II.430

नवममाह्निकम्—प्रमेयपरीक्षा


अपवर्गपरीक्षा


एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते, यदर्थ एतदुपदेशः यत्प
रमुपादेयं प्रमेयं, यदर्थः शास्त्रारम्भः तमपवर्गं लक्षयितुमाह—


तदत्यन्तविमोक्षोऽपवर्गः ॥ १-१-२२ ॥


तदिति प्रक्रान्तस्य दुःखस्यावमर्शः । न च मुख्यमेव दुःखं बाधना
स्वभावमवमृश्यते, किन्तु तत्साधनं तदनुषक्तं च सर्वमेव । तेन दुःखेन
वियोगोऽपवर्गः ॥


अस्ति 1333प्रलयवेलायामप्यात्मनो दुःखवियोगः । स त्वपवर्गो न भवति,
सर्गसमये पुनरक्षीणकर्माशयानुरूपशरीरादिसंबन्धे सति दुखसंभवात् ।
अतः तद्व्यावृत्त्यर्थमत्यन्तग्रहणम् ॥


अशेषविशेषगुणोच्छेद एव मोक्षः


आत्यन्तिकी दुःखनिवृत्तिरपवर्गः, न सावधिका । द्विविधदुःखाव
मर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात्, अत्यन्तग्रहणेन च
सर्वात्मना तद्वियोगाभिधानात् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेष
प्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदः अपवर्ग इत्युक्तं भवति ॥


II.431

विशेषगुणानां मुक्तौ नाशस्यावश्यकता


यावदात्मगुणास्सर्वे नोच्छिन्ना वासनादयः ।

तावदात्यन्तिकी दुःखव्यावृत्तिर्नावकल्पते ॥

धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः ।

मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥

तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् ।

नात्मनः सुखदुःखे स्तः इत्यसौ मुक्त उच्यते ॥

हच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् ।

उच्छिन्नभोगायतनः नात्मा तैरपि युज्यते ॥

प्राणस्य क्षुप्पिपासे द्वे लोभमोहौ च चेतसः ।

शीतातपौ शरीरस्य षडूमिरहितः शिवः

तदेवं नवानामात्मविशेषगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते,
तदेवेदमुक्तं भवति तदत्यन्तविमोक्षोऽपवर्ग इति ॥


मुक्तिकालिकात्मस्वरूपम्


ननु ! तस्यामवस्थायां कीदृगात्माऽवशिष्यते ?

स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥

1334उमिष्टकातिगं रूपं तदस्याहुर्मनीषिणः ।

संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥

वेदान्तिसंमतमोक्षनिरासः


अत्र तावत् वेदान्तिन आहुः—नायमिदृशो मोक्षः प्रेक्षावतां प्रयत्न
भूमिर्भवितुमर्हति । को हि नाम शिलाशकलकल्पं अपगतसकलसुख
II.432 1335संवेदनसंस्पर्शं आत्मानमुपपादयितुं यतेत ? सोपाधिसावधिकपरिमिता
नन्दनिष्यन्दात् स्वर्गादप्यधिकं अनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरं
अपरिम्लानतत्संवेदनसामर्थ्यं चतुर्थं पुरुषार्थमाचक्षन्ते विचक्षणाः ॥


मुक्तेरपि संसार एव वरम्


यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, ।
तत्कृतं अपवर्गेण ! संसार एव वरमस्तु ! यत्र तावदन्तराऽन्तराऽपि
दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदं, किम
ल्पसुखानुभवो भद्रकः, उत सर्वसुखोच्छेद एव । तस्मान्नित्यसुखमात्मनो
महत्त्ववदस्तीति आगमप्रामाण्यादभ्युपगम्यताम् । तच्च संसारदशायां
अविद्यावरणवशेन नानुभूयते । तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तरा
विद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति ॥


सिद्धान्ते मुक्तौ सुखाभावे प्रमाणम्


तदिदमनुपपन्नम्—आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् ।
प्रत्यक्षं तावन्नास्मदादीनामन्येषां वा केषांचिदस्मिन्नर्थे प्रभविष्यतीति
केयं कथा ? अनुमानमपि न संभवति, लिङ्गलेशानवलोकनादिति ॥


नित्यसुखसद्भावे अनुमानं न प्रमाणम्


ननु ! उक्तमेवानुमानमपवर्गाय, यत्र प्रेक्षावतां प्रयत्नः । सुख
सिद्धये हि बुद्धिमन्तो यतन्ते, नाश्मकल्पमात्मानं कर्तुमिति । तदयं इष्टा
धिगमार्थः मुमुक्षोः प्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृष्यादिप्रयत्न
वदिति ॥


II.433
1336नानिष्टोपरमार्थत्वात्; अनिष्टस्यापि शान्तये ।

सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः ॥

अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तः न
निष्प्रयोजनप्रयत्ना भवन्तीति अनैकान्तिको हेतुः ॥


नित्यसुखसद्भावे आगमाः न प्रमाणम्


अथ आगमादवगम्यते—बिभुत्वेनेव, नित्येन सुखेनाविनाकृतः स्वा
त्मेति । तथा च पठ्यते—विज्ञानमानन्दं ब्रह्म इति—


स्यादेतदेवम्—यद्येतदेव केवलं आगमवचनमश्रोष्यत । वचनान्त
रमपि तु श्रूयते—न ह वै सशरीरस्य सतः प्रियाप्रिययोरुपहतिरस्ति ।
अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः
इति ॥


आगमवाक्यानामन्यथासिद्धत्वम्


ननु ! भवत्पठितमागमवचनं अन्यथापि व्याख्यातुं शक्यते । सशरी
रस्य
इति प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलंभसंभवे
तदानीमशरीरमात्मानं न स्पृशत इत्यर्थः ॥


हन्त ! तर्हि त्वदधीतमपि वेदवचनं आनन्दं ब्रह्म इति संसारदुःख
परिहारप्रकरणादेव तद्दुःखापायविषयं व्याख्यास्यते । न खलु व्याख्या
नस्य भगवतः काचिदभूमिरस्ति । दृष्टाश्च दुःखोपरमे सुखशब्दप्रयोगाः ॥


चिरज्वरशिरोर्त्यादिव्याधिदुःखेन खेदिताः ।

सुखिनो वयमद्येति तदपाये प्रयुंजते ॥

II.434

मुक्तौ शरीरादीनामप्यङ्गीकारप्रसङ्गः


यदि च आनन्दम् इति वचनात् नित्यं सुखमात्मन इष्यते, तर्हि
ब्रह्म
इति वचनात् व्यापकत्वमिव, विज्ञानम्1337 इति वचनात् ज्ञानमपि
नित्यमस्याभ्युपगन्तव्यम् । अतश्च सुखवत् ज्ञानस्यापि नित्यत्वात् संसारेऽपि
नित्यसुखोपलब्धिः स्यात् । ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य
नित्यस्य सुखस्य साहचर्यमनुभूयेत । अपि च—


सुखवत् ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि ।

नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥

अथ कार्यं 1338सुखज्ञानम्, हेतुस्तस्य विचिन्तनीयः—यत उत्पद्यत
ति । धर्माच्चेत्, सोऽपि किंप्रभव इति वाच्यम् । योगसमाधिज इति
चेत्, तस्य स्वकार्यत्वात् स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं
स्यात् । अप्रक्षयश्च धर्मस्य निरनुमानकः । न हि योगसमाधिजो धर्मः
न क्षीयत इत्यत्र च किंचिदनुमानमस्ति । विपर्यये तु प्रसिद्धमनुमानम्,
सर्वस्य कृतकस्यानित्यत्वदर्शनादिति । क्षीणे च धर्मे तत्कार्यज्ञानाभावात्
सदपि सुखमनुपलभ्यमानं असतो न विशिष्यते ॥


आत्मसुखस्य स्वप्रकाशत्वनिराकरणम्


स्वप्रकाशं तत् सुखमिति चेत्—न—संसारेऽपि तदुपलब्धिप्रसङ्गात् ।
शरीरादिसंबन्धः प्रतिबन्धहेतुरिति चेत्—न—शरीरादीनामुपभोगार्थत्वात् ।
भोगार्थाः शरीरादयस्ते भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना ॥


II.435

सुखस्यावरणासंभवः


अविद्यावरणात् संसारे स्वप्रकाशसुखानुपलम्भ इति चेत्—न—प्रकाशस्य
तुच्छेनावरितुमशक्यत्वात् । न च प्रकाशरूपं पारमार्थिकमात्मनः सुखं
तद्विपरीततुच्छस्वभावेयमविद्या न परीतुमर्हति, मेघादिना दिनकरकिरणा
वरणावधारणात्


अविरलगवलमलीमसं बलाहकव्यूहपिहितरविबिम्बम् ।

तदपि न रजनीसदृशं दिनमिति सहसा मोहमहिमा ॥

1339मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः ।

तत्त्वान्यत्वादचिन्त्या तु नाविद्याऽवरणक्षमा ॥

तस्मान्न नित्यानन्दत्वमात्मनः सुवचम् ॥


मोक्षस्य नित्यसुखरूपत्वे मुक्त्यसंभवः


अपि च मोक्षे नित्यानन्दस्वभावे तद्रागेण प्रयतमानो मुमुक्षुः न
मोक्षमधिगच्छेत् । न हिरागिणां मोक्षोऽस्तीति मोक्षविदः ॥


दुःखनिवृत्त्यात्मकेऽपि मोक्षे दुःखद्वेषात् प्रयतमानस्य समानो दोष
इति चेत्—न—मुमुक्षोर्द्वेषाभावात् । रागद्वेषौ हि संसारकारणमिति च
जानाति मुमुक्षुः, द्वेष्टि च दुःखमिति कथं संगच्छते ॥


सुखेऽप्यस्य रागो नास्त्येवेति चेत्—न—स्वर्गनिर्विशेषेऽपवर्गे स्वर्गव
द्रागस्य संभाव्यमानत्वात् । दुःखेन तु निर्विण्णस्य मुमुक्षोर्वैराग्यं जायते
न दुःखविषयो द्वेषः । विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति, न दुःखं
द्विषत इति न समानो न्यायः1340


II.436

केवलदुःखनिवृत्तेरपि पुरुषार्थत्वम्


यदुक्तं तादृशो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति—तदपि
न सांप्रतम्—प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः । न हि प्रयोजनानु
वर्ति प्रमाणं भवितुमर्हति ॥


यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचिरः—कामं मा भूत्—न
त्वप्रमाणकमानन्दं त्वत्र कल्पयितुं शक्नुमः ॥


सुखरहितस्यापि मोक्षस्योपादेयत्वम्


न च सर्वात्मना साधूनामनभिमत एव तथाविधो मोक्षः । न च
तदवाप्तये न प्रयतन्ते । ते ह्येवं विवेचयन्ति । दुःखसंस्पर्शशून्यशाश्वतिक
सुखसंभोगासंभवात्, दुःखस्य चावश्यं हातव्यत्वात्, विवेकहानस्य
चाशक्यत्वात्, विषमधुनी इवैकपात्रे पतिते उभे अपि सुखदुःखे त्यज्येता
मिति । अतश्च संसारान्मोक्षः श्रेयान्, यत्रायमियानतिदुस्सहो दुःख
प्रबन्धोऽवलुप्यते, वरमियती कादाचित्की सुखकणिका त्यक्ता, न तस्याः
कृते दुःखभार इयानूढ इति । तस्मान्न सुखोपभोगात्मको मोक्ष1341
इति ॥


जागति सुखमेव नास्तीति बौद्धपक्षः


अन्यस्त्वाह—तिष्ठतु तावन्मोक्षः ! संसारेऽपि न सुखं नाम किंचि
दस्तीति सर्व एवायं दुखाभावमात्रे सुःखव्यवहारः । तथा हि—


तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि

क्षुधार्तस्सन् शालीन् कबलयति मांस्पाकवलितान् ।

II.437
प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधूं

प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः ॥

संसारे सुखसद्भावसिद्धान्तः


उच्यते—तदिदमतिकृतकवैराग्यप्रकटनकौरुकुचीकौशलम्, आनन्दा
त्मनः प्रतिप्राणिसंवेद्यस्य सुखस्य निह्नोतुमशक्यत्वात्1342 । अनिवृत्तेऽपि
दुःखे क्वचित् सुखसंवेदनात् न दुःखाभावः सुखम् । निरभिलाषस्याप्य
तर्कितोपनतसुखसाधनविषयसंपर्के सति सुखसंवेददर्शनात् ॥


अभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम् । यस्तु दुःखा
भावे क्वचित् सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव पूर्वं दर्शितः, स
भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः । मोक्ष
तु नित्यसुखमसंभवत्प्रमाणत्वात् नाभ्युपगम्यते ॥


मोक्षस्य आत्मस्वरूपात्मकत्वम्


अपि च मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनो
चितः । स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः । तत्र
आत्मस्वरूपमेव कीदृशमिति चिन्त्यम्, न पृथङ्मोक्षस्वरूपम् । आत्म
नश्च सुखदुःखबुध्यादयः आगन्तुका गुणाः, न महत्त्ववत् सांसिद्धिका इति
निर्णीतमेतदात्मलक्षणे, सुखादिकार्येण चात्मनोऽनुमानादिति ॥


आत्मनः चैतन्यरूपत्वनिरासः


अत एव कापिलकथितचितिशक्तिस्वभावत्वमपि न युक्त
मात्मनः ॥


II.438
स चेतनश्चिता योगात् तद्योगेन विना जडः

1343चितिर्नामार्थविज्ञानं कादाचित्कं तु तस्य तत् ॥

नार्थसंवेनादन्यत् चैतन्यं नाम विद्यते ।

तच्च सामग्र्यधीनत्वात् कथं मोक्षे भविष्यति ॥

जाग्रतः स्वप्नवृत्तेर्वा सुषुप्तस्यापि वाऽऽत्मनः ।

ज्ञानमुत्पद्यतेऽन्या तु चतुर्थी नास्ति तादृशी ॥

जाग्रद्दशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता ।

सुखं सुप्तोऽहमद्येति पश्चात्प्रत्यवमर्शनात्1344

तदा त्ववेद्यमानाऽपि सुषुप्ते धीः प्रकल्प्यते ।

तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ॥

तुर्यावस्थातिगं रूपं यदाहुः केचिदात्मनः ।

प्रमाणागोचरत्वेन कल्पनामात्रमेव तत् ॥

संवित्प्रसवसामर्थ्यं सामग्रीसन्निधानतः ।

यदि नामात्मनोऽस्त्यस्य तावता न चिदात्मता ॥

ज्ञानोत्पत्त्यर्हत्वरूपचैतन्यरूपत्वेऽविरोधः


यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते—तर्हि तथा
विधस्य तस्य कैवल्यस्यास्माकीनमोक्षसदृशत्वमेव । सत्संवित्प्रसवयोग्य
तामात्रसंभवेऽपि दृश्येन्द्रियसंप्रयोगादिसामग्रीवैकल्यात् कैवल्यावस्थाया
II.439 मात्मनो द्रष्टृत्वासंभवात् । दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्त
त्वादिति ॥


