अध्यायः 215
युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम् ॥ 1 ॥
द्रुपद उवाच ।
अश्रुत्वैवं वचनं ते महर्षे
मया पूर्वं यतितं संविधातुम् ।
न वै शक्यं विहितस्यापयानं
तदेवेदमुपपन्नं विधानम् ॥
दिष्टस्य ग्रन्थिरनिवर्तनीयः
स्वकर्मणा विहितं तेन किंचित् ।
कृतं निमित्तमिह नैकहेतो-
स्तदेवेदमुपन्नं विधानम् ॥
यथैव कृष्णोक्तवती पुरस्ता-
न्नैकान्पतीन्मे भगवान्ददातु ।
स चाप्येवं वरमित्यब्रवीत्तां
देवो हि वेत्ता परमं यदत्र ॥
यदि चैवं विहितः शङ्करेण
धर्मोऽधर्मो वा नात्र ममापराधः ।
गृह्णन्त्विमे विधितत्पाणिमस्या
यथोपजोषं विहितैषां हि कृष्णा ॥
व्यास उवाच ।
नायं विधिर्मानुषाणां विवाहे
देवा ह्येते द्रौपदी चापि लक्ष्मीः ।
प्राक्कर्मणः सुकृतात्पाण्डवानां
पञ्चानां भार्या देवदेवप्रसादात् ॥
तेषामेवायं विहितः स्याद्विवाहो
यथा ह्येष द्रौपदीपाण्डवानाम् ।
अन्येषां नृणां योषितां च
न धर्मः स्यान्मानवोक्तो नरेन्द्र ॥
वैशंपायन उवाच ।
तत आजग्मतुस्तत्र तौ व्यासद्रुपदावुभौ ।
कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः ।
ततो द्वैपायनः कृष्णो युधिष्ठिरमथागमत् ॥'
ततोऽब्रवीद्भगवान्धर्मराज-
मद्यैव पुण्येऽहनि पाण्डवेय ।
पुण्ये पुष्ये योगमुपैति चन्द्रमाः
पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वं ॥
`एवमुक्त्वा धर्मराजं भीमादीनप्यभाषत ॥
क्रमेण पुरुषव्याघ्राः पाणिं गृह्णन्तु पाणिभिः ।
एवमेव मया सर्वं दृष्टमेतत्पुराऽनघाः ॥
वैशंपायन उवाच ।
ततो राजा यज्ञसेनः सपुत्रो
जन्यार्थणुक्तं बहु तत्तदग्र्यम् ।
`समर्थयामास महानुभावो
हृष्टः सपुत्रः सहबन्धुवर्गः ।'
समानयामास सुतां च कृष्णा-
माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥
ततस्तु सर्वे सुहृदो नृपस्य
समाजग्मुः सहिता मन्त्रिणश्च ।
द्रष्टुं विवाहं परमप्रतीता
द्विजाश्च पौराश्च यथाप्रधानाः ॥
ततोऽस्य वेश्माग्र्यजनोपशोभितं
विस्तीर्णपद्मोत्पलभूषिताजिरम् ।
बलौघरत्नौघविचित्रमाबभौ
नभो यथा निर्मलतारकान्वितम् ॥
ततस्तु ते कौरवराजपुत्रा
विभूषिताः कुण्डलिनो युवानः ।
महार्हवस्त्राम्बरचन्दनोक्षिताः
कृताभिषेकाः कृतमङ्गलक्रियाः ॥
पुरोहितेनाग्निसमानवर्चसा
सहैव धौम्येन यताविधि प्रभो ।
क्रमेण सर्वे विविशुस्ततः सदो
महर्षभा गोष्ठमिवाभिनन्दिनः ॥
ततः समाधाय स वेदपरागो
जुहाव मन्त्रैर्ज्वलितं हुताशनम् ।
युधिष्ठिरं चाप्युपनीय मन्त्रवि-
न्नियोजयामास सहैव कृष्णया ॥
प्रदक्षिणं तौ प्रगृहीतपाणी
समानयामास स वेदपरागः ।
`विप्रांश्च संतर्प्य युधिष्ठिरो धनै-
र्गोभिश्च रत्नैर्विविधैश्च पूर्वम् ॥
तदा स राजा द्रुपदस्य पुत्रिका-
पाणिं प्रजग्राह हुताशनाग्रतः ।
धौम्येन मन्त्रैर्विधिवद्भुतेऽग्नौ
सहाग्निकल्पैर्ऋषिभिः समेत्य ॥
ततोऽन्तरिक्षात्कुसुमानि पेतु-
र्ववौ च वायुः सुमनोज्ञगन्धः ।
ततोऽभ्यनुज्ञाप्य समाजशोभितं
युधिष्ठिरं राजपुरोहितस्तदा ॥
विप्रांश्च सर्वान्सुहृदश्च राज्ञः
समेत्य राजानमदीनसत्वम् ।
जगाद भूयोऽपि महानुभावो
वचोऽर्थयुक्तं मनुजेश्वरं तम् ॥
गृह्णन्त्वथान्ये नरदेवकन्या-
पाणिं यथावन्नरदेवपुत्राः ।
तमभ्यनन्दद्द्रुपदस्तथा द्विजं
तथा कुरुष्वेति तमादिदेश ॥
पुरोहितस्यानुमतेन राज्ञ-
स्ते राजपुत्रा मुदिता बभूवुः ।
क्रमेण चान्ये च नराधिपात्मजा
वरस्त्रियास्ते जगृहुः करं तदा ॥'
अहन्यहन्युत्तमरूपधारिणो
महारथाः कौरववंशवर्धनाः ॥
इदं च तत्राद्भुतरूपमुत्तमं
जगाद देवर्षिरतीतमानुषम् ।
महानुभावा किल सा सुमध्यमा
बभूव कन्यैव गते गतेऽहनि ॥
`पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे ।
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥'
कृते विवाहे द्रुपदो धनं ददौ
महारथेभ्यो बहुरूपमुत्तमम् ।
शतं रथानां वरहेममालिनां
चतुर्युजां हेमखलीनमालिनाम् ॥
शतं गजानामपि पद्मिनां तथा
शतं गिरिणामिव हेमशृङ्गिणाम् ।
तथैव दासीशतमग्र्ययौवनं
महार्हवेषाभरणाम्बरस्रजम् ॥
पृथक्पृथग्दिव्यदृशां पुनर्ददौ
तदा धनं सौमकिरग्निसाक्षिकम् ।
तथैव वस्त्राणि विभूषणानि
प्रभावयुक्तानि महानुभावः ॥
कृते विवाहे च ततस्तु पाण्डवाः
प्रभूतरत्नामुपलभ्य तां श्रियम् ।
विजह्रुरिन्द्रप्रतिमा महाबलाः
पुरे तु पाञ्चालनृपस्य तस्य ह ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥
1-215-26 चतुर्युजामश्वचतुष्टययुजाम् ॥ पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