अध्यायः 040

जरत्कारुनामव्युत्पत्तिकथनम् ॥ 1 ॥ शौनकस्य सौतिं प्रति आस्तीकोत्पत्तिप्रश्नः ॥ 2 ॥ प्रसङ्गेन परीक्षिन्मृगयाकथनम् ॥ 3 ॥ परीक्षिता शमीकस्कन्धे मृतसर्पनिधानम् ॥ 4 ॥

शौनक उवाच ।
जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन ।
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः ॥
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि ।
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि ॥
सौतिरुवाच ।
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् ।
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः ॥
क्षपयामास तीव्रेण तपसेत्यत उच्यते ।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा ।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥
शौनक उवाच ।
उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम् । यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् ।
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः ॥
सौतिरुवाच ।
संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः ।
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ॥
अथ कालस्य महतः स मुनिः संशितव्रतः ।
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत ॥
स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा ।
चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकाङ्क्षत् ॥
ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु ।
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः ॥
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥
`तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः ।' मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा ।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥
स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा ।
पृष्ठतो धनुरादाय ससार गहने वने ॥
यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः ॥
न हि तेन मृगो विद्धो जीवन्गच्छति वै वने ।
पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति ॥
परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः ।
दूरं चापहृतस्तेन मृगेण स महीपतिः ॥
परिश्रान्तः पिपासार्त आससाद मुनिं वने ।
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् ॥
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ।
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् ॥
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ।
भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः ॥
मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि ।
स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः ॥
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत ॥
न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम् । स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् ।
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः ॥
न हि तं राजशार्दूलं क्षमाशीलो महामुनिः ।
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत् ॥
न हि तं राजशार्दूलस्तथा धर्मपरायणम् ।
जानाति भरतश्रेष्ठस्तत एनमधर्षयत् ॥
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः ।
शृङ्गी नाम महाक्रोधो दुष्पसादोमहाव्रतः ॥
स देवं परमासीनं सर्वभूतहिते रतम् ।
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः ॥
सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ।
सख्योक्तः क्रीडमानेन स तत्र हसता किल ॥
संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः । उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत् ।
ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम ॥
कृश उवाच ।
तेजस्विनस्तव पिता तथैव च तपस्विनः ।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद ।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा ॥
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः ।
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

1-40-3 कारु कामाद्युपद्रवमूलत्वाद्दारुणं शरीरं जरयति क्षपयतीति जरत्कारुरिति निर्वचनम् ॥ 1-40-4 तथा तादृस्येव ॥ 1-40-5 प्राहसत् अतिजीर्णयोरपि ब्रह्मचर्यविनाशः प्रसक्त इत्याश्चर्यं मत्वेति भावः । आमन्त्र्य हेउग्रश्रव इति संबोध्य । उपपन्नं युक्तं यत्तुल्यवयोरूपयोर्विवाह इति भावः ॥ 1-40-15 तत् मृगस्यादर्शनं । पूर्वरूपं कारणम् ॥ 1-40-17 प्रचारेषु गोष्ठेषु ॥ 1-40-18 उपयुञ्जानं भक्षयन्तम् । पयः आपिबतां वत्सानामिति पूर्वेणान्वयः ॥ 1-40-21 समासजत् आरोपयामास ॥ चत्वारिंशोऽध्यायः ॥ 40 ॥