बौद्धसंमतमोक्षविमर्शः


निर्वाणादिपदाख्येयमपवर्गं तु सौगताः ।

1345सन्तत्युच्छेदमिच्छन्ति, स्वच्छां वा ज्ञानसन्ततिम् ॥

मतद्वितयमप्येतत् प्रत्युक्तं पूर्वमेव यत् ।

ध्वस्तश्च ज्ञानसन्तानः नित्यश्चात्मा समर्थितः ॥

सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि ।

शोच्यो यत्राश्मकल्पोऽपि न कश्चिदवशिष्यते ॥

जैनसंमतमोक्षविमर्शः


अर्हत्पक्षेऽपि यद्रूपं अन्यसापेक्षमात्मनः1346

न केवलस्य ताद्रप्यम् इत्यस्मन्मततुल्यता1347

विकारित्वं तु जीवानां अत्यन्तमसमंजसम् ।

शब्दपुद्गलवच्चैतत्प्रत्याख्येयमसंभवात् ॥

तस्मान्न वेदान्तविदो वदन्ति

मोक्षं न1348 साङ्ख्या न च सौगताद्याः ।

इत्यक्षपादाभिहितोऽपवर्गः

श्रोयांस्तदत्यन्तविमोक्ष एव ॥

II.440

मोक्षोपायविचारः


आह—भवत्वयमीदृगपवर्गः । स तु कथमधिगम्यत इत्युच्यताम् ।
उक्तमेव भगवता सूत्रकारेण—


दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये
तदनन्तरापायादपवर्गः ॥ १-१-२ ॥


दुःखोच्छेदस्तावदपवर्ग इति कथितम् । कार्यत्वाच्च दुःखस्य
कारणोच्छेदात्तदुच्छेदः । कारणं चास्य जन्म । जन्मनि सति हि दुःखं
भवति । जायते इति हि जन्म देहेन्द्रियादिसंबन्धः आत्मनः । तदपि
जन्मकारणोच्छेदादेवोच्छेद्यम् । अतस्तत्कारणं प्रवृत्तिरुच्छेद्या । तस्या
अपि हेतूच्छेदात् उच्छेद इति तद्धेतयो दोषाः उच्छेद्याः । तेषां तु
निमित्तं मिथ्याज्ञानम् । तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना भवन्तीति मिथ्या
ज्ञानमुच्छेद्यम् । तदुच्छेदे च तत्त्वज्ञानमुपायः । प्रसिद्धो ह्ययमर्थः
समर्थितश्च पूर्वं विस्तरतः तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकमिति । तस्मा
तत्त्वज्ञानान्मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति ॥


तत्त्वज्ञानस्य मिथ्याज्ञाननिवर्तकत्वम्


यद्यपि मिथ्याज्ञानमपि जन्मकार्यम्1349, अशरीरस्यात्मनो मिथ्याज्ञाना
नुपपत्तेः । इतरेतरकार्यकारणभावेन बीजाङ्कुरवदनादिप्रबन्धप्रवृत्तेन
प्रवर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्याख्यायते—तथापि—तत्का
रणोच्छेदचिन्तायां कुतः प्रभृत्युच्छेद उपक्रम्यतामिति विचार्यमाणे विशेष
नियमाभावात् यतः कुतश्चिदिति प्राप्ते, मिथ्याज्ञानस्य प्रतिकूलमुच्छेद
II.441 कारणं तत्त्वज्ञानमुपलब्धमिति विशेषे प्रमाणाभवात् तदुच्छद एवोप
क्रम्यते ॥


अत एव मिथ्याज्ञानमूलः संसार उच्यते । तस्मिन् उच्छिन्ने तदु
च्छेदसंभवात्, न ततः प्रभृति संसारः प्रवर्तत इति निपुणमतिभिरपि
निर्धारयितुं शक्यम्, अनादित्वात्तस्येति ॥


तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायः, दोषापाये प्रवृ
त्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापायः—स एवापवर्ग
इति । तदिदमुक्तं उत्तरोत्तरापाये तदनन्तरापायात् इति ॥


मोक्षस्य दुरधिगमत्वशंका


आह—विदितोऽयं सूत्रार्थः; किन्त्वघटमानमनोरथविडम्बनामात्र
मिदम् अलीकश्रद्दधानताप्रकटनं वा । दुरधिगमस्तु संकटो मोक्षमार्गः ॥


साध्यस्त्रिवर्ग एवैषः धर्मकर्मार्थलक्षणः ।

चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते ॥

यदा प्रियवियोगादि भवत्युद्वेगकारणम् ।

तदा मोक्षकथाः कामं क्रियन्तां शोकशान्तये ॥

न तूद्यमसमये1350 तदधिगमसमर्थामुपलभामहे सरणिम्, ऋण
क्लेशप्रवृत्त्यनुबन्धस्य दुस्तरत्वात् ॥


ऋणत्रयस्य दुस्तरत्वम्


ऋणानुबन्धस्तावत्—जायमानो ह वै ब्राह्मणः त्रिभिरृणैरृणवा
। ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्यः
इतीदं हि
II.442 वेदे पठ्यते । तत्र प्रथमं ऋषीणामनृणः स्याम् इति ब्रह्मचर्यमाचरति ।
ततः पितृणामनृणः स्याम् इति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यव
हरति । तदनु गृहस्थ एव दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु कर्म
स्वधिकृतः क्रतूननुतिष्ठतीति देवानामनृणः स्याम् इति । कोऽस्य मोक्ष
व्यवसायावसरः ?


मोक्षस्य श्रुतिविरुद्धत्वम्


ननु च !


ऋणाणि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्—

इति मन्वादिस्मरणात् अस्त्येव तदवसरः—न—श्रुतिवाक्यविरोधात् ।
एवं हि श्रूयते 1351जरामर्यं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च जरया
ह वा एष एतस्मान्मुच्यते मृत्युना वा
इति । न च कर्मप्रयोगाशक्त्या
कर्मभ्यो विरन्तुं शक्यते; स्वयमशक्तस्य बाह्यशक्त्युपदेशात् । अन्ते
वासी वा जुहुयात, 1352ब्रह्मणा हि स परिक्रीतः । क्रीतो वा जुहुयात्
धनेन हि स परिक्रीतः । अशक्तस्य च मोक्षोपायानुष्ठानेऽप्यस्य कथं
शक्तिः ?


रागादीनां अवर्जनीयत्वम्


क्लेशानुबन्धादप्यपवर्गाभावः—


ये हि रागादयो दोषाः आत्मनश्चिरसंभृताः ।

कस्तान् शमयितुं शक्तः पुनरावृत्तिधर्मकान् ॥

II.443
कामं चिरं विजित्यापि क्रोधं वा लोभमेव वा ।

पुनर्गच्छन् वशे तेषां लोकः प्रायेण दृश्यते ॥

तथाहि—चिरमपि तसि नियमितमतिरपि अविजितविषमशर
विकृतिः तनुपवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वा
मित्रः कुसुमधन्वनो गत इति श्रूयते ॥


रागविवृद्धिहेतव एवाधिकाः


अलमाख्यायिकया । अद्यत्वेऽप्येवं शतशो दृश्यत इति दुरुच्छेदा
दोषाः । वीतरागजन्मादर्शनात् इति च विचारितमात्मपरीक्षायाम् ।
अवियुक्त एव दोषैर्जन्तुर्जायत इति दोषविवृद्धिहेतवश्च रूपादयो विषयाः ।
ते कथमिव स्वकर्मण्युदासते ॥


ताम्बूलं कुसुमसुगन्धयस्समीराः

सौधेषु प्रतिफलिताः शशाङ्कभासः ।

वाचश्च प्रणयनवामृतद्रवार्द्राः

दूतीनां दधति न कस्य रागवृद्धिम् ॥

अपि च—


मुग्धस्मितसुघाधौतमधुरालापशालिना ।

मुखेन पक्ष्मलाक्षीनां कस्य नाक्षिप्यते मनः ॥

इत्येवं 1353निदानानुपशमादपि स्थित एव क्लेशानुबन्धः ॥


प्रवृत्तेरपि दुस्त्यजत्वम्


प्रवृत्त्यनुबन्धः खल्वपि—


II.444
रागादिप्रेर्यमाणो हि कर्माण्यारभते नरः ।

दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ॥

यः प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः ।

तेन जन्मान्तरेणान्या जन्यते कर्मवासना ॥

1354कमेवेदृशं कर्म कर्तुमापतति क्वचित् ।

जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥

क्लेशकर्मानुबन्धोत्था जन्मदुःखादिशृङ्खला ।

पुनरावर्तमानैषा केनोपायेन ज्यताम् ?

1355विना फलोपभोगेन न विनाशोऽस्ति कर्मणाम् ।

तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम् ॥

कार्यकारणभावो हि शास्त्रादेवावधारितः ।

कर्मणां च फलानां च स कथं वा निवर्तताम् ॥

न च प्यज्ञानसापेक्षं कर्मेष्टं बन्धकारणम् ।

येनात्मज्ञानयुक्तानां तदुदासीत तान् प्रति ॥

अज्ञाननैरपेक्ष्येण कर्मणां स्वभाव एवैषः, यत् फलाविनाभावि
त्वमिति ॥


तस्मादित्थमृणक्लेशप्रवृत्त्याद्यनुबन्धतः ।

न मोक्षसिद्धिरस्तीति तदर्थो विफलः श्रमः ॥

II.445
अशक्येऽर्थे वृथा यत्न इति मत्वा मनीषिभिः ।

मोक्षचर्चाः परित्यज्य स्वे गृहे सुखमास्यताम् ॥

मोक्षस्य दुरधिगमत्वशङ्कानिरासः


अत्राभिधीयते—यत्तावदुक्तं ऋणानुबन्धात् इति—तदयुक्तम्—
विधिपदाश्रवणात् औपचारिकम् ऋणशब्दं जायमानशब्दं च प्रयुज्य कर्म
स्तुतिरियं क्रियते जायमानो ह वै ब्राह्मणः इति । न तद्व्यतिरिक्त
पुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते ॥


तथा हि—ऋणशब्दोऽयं विषयान्तरे मुख्यार्थः प्रसिद्धः, यत्रोत्तमर्णः
सलाभममुतः प्रतिग्रहीष्यामि
इति धनमधमर्णाय प्रयच्छति । अधम
र्णोऽपि सलाभमस्मै प्रदास्यामि इति मत्त्वा गृह्णाति । सोऽयं ऋण
शब्दस्य मुख्यो1356 विषयः इह नास्त्येव ॥


जायमानोऽपि मुख्यः उत्पद्यमानो हि मातुः कुक्षिकुहारान्निस्सरन्नभि
धीयते । न चासौ तपस्वी बालः कर्मभिरभिसंबध्यते । तस्मात् ब्रह्म
चर्यम्, अपत्योत्पादनम्, अध्वरप्रयोग इति त्रितयमिदम्, ऋणवदवश्य
कर्तव्यमिति कर्मस्तुतिरियमौपचारिकदप्रयोगाद्गम्यते । न चैतावता
मोक्षव्यवसायावसरविरह इति परिशङ्कनीयम्, आश्रमान्तरस्य तदौपयि
कस्य दर्शनात् ॥


कर्मणां विरतिः आवश्यकी


ननु ! मरणावधि दर्शपूर्णमासादिधर्मोपदेशात् कथमाश्रमान्तर
ग्रहणम्—न—जरामर्यवादस्थाप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात् ।
II.446 ये चत्वारः पथयो देवयानाः इत्यादयो हि चतुर्थाश्रमशंसिनः भूयांसः
सन्ति मन्त्रार्थवादाः । मन्वादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्था
श्रमोचितशौचाचारादीतिकर्तव्यतावितानविधानपराणि च प्रबन्धेनैव
दृश्यन्ते—


एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।

वने वसेत्सुनियतः भैक्षभुग्विजितेन्द्रियः ॥

इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः
समस्त एव मनुनाऽनुक्रान्तः ॥


सन्यासाश्रमः स्पष्टश्रुतिसिद्धः


जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन 1357प्रतिपदमाश्रमचतुष्टय
मुपदिष्टम् ब्रह्मचारी भूत्वा गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी
भूत्वा प्रव्रजेत्
इति ॥


अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपह्नूयते ।


आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् इति ॥

अपि च उपनिषदामध्ययनं असति मोक्षोपायप्रयोगसमर्थे चतुर्थाश्रमे
निरर्थकमेव प्राप्नोति । क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डो
पदेशः किंप्रयोजनः स्यात् ॥


चतुर्थाश्रमकालः


तदेवं वर्णवत् आश्रमाणामपि चतुर्णां प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्था
श्रमिणां च मोक्षाधिगमोपायतत्त्वज्ञानभावनाभ्यासावसरसंभवात् सोऽयं
II.447 जरामर्यवादः प्रशंसामात्रपर एवावतिष्ठते । जरया ह वा एष एत
स्मान्मुच्यते मृत्युना वा
इति च वचनात् जरसा कर्मत्यागानुज्ञानात् स
एव चतुर्थाश्रमावसर इति गम्यते । तदुक्तम्—


गृहस्थस्तु यदा पश्येत् वलीपलितमात्मनः ।

अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥

म. स्मृ. 6. 2 इति ॥


इतरथा हि मृत्युनैव च तस्मान्मृच्यते इत्यवक्ष्यत, च त्वेवमब्रवीत् ।
तस्मात् वार्धकदशोचितं चतुर्थमाश्रममनुमन्यन्ते ॥


विरक्तस्य सर्वस्य सन्यासाधिकारः


तिष्ठतु वा वार्धकदशा । यूनोऽपि परिपक्वकाष यस्याश्रमचतुष्टय
क्रममनपेक्ष्यैव मोक्षाधिकार आख्यातः । यथोक्यं ब्रह्मचर्यादेव प्रव्रजेत्
इति । अत एव द्विविधो ब्रह्मचारि भवति—उपकुर्वाणः नैष्ठिकश्च ।
तत्र उपकुर्वाणकः यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति । स चापरि
पक्वकषायः, अनुषशान्तरागः । तमेव प्रतीदमुच्यते—


अनधीत्य द्विजो वेदान् अनुत्पाद्य च सन्ततिम् ।

अनिष्टवा चैव यज्ञैश्च मोक्षमिच्छन्1358 व्रजत्यधः

म. स्मृ. 6. 37 इति ॥


यस्तु परिपक्वकषायः स नैष्ठिक एव ब्रह्मचारी भवति, न गृहस्था
मं प्रतिपद्यते । गृहस्थोऽपि परिपक्वकषायः वानप्रस्थाश्रममुल्लङ्घ्य
यतित्वेऽधिक्रियते । यथोक्तम्—गृहाद्वा वनाद्वा प्रव्रजेत् इति ॥


