श विकृताननम् ॥
ब्राह्मण उवाच ।
धिगिदं जीवितं लोके गतसारमनर्थकम् ।
दुःखमूलं पराधीनं भृशमप्रियभागि च ॥
जीविते परमं दुःखं जीविते परमो ज्वरः ।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥
आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते ।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम् ॥
आहुः केचित्परं मोक्षं स च नास्ति कथंचन ।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते ॥
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् ।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥
`यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत ।
तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः ॥
तदिदं जीवितं प्राप्य अल्पकालं महाभयम् ।
त्यागो हि न मया प्राप्तो भार्यया सहितेन च ॥'
न हि योगं प्रपश्यामि येन मुच्येयमापदः ।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम् ॥
यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा ।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम् ॥
इह जाता विवृद्धाऽस्मि पिता माता ममेति वै ।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत् ॥
स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव ।
बन्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥
`न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः ।
सुदूरमपि तं देशं व्रजेद्गरुडहंसवत् ॥'
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम ॥
अथवा मद्विनाशो यं न हि शक्ष्यामि कंचन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥
सहधर्मचरीं दान्तां नित्यं मातृसमां मम ।
सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥
पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम् ।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥
कुलीनां शीलसंपन्नामपत्यजननीमपि ।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् ॥
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना ॥
यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह ।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः ।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ ॥
यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् ।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥
`कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् ।
प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च ॥
यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः ।
अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा ॥
दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे ।
तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम् ॥
मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् ।
त्यागोऽयं मम संप्राप्तो ममन्वा मे सुतस्य वा ॥
तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम् ।
न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि ॥
अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम ।
एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि ॥
अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कंचन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥
आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि ।'
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः ।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् ।
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि बकवचपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥
1-171-42 योगमुपायम् ॥ एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