अथ प्रमाणं परीक्ष्येदानीं नयपरीक्षार्थमुपक्रमते–


भेदा6291भेदात्मके ज्ञेये भेदाभेदाभिसन्धयः ।

6292ये 6293तेऽपेक्षा6294नपेक्षाभ्यां लक्ष्यन्ते नय6295दुर्नयाः ॥ ३० ॥

विवृतिः–द्रव्य6296पर्यायात्मकमुत्पाद6297व्ययध्रौव्ययुक्तं सत् प्रमेयं वस्तु तत्त्वम्, तत्रैव
606 कथञ्चित् प्रमाणतदाभासयोर्भेदात् । न6298यो ज्ञातुरभिप्रायः । स6299 द्रव्यार्थिकः पर्याया
607 र्थि6300कश्च, द्रवति द्रोष्यति अ6301दुद्रवदिति वा द्रव्य6302म्, तदेव अर्थोऽस्ति यस्य सः
द्र6303व्यार्थिकः सोऽभेदाश्रयः ।


  1. उद्धृतेयम्–तथा चाहाकलङ्क–भेदा
    भेदा यतोऽपेक्षानपे
    आव॰ नि॰ मलय॰ पृ॰ ३७०B. । गुरुतत्त्ववि॰ पृ॰ १६B. । लक्ष्यन्ते
    निश्चीयन्ते । के ? नयदुर्नया । नयाश्च दुर्नयाश्च नयाभासाश्च नयदुर्नया । काभ्याम् ? अपेक्षान
    पेक्षाभ्याम्, अपेक्षा प्रतिपक्षधर्माकाङ्क्षा अनपेक्षा ततोऽन्या सर्वथैकान्त ताभ्याम् । किंविशिष्टा ?
    ते ये भेदाभेदाभिसन्धय भेदो विशेष पर्यायः व्यतिरेकश्च, अभेद सामान्यमेकत्व सादृश्यञ्च, भेदा
    श्चाभेदश्च भेदाभेदी तयो भेदाभेदयोरभिसन्धयोऽभिप्रायाः श्रुतज्ञानिनो विकल्पा इत्यर्थ । कस्मिन् ?
    ज्ञेये प्रमेये जीवादी । किंविशिष्टे ? भेदाभेदात्मके, भेदाभेदावात्मानौ स्वभावौ यस्य तत्तथोक्तम्
    तस्मिन् ।
    लघी॰ ता॰ पृ॰ ५० ।

  2. एते मु॰ लघी॰ ।

  3. तेपक्षानपक्षा– श्र॰

  4. निरपेक्षत्व प्रत्यनीकधर्मस्य निराकृतिः सापेक्षत्वमुपेक्षा ।
    अष्टश॰, अष्टसह॰ पृ॰ २९० ।

  5. तम्हा सव्वे वि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णो
    णणिस्सिआ उण हवति सम्मत्तसब्भावा ।
    सन्मति॰ १ । २१ । निरपेक्षा नया मिथ्या सापेक्षा वस्तु
    तेऽर्थकृत् ।
    आप्तमी॰ १०८ । नयाः सापेक्षा दुर्नया निरपेक्षा लोकतोऽपि सिद्धासिद्धिवि॰, टी॰
    पृ॰ ५३७B ।
    तथा चोक्तम्–अर्थस्यानेकरूपस्य धीः प्रमाण तदशधी । नयो धर्मान्तरापेक्षी दुर्णय
    स्तन्निराकृति ॥
    अष्टश॰ अष्टसह॰ पृ॰ २९० । धर्मान्तरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनयदु
    र्णयाना प्रकारान्तरासभवाच्च, प्रमाणात्तदतत्स्वभावप्रतिपत्ते तत्प्रतिपत्तेः तदन्यनिराकृतेश्च ।
    अष्ट
    श॰, अष्टसह॰ पृ॰ २९० ।
    सदेव सत् स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणै ।अन्ययोगव्य॰
    श्लो॰ २८ ।