II.448

गृहस्थस्यापि मोक्षः


केचित्तु—कर्मफलाभिसन्धिरहितस्य, कर्तव्यमिति कर्म कुर्वतः क्षीण
रागस्यात्मविदः गृहस्थस्यापि 1359मोक्षमाचक्षते । यथाऽऽह याज्ञवल्क्यः—


न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।

श्राद्धकृद्वेदविद्यावित् गृहस्थोऽपि विमुच्यते

इति । तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् ॥


क्लेशानां परिहारोपायः


यत्तु क्लेशानुबन्धादिति—तदप्यनध्यवसायमात्रम् । 1360प्रतिपक्ष
भावनादिना क्लेशोपशमस्य सुशकत्वात् । यदि हि दोषा नित्या भवेयुः,
अनित्यत्वेऽप्याकस्मिका वा, सहेतुत्वेऽपि यद्येषां नित्यो हेतुर्भवेत् । कार्यो
ऽपि वा यद्यसौ न ज्ञायेत, ज्ञातस्य वाऽस्य शमनोपायो न ज्ञायेत, ज्ञातोऽपि
वाऽनुष्ठातुमसौ न शक्येत, तदा क एवैनमुच्छिन्द्यात् । किन्तु—


नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः ।

नाज्ञातशमनोपायाः न चाशक्यप्रतिक्रियाः ॥

न हि दोषाणां आत्मस्वरूपवन्नित्यत्वं, उपजननापायधर्मकत्वेन
ग्रहणात् मिथ्याज्ञानं च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वम्,
अविनाशिहेतुकत्वम्, अज्ञातहेतुकत्वं वा ॥


II.449

प्रतिपक्षभावनया क्लेशक्षयः


मिथ्याज्ञानस्य च सन्यग्ज्ञानम् प्रतिपक्षभावनाभ्यासेन च समूल
मुन्मीलयितुं शक्यन्ते दोषाः इति नाज्ञातप्रतीकारत्वं तेषाम् । उक्तं च
केन चित् प्र-वा-3-220


1361सर्वेषां सविक्षत्वात् निर्ह्रासातिशयाश्रितात्

सात्मीभावात्तदभ्यासात् हीयेरन्नास्रवाः क्वचित् ॥

इति । विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति ।
यदा ह्ये चिन्तयति विवेकी—


असौ तरलताराक्षी पीनोन्नतघनस्तनी ।

विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥

विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः ।

अन्तर्मज्जास्थिविण्मूत्रभेदःक्रिमिकुलाकुलम् ॥

अस्थीनि पित्तमुच्चाराः क्लिन्नान्यान्त्राणि शोणितम् ।

इति चर्मपिनद्धं तत् कामिनीत्यभिधीयते ॥

मेदोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् ।

विष्ठादृतौ नितम्बे च कोऽयं हेमशिलाभ्रमः ॥

मूत्रासृग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् ।

तदेव हि रतिस्थानं अहो पुंसां विडम्बना ॥

प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः ।

शुष्केऽस्थिनि तथा पुंसः स्वधातुस्यन्दिनः स्त्रियाम् ॥

II.450
व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुर्घरा ।

कथमद्य न रागाय म्रियमाणा तपस्विनी ॥

अहो बत वराकोऽयं अकाले तृषितः फणी ।

प्रसारितमुखोऽस्माकं शोणितं पातुमागतः ॥

1362किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् ।

स्पृश्यमानो दहत्यग्निः इति कस्मै प्रकुप्यति ॥

नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये ।

स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥

एवमहनिशं चिन्तयतो नितान्तं शान्तस्य मनसः समचित्तता
सर्वत्र समुद्भवतीति विलीयन्ते दोषग्रन्थयः ॥


अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः ।

तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः ॥

प्रतिपक्षभावनया दोषक्षयः


ननु च प्रतिपक्षभावनेऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति ।
निम्बाभ्युपयोग इव क्रियमाणे कफधातुरिति—नैतदेवम्—तत्र निम्बोपयो
गवत् तदनुकूलस्यान्नपानादेरुपयोगदर्शनात् । अपि च—


1363धर्मिलोपभयात्तत्र नेष्टः सर्वात्मना क्षयः ।

कफाधिक्यं तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥

II.451
इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः ।

छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवया ॥

न च प्रतिपक्षभावनाभ्यासमेकं अस्त्रमपास्य तदुपशमे निमित्तान्तरं
किमपि क्रमते ॥


भोगानां नोपभेगेन क्षयः


न हि विषयाभिलाषस्तदुपभोगेन विरंस्यति । यथाऽऽह—


न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ म-भा-आ-85-12

अन्यत्राप्युक्तम्—भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि
चेन्द्रियाणाम्
इति ॥


पाराशर्योऽप्याह—


तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते ।

या महद्भिरपि क्षिप्तैः पूरणेनैव खन्यते इति ॥

तस्मात् प्रतिपक्षभावनैव भगवती भीमकान्तिः अन्तःकरणकान्तारे
निरन्तरमभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति ।
तदेवं दोषानुबन्धविध्वंसोपायसंभवान्न तत्कृतो मोक्षमार्गनिरोधोऽ
भिधातव्यः ॥


क्लेशाद्यनुबन्धनिवृत्तिमात्रं साध्यम्


अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वात् मलानामागन्तुकत्वात्,
मलनिबर्हणहेतोश्च यथोक्तस्य संभवात्, तदाचरणात्तदपाये सति स्वत
स्सकलपदार्थदर्शनसामर्थ्यस्वभावचित्तत्त्वावस्थानात् सर्वज्ञसिद्धिमदूरवर्ति
नीमेव मन्यन्ते ॥


II.452

सुषुप्त्यादौ शुद्धस्यात्मनो लेशतो भानम्


यदप्युक्तं क्लेशशून्यत्वमात्मनो न कदाचिदपि दृष्टम्, अनुबन्ध
वृत्तित्वात् क्वेशानामिति—तदप्यसत्यम्—सुषुप्तावस्थायामस्पृष्टस्य दोषै
रात्मनः प्रत्यहमुपलम्भात् । जाग्रतोऽपि का चन तादृशी दृशा दृश्यत एव,
यस्यामसावात्मस्वरूप एवात्मा निर्मलोऽवतिष्ठते । यथोक्तं अहरहर्ब्रह्म
लोकं यान्ति
इति1364 । तदलमनेन दोषानुबन्धकथानुबन्धेन ॥


प्रवृत्तीनां विरतिसंभवः


यदपि प्रवृत्त्यनुबन्धादिति प्रत्यपादि—तदपि सूत्रकृता समाहितम्
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य न्या-सू-4-1-64 इति ।
दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभव
तीति ॥


कर्मक्षयप्रकारवर्णनम्


ननु दोषक्षयान्मा भूत् उत्तरः कर्मसङ्ग्रहः ।

कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ॥

अत्र केचिदाहुः—ददत्येव कर्माणि, नादत्त्वा शाम्यन्ति; तथापि
बन्धहेतवो न भवन्ति । यतः शमसन्तोषादिजनितं योगिनः सुखमुत्पाद्य
धर्मो विनङ्क्ष्यति, अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ॥


II.453

कर्मणां फलनैयत्येऽपि न हानिरिति पक्षः


ननु ! अमुष्मात्कर्मणः इदं फलं भवतीति1365 कर्मफलानां कार्यकारण
भावनियमात्, कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे
वर्णयन्ति । योगी हि योगर्धिसिद्ध्या विहितनिखिलनिजधर्माधर्मकर्मा
निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि
शरीराणि1366, रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा
सकृदेव सकलकर्मफलमनुभवति प्राप्तैश्वर्य 1367इतीत्थमुपभोगेन कर्मणां
क्षयः ॥


तत्त्वज्ञानेन कर्मणां नाशपक्षः


अन्ये त्वाचक्षते—किमनेन भोगायासेन, अदत्तफलान्येव कर्माणि
योगिनो नङ्क्ष्यन्ति । तत्त्वज्ञानस्यैव भगवत इयान् प्रभावः, यदस्मिन्नु
त्पन्ने चिरसंचितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति । भोगादपि
तेषां प्रक्षयः शास्त्रप्रामाण्यादेवावगतः । तथा तत्प्रामाण्यादेव तत्त्वज्ञाना
दपि तत्प्रक्षयं प्रतिपत्स्यामहे । तथा चाह—


यथैधांसि समिद्धोऽग्निः भस्मसात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा

गी. 4-37 इति ॥


न चेदं श्रद्धामात्रम्, वेदविदामग्रण्या व्यासमुनिनैव समभिधानात्,
अवेदार्थं हि नासावभिदधीतेति ॥


II.454

कर्मणां फलजननशक्तिनाशपक्षः


तमन्ये न मन्यन्ते । न सर्वामना कर्मणां दाहः । किन्तु स्वरूपेण
सतामपि सहकारिवैकल्यात् स्वकार्यकरणोदासीनता तेषां भवति, भ्रष्टा
नामिव बीजानामङ्कुरकरणकौशलहानिः । यतः सामग्री कार्यस्य जनिका,
केवलं कारकम् । अतो न कर्माण्येवकेवलानि फलोपभोगयोग्यशरीरे
न्द्रियादिजन्मनिमित्ततामुपयान्ति । किन्तु मिथ्याज्ञानेन दोषैश्च सहि
तानि । तदुक्तं अविद्यातृष्णे धर्माधर्मौ च जन्मकारणम् इति ॥


तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञानात्मिका भवति ।
दोषाणां तु प्रथमे दर्शित एव क्रमः । तदभावे भवन्तावपि धर्माधर्मौ न
बन्धाय कल्पेते । न हि स्वकार्यमङ्कुरादि कुसूलवर्तीनि बीजानि जन
यितुमुत्सहन्ते ॥


भ्रष्टबीजानामपि स्वरूपशक्तिरपि 1368तानवं गता । तद्वत् कर्मणां
स्वरूपशक्तिशैथिल्यं मा नाम भूत् । तथापि कुसूलवर्ति बीजवत् सहकारि
वैधुर्यात् कार्यानारम्भ इति । तदिदसुक्तं 1369न प्रवृत्तिः प्रतिसन्धानाय
हीनक्लेशस्य
न्या-सू-4-1-64 इति ॥


धर्माधर्थयोः न संपूर्णनाशः


ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं नवानामात्मगुणानां
निर्मूलोच्छेदोऽपवर्ग इति—नैष दोषः—मनस्संयोगवदकिंचित्करयोरवस्था
नमपि उच्छेदान्न विशिष्यते । मुक्तस्यात्मनः विभुत्वादपरिहार्यो मन
II.455 स्संयोगः । न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते ।
एवं धर्माधर्मौ सन्तावपि फलमनाक्षिपन्तौ किं करिष्यत इति फलत
उच्छिन्नावेव भवतः । तस्मान्नवानामात्मगुणानामुच्छेदोऽपवर्ग इत्य
विरुद्धम्1370


एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमोऽपवर्गः ॥


ज्ञानकर्मसमुच्चयवादः


अपरे पुनराहुः—कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः
शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः,
योगर्द्ध्या च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव संपादयितुमशक्य
त्वात् ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्थानर्थक्य
प्रसङ्गात्, अदत्तफलस्य कर्मणोऽनुपरमात्, अवस्थानपक्षे चिरमप्युषित्वा
कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङ्गात् अवश्यं स्वफ
लोपभोगद्वारक एव कर्मक्षयो वाच्यः ॥


न चानिर्मोक्ष आशङ्कनीयः, ततश्चिरादपि तत्सिद्धिसंभवात् ।
तथा च मुमुक्षुर्नित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेत्, अननुतिष्ठन् प्रत्य
वेयादिति तत्कुतोऽस्य बन्धः स्यात् । काम्यं निषिद्धं च कर्म स्वर्गनरक
कारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरोऽयं न
कर्मसंचयः प्रवर्तते । तदाह—


नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।

मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः इति ॥

II.456

नित्यकाम्यकर्मविभागः


प्राक्तनस्य तु कर्मसंचयस्य भोगादेव क्षयः । आत्मविदश्च मुमु
क्षोरयमनुष्ठानक्रमो भवति, नेतरस्येति स एवेत्थमपवृज्यत इति ।
आह च—


आत्मज्ञे चैतदस्तीति तद्ज्ञानमुपयुज्यते ।

तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये ॥

उत्तरप्रचयासत्त्वात्1371 देहो नोत्पद्यते पुनः ॥

ननु ! नित्यकर्मनुष्ठानपक्षे नास्त्येव मोक्षः । यान्येव हि नित्यानि
दर्शपौर्णमासादिकर्माणि यावज्जीवं दर्शपूर्णमासाभ्यां यजेत इत्यादि
चोदनोपदिष्टानि, तान्येव फलवन्ति श्रूयन्त इति काम्यान्यपि भवितुम
र्हन्ति दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत् अग्निंहोत्रं जुहुयात्स्वर्गकामः
इति—न—फलाभिसन्धानपूर्वकत्वेनाप्रयोगात् । तथाऽऽह—


प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति

इति । सोऽयं प्रवृत्तौ विशेषः । प्रयोगेऽपि विशेषः । काम्यं कर्म
सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति न यथाशक्ति तथा तथा
प्रयोक्तव्यमिति । नित्यकर्मणः अकरणात् प्रत्यवाय इति यथाशक्त्यपि
तत् प्रयोक्तव्यम् । अननुष्ठितात् यादृक्, तादृक् अनुष्ठितश्रेयःप्रत्य
वायपरिहारोपपत्तेः ॥


काम्ये तु सर्वाण्यङ्गानि यद्यसावुपसंहर्तुं न शक्नुयात्, मा प्रवर्तिष्ट ।
न ह्यप्रवर्तमानः प्रत्यवेयादिति ॥


II.457

एवंच तदेव दर्शपौर्णमासादिकर्म यावज्जीवं इति चोदनयोपदिष्टं
नित्यं सत् तत्फलानभिसन्धानात् प्रयुक्तं न बन्धाय कल्पते । क्व सा
स्वर्गसाधनत्वशक्तिः अस्य गतेति चेत्—न—न वयं कर्मणां शक्तिमशक्ति
वा प्रत्यक्षतः प्रपश्यामः । शास्त्रैकशरणास्तु श्रोत्रिया वयम् । चोद
नैव धर्मे प्रमाणमिति नः कुलव्रतमेतत् । सा च चोदना एकत्र कामिनम
धिकारिणमाश्रित्य प्रवृत्ता । तदधिकारश्च फलनिर्वृत्तेर्विना न स्यादिति
फलपर्यन्ततां प्रतिपद्यते ॥


