कारिकाव्याख्यानम्–


यत् प्रथमकारिकायां शेषम् अविश3118द ज्ञानमित्युक्तम्, तत् किम् ? §3119श्रुतम् अवि
स्पष्टतर्कणम् §
श्रुतमविस्पष्टतर्कणम्3120 इत्यभिधानात् । किं
यत् नामयोजनाज्जाय3121तेऽविशदं ज्ञानं तदेव श्रुतम्, उतान्यदपि ? इत्याह–
प्राङ् नामयोजनात् । नाम्नः अभिधानस्य योजनात् पूर्वमुपजायते यदस्पष्टं ज्ञानं
तच्छुतम् नामयोज3122नाजनितार्थाऽस्पष्टज्ञानसाधर्म्यादित्यभिप्रायः । चिन्ता च इत्यत्र
चशब्दो भिन्नप्रक्रम शब्दानुयोजनात् इत्यस्यानन्तर द्रष्टव्यः । तेन न केवलं
नामयोजनात् पूर्वं यदस्पष्ट ज्ञानमुपजायते तदेव श्रुतं किन्तु शब्दानुयोजनाच्च यदुप
405 जायते तदपि श्रुतम्
इति संगृहीतं भवति । किं तद् ? इत्याह–संज्ञा इत्यादि ।
चिन्ता च इत्ययं च3123शब्दः पुनर्भिन्नप्रक्रमः मतिः इत्यस्यानन्तरं स्मृतिसमुच्चयार्थो
द्रष्टव्यः । तेन स्मृत्याद्यविश3124दं ज्ञानं श्रुतमित्युक्तं भवति । इन्द्रियप्र3125भवं मतिज्ञानं तु
देशतो वैशद्यसंभवात् सांव्यवहारिकं प्रत्यक्षमित्युक्तम् । तस्य श्रुतस्य कि कारणम् ?
इत्याह –ज्ञानमाद्यं कारणम् । किन्नाम ? इत्याह–मतिः इति । नचागमविरोधः,
मतिपूर्वं श्रुतम् तत्त्वार्थसू॰ १ । २० इत्यभिधानात् । पूर्वपूर्वप्रमाणत्वे फलं
स्यादुत्तरोत्तरम्
लघी॰ का॰ ७ इत्यनेन अधिकां कारिकां कृत्वा व्याचष्टे–
अविसंवाद इत्यादिना । विद्यते विसंवादो यस्याः सा चासौ स्मृतिश्च तस्याः ।
कथम्भूतायाः ? फलस्य फलभूतायाः हेतुत्वात् प्रमाणं धारणा संस्कारः ।


  1. –शदज्ञान– श्र॰

  2. एतदन्तर्गत पाठो नास्ति आ॰, श्र॰

  3. उद्घृतमिदम् –सिद्धिवि॰ टी॰ पृ॰ १०१B तुलना–मतिपूर्वं ततो ज्ञेय श्रुतमस्प
    ष्टतर्कणम् ।
    तत्त्वार्थश्लो॰ पृ॰ २३७ । न्यायवि॰ वि॰ पृ॰ ५०४B ।

  4. –तेवि– आ॰, ब॰, श्र॰

  5. –योजनाज्जनि– श्र॰

  6. नास्ति आ॰, श्र॰

  7. –शदज्ञानं आ॰, श्र॰

  8. –प्रभवमति– ब॰