1प्रन्नाय विपन्नानां दुःखितानां सुखात्मने ।

संपूर्णाय दृढाशानां नमः कारणबन्धवे ॥

अथ यदुक्तं प्र. सं. 412 पु. वास्तवस्य शब्दार्थस्याविद्यमानत्वा
दर्थासंस्पर्शिनः शब्दा इति—तत् प्रतिविधीयते ॥


  1. nII.4 बन्धवे । अथवा समोऽहं सर्वभूतेषु इति वदन्नपीश्वरः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् इति भक्त्याक्यकारणेन चेतनानां बन्धुर्भवतीति सः कारणबन्धुः । अन्यथा हि लोकवैय्याकुली । तथोक्तं—सर्वज्ञोऽपि च देवेशः सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते इति ॥