  6. तुलना –पात॰ महाभा॰ १ । १ । १ । योगभा॰ ३ । १३ । न्यायकु॰ पृ॰ ४०१ टि॰ ६ ।

  7. तुलना–उप्पन्ने वा विगए वा घुवे वास्थानांग॰ स्था॰ १० । सद्दव्वं वाव्या॰ प्र॰ श॰ ८ ।
    ३०९, सत्पदद्वार ।
    दव्व सल्लक्खणिय उप्पादव्ययधुवत्तसजुत्तं । गुणपज्जयासय वा ज त भण्णति
    सव्वण्हू ॥
    पञ्चा॰ गा॰ १० । अपरिचत्तसहावेनुप्पादव्वयधुवत्तसजुत्तं । गुणव च सपज्जाय ज
    त दव्व ति बुच्चति ॥
    प्रवचन॰ २ । ३ । सद्द्रव्यलक्षणम्, उत्पादव्ययध्रौव्ययुक्त सत्तत्त्वार्थसू॰n606
    ५ । २९, ३० । दव्व पज्जयविउय दव्वविउत्ता य पज्जवा णत्थि । उप्पायट्ठिइभगा हदि दविय
    लक्खण एय ॥
    सन्मति॰ गा॰ १ । १२ । नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम् ।मी॰
    श्लो॰ पृ॰ ६१९ ।
    उत्पादस्थितिभङ्गाना स्वभावादनुबन्धिता । तद्धेतूनामसामर्थ्यादतस्तत्त्व त्रया
    त्मकम् ॥
    सिद्धिवि॰ पृ॰ १६७ ।

  8. तुलना–नया प्रापका कारका साधका निर्वर्तका निर्भासका उपलम्भका व्यञ्जका
    इत्यनर्थान्तरम् । जीवादीन् पदार्थान् नयन्ति प्राप्नुवन्ति कारयन्ति साधयन्ति निर्वर्तयन्ति निर्भासयन्ति
    उपलम्भयन्ति व्यजयन्तीति नया ।
    तत्त्वार्थाधि॰ भा॰ १ । ३५ । स्याद्वादपविभक्तार्थविशेष
    व्यजको नय ॥
    आप्तमी॰ का॰ १०६ । वस्तुन्यनेकान्तात्मनि अविरोधेन हेत्वर्पणात् साध्यविशेषस्य
    याथात्म्यप्रापणप्रवणप्रयोगो नय ।
    सर्वार्थसि॰ १ । ३३ । ज्ञातॄणामभिसन्धय खलु नयास्ते
    द्रव्यपर्यायत । नयो ज्ञातुर्मत मतः ।
    सिद्धिवि॰ टी॰ पृ॰ ५१७A, ५१८Aप्रमाणप्रकाशि
    तार्थविशेषप्ररूपका नया ।
    राजवा॰ १ । ३३ । एगेण वत्थुणोऽणेगधम्मुणो जमवधारणेणेव । नयण धम्मेण
    तओ होई नओ सत्तहा सो य ॥
    विशेषा॰ गा॰ २६७६ । णयदि त्ति णओ भणिओ बहूहि गुणपज्जए
    हि ज दव्व । परिणामखेत्तकालन्तरेसु अविणट्ठसब्भाव ॥
    धवला टी॰ पृ॰ ११ । प्रमाणपरिगृही
    तार्थैकदेशवस्त्वध्यवसायो नय
    धवला टी॰ पृ॰ ८३ । सारसग्रहेप्युक्त पूज्यपादै–अनन्तपर्यायात्म
    कस्य वस्तुनोऽन्यतमपर्यायाधिगमे कर्त्तव्ये जात्यहेत्वपेक्षो निरवद्यप्रयोगो नय । प्रभाचन्द्रभट्टारकैरप्य
    भाणि–प्रमाण यपाश्रयपरिणामविकल्पवशीकृतार्थविशेषप्ररूपणप्रवण प्रणिधिर्य स नय इति ।
    धवला
    टी॰ वेदनाख॰ ।
    नयन्ते अर्थान् प्रापयन्ति गमयन्तीति नया, वस्तुनोऽनेकात्मकस्य अन्यतमैका
    त्मैकान्तपरिग्रहात्मका नया इति ।
    नयचक्रवृ॰ पृ॰ ५२६A । यथोक्तम्–द्रव्यस्यानेकात्मनोऽन्यत
    मैकात्मावधारणम् एकदेशनयनान्नया ।
    नयचक्रवृ॰ पृ॰ ६B । नयन्तीति नया अनेकधर्मात्मक
    वस्तु एकधर्मेण नित्यमेवेदमनित्यमेवेति वा निरूपयन्ति ।
    तत्त्वार्थहरि॰ १ । ६ । तत्त्वार्थसिद्ध॰ १ । ६ ।
    स्वार्थैकदेशनिर्णीतिलक्षणो हि नय स्मृत । पृ॰ ११८ नीयते गम्यते येन श्रुतार्थाशो नयो हि सः ।"
    तत्त्वार्थश्लो॰ पृ॰ २६८ । नयविव॰ श्लो॰ ४ । अनिराकृतप्रतिपक्षो वस्त्वशग्राही ज्ञातुरभिप्रायो नय ।
    प्रमेयक॰ पृ॰ ६७६ । ज णाणीण वियप्य सुयभेय वत्थुयससगहण । त इह णय पौत्त णाणी पुण
    नेहि णाणेहि ॥
    नयचक गा॰ २ । श्रुतविकल्पो वा ज्ञातुरभिप्रायो वा नय । नानास्वभावेम्यो व्यावृत्य
    एकस्मिन् स्वभावे वस्तु नयति, प्राप्नोतीति वा नय ।
    आलापप॰ । तद्द्वारायात पुनरनेकधर्मनिष्ठा
    र्थसमर्थनप्रवण परामर्श शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्त्तमानो नय ।
    न्यायावता॰ टी॰
    पृ॰ ८२ ।
    वस्तुनोऽनन्तधर्मस्य प्रमाण व्यञ्जितात्मन । एकदेशस्य नेता य स नयोऽनेकधा
    स्मृत ॥
    तत्वार्थसार पृ॰ १०६ । नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्याश तदितराशौदा
    सीन्यत स प्रतिपत्तुरभिप्रायविशेषो नय ।
    प्रमाणनय॰ ७ । १ । स्या॰ म॰ पृ॰ ३१० । प्रमाणपरि
    च्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिण तदितराशाप्रतिक्षेपिण अध्यवसायविशेषा नया ।

