879
विवृतिः–लक्षण-संख्या-विषय-फलोपेतप्रमाण-नय-निक्षेपस्व10146रूपप्ररूपके हि
हेतुवादरूपे आगमे गुरूपदेशपरम्परातो यथावदधिगते परमप्रकर्षेण अभ्यस्ते सति
आत्मनो जिनेश्वरपदप्राप्तिलक्षणस्वार्थसम्पत्तिर्भवति । तत्संपत्तौ च मुमुक्षुजनमोक्ष
मार्गोपदेशद्वारेण प10147रार्थसम्पत्तये असौ चेष्ट10148ते इति ॥ छ ॥
इति श्री भट्टाकलङ्कशशाङ्कानुस्मृतप्रवचनप्रवेशः समाप्तः10149 ॥ छ ॥
-
स्याद् भवेत् । क भव्य मोक्षहेतुरत्नत्रयरूपेण भविष्यति परिणस्यतीति भव्य
↩
अभव्यस्य मुक्तावनधिकारात् । किंविशिष्ट स्यात् ? जिन स्यात् । पुन कथम्भूत ? लोकालोक
कलावलोकनबलप्रज्ञ, पट्द्रव्यसमवायो लोक ततो बहिरलोकः केवलाकाशरूप तयो कला विभाग ।
अथवा लोकश्च अलोकश्च कलाश्च जीवादय पदार्था तासामवलोकन तत्र बलं शक्ति प्रज्ञा प्रकृष्टं ज्ञान
च विद्यते यस्य स तथोक्त कथ स्वयं स्वेनात्मना नेन्द्रियादिसाहाय्येन इत्यर्थ । पुनरपि किंविशिष्ट ?
अधिगतः । किम् ? पदम् स्थानम् । किंविशिष्टम् ? आकलङ्कम् अकलङ्कानामिदम् आर्हन्त्यमित्यर्थः ।
बोद्धा । किंकृत्वा ? अभ्यस्य पुन पुनर्भावयित्वा । कम् ? तदर्थम्, तस्यागमस्य अर्थो जीवादिवस्तु
तम् । आदौ कृत्वा ? बुध्वा अधीत्य ज्ञात्वा च । कम् ? आगम श्रुतम् । केभ्य ? तेभ्यः पचगुरुभ्यः
सकाशात् । कस्मादवधिभूताद् ? शब्दात् । किंविशिष्टात् ? अर्थविषयात् । पुन किंविशिष्टात् ?
अपभ्रशत भ्रंशो लक्षणदोष तस्मादपगत अपभ्रश तस्मात् । तत पूर्वं किं कृत्वा ? आराध्य गुरून्
अर्हदादीन् । कति ? पच । कै गुणैः ? तपोभि बाह्याभ्यन्तरै इच्छानिरोधै । अमलै मिथ्यात्वादिम
लरहितै –लघी॰ ता॰ पृ॰ १०० । -
–निश्चिता– ब॰ ।
↩ -
कथयतु प्रतिपादयतु । कः ? बुध ज्ञानी । कम् ?
↩
पन्थान मार्गप्राप्त्युपायम् । किं विशिष्टम् ? शिवम् । कस्य ? पदस्य स्थानस्य । केपाम् ? महात्म
नाम् । केभ्य कथयतु ? व युष्मभ्य विनेयेभ्य । केन ? सुखेन ताल्वोष्ठपुटव्यापारक्लेशाभावेन ।
किंविशिष्ट सन् ? समाश्रित प्राप्त । किम् ? स्थानम् अवस्थानम् न क्षणभगं तत्रोपदेशाभावात् ।
किंविशिष्टम् ? भगवत् त्रिलोकपूजार्हम् । केषा स्थानम् ? अकलंकानामर्हतामित्यर्थ । किंवि
शिष्ट सन् ? हतसशयः । किं कृत्वा ? अवबुद्ध्य निश्चित्य । कथम् ? असकृत् पुन पुनर्ध्यात्वा ।
कान् ? अर्थान् जीवादितत्त्वानि । किंविशिष्टान् ? परिनिष्ठितान् व्यवस्थितान् । क्व तत ? तेषु
प्रवचनपदेषु । कस्मात् ? बोधात् । किंविशिष्टात् ? इद्धात् उज्वलात् संकरव्यतिकरव्यतिरेकात् अहम
हमिकया प्रकाशमानादित्यर्थ । किंकृत्वा । अभ्यस्य परिचिन्त्य । पुनः पुनरुषयुज्येत्यर्थ । कानि ?
प्रवचनपदानि । परमागमाभ्यासात् परिणतश्रुतज्ञान शुक्लध्यानानलनिर्दग्धद्रव्यभावकलङ्क सार्वज्ञ्य
मापन्नो मोक्षमार्गोपदेशाय परार्थाय चेष्टतामिति भावो देवानाम् । –लघी॰ ता॰ पृ॰ १०१ । -
–स्वरूपके हि श्र॰ ।
↩ -
परार्थसम्प– श्र॰ ।
↩ -
चेष्ट इति आ॰ ।
↩ -
इति ग्रन्यः समाप्तः ब॰ ।
↩