न्यायकुमुदचन्द्रसम्पादकप्रशस्तिः ।
भजति सागरमण्डलमुद्धुरे सुकृतिभिः
खुरई
विकसत्पुरे ।सुपरवार
जबाहरलालतः
समजनिष्ट
महेन्द्रकुमारकः
॥ १ ॥कवीनाश्रितवीनाख्यनगरे
धर्मदासतः
।नाभिनन्दनसद्विद्यालये संस्कृतशिक्षणम् ॥ २ ॥
प्रारम्भिकमुपादाय विशेषाधिजिगांसया ।
विद्वत्सुन्दरमिन्दूरविद्यालयमवाप्तवान् ॥ ३ ॥
बंशीधरात्
धर्ममधीत्य
जीवन्धराच्च
तर्कं श्रमतः सतर्कम् ।स्याद्वादविद्यालयमेत्य तस्मिन्नश्रान्तमश्राम्यमहं चिराय ॥ ४ ॥
न्यायमध्यापयन्नन्तेवासिनोऽपि निरन्तरम् ।
अभूवमुत्तमश्रेण्यां न्यायाचार्यस्ततः परम् ॥ ५ ॥
गवेषणापूर्णधियेह टिप्पणीतिहाससम्यक्तुलना मया श्रमात् ।
विलिख्य तत्रानवधानदूषणं सुधीजनः शोधयितेत्युपेक्ष्यते ॥ ६ ॥
प्रथमदलनवम्यां भौमवारान्वितायाम् ।
कृतिरियमगमन्मे पूर्णतां मासि भाद्रे,
गुरुचरणकृपौघेनान्तरेणान्तरायम् ॥ ७ ॥