अन्यत्र तु यावत्पदोषबद्धजीवनपदार्थावच्छिन्नाधिकारिलाभेन प्रवर्त
माना न फलाय प्रभवति । अक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय भवति
अधिकृतेन सता शास्त्रार्थस्त्यक्त इति । काम्ये त्वनुत्पन्नकामोऽधिकृत
एव न भवतीति नाधिकृतेन सता विधिस्त्यक्त इति न प्रत्यवैतीति । उप
क्रम्य त्वन्तराले त्यक्तुं न लभत एव । वीतायां फलेच्छायां, आवाप्ते वा
फले तत्कर्मसमापनवदवश्यकर्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा
कथाविस्तरेण ॥


सर्वथा सुष्टूक्तं
नित्यनैमित्तिके कुर्यात्
इति ॥

मोक्षस्य दुर्लभत्वम्


ननु ! भोगात् प्राक्तनकर्मक्षयपक्षे दीर्घकालापेक्षणात् अप्रत्यासन्न
इव मोक्षो लक्ष्यते—किं त्वया ज्ञातमधुनैव । हुंकृत्वा1372 निर्विलम्बमेव
मोक्षमाप्नुयादिति । न खलु सुलभोऽयं पुरुषार्थः । किं न श्रुतमिद
मायुष्मता क्यासवचनम्—


II.458
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् गी. 6. 45 इति ॥

ज्ञानाग्निदाहवचनं तु ज्ञानप्रशंसार्थमेव । सोऽयं ज्ञानकर्मसमुच्चया
न्मोक्ष उच्यत इति ॥


ज्ञानकर्मसमुच्चयवादनिरासारम्भः


अत्राभिधीयते—न खलु फलोपभोगद्वारकः कर्मणां परिक्षयः जन्म
कोटिशतैरपि शक्यक्रियः । उक्तं हि—


एकमेवेदृशं कर्म कर्तुमापतति क्वचित् ।

जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥

देहैस्तत्कर्मभोगार्थैः कर्मान्यन्न करिष्यते ।

देहबन्धनमित्येषा दुराशैव तपस्विनाम् ॥

तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकैः मोक्षोपेक्षणमनक्षरमुपदिष्टं
भवतीति । तस्मात् पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम् ॥


कर्मनाशस्वरूपनिश्चयः


ननु ! पक्षचतुष्टयेऽपि दोष उक्तः1373—न—चतुर्थपक्षस्य निरवद्य
त्वात् । सहकारिवैकल्यात् कुसूलावस्थितबीजवत् कर्मणामनारम्भकत्वे
सति न कश्चिद्दोषः । एष एव च तेषां दाहः, यत् कार्यानारम्भक
त्वम् ॥


कर्मणां फलादानम्


ननु ! अविनष्टस्वरूपाणि कुसूलबीजवदेव कदा चिरादारप्स्यन्ते
कार्यम् । तस्माद्वरमुच्छिद्यन्तामेव । किमिदानीं नित्यमात्मानमप्युच्छेत्तुं
II.459 यतामहे । स हि पुरा भोक्ताऽभूदिति मुक्तोऽपि पुनर्भोक्तृतां प्रतिपद्ये
तेति वरमुच्छिद्यन्तामेव ॥


सामग्र्यभावात् कथमसौ पुनः भोक्तृतां गच्छेत् ? इति चेत्—
कर्माण्यपि सहकार्यभावात् कथं कार्यमारभेरन् ? न च कर्मणां बन्धकरणे
रागादयो न सहकारिण इति वक्तुं शक्यते; वीतरागस्य जत्मादर्शनात्
इत्यसकृदुक्तत्वात् । तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशलः
प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य
इति ॥


ज्ञानकर्मसमुच्चयवादरूण्डनम्


यच्चेदमुच्यते ज्ञानकर्मसमुच्चयान्मोक्ष इति—तत्रेदं वक्तव्यम् ।
कर्मणां कीदृशो मोक्षं प्रत्यङ्गभावः ? न हि तत्साध्यो मोक्षः; स्वर्गा
दिवदनित्यत्वप्रसङ्गात् ॥


अपि च—आत्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते; न चात्मस्वरूपं
कर्मसाध्यम्, अनादिनिधनत्वेन सिद्धत्वात् ॥


कर्मणां चित्तकषायनिवर्तकत्वम्


ननु ! नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्द्वारकबन्धपरिहारो
पायत्वात् कर्मापि मोक्षाङ्गं स्यात्—न—सन्यासविधानस्य प्रत्यक्षोपदेशादि
त्युक्तत्वात् । अपरिपक्वकषायाणां शनैश्शनैस्तत्परिपाकौपयिकत्वेन
कर्मानुष्ठानं पारम्पर्येणापवर्गोपाय इति तु बाढमभ्युपगम्यते । यथाऽऽह
मनुः—


महायज्ञैश्च यज्ञैश्च 1374ब्राह्मीयं क्रियते तनुः इति ॥

II.460

अध्यात्मविदश्च ज्ञानकाण्डौपयिकमेव क्रियाकाण्डं मन्यन्ते । साक्षात्तु
कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात् कृतकस्य सर्वस्यानित्यत्वात्
तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् ॥


यमनियमादीनामपि ज्ञानाङ्गत्वम्


यदपि यमनियमादिसाध्यमङ्गभूतं कर्मजातम्, तदपि तदङ्गतां
गच्छन्न वार्यते । 1375तत्कार्यत्वेऽपि—यावद्गुणप्रघ्वंसाभावस्वभावत्वात्
मोक्षस्य न क्षयित्वं स्वर्गवत् । अन्यस्तु न मोक्ष इत्युक्तम् ॥


तत्पूर्वोक्तप्रक्रमेणापवर्ग—

प्राप्तेस्तत्त्वज्ञानमेवाभ्युपायः ।

कर्म त्वङ्गं तत्र शौचादि किंचित्

किंचित्तत्स्यादात्मसंस्कारपूर्वम्1376

मोक्षहेतुतत्त्वज्ञानस्वरूपविचारः


आह—तत्त्वज्ञानमिदानीं विचिन्त्यताम्—किंविषयं तदपवर्गाय
कल्पते ? कुतो वा तस्य निःश्रेयससाधनत्वमवगतमिति ॥


ननु ! आत्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति कोऽयं
प्रश्नः ?—न—विप्रतिपत्तेः । विप्रवदन्ते ह्यत्र वादिनः ॥


मोक्षहेतुज्ञानविषये पक्षभेदाः


एक एवायम् । अविद्यापरिकल्पितः जीवात्मपरमात्मविभागः ।
परमात्मतत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः ॥


II.461

शब्दाद्वैतनिश्चयादिति वैयाकरणाः ॥


विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः ॥


प्रकृतिपुरुषविवेकविज्ञानादिति पारमर्षाः ॥


ईश्वरप्रणिधानादिति चान्ये1377


तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षवः इति वाच्यम् ॥


आत्मतत्त्वज्ञानस्यैवापवर्गोपायत्वम्


उच्यते—भिन्नास्तावदात्मान इति गृह्यतामात्मज्ञानमेव निःश्रेय
साङ्गमिति ॥


यत्तु—कुतस्तस्य निःश्रेयससाधनत्वमवगतमिति; अक्षपादवचना
दिति ब्रूमः । अक्षपादस्तावदेवमुपदिष्टवान् आत्मज्ञानान्निःश्रेय
साधिगमः
इति । न च निष्प्रमाणकमर्थमेष ऋषिरुपादिशदिति भवित
व्यमत्र प्रमाणेन । तत्तु वैदिकं विधिवाक्यं 1378आत्मा ज्ञातव्यः इति ॥


स एष तावन्न निरधिकारः विधिः; अधिकाररहितस्य च विधेः
प्रयोगयोग्यत्वाभावात् । अधिकारान्वेषणमुपक्रमणीयम् । परप्रकरण
परिपठनविरहाच्च नास्य समिदाधिविधिवत् प्रधानाधिकारनिवेशित्वम् ।
अतः विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिणमिह यावदुपादातु
मध्यवस्यामः, तदैव न स पुनरावर्तते इत्यर्थवादसमर्पितेयमपुनरावृत्ति
रेव हृदयपथमवतरति, रात्रिसत्र इव प्रतिष्ठेति तामेवास्य फलत्वेन
प्रतिपद्यामहे ॥


II.462
सा चेयं साध्यमानाऽपि 1379रूपादेव हि शाश्वती ।

चकास्त्यपुनरावृत्तिः न स्वर्गवदपायिनी ॥

आत्मज्ञानस्य न दृष्टफलसंभवः


ननु ! दृष्टप्रयोजनालाभे सति अदृष्टप्रयोजनपरिकल्पनावसरः ।
इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते । नित्ये
नात्मना विना भूतेष्वेवाचेतनेषु श्मशानावधिषु बहुवित्तव्ययायास
साध्यानि को नाम ज्योतिष्टोमादिकर्माण्यनुतिष्ठेदिति नित्य एवात्मा पर
लोकी ज्ञातव्यः । एवं हि निर्विशङ्कः कर्मसु प्रवर्तेतेति ॥


तदिदमनुपपन्नम्—अन्यत एव सिद्धत्वात् । प्रत्यभिज्ञाप्रत्यक्षप्रत्य
येन 1380जैमिनीयैः, अनुमानमहिम्ना च नैयायिकादिभिः आत्मा नित्य इति
निश्चित एव । किमत्र विधिः करिष्यति । इतिकर्तव्यताकलापोपदेशश्च
तदानीमत्यन्तनिष्प्रयोजनः स्यात् ॥


वेदस्य फलवत्त्वम्


अमी च तथा नामातिमहान्तो वेदग्रन्था इयत्येव पर्यवसन्ना
इति ?—तदिदमुपनतम्—सेयं महतो वंशस्तम्बात् 1381ट्वाऽऽकृष्यत इति ।
तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरबलम्बत
इत्येवं केचित् ॥


II.463

आत्मज्ञानस्य मोक्षसाधनत्वं विधिसिद्धम्


सूक्ष्मदर्शिनस्त्वाहुः—इयमर्पि महती दुर्गतिः, यत् अर्थवादमुखप्रेक्षि
त्वमस्योक्तमधिकारविधेः । विश्वजिति रात्रिसत्रे वा किमन्यत् क्रिय
ताम् । न हि विश्वजिद्रूपपर्यालोचनतः कश्चिदधिकारी लभ्यत इति
बलात् स्वर्गकामादिः कल्प्यते वा, अर्थवादसमर्पितो वाऽबलम्ब्यते । यत्र
तु विधिस्वरूपमहिम्नैव तदुपलम्भः, तत्र किं कल्पनया, किमर्थवाद
वदनावलोकनदैन्येन वा ॥


इह च स्वाध्यायोऽध्येतव्यः इतिवत् अग्नीनादधीत इतिवद्वा
कृत्येन द्वितीयया वा ईप्सिततमत्वनिर्देशात् तन्निष्ठत्वमेवावतिष्ठते ।
तत्र यथाऽग्न्यर्थतयाऽऽधानविधिरवगम्यमानः अग्नीनामनेकविधपुरुषार्थौ
पयिककर्मकलापोपयोगात् तदार्जनेनैव कृतार्थत्वमुपगत इति न फलान्तर
मपेक्षते, यथा वा स्वाध्यायोऽध्येतव्यः इत्यक्षरग्रहणार्थत्वात् अस्य विधेः
अक्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्न
तदतिरिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वम् । न चाध्यापनविध्यङ्गत्वं,
स्वमहिम्नैवेप्सिततमसंस्कारद्वारकाधिकारलाभात्; एवमिहाप्यपहत
पाप्माद्यात्मस्वरूपपरिज्ञानमेव तस्य परमपुरुषार्थतामवबोधयन्नस्य
विधेरन्यप्रयोजनतामापादयति ॥


1382कश्चित् किल संस्कारविधिः संस्क्रियमाणनिष्ठोऽपि संस्क्रियमाण
प्रयोजनापेक्षया परमुखप्रेक्षी भवति—ब्रीहीन् प्रोक्षति इतिवत् । कश्चित्तु
संस्क्रियमाणप्रयोजनमलभमानः तदीप्सिततमत्वानिर्वहणात्—संस्कार
विधित्वमेव जहाति सक्तून् जुहोति इतिवत् । यथोक्तम्—


II.464
भूतभाव्युपयोगं हि द्रव्यं संस्कार्यमिष्यते ।

सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित्

तं. वा. 2-1-4-12 इति ॥

स्वतः पुरुषार्थानां न फलान्तरम्


यस्य तु संस्कार्यमनर्धमिव रत्नम् अपर्युषितमिवामृतम्, अनस्त
मितविव चन्द्रबिम्बम्, अपरिम्लानमिव शतपत्रमस्ति, कस्तर्हि प्रकरण
पाठापेक्षायां अर्थवादमुखप्रेक्षणेन फलकल्पनायां वाऽभिलाषः ? अत एव
न कामश्रुतिप्रयुक्तत्वमाधानस्य, न चाचार्यकरणविधिप्रयुक्तत्वमध्ययन
स्येति ॥


तस्मात् स्वाध्यायाध्ययनाधानविधिसमानयोगक्षेमत्वात् आत्म
ज्ञानविधेः, तत्कृतमात्मज्ञानमपवर्गार्थमवगम्यते । तथाविधस्वरूप आत्मैव
परोपाधिजनितधर्मरहितः अपवर्ग इत्युच्यते । यतः तदिदमित्थमात्मज्ञान
मेव निःश्रेयससाधनं, अनन्यलभ्यमिति तदेवोपदिष्टवानाचार्योऽक्षपादः ॥


यत्तु विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं—तत् मिथ्याज्ञानमेवेति न
निःश्रेयससाधनमिति ॥


ब्रह्माद्वैतवादनिरासः


ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत् । प्रत्युत द्वैतदर्शनमविद्या
मायाऽपि, मिथ्याज्ञानमिति युक्तम् । तथा हि—प्रत्यक्षमेव तावत् निपुणं
निरूपयतु भवान् । तत्र हि यदन्यानपेक्षतया झगिति पदार्थस्वरूपमव
भासते1383, तत् पारमाथिकम्, इतरत् काल्पनिकमिति गम्यते । सद्रूपमेव च
II.465 च तत्राभिन्नमन्यनिरपेक्षमवभाति । भेदस्त्वन्यापेक्ष1384 इति नाक्षज
विज्ञानविषयतामुपयाति ॥


कारणस्यैव सत्यत्वम्, कार्यस्य मिथ्यात्वम्


तत्र यथा मृद्रूपतातः प्रभृति यावत्कुम्भावस्थेत्यस्मिन्नन्तराळे आवि
र्भवतां तिरोभवतां च घटकपालशकलशर्कराकणादीनां कार्याणां रू
मपरमार्थसदेव व्यवहारपदवीमवतरति । परमार्थतस्तु मृत्तिकैव ।
यथाऽऽहुः मृत्तिकेत्येव सत्यम् छां. 6-1-4 इति । एवं तदपि मृत्ति
कारूपं सत्तापेक्षया न परमार्थसदिति सत्तैव सर्वत्र परमार्था । तदेव
सल्लक्षणं ब्रह्मेत्याहुः ॥


आगमश्च एकमेवाद्वितीयं छां. 6-2-1 इत्यादिः अभेदमेव दर्श
यति नेह नानास्ति किंचन । मृत्योस्स मृत्युमाप्नोति य इह नानेव
पश्यति
इति च ॥


प्रत्यक्षस्य शात्राविरोधित्वम्


न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य । न
ह्यन्यनिषेधे प्रत्यक्षं प्रभवति, स्वरूपमात्रग्रहणे परिसमाप्तव्यापारत्वात् ।
पररूपनिषेधमन्तरेण च भेदस्य दुरुपपादत्वात् भेदे कुण्ठमेव प्रत्यक्षमिति
कथमभेदग्राहिणं आगमं विरुन्ध्यात् । तदुक्तं—


आहुर्विधातृ प्रत्यक्षं1385 न निषेद्धृ विपश्चितः ।

नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥

II.466

बन्धमोक्षव्यवस्था


ननु यद्येकमेव ब्रह्म, न द्वितीयं किंचिदस्ति, तर्हि तद्ब्रह्म नित्य
शुद्धबुद्धस्वभावत्वात् मुक्तमेवास्ते । केन तद्बद्धमिति किमर्थोऽयं मुमुक्षुणां
प्रयत्नः । कुतस्त्यो वाऽयं विचित्रजगदवभासः—अविद्योच्छेदार्थो
मुमुक्षुप्रयत्न इति ब्रूमः । ततस्त्य एवायं विचित्रजागदवभासः ॥


अविद्यास्वरूपम्


केयमविद्या ? ब्रह्मणो व्यतिरिक्ता चेत् नाद्वैतम् । अव्यतिरेके तु
ब्रह्मैव सा, ततो नान्याऽस्त्येषेति कथमुच्छिद्येत—मैवम्—वस्तुनीदृंशि
कुतार्किकचोद्यानि क्रमन्ते । अविद्या त्वियमवस्तुरूपा, माया, मिथ्याव
भासस्वभावाऽभिधीयते । तत्त्वाग्रहणमविद्या । अग्रहणं च नाम कथं
वस्तुधर्मैः विकल्प्यते ?


अविद्याश्रयः


ननु ! तत्त्वाग्रहणरूपाऽपि कस्येयमविद्या । न हि ब्रह्मणो नित्य
बुद्धस्वभावत्वादविद्या भवति । अन्यस्तु नास्त्येव तदाश्रयः । न च
निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति—उच्यते—1386जीवात्मनामविद्या,
न ब्रह्मणः ॥


ननु ! के ते जीवात्मानः ? तेऽपि ब्रह्मणोऽन्यानन्यतया चिन्त्या एव
आः ! क्षुद्रतार्किक ! सर्वत्रानभिज्ञोऽसि । ब्रह्मैव जीवात्मानः, न ततो
ऽन्ये । न हि दहनपिण्डाद्भेदेनापि भान्तः स्फुलिङ्गाः अग्निस्वरूपा न
भवन्ति ॥


II.467

जीवाज्ञानवादः


तत् किं ब्रह्मण एवाविद्या ?—न च ब्रह्मणोऽविद्या । यथा ह्येकमेव
घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः—पटाकाशं घटाकाश
मिति, तदावरणवशादेव च रजोधूमादिकलुषितमपि भवति, तदावरण
विरतौ तु गळितकालुष्यमले तत्रैव परमे व्योम्नि लीयते—तथैव जीवा
त्मानोऽपि अविद्याकल्पितभेदाः तत्कृतमनेकप्रकारकालुष्यमनुभवन्ति ।
तदुपरमे च परे ब्रह्मणि लीयन्ते इति ॥


अन्योन्याश्रयपरिहारः


ननु ! एवं सत्यप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः ।
सा च जीवात्मनामविद्येत्युच्यते । तदेतदितरेतराश्रयमापद्यते—अविद्या
कल्पनायां सत्यां जीवात्मानः, जीवात्मसु च सत्सु अविद्येति—भवत्वितरे
तराश्रयम् । अविद्याप्रपंच एवायमशेषः । कस्यैष दोषः ?


यदि वाऽनादित्वमस्य परिहारो बीजाङ्कुरवद्भविष्यति । भव
द्भिरपि चायमनादिरेव संसारोऽभ्युपगतः । अविद्ययैव च संसार इत्यु
च्यते ॥


अविद्यानिवृत्त्युपायः


ननु ! अनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति
1387भूमे रूपस्य । भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते ?


ननु ! उपाये सत्यनादिरप्युच्छिद्यते । अद्वैतिनां कस्तदुच्छेदोपायः ?
अविद्यैवेति ब्रूमः । श्रवणमनननिध्यानादिरप्यविद्यैव । सा त्वभ्यस्य
II.468 माना सती अविद्यान्तरमुत्सादयति, स्वयमप्युत्सीदति । यथा पयःपयो
जरयति, स्वयं च जीर्यति । विषं विषान्तरं शमयति, स्वयं च शाम्यति ।
यथा वा द्रव्यान्तररजः क्षिप्तं रजःकलुषितेऽम्भसि तच्चात्मानं संहृत्य
स्वच्छमम्बु करोति । एवमियमविद्यैवाविद्यान्तरमुच्छिन्दन्ती विद्यो
पायतां प्रतिपद्यते ॥


असत्यादपि सत्यसिद्धिः


ननु ! स्वरूपेणासत्यैवेयमविद्या कथं सत्यकार्यं कुर्यात् ? उच्यते—


असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते ।

मायासर्पादयो दृष्टाः सत्य1388प्रलयहेतवः ॥

रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते । स्वरूपेण
सत्यास्त इति चेत्—किं तेन क्रियते । गकारादित्वेन हि ते प्रति
पादकाः । तच्चैषामसत्यमिति ॥


शुद्धस्यापि ब्रह्मणोऽविद्ययाऽऽवरणम्


ननु ! ब्रह्मणो नित्यशुद्धत्वात् जीवानां च ततोऽनन्यत्वात् कथं
तेष्वविद्याऽवकाशं लभते—परिहृतमेतत् घटाकाशदृष्टान्तोपवर्णनेन ॥


अपि च यथा विशुद्धमपि वदनबिम्बं अम्बुमणिकृपाणदर्पणाद्युपाधि
वशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिकमेव दर्शयति, तथा ब्रह्मणस्तद
भावेऽपि जीवेषु तदवकाश इति ॥


II.469

बद्धमुक्तव्यवस्थोपपत्तिः


ननु ! परमात्मनो नित्यत्वात् जीवानामप्यन्योन्यनन्यत्वमित्येक
स्मिन् बद्धे, मुक्ते वा सर्वे बद्धाः मुक्ता वा स्युः—अयि कुतर्ककलुषितमते
कथं बोध्यमानोऽपि न बुध्यसे । घटाकाशे हि घटभङ्गात् परमाकाश
प्रतिष्ठे जाते, न पटाकाशोऽपि तथा भवति । एकस्यापि जीवात्मनः
उपाधिभेदात् सुखदुःखानुभवभेदो दृश्यते—पादे मे वेदना शिरसि मे
वेदना
इति । तीव्रतरतरणितापोपनतातनुतरक्लमस्य च यत्रैव च
शरिरावयवे शिशिरहरिचन्दन1389स्थासकमुपरचयति परिनः, तत्रैव
तद्दुःखोपरमानुभवः नान्यत्रेति, एवमेकस्मिन्नपि परमात्मनि कल्पनामात्र
प्रतिष्ठेष्वपि जीवात्मसु बद्धमुक्तव्यवस्था सिद्ध्यत्येवेति एकात्मवाद एवा
यमागमानुगुणः उपगन्तुं युक्तः, नानन्त्यमात्मनाम् ॥


ब्रह्मदर्शनमेवातः निःश्रेयसनिबन्धनम् ।

भेददर्शनमूढानां संसारविरतिः कुतः—इति ॥

ब्रह्माद्वैतवादनिराकरणम्


अत्राभिधीयते—कपटनाटकरहस्यप्रक्रियाकूर्चोपरचने तदनुगुणदृष्टा
न्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् ! प्रमाणवृत्तनिरू
पणे तु तपस्विन एव भवन्तः । तथा हि—भेदस्य प्रमाणबाधितत्वात्
किमयमभेदाभ्युपगमः भवताम्, उत स्वित् अभेदस्यैव प्रमाणसिद्धत्वा
दिति । द्वयमपि नास्ति । प्रत्यक्षादीनि हि सर्वाण्येव भेदप्रतिष्ठानि
प्रमाणानि ॥


II.470

भेदस्य प्रत्यक्षत्वम्


यत्तावत् भेदस्य परापेक्षत्वात् अक्षजज्ञानगम्यता नास्तीति—तद
युक्तम्—अभेदस्य सुतरां परापेक्षत्वात्1390 । मृत्पिण्डात्प्रभृति घटकर्पर
चूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृद्रूपताग्रहणे च सति मृदस्तदभिन्न
रूपत्वमवधार्येत, नान्यथा1391


1392भिक्षवस्त्वाचक्षते चाक्षुषं व्यावृत्तस्वलक्षणग्राहि, नाभेदविषयं,
अभेदस्य परापेक्षत्वादिति ॥


अभेदस्य भेदाधीनत्वम्


अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेत्—अयमस्मिन्ननुस्यूत
इतीयमपि परापेक्षैव1393


तदत्र भवान् भिक्षवश्च द्वावपि दुर्ग्रहोपहतौ । भेदाभेदग्रहणनिपुण
मक्षजमिति परिक्षितमेतद्विस्तरतः सामान्यचिन्तायाम् । अङ्गुलिचतु
ष्टयं हि प्रतिभासमानमितरेतरविविक्तरूपमप्यनुगतरूपमपि प्रकाशत
इत्युक्तम् ॥


व्यावृत्तिरनुवृत्तिर्वा परापेक्षाऽस्तु वस्तुषु ।

1394असङ्कीर्णस्वभावास्तु भावा भान्त्यक्षबुद्धिषु ॥

1395 II.471

प्रत्यक्षं भेदाभेदोभयविषयकम्


यदप्युक्तं आहुर्विधातृ प्रत्यक्षं, न निषेद्धृ इति—तदप्यसाधु—
विधातृ इति कोऽर्थः ? इदमपि—


वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति ।

प्रत्यक्षमिति चेत्—मैवम्—ज्ञानं तर्हि न तद्भवेत्

अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः । पीता
दिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति, नेतरथा । तथा चाह
तत् परिच्छिनत्ति, अन्यद्व्यवच्छिनत्ति इति ॥


भाववदभावमपि गृहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्मा
भिरेवैतत् । तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयं
प्रत्यक्षम् ॥


शब्दानुमानयोः भेदाबलम्बनत्वम्


शब्दानुमानयोस्तु संबन्धग्रहणाधीनस्वविषयव्यापारयोः भेदमन्त
रेण1396 स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव । विशेष
विषयत्वाभावेऽपि लिङ्गसामान्यस्य तदितरविलक्षणस्य परिच्छेदात् भेद
विषयमनुमानम् ॥


शब्दस्य तु पदात्मनः तद्वदादिवाच्यभेदरूपस्य तु परस्परोपरक्त
पदार्थपुंजस्वभावः, इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थो
विषय इति पूर्वमेव निरूपितम् । अतः सर्वथा न भेदस्य प्रमा
बाधितत्वम् ॥


नाप्यभेदग्राहि1397 किंचन प्रमाणमस्ति यथोक्तेनैव न्यायेन ॥


II.472

अभेदे न श्रुतिः प्रमाणम्


यस्तु आगमः पठितः एकमेवाद्वितीयम् नेह नानास्ति किंचन
इत्यादिः—1398तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः ॥


अर्थवादानां सर्वेषां न स्वार्थे प्रामाण्यम्


ननु ! सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः—बाढमभ्यु
पगतम् । किन्तु धूम एवाग्नेदिवा ददृशे नार्चिः इत्येवमादीनां प्रत्यक्षा
दिविरुद्धार्थाभिधायिनामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या
व्याख्यानमाश्रितम्1399 । एवमिमपि वचनं इतरप्रमाविरुद्धमर्थम
भिदधत् अन्यथा व्याख्यायते ॥


ये तु प्रमाणान्तरविरुद्धार्थानुवादिनो न भवन्ति अर्थवादाः, तेषामस्तु
स्वरूपे प्रामाण्यं वायुर्वै क्षेपिष्ठा देवता इत्येवमादीनाम् ॥


तस्मात् सुखदुःखावस्थाभेदेऽपि नावस्थातुरात्मनो भेदः, देहेन्द्रियादि
नानात्वेऽपि वा न तस्य नानात्वमित्येवं यथाकथंचिदयमर्थवादो योज
नीयः । अभेदोपदेशी तु तत्परः शब्दः विधिरूप इह नास्त्येव । एव
मागमबलादपि नाद्वैतसिद्धिः ॥


अविद्यास्वरूपाद्यनुपपत्तिः


यत्पुनः अविद्यादिभेदचोद्यमाशङ्क्याशङ्क्यपरिहृतम्—तत्राशङ्का
साधीयसी । समाधानं तु न पेशलम् । तत्त्वान्यत्वाभ्यामनिर्वचनीयेय
मविद्येति कोऽर्थः ?


II.473
अनादिना प्रबन्धेन प्रवृत्ताऽऽवरणक्षमा ।

त्नोच्छेद्याप्यविद्येयं असती कथ्यते कथम् ॥

अस्तित्वे क एनामुच्छिन्द्यादिति चेत्—कातरसन्त्रासोऽयम् । सता
मेव हि वृक्षादीनां उच्छेदो दृश्यते, नासतां शशविषाणादीनाम् । तदि
यमुच्छेद्यत्वादविद्या नित्या मा भूत्, सती तु भवत्येव ॥


नित्यं न शक्यमुच्छेत्तुं सदनित्यं तु शक्यते ।

असत्त्वमन्यत्, अन्या च पदार्थानामनित्यता ॥

अविद्या भावरूपापि


न च तत्त्वाग्रहणमात्रमविद्या, संशयविपर्ययावप्यविद्यैव । तौ
च भावस्वभावत्वात् कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नास
न्निति शक्यते वक्तुम्, अभावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासती
अविद्या ॥


असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद्भवेत् ।

सदसद्व्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥

सत्त्वे च द्वितीयाया1400 अविद्याया भावान्नाद्वैतम् ॥


जीवस्य कल्पितत्वासंभवः


यत्तु ब्रह्मणः सततप्रबुद्धत्वात् अविद्याक्षेवता नेति जीवानामविद्या
स्पदत्वमभिहितम्, अविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्त
II.474 इति च—तदपि न चतुरश्रम्—आकाशावच्छेदहेतोः घटादेर्घटमानत्वात् ।
अविद्यायास्त्वसत्त्वात् तत्कृतः परमात्मनोऽवच्छेद इति विषमो दृष्टान्तः ।
अवच्छेदकाभावाच्च जीवविभागकल्पनाऽपि निरवकाशैव ॥


अदिद्याया अनादित्वासंभवः


यच्च इतरेतराश्रयत्वं परिहर्तुमनादित्वमावेदितं अविद्यायाः—तत्र
बीजाङ्कुरवत्, वाद्यन्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात् ।
अनादिप्रबन्धप्रवृत्तत्वे सत्त्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपा
करणमुचितम् । एकात्मवादिनां तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्यात् ।
यथाऽऽह भट्टः—


स्वाभाविकीमविद्यां च नोच्छेत्तुं कश्चिदर्हति ।

विलक्षणोपपाते हि नश्येत् स्वाभाबिकं 1401क्वचित् ॥

न त्वेकात्माऽभ्युपायानां1402 हेतुरस्ति विलक्षणः

श्लो. वा. 1-1-5 संब 86 इति ॥


अविद्याया न बन्धनिवर्तकत्वसंभवः


यत्पुनः अविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतं—
तदपि क्लेशाय, नार्थसिद्धये । सर्वत्रोपायस्य स्वरूपेण सत्त्वात् । असतः
खपुष्पादेरुपायत्वाभावात् । रेखागकारादीनां तु वर्णरूपतया सत्त्वं
यद्यपि नास्ति; तथापि स्वरूपतः सत्त्वं विद्यत एव ॥


II.475

सत्यस्यैव सर्वत्र निवर्तकत्वम्


ननु ! गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशः अर्थप्रत्यायको
भवति, न चासौ तेन रूपेणास्ति—मैवम्—स्वरूपे सतोऽर्थस्य रूपान्त
रेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च, युक्ता
1403स्तु स्वरूपत एव नास्ति, न, तस्य स्वात्मना परात्मना वा
व्यवहाराङ्गता समस्ति । रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वे
नासन्नपि तत्कार्याय पर्याप्नुयात् । न त्वयम् अविद्यायां न्यायः, स्वरूपा
सत्त्वात्तस्याः ॥


सर्पादौ तु सर्पादिस्वरूपवत् तद्ज्ञानस्यापि तत्कार्यत्वमवगतम् ॥


अत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति ॥


एवं वनगुहाकुहरदेशादेष निस्सृतः केसरी सरोषमित एवाभिव
र्त्तते
इत्यसत्येऽप्युक्ते यद्भीरूणां पलायनादि, शूराणां च सोत्साहमायुधो
द्यमनादि सत्यं कार्यमुपलभ्यते, तत्र सिंहज्ञानस्य तत्कार्यत्वात् नासत
एवोपायत्वम् ॥


एतेन प्रतिबिम्बदृष्टान्तोऽपि प्रत्याख्यातः, खङ्गादेः मुखादिकालुष्य
कल्पनाकारणस्य तत्र सद्भावात् । इह तु तदभावादिति ॥


एकात्मवादे बद्धमुक्तादिव्यवस्थानुपपत्तिः


यदपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्युदाहृतम्—तदप्येवमपा
कृतम्—अवच्छेदकस्य पादादेः तत्र तात्त्विकत्वात् । इह तु भेदकल्पना
बीजमद्वैतवादिनां दुर्घटमिति बहुशः प्रदर्शितम् ॥


II.476

तदत्रायं वस्तुसङ्क्षेपः—अविद्यायामसत्यां सर्व एवायं यथोदाहृतो
व्यवहारप्रकारः तत्कृत इति नावतिष्ठते । सत्यां तु तस्यां नाद्वैत
मिति । अत एवाह सूत्रकारः ङ्ख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनु
पपत्तिभ्याम्
न्या. सू. 4-1-4 इति ॥


आत्माद्वैतवादनिराकरणोपसंहारः


यदि तावदद्वैतसिद्धौ प्रमाणमस्तिः तर्हि तदेव द्वितीयमिति नाद्वैतम् ।
अथ नास्ति प्रमाणम्, न तरामद्वैतम्, अप्रामाणिकायाः सिद्धेर
भावादिति ॥


1404मन्त्रार्थवादोत्थविकल्पमूल-

मद्वैतवाद परिहृत्य तस्मात् ।

उपेयतामेष पदार्थभेदः

प्रत्यक्षलिङ्गागमगम्यमानः ॥

शब्दाद्वैतवादनिराकरणम्


एतेन शब्दाद्वैतवदोऽपि प्रत्युक्तः—


अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।

विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः

वा. प. 1-1 इति ॥


च्यते—तत्र अनादिनिधनपदनिवेदितापूर्वापरान्तरहिता वस्तु
सत्ता नित्यत्वम्, ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य
प्रागेव निरस्तम् । निरवयवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव ॥


II.477

शब्दविवर्तवादोपन्यासः


यत्तु नित्यं व्यापि च किंचिदुच्यते, तत् शब्दतत्त्वमित्यत्र का
युक्तिः । आह—शब्दोपग्राह्यतया च शब्दतत्त्वम् ॥


तथा हि सर्वप्रत्यय उपजायमानः नानुल्लिखितशब्दः उपजायते ।
तदुल्लेखविरहिणः अनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्वि
शेषत्वात् । एवमीदृशमित्यादिपरामर्शप्रमुषितवपुषि वेदने वेदनात्म
कतैव न भवेत् ॥


सर्वप्रत्ययानां शब्दानुविद्धत्वम्


येऽपि वृद्धव्यवहारोपयोगवैधुर्यादनवाप्तशब्दार्थसंबन्धविशेषव्युत्प
त्तयः बालदारकप्रायाः प्रमातारः, तेऽऽपि नूनं यत् सत् तत् किम्
इत्यादिशब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयम् । अतः
शब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्1405 सर्वप्रत्ययानां शब्दानुविद्धं
बोधकत्वमिति सर्वं शब्दतत्त्वमित्यवधार्यताम् । वा. प. 1. 134 तदाह


न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।

अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते इति ॥

एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व
एवान्धमूकप्रायो लोकः स्यात् । आह च वा. प. 1-125


वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।

न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी इति ॥

अतः क्रमेण तावदेवं बोध्यसे, शब्दाख्यविशेषणानुवेधविशेषा
भवात् सर्वं निर्विकल्पकम् इन्द्रियजं विकल्पकं वा ज्ञानं शब्दविशिष्ट
II.478 मर्थमवद्योतयति गौः शुक्लो गच्छतीति, जातिगुणक्रियावच्छिन्नविषयाव
भासिनि प्रत्यये शब्दविशिष्ट एवार्थः स्फुरतीति बुध्यस्व ॥


अर्थानां शब्दात्मकत्वसमर्थनम्


एवं चेद्बोद्धुमवतीर्णोऽसि शब्दाख्यविशेषणानुरक्तस्य तस्य विशेष्यस्य
स्वरूपं पृष्टः शब्देनैव दर्शयसि, शब्दापरित्यागलब्धप्रकाशस्वरूपयैव
वाऽनुभूत्याऽनुभवसीति सोऽपि विशेष्यः शब्दरूप एवेति जानीहि । तदेवं
शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते ॥


इत्थमियन्तमध्वानं चेत्प्राप्तोऽपि तदधुना यदुपारूढः शब्दः प्रकाशते,
तस्य पृथक् प्रदर्शयितुमनुभवितुं चाशक्यत्वात् शब्द एव तथा तथा
प्रतिभातीति शब्दविवर्त एवायमर्थः, नान्यः कश्चिदिति प्रतिपत्तुम
र्हसि1406


यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमः, तथा शाब्देष्वपि
प्रत्ययेषु शब्दविशिष्टो वाऽर्थः प्रविभाति, शब्दो वाऽर्थारूढः, शब्द
एवार्थरूपेण विवर्तत इति गृह्यताम् ॥


अतश्च शब्दब्रह्मेदमेकम् अविद्योपाधिदर्शितविचित्रभेदम्, अवि
द्योपरमे यथावस्थितस्वरूपं प्रकाशत इति युक्तम् ॥


शब्दविवर्तवादनिरासः


अत्राभिधीयते—न खलु1407 प्रकारत्रयमपीदमुपपद्यते, पदपदार्थसंबन्ध
व्युत्पत्तिविरहिणाम् अनवाप्तशब्दयोजनावैरूप्यस्वरूपमात्रप्रतिष्ठ
II.479 विशुद्धवस्तुग्रहणप्रवणेन्द्रियजप्रत्ययदर्शनात् । वृद्धव्यवहारपरिचयाधि
गतशब्दार्थसंबन्धसंस्कृतधियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथ
मोदभूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात् । यत्र हि वस्तुनि निविश
मानः शब्दः शब्दविद्व्यवहारेषु योऽवधृतस्तद्दर्शने तत्संस्कारप्रबोधात् स
हि स्मृतिपथमेति, नान्यथेति ॥


प्रत्ययानां न शब्दानुविद्धत्वम्


सामान्यशब्देष्वपि यत् तत् किं इत्यादिषु विशेषशब्देष्विव
सैव वार्ता । तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनविहारि विहङ्ग
कूजितादिवदर्थप्रतीतिहेतुत्वानुपपत्तेः ॥


सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं मेचकगुणखचित
मिव कुवलयमवलोकयति लोक इति विस्तरशः प्रत्यक्षलक्षणे परीक्षित
मेतत् । आह च श्लो. वा. प्रत्यक्ष. 172


न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते ।

प्राक्शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी इति ॥

अर्थेन साकं शब्दभानासंभवः


संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिसधिरोहति, न तद्वि ।
शिष्टोऽर्थः । तस्य हि न नेत्रेण, न श्रोत्रेण, नोभाभ्यां, न केवलं मनसा
वा ग्रहणमुपपद्यते, अतिप्रसङ्गात् । शब्दो हि अनेकधर्मके धर्मिणि एक
1408 II.480 तरधर्मावधारणाभ्युपायो भवति । न तत्रात्मानमारोपयति । न हि
दीपेन्द्रियप्रभृतयः प्रतीत्युपायाः तदुपेये रूपादावात्मानमारोपयन्ति ।
अत एव तदुपायत्वभ्रमकृतस्तदभेदवादोऽपि न युक्तः ॥


न ह्युपायादभिन्नत्वं तदुपेयस्य युज्यते ।

रूपस्य न ह्यभिन्नत्वं दीपाद्वा चक्षुषोऽपि वा ॥

अर्थस्य शब्दविवर्तत्वाभावः


अपि च—यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव, कोऽध्यासार्थः ?
अभेदेऽपि शब्दमयमेव विश्वमिति, तत्रापि कोऽध्यासार्थः ? अध्यास
भ्रमस्तु वैयाकरणानां 1409एकाकारनिर्देशदोषनिर्मितः । यथाऽऽह श्लो. वा.
प्रत्यक्ष 182


गौरित्येव हि निर्देशः 1410वाच्यस्तद्बुद्धिवाचिनाम्

इतिकस्त्वया दृष्टोऽर्थः इति पृष्टो वक्ति गौः इति
कीदृशं ते ज्ञानमुत्पन्नम्—गौः इति । कीदृशं शब्दं प्रयुक्तवानसि—
गौः इति । तत एषा भ्रान्तिः । वस्तुतस्तु विविक्ता एवैते शब्द
ज्ञानार्थाः । तदुक्तम् श्लो. वा. प्रत्यक्ष. 185


गवि सास्नादिसद्रूपा गादिरूपाभिधायके ।

1411निराकारोभयज्ञाने संवित्तिः परमार्थतः इति ॥

II.481

नानार्थकस्थले शब्दार्थयोरभेदासंभवः


एवं इन्द्रियजेष्विव शाब्देष्वपि प्रत्ययेषु न शब्दस्वरूपमध्यस्यतीति
युक्तम् । यदि च शब्दः स्वरूपेणार्थं प्रतिपादयति, तदा अक्षशब्दस्यै
क्यात् देवन1412विभीतकरथाक्षेषु तुल्या प्रतीतिः स्यात् । न चाक्षशब्दाः1413
भिन्ना इति वक्तव्यम्, स्वरूपप्रत्यभिज्ञानानपायात् । तदुच्चारणे
चार्थत्रव्यां संशयदर्शनात् ॥


भवतिशब्दयोश्च सुप्तिङन्तयोः तुल्यरूपत्वात् । अध्यासपक्षे तुल्या
र्थप्रतीतिहेतुत्वं प्राप्नोति । तथा च 1414सिद्धसाध्यबुद्धिः संवेद्यमानाऽपि
निह्नूयेत । एवमगादित्यश्व इति, अजावय इत्यादावपि द्रष्टव्यम् ॥


शब्दे अर्थाध्यासः विरुद्धश्च


शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमाणायां यजेत
दद्यात् जुहुयात् इत्यादौ न क्वचित् साध्यबुद्धिर्भवेत्, सिद्धाध्या
सेन साध्यबुद्धेरननुरूपत्वात्1415


जातिगुणक्रियाशब्दाश्च गौः शुक्लो गच्छतीत्यादयः केन कारणेन
नियतमध्यासमनुरुन्धत इति नावगच्छामः । शब्दस्यार्थानपेक्षनिसर्ग
सिद्धवैश्वरूप्यकल्पनाबीजाभावात् । प्रतिनियतशब्दवृत्तेश्च कस्यचि
II.482 ल्लक्षणस्यानुपलक्षणात् । वृक्षप्लक्षशब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदा
विशेषात्, अर्थानपेक्षित्वाच्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दा
ध्यासवादिनो न भवेताम् । न ह्येकत्र वस्तुनि वाच्ये क्वचिदनयोः शब्द
योर्वृत्तिः ॥


एतेन नीलोत्पलमपि प्रत्याख्यातम् ॥


शब्दविवर्तवादे सामानाधिकरण्यासंभवः


तत्रैतत्स्यात्—न नीलगुणविशेषितमिदं उत्पलं नाम किंचिदस्ति
विशेष्यम्, अपि तु तत् निरस्तावयवार्थं अश्वकर्णादिवत् 1416अर्थान्तर
मेवेदं; व्युत्पत्तिप्रकारमात्रं तु विशेषणविशेष्यभाववर्णनमिति—तदेतद
समीचीनम्—अनुभूयमानावयवार्थप्रतीतिनिह्नवनिर्मित्तानुपलम्भात् ।
अश्वकर्णादौ हि युक्तमर्थान्तरत्वं; तत्र हि नाश्वार्थः, न कर्णार्थः ।
निरवयववाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन ॥


शब्दविवर्तवादे पर्यायपदानां सामानाधिरकरण्यं स्यात्


अथ शब्दद्वयाध्यासमात्रनिबन्धनमेव सामानाधिकरण्यं वृक्षः
प्लक्षः इत्युच्यते—तदपि न चारु—वृक्षस्तरुरितिपर्याययोरपि तत्संभवे
सति सामानाधिकरण्यप्रसङ्गात् ॥


अपि च पर्यायेषु हस्तः करः पाणिः इत्यादिषु शब्दरूपभेदा
ध्यासपक्षे अर्थबुद्धिभेदः प्राप्नोति । न चासावस्तीति नाध्यासः ॥


किंच संबन्धग्रहणनिरपेक्षोऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः
स्वाध्यासेन बुद्धिं विदध्यात् । तदपेक्षायां वा कस्य केन संबन्ध इति न
II.483 बुध्यामहे—शब्दादर्थस्य पृथग्व्यवस्थितात्मनः त्वन्मते दुर्लभत्वात् ।
शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरेण ? विर
म्यताम् अतो मृगतृष्णानुसरणरणिकात् ॥


शब्दे अर्थाध्यासासंभवः


अपि चाध्यासः क्वचित्सादृश्याद्भवति, शुक्ताविव रजतस्य ।
क्वचि1417दनुरागाद्भवति, लाक्षाया इव स्फटिके । शब्दार्थयोर्मूर्तामूर्ततया
ऽतिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपपन्नम् । अनुरागोऽपि तत एव
दुर्घटः, पृथग्देशत्वात्, भिन्नेन्द्रियग्राह्यत्वाच्च ॥


शब्दार्थयोर्बिम्बप्रतिबिम्बभावासंभवः


प्रतिबिम्बवर्णनमपि न सुन्दरम्, दूरदेशत्वेन शब्दार्थयोः प्राप्त्य
भावात् । अप्राप्तयोश्च प्रतिबिम्बे द्वारकोद्याननिवासिवासुदेवसुन्दरी
वदनतामरसानि सागरतरङ्गपवनपरिचयचलदलकलतिकालांच्छितानि
स्वच्छेषु ज्योत्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्प
णेषु प्रतिबिम्बितानि दृश्येरन् ॥


अथ1418 सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्द
सार्थसाधारण्यात् अत्यन्तमध्याससाङ्कर्यम् अनवधार्यमाणविशेषनियम
कारणमापद्यत इत्यलमतिप्रसङ्गेन । सर्वथा न संबद्धः शब्दाध्या
सवादः ॥


II.484

विवर्तवाद एवासमर्थनीयः


विवर्तवादोऽपि न समंजसः । तथा हि—1419विवर्ततेऽर्थभावेन इति
कोऽर्थः ? न तावदर्थात्मना शब्दः परिणाममुपयाति, क्षीरमिव दधि
रूपेण, परिणामित्वेन विकारितया वा क्षीरादेरिवानित्यत्वप्रसङ्गात् ।
तथाभावेऽपि च नाद्वैतसिद्धिः दध्न इव क्षीरविकारस्य, शब्दविकार
स्यार्थस्य ततोऽन्यत्वात् । अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविर
प्रतीतिसमर्पितभेदत्वात् ॥


अर्थप्रतिभासस्यायथार्थत्वपक्षनिरासः


अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विव
र्तोऽर्थः, सोऽपि न युक्तः । बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेः,
वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात् । अवयवव्यादे
श्चादूर एवाग्रे समर्थयिष्यमाणत्वात् । न चेन्द्रजालमायादिवदयथार्थ
तायामिह किमपि कारणमुत्पश्यामः ॥


अर्थानां मिथ्यात्वपक्षनिरासः


अथार्थरूपेण शब्दः शुक्तिरिव रजताकारतयाऽवभासत इतीयं
विवर्तवाचो युक्तिः—इयमपि न साधीयसी—शुक्तिका हि रजतव
त्प्रकाशत इति शक्यं वक्तुम्, शुक्तेराकारसारूप्येण तथाऽवभाससम्भ
वात् । इह तु शब्दार्थयोरत्यन्तविसदृशवपुषोराकारसमारोपकारणान
वधारणात् कथमितररूपेणेतरस्यावभासः । शुक्तिकारजतादिषु च
II.485 बाधकवशात् तथात्वमवगतम् । इह तु न बाधकं किंचिद्भवति,
भविष्यति वेति वर्णितम् ॥


शब्दानुवेधोऽपि न साधीयः


अथ स्वानुवेधमजहत् सत्यामसत्यां वाऽर्थबुद्धिमादधाति शब्द
-त्ययं विवर्तार्थः—एषोऽपि संप्रत्येव प्रतिक्षिप्तः । शब्दानुवेधविरहि
णीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात् । न चान्यः कश्चिद्विपश्चि
च्चेतसि विर्तते विवर्तप्रकारः इत्यवाचकमुच्यते—विवर्ततेऽर्थभावेन
इति ॥


शब्दस्य जगत्स्रष्टृत्वनिरासः


अथ शब्दब्रह्मैव सृजति जगदित्ययं विवर्तप्रकार उच्यते—सोऽपि
न सम्यक्—अचेतनत्वेन शब्दस्य ईश्वरस्येव स्रष्टृत्वानुपपत्तेः । न च
परमाणुवदस्य कारणत्वम्, अवयवसमवायित्वेन1420 पृथिव्यादेः कार्यस्य
ग्रहणात् ॥


अथ विज्ञानमानन्दं ब्रह्म इत्यागमवचनमनुसरता विभुत्वमिव
चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते—तर्हि ईश्वरस्यैव शब्दब्रह्मेति नाम कृतं
स्यात् ॥


ब्रह्मद्वैविध्यनिरासः


यदप्युच्यते—

द्वे ब्रह्मणी वेदितव्ये 1421शब्दब्रह्म, परं च यत् ।

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

II.486 इति—तदापि ब्रह्म 1422सुभिक्षमत्यन्तमलौकिकम् । एकतरस्य ब्रह्मणः
काल्पनिकत्वात् । अकाल्पनिकत्वे वा कथमद्वैतवादः1423 । तस्मात् कृत
मनेन शब्दब्रह्मणा । स्वस्ति परस्मै ब्रह्मणे भूयात् ॥


अविद्यामायाविनिर्मितविविधभेदप्रथनकल्पश्च सत्ताद्वैतदूषणावसर
एव निवारित इति शब्दाद्वैतमपि तद्बदसमंजसमिति सिद्धम् ॥


जगतः ब्रह्मोपादानत्वनिरासः


एतेन 1424परमात्मोपादानत्वमपि प्रत्युक्तम् । परमात्मनो निसर्ग
निर्मलस्य एवंप्रायकलुषविकारकारणत्वानुपपत्तेः ॥


असत्यमेव विकारजातं अविद्यातः परमात्मनि विभातीत्येतदपि
दूषितम् । अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ॥


ऐकात्म्यवादेऽनुपपत्तयः


अथ सर्वप्राणिनामेक एवात्मा, न नानात्मानः—इतीदृशमुच्यते—
तदप्यप्रमाणकम्—एकस्मिन् सुखिनि न सर्वे सुखिनः, एकस्मिन् दुःखिते
न सर्वे दुःखिताः इति व्यवस्थादर्शनात् । आत्मपरव्यवहारस्य च सर्व
जनप्रतीतिसिद्धस्य दुरपह्नवत्वात् । अन्यदृष्टे च सुखदुःखसाधने वस्तुनि
स्मरणानुसन्धानपूर्वकेच्छाद्वेषादिकार्यजातस्यान्यत्रानुपलम्भात् । एक
स्मिंश्च वीतरागे मोक्षमासादितवति संसारिणामन्येषामानन्त्यदर्शनात् ॥


II.487

अहंप्रत्ययस्य प्रत्यगात्मवृत्तेः 1425परत्रासम्भवात् । जगद्वैचित्र्यस्य
च पुरुषभेदनियतधर्मनिबन्धनस्यान्यथानुपपत्तेः । आत्मभेदस्य विस्पष्ट
सिद्धत्वात् ॥


तप्तलोहस्फुलिङ्कघटाकाश पादवेदनादिदृष्टान्तकदम्बकस्य च निषेधः
कृत एवेति एकात्मवादोऽपि न युक्तिमानित्यलं विस्तरेण ॥


शब्दविवर्तवादोपसंहारः


शब्दस्यायं विवर्तः कथमखिलमिति प्रस्फुरत्तद्विविक्त-

स्वाकारोऽर्थप्रपंचः कथमिव विकृतिः ब्रह्मणो वेदृशी स्यात् ।

तस्मान्नानात्मतत्त्वो1426 परिचितसदसत्कर्मपाकानुसार-

प्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो भूतसर्गः ॥

विज्ञानाद्वैतवादः


एवं स्थितेषु सर्वेषु तूष्णीमद्वैतवादिषु ।

विद्वानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते ॥

सत्यमनुपजननमनपायमपरिमितमद्वयं ब्रह्म न युक्तिमदिति युक्त
एव तदनभ्युपगमः । विज्ञानमेव तु क्षणिकं उपजननापायधर्मकं अनादि
सन्तानप्रबन्धप्रवृतमिदं तथा तथाऽवभातीति न ततोऽद्वितीयमर्थरूपं नाम
किंचिदस्तीति पश्यामः ॥


II.488

विज्ञानाद्वैतसमर्थनम्


ननु ! प्रत्यक्षादिना प्रमाणेन परस्परविसदृशपदार्थस्वरूपसंवेदनस्य
दर्शितत्वात् कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः ।
ग्राह्यग्रहणं हि नाम विज्ञानं भवति, 1427ग्रहणग्रहणमिति ॥


उच्यते—इदं तावत्परीक्ष्यताम् । यदेतत् प्रत्यक्षविज्ञानं नीलमिदम्
पीतमिदम् इत्युत्पद्यते, तत्र किमेक आकारः प्रकाशते, उत द्वितय
मिति ॥


आकारद्वयानुपलंभः


यदि द्वितयमवभाति अयमर्थो नीलम्, इदं तज्ज्ञानमिति, तत्
किमत्र विचार्यते, जितं भवद्भिः । जितस्य यदापद्यते तदस्मासु
विधीयताम्1428


अथ एक एवायमाकारः प्रथते, तर्ह्यस्ति विचारावसरः । कस्या
यमाकारः, किमर्थस्य, किं ज्ञानस्येति । स चैवं विचार्यमाण आकारः
यद्यर्थस्येति तद्भवन्तो जेष्यन्ति । ज्ञानाकारपक्षे तु वयं जेष्याम
इति ॥


ज्ञानस्यावर्जनीयत्वम्


किं तावदत्र युक्तम् । ज्ञानस्यायमाकार इति । कुतः ? कल्पना
तावदिहाल्पीयसीति । अर्थाकारपक्षे हि अर्थस्य जडात्मनः प्रकाशा
II.489 योगात् ग्राह्यत्व1429मन्यथा न स्यादिति ग्राहकान्तरकल्पनाऽवश्यंभाविनीति
कल्पना1430द्वैगुण्यम् ॥


अथार्थ एव ग्राह्यात्मा यः, स एव ग्राहक इति—कथ्यते, स तर्हि
प्रकाश1431 एवेति संज्ञायामेव विवादः स्यात् । बाह्याभ्यन्तरकृतो विशेषं
इति चेत्, अहो विशेषज्ञो देवानांप्रियः । ग्राहकाद्विच्छिन्नता हि
ग्राह्यस्य बाह्यता । न शरीरापेक्षिणो बाह्यता भवति । यदा च ग्राह्या
दर्थात् अव्यतिरिक्त एव ग्राहक इष्यते, तदाऽस्य न ततो विच्छिन्नतेति
अबाह्यत्वात् ज्ञानमेव तदिति कथं न नाम्नि विवादः ॥


उभयसिद्धत्वात् ज्ञानस्य तस्यायमाकारी भवितुमर्हति । ज्ञाने हि
न केचन विवदन्ते । अतस्तस्यैवायमाकार इति युक्तमनेककल्पनातो
ह्येकार्थकल्पना ज्यायसीति ॥


ज्ञानस्यावश्यकत्वे हेत्वन्तरम्


अतश्च ज्ञानस्यायमाकारः । ज्ञानं हि प्रकाशकम् अप्रकाशस्या
र्थस्य भवद्भिरभ्युपगम्यते । ततश्च अर्थात् प्रथमतरमस्य ग्रहणेन भवि
तव्यम् । अगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात् । उत्प
न्नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद्वा, प्रतिबन्धवैधुर्याद्वा भवत्यग्रह
णम् । ज्ञानस्य तूत्पन्नस्य सतः न किंचिद्ग्रहणे प्रतिबन्धकः । न च
प्रकाशकान्तरापेक्षणम्, स्वत एव दीपवत् प्रकाशस्वभावत्वात्1432
II.490 अतः यदैव तस्योत्पादः, तदैव ग्रहणमवश्यं भवेत् । न चेत् कालान्तरेऽपि
न स्यात् ॥


ज्ञानस्य स्वप्रकाशत्वम्


किं हि तस्य कालान्तरे भविष्यति, किं वा तदा नाभूत्; येन
तत् कालान्तरे ग्रहीष्यते, तदा च न गृह्यत इति । ज्ञानान्तरेण कालान्तरे
तद्ग्रहीष्यत इति चेत्, तदपि केन ग्राहीष्यते ? अन्येनेति चेत्, तदप्यन्ये
नेति कोऽवधिः ? श्रम इति चेत्, कामं श्रान्तो विरंस्यति भावन्, अर्थं तु
न गृहीतवानेव, प्रकाशाग्रहणे तत्प्रकाश्यपरिच्छेदायोगादित्येवं न कदा
चिदर्थग्रहणं स्यात् । तस्मादर्थग्रहणवादिनापि पूर्वं ज्ञानग्रहणमवश्या
श्रयणीयम् । यथोक्तं—


1433अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति इति ॥

प्रथमं ज्ञानस्यैव भानम्


अतश्चैतदेवम्—ज्ञानपृष्ठेन चोत्तरकालभाविप्रत्यवमर्शदर्शनात् ।
ज्ञातो मयाऽयमर्थः इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहण
मनुमोदन्ते । न ह्यगृहीतविशेषणा विशेष्यबुद्धिर्भवति । तस्मादपि पूर्वं
ज्ञानग्रहणमिति सिद्धम् ॥


ज्ञानं च गृह्यमाणं आकाररहितं ग्रहीतुमशक्यमिति बलात् साकार
मेव तत् ग्रहीतव्यम् । साकारे च ज्ञाने गृहीते सति1434 द्वितीयकारणा
भावात् कुतो ज्ञानातिरिक्तो बाह्योऽर्थः ?


II.491

ज्ञानस्य विषयसंबन्धात्साकारत्वम्


इतश्च साकारं ज्ञानम्, आकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानु
पपत्तेः । कल्पयित्वाऽपि बाह्यमर्थम् अवश्यमाकारवत्ता विज्ञानस्य
विषयनियमसिद्धये वक्तव्या । नीलज्ञानं हीदं अनेकसन्निधाने समुप
जायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलालम्बनतामव
लम्बेत ? बोधस्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् । प्रवृत्तिरपि
प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात् । न च नीलजनितत्वकृ
एष तदधिगमनियम इति कथयितुमुचितम्, आलोकलोचनादिकारकान्त
रजनितत्वस्यापि भावेन तद्विषयत्वप्रसङ्गात् । अतो 1435नीलाकारतैव
नीलविषयत्वव्यवस्थाहेतुः न निमित्तान्तरम् । आह च—


तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।

भाव्यतेऽनात्मना1436 येन प्रतिकर्म विभज्यते इति ॥

ज्ञानस्यैव प्रमाणत्वं फलत्वं च


अत एव आकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साध
कतमं ज्ञानमेव प्रमाणं भविष्यति । अपरथा कारकातिशयदर्शनाभावे
तत्तत्साधकतमत्वस्य दुरुपपादत्वात् । साकारज्ञानसाक्षी च लौकिकोऽपि
दृश्यते व्यवहारः । एवं च वक्तारो भवन्ति लौकिकाः, नीलोऽर्थोऽयं,
यतोऽत्र तदाकारं ज्ञानमुत्पन्नम्
, इति । तेन प्रतिकर्मनियमान्यथानु
पपत्तेः अवश्यं 1437साकारमेव ज्ञानम् ॥


II.492
इत्थं सत्यपि बाह्येऽर्थे ज्ञानस्याकारकल्पना ।

भवेदेवेति तत्रैव सन्तुष्य स्थीयतां वरम् ॥

विज्ञानवादिन सौंत्रान्तिकखण्डनम्


ये तु ब्रुवन्ते—ज्ञानस्य स्वतः स्वच्छत्वभावत्वेन नीलपीताद्यव
भासः परोपाधिरेव भवितुमर्हति, स्फटिकस्येव लाक्षादिनाऽरुणिमाद्यनु
वेधः । अतः पृथगननुभूयमानोऽपि बाह्योऽर्थः साकारज्ञानावभासा
न्यथाऽनुपपत्त्याऽनुमीयते । यथोकतं—बाह्यसिद्धिः स्याद्व्यतिरेकतः
1438इति ॥


तदिदमनुपपन्नम्—अन्वयानुपलब्धेः—


अर्थे हि सति साकारं निराकारं तदत्यये ।

नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥

लाक्षास्फटिकादौ तु तथा युक्तम्, तदनुरक्तस्फटिकशकलावलो
कनात् । इह पुनः—


अर्थेन रज्यमानं हि निराकारं निसर्गतः ।

ज्ञानं न खलु पश्यामः लाक्षया स्फटिकं यथा ॥

आकारद्वयं तु अनुभवविरुद्धम्


आकारद्वयप्रतिभासो हि नास्तीत्युक्तम् । अभ्युपगमे वा सुदुस्त
रमनवस्थादूषणम् । अर्थाकारश्च प्रत्यक्षः, तत्कृतश्च ज्ञानाकारः प्रत्यक्षः
II.493 इत्युच्यमाने, अर्थाकारस्तावत् साकारेण ज्ञानेन गृहीतः । स इदानीं
ज्ञानाकारोऽपि ग्राह्यत्वात् साकारज्ञानान्तरं भवेत् । तदपि साकारं
ज्ञानान्तरं तथाभूतज्ञानान्तरग्राह्यमेव स्यादित्यनिष्टम् ॥


अथ स्वप्रकाशं तत् साकारं ज्ञानमिष्यते, तेन ज्ञानान्तरानपे
क्षणात् नानवस्थेति; तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारान
वभासात् तदेवास्तु, कुतो द्वितीय इदानीमर्थाकारः ॥


विषयमिथ्यात्वेऽपि ज्ञानस्याकारसंभवः


न चान्यथानुपपत्त्या1439ऽपि तत्कल्पना युक्तिमती । न हि राज
शासनमिदं अर्थेनाकारवता भवितव्यमिति । ज्ञानमेव नीलाद्याकारं यदि
भवेत् को दोषः स्यादिति । नीलाद्याकारयोगात् अर्थस्स भवेदिति चेत्,
संज्ञायां विवाद इत्युक्तम् । द्वितीयस्याभावात् स्वच्छत्वात् ज्ञानस्य
कालुष्यमन्यकृतं युक्तमिति चेत्, अविद्यावासनाकृतं तद्भविष्यति । स्वतः
स्वच्छमपि ज्ञानमनाद्यविद्यावासनाविभवोपनतमनेकाकारकालुष्यरूषित
वपुरिव प्रकाशते ॥


ज्ञानवासनाभेदसन्तानयोश्च बीजाङ्कुरवदनादित्वान्नात्र पर्यनुयोग
स्यावसरः—कुतो वासना प्रवृत्ता इति । तस्मादनादिवासनावैचित्र्य
रचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्येनार्थेनेति ज्ञानस्यैवाय
माकार इति सिद्धम् ॥


ज्ञानातिरिक्तार्थनिराकरणम्


अतश्च ज्ञानस्यैवायमाकारः, ज्ञानेन विना हि न क्वचिदर्थरूपमुप
लभ्यते । ज्ञानं त्वर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुप
II.494 लभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः । यदि च
ज्ञानादर्थः पृथगवस्थितात्मा भवेत्, ज्ञानमन्तरेणाप्यसावुपलभ्येत; न
चैवमस्ति । तस्मादभेद एव ज्ञानार्थयोः । यदाह—


सहोपलम्भानियमादभेदो नीलतद्धियोः इति ॥

आकारस्य ज्ञानार्थमेलनकृतत्वनिरासः


न च 1440ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति । यदि हि पृथगर्थ
मनाकारं, पृथक्च ज्ञानमानाकार उपलभ्य, संसृष्टयोर्ज्ञानयोराकारवत्ता
मुपलभेमहि, तत इममाकारं संसर्गधर्मं प्रतिपद्येमहि । न त्वयमस्ति
क्रमः । अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्यु
क्तम् । अतः कथं संसर्गधर्म आकारः ?


अर्थाकाराणां कल्पितत्वमावश्यकम्


अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्ध
लिङ्गसमावेशः ? ॥


परिव्राजककामुककौलेयकानां च कथमेक एव वनितारूपोऽर्थः कुणप
इति कामिनीति भक्ष्यम् इति च प्रतिभासत्रितयविषयतामनुभवेत् ? ॥


दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां
यायात् ? ॥


षण्णगरिति च कथं बहनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च
भवेत् ? ॥


II.495

1441ह्रस्वदीर्घयोश्च कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पार
मार्थिकः स्यात् ? ॥


ज्ञानानां तु भिन्नत्वात् विचित्रवासनाभेदसहकारिरूपानुविधानेन
जायमानानां न किंचिदपि विरोधः ॥


तस्मात् ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति, न तद्व्यतिरिक्तो
ऽर्थो नाम किंचिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः
परिसमाप्यते । तस्य हि विषयाकारता प्रमेयम्, ग्राहकाकारता प्रामा
णम्, स्वसंवित्तिश्च1442 फलमिति । यथोक्तम्—


यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ।

ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम् इति ॥

तदिदं अनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव
ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते । अविद्याविरतौ तु स्वच्छमेव तत्सं
पद्यते, न किंचिद्वेति ॥


तदुक्तम्—


'नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः ।

ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥

तथा—


अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।

ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥

II.496
इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् ।

परिहृत्य दुःखसन्ततिं अभयं निर्वाणमाप्नोति ॥

विज्ञानाद्वैतनिरासः


अत्राभिधीयते—न खल्वेक एव बोधात्मा ग्राह्यग्राहकतयोभय
स्वभावो भवितुमर्हति । ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेन एकत्र
समावेशानुपपत्तेः । तथा हि—नीलज्ञानम्, पीतज्ञानम्, शुक्लज्ञानमिति
नीलपीताद्युपजननापायेऽप्यनुवर्तमानबोधरूपतया नीलादिविलक्षणमन्व
व्यतिरेकाभ्यामवधार्यते ॥


अपि च ज्ञानम् अहंकारास्पदम् आनन्दादिस्वभावं 1443स्वकर्मणि च
सव्यापारमिव भवद्भिरभ्युपगतम् । अर्थस्तु नैवमात्मक इति कथमन
योरभेदः ॥


प्रतीयमानः आकारः अर्थस्यैव


यद्यपि ज्ञानमिदम्, अयमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति,
1444तथाप्ययमेकोऽप्याकारः प्रतिभासमानः प्रकाश्य एव प्रतिभाति, न
प्रकाशकः । इदं नीलमिति ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते,
न त्वहं नीलमिति तदैक्येनावभासोऽस्ति इति ॥


II.497

अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रह
णम् । बोधस्य तु तद्ग्राहकस्य तदा किंकृतं ग्रहणमिति चिन्त्यम् । न
बोधान्तरनिबन्धनम्, अनवस्थाप्रसङ्गात् । नापि स्वप्रकाशं ज्ञानम्, अहं
नीलमित्यप्रतिभासात् ॥


अर्थस्य प्रकाशसंभवाक्षेपः


ननु ! नैव ग्राह्यग्राहकयोरन्यत्वमिति । योऽयं ग्राह्यावभास इति
भवताऽभ्युपगतः, स एव ग्राहकावभासः । ग्राहकादन्योऽहि ग्राह्यः
जडात्मा1445 भवेत् । ग्राहकस्तु प्रकाशस्वभावः, ग्राहकत्वादेव । द्वय
प्रतिभासश्च नास्तीत्युक्तम् । तत्रान्यतरस्य प्रतिभासने जडप्रकाशयोः
कतरस्यावभासितुं युक्तमिति चिन्तायां, बलात् प्रकाश एव प्रकाशते, न
जडः । निराकारश्च न प्रकाशः प्रकाशत इति तस्मिन् साकारे प्रकाश्य
माने कुतो जडात्मा तदतिरिक्तोऽर्थः स्यात् ॥


अर्थप्रकाशे ज्ञानप्रकाशासंभवप्रदर्शनम्


तदिदमपेशलम्—उपायेनोपेयनिह्नवस्याशक्यकरणीयत्वात् । रूपस्य
हि प्रकाशकं चक्षुः । न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपह्नोतुं
शक्यते । तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनः तद्वि
परीतस्वच्छस्वभावं ज्ञानं प्रकाशकम्, न तदेव चक्षुर्वत् तदाऽवभासितु
मर्हति च ॥


ज्ञानानवभासेऽपि अर्थप्रकाशसंभवः


ननु ! चक्षुर्वत् उपायत्वं ज्ञानस्य प्रकाशस्वभावत्वात् । चक्षु
र्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते, न चागृहीतः प्रकाशः प्रकाश्यं
II.498 प्रकाशयतीति—सत्यम्—वक्षुर्जन्यः प्रकाशः ज्ञानमिष्यते । स तु प्रकाशः
रूपादिविषयप्रकाशः, न प्रकाशप्रकाशः । न हि चक्षुषा प्रकाशः
प्रकाश्यते, अपि तु रूपं प्रकाश्यते । तत्र यद्रूपमुच्यते, स विषयो ग्राह्यः;
यत्तत्प्रकाशते इत्युच्यते, स प्रकाशः ज्ञानं ग्राहकम् । 1446तदुत्पत्तिमात्रेण
च रूपं प्रकाशितं भवतीति न प्रकाशो ग्रहणमपेक्षते ॥


ज्ञानप्रकाशे बाह्यविषयानवभासप्रसङ्गः


ननु ! उक्तमत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते—


अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति

इति—तदयुक्तम्—अप्रत्यक्षोपलम्भस्य च प्रत्युत अर्थदृष्टिः प्रसि
द्ध्यति । उपलम्भोत्पाद एव अर्थदृष्टिः, न पुनरुपलम्भदृष्टिः ॥


ननु ! उपलब्धेरग्रहणे तदुत्पादनुत्पादयोः अविशेषात्, अनुत्पन्नोप
लम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वसर्वज्ञत्वप्रसङ्गः—तदिदमतिसुभाषि
तम्—अर्थप्रकाशात्मैव खलूपलम्भः । स कथमुत्पन्नादनुत्पन्नो न
विशिष्येत । तस्मात् अर्थप्रत्यक्षीकरणात्मकत्वात् ज्ञानस्य तदुत्पाद
एवार्थप्रत्यक्षता, न तद्ग्रहणमिति अगृहीतमेव ज्ञानमर्थप्रकाशकमिति
युक्तमं ॥


ज्ञानाग्रहण एवार्थग्रहणम्


यत्तु उपायत्वात् ज्ञानस्य पूर्वं ग्रहणमुच्यते—तत्, चक्षुरादिभिरनै
कान्तिकमित्युक्तम् ॥


II.499
गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् ।

धूमवद्दीपवद्वेति वक्तव्यं, यदि धूमवत् ॥

भवेदर्थानुमेयत्वं तत्त्वयैव च दूषितम् ।

आकारद्वयसंवित्तिविरहान्न च दीपवत् ॥

घटं दीपेन पश्यामीत्यस्ति द्वितयवेदनम् ।

न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥

स्वप्रकावस्त्वसंभवः


यदपि प्रकाशत्वात् ज्ञानस्य प्रदीपवत् पूर्वं ग्रहणमुक्तम्—तदपि
व्याख्येयम्—प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशः, तस्य
भावः प्रकाशत्वमिति—तत् चक्षुरादिभिरनैकान्तिकमुक्तमेव ॥


अथ प्रकाशनं प्रकाशः, तर्हि प्रकाशत्वादिति असिद्धो हेतुः । न ह्यर्थ
ग्रहणकाले बुद्धेः प्रकाशनमस्ति ॥


अथ प्रकाशशब्दो बोधपर्याय एव । प्रकाशत्वात् बोधरूपत्वा
दित्यर्थः, तदा साधनविकलो दृष्टान्तः, प्रदीपस्य बोधरूपत्वा
भावात्1447 । अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः, स्वतः प्रकाशस्य कस्य
चिदप्यदृष्टत्वात् ॥


स्वप्रकाशपदार्थस्वरूपम्


ननु ! ज्ञानशब्ददीपाः त्रयः स्वपरप्रकाशा इत्याहुः—तदयुक्तम्—
शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामग्र्यन्तरसव्यपेक्षत्वात् । शब्दः
II.500 अर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने तु श्रोत्रम् । दीपोऽपि
चक्षुराद्यपेक्