    जैनतर्कभा॰ पृ॰ २१ । प्रकृतवस्त्वशग्राही तदिताराशाप्रतिक्षेपी अध्यवसायविशेषो नय ।
    नयरहस्य पृ॰ ७९ । नयप्रदीप पृ॰ ९७B. । मलयगिर्याचार्यमतेन सर्वेऽपि नया मिथ्या एव;
    तथाहि–अनेकधर्मात्मक वस्त्ववधारणपूर्वकमेकेन नित्यत्वाद्यन्यतमेन धर्मेण प्रतिपाद्यस्य बुद्धिं नीयते
    प्राप्यते येनाभिप्रायविशेषेण स ज्ञातुरभिप्रायविशेषो नय । इह हि यो नयो नयान्तरसापेक्षतया स्यात्प
    दलाञ्छित वस्तु प्रतिपद्यते स परमार्थत परिपूर्णं वस्तु गृह्णाति इति प्रमाण एवान्तर्भवति, यस्तु नयवा
    दान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेण अवधारणपूर्वक वस्तु परिच्छेत्तुमभिप्रैति स नयः वस्त्वेकदेश
    परिग्राहकत्वात् ।
    आव॰ नि॰ मलय॰ पृ॰ ३६९A ।

  9. तच्च सच्चतुर्विधम्–तद्यथा द्रव्यास्तिक
    मातृकापदास्तिकम् उत्पन्नास्तिकम् पर्यायास्तिकमिति ।
    तत्त्वार्थाधि॰ भा॰ ५ । ३१ । इत्थ द्रव्या-n607 स्तिकं मातृकापदास्तिकं च द्रव्यनयः । उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः ।तत्वार्थहरि॰ ५ ।
    ३१ । तत्त्वार्थसिद्ध॰ ५ । ३१ ।
    दव्वट्ठिओ य पज्जवणओ य सेसां वियप्पासिं ।सन्मति॰ १ । ३ ।
    नयो द्विविधः द्रव्यार्थिकः पर्यायार्थिकश्च ।सर्वार्थसि॰ १ । ६ । द्वौ मूलभेदौ द्रव्यास्तिकः
    पर्यायास्तिक इति । अथवा द्रव्यार्थिकः पर्यायार्थिकः ।
    राजवा॰ १३३ । तत्र मूलनयौ द्रव्यपर्याया
    र्थगोचरो । मिथ्यात्वं निरपक्षत्वे सम्यक्त्वं तद्विपर्यये ॥
    सिद्धिवि॰ टी॰ पृ॰ ५२१A. । दव्वट्ठि
    यस्स दव्व वत्थु पज्जवनयस्स पज्जायो ।
    विशंवा॰ गा॰ ४३३१ । तेषां वा शेषशासनाराणां–द्रव्या
    र्थपर्यायार्थनयौ द्वौ समासतो मूलभेदौ तत्प्रभेदा संग्रहादयः ।
    नयचकवृ॰ पृ॰ ५२६A. । धवला टी॰
    पृ॰ ८३ । प्रमाणनय॰ ७ । ५ ।

