655

तृतीये प्रवचनप्रवेशे


षष्ठः प्रवचनपरिच्छेदः ।


सत्यस्वच्छजलः सुरत्ननिचयः सज्ज्ञानवीचीचयः,

युक्त्यावर्त्तहतस्वरूपकुमतप्रौढोग्रन6997क्रक्रमः ।

स्फारागाधगभीरमूर्तिरसमध्वानो जनानन्दनः,

स्याद्वादोदधिरेष वाञ्छितफलं दद्यात स6998मासेवितः ॥ १ ॥

अथ प्रमाणनयस्वरूपं निरूप्य इदानीं प्रमाणविशेषस्य आगमस्य स्वरूपं पृथक्
निरूपयितुमुपक्रमते, तत्र अनेकधा विप्रतिपत्तिसद्भावात् । तदादौ च शास्त्रस्य मध्य
मङ्गलभूतम् इष्टदेवताविशेषगुणस्तोत्रमाह–


प्रणिपत्य महावीरं स्या6999द्वादेक्षणसप्तकम् ।

प्रमाणनयनिक्षेपानभिधास्ये यथागमम् ॥ ५१ ॥

7000


कारिकार्थ–


प्रणिपत्य नत्वा । क7001म् ? वीरम् अन्ति7002मतीर्थकरं तीर्थकरसमुदायं वा ।
किंविशिष्टम् ? स्याद्वादेक्षणसप्तकं । स्यादस्तीत्यादिसप्तभङ्गमयो
वादः स्याद्वादः ईक्षणसप्तकं यस्य स तथोक्त तम् । ननु
स्याद्वादस्य ईक्षणव्यपदेशः मुख्यतः, उपचारतो वा स्यात् ? न तावत् प्रथमः पक्षः;
चक्षुष्येव मुख्यतः त7003द्व्यपदेशप्रसिद्धेः । द्वितीयपक्षोऽप्यनुपपन्नः, यतो रूपादिप्रतिपत्ते
हेतुभूतं चक्षुः ईक्षणं लोके प्रसिद्धम् । न च भगवतः त7004त्प्रतिपत्तौ स्याद्वादो हेतुभूत,
तत्कथम7005स्य उपचारतोऽपि ईक्षणव्यपदेशः ? अ7006थ अपरमनेना7007सौ7008 बोधयतीति तत्प्रति
पत्तेर्हेतुभूतत्वात् त7009द्व्यपदेशः; तर्हि परस्यैव त7010दीक्षणसप्तकं न भगवतः, अन्यदीयात्ततो
अन्यस्य प्रतिपत्तेरयोगात्; तदसमीचीनम्; अन्यथा व्याख्यानात् । स्याद्वाद एव
ईक्षणसप्तकं यस्माद् भव्यानां स तथोक्तस्तम् । यदि वा, ईक्षणसप्तकमिव ईक्षण-

  1. –वक्रक्रमः श्र॰

  2. तदा सेवित ब॰, श्र॰

  3. स्यादस्तीत्यादिसप्तभगमयो वाद स्याद्वाद ईक्षणाना सप्तकम् ईक्षणसप्तकम् स्याद्वाद
    एवेक्षणसप्तक यस्माद्विनेयाना भवत्यसौ तथोक्तस्तम् । न खलु निरुपकार प्रेक्षावता प्रणामार्होऽतिप्र
    सङ्गात् ।
    लघी॰ ता॰ पृ॰ ७४ ।

  4. No Vivṛti for this verses
  5. क वीरं आ॰

  6. अन्तिमतीर्थकरसमुदय
    वा
    आ॰

  7. ईक्षणव्यपदेश ।

  8. रूपादिप्रतीतौ ।

  9. स्याद्वादस्य ।

  10. –अथ रमनेना– आ॰, अथ परमतेना– ब॰

  11. स्याद्वादेन ।

  12. भगवान् ।

  13. ईक्षणव्यपदेश ।

  14. स्याद्वाद ।