  10. पर्यायोऽर्थः प्रयोजनमस्येति पर्यायार्थिकः ।सर्वार्थसि॰ १ । ६ । परि भेदमेति
    गच्छतीति पर्यायः । पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः ।
    धबलाटी॰ पृ॰ ८४ ।

  11. अद्रवत् ज॰ वि॰

  12. तुलना–अथवा यस्य गुणान्तरेप्वपि प्रादुर्भवत्सु तत्त्वं न विहन्यते तद् द्रव्यम् । किं पुनस्तत्त्वम् ?
    तदभावस्तत्त्वम् तद्यथा आमलकादीनां फलानां रक्तादयः पीतादयश्च गुणाः प्रादुर्भवन्ति आमलकं
    बदरमित्येव भवति । अन्वर्थं खल्वपि निर्वचनं गुणसन्द्रावो द्रव्यमिति ।
    पात॰ महाभा॰ ५ । १ । ११९ ।
    दवियदि गच्छदि ताइं ताइं सब्भावपज्जयाइं जं । दवियं तं भण्णंते अणण्णभूदं तु सत्तादो ॥पञ्चास्ति॰
    गा॰ ९ ।
    यथास्वं पर्यायैर्द्रूयन्ते द्रबन्ति वा तानि द्रव्याणि ।सर्वार्थसि॰ ५ । २ । अद्रवद् द्रवति द्रोष्य
    त्येकानेकं स्वपर्ययम् ।
    न्यायवि॰ का॰ ११४ । दविए दुयए दोरवयवो विगारो गुणाण संदावो । दव्वं
    भव्वं भावस्स भूअभावं च जं जोग्गं ॥
    विशेषा॰ गा॰ २८ । द्रवति द्रोष्यति दुद्रवैति अदुद्रवत् द्रुः
    द्रोर्विकारोऽवयवो वा द्रव्यम् ।
    न्यचकवृ॰ पृ॰ ९९B. । द्रोर्विकारो द्रव्यम्, द्रोरवयवो वा द्रव्यम्,
    द्रव्यं च भव्यं भवतीति भव्यम् द्रव्यम्, द्रवतीति द्रव्यम् द्रूयते वा, द्रवणात् गुणानां गुणसन्द्रावो द्रव्यम् ।

    नयचकवृ॰ पृ॰ ४४१B. । द्रोष्यत्यदुद्रवत्तास्तान् पर्यायमिति द्रव्यम् ।धवलाटी॰ पृ॰ ८३ । द्रवति
    गच्छति तास्तान् पर्यायान् द्रूयते गम्यते वा तैः पर्यायैरिति वा द्रव्यम् ।
    जयध॰ अ॰ पृ॰ २६ ।
    आलापप॰ ।

  13. द्रव्यमर्थः प्रयोजनमस्येत्यसौ द्रव्यार्थिकः ।सर्वार्थसि॰ १ । ६ । पूज्जवणिस्सामण्णं
    बयणं दव्वठ्ठियस्स अत्थित्ति । अवसेसो वयणविही पज्जवभयणा सपडिवक्खो ।
    सन्मति॰ गा॰ १ । ७ ।
    धवलाटी॰ पृ॰ ८३ ।
    द्रव्येणार्थः द्रव्यार्थः, द्रव्यमर्थो यस्येति वा, अथवा द्रव्यार्थिकः द्रव्यमेवार्थो यस्य
    सोऽयं द्रव्यार्थः ।
    नयचकवृ॰ पृ॰ ४B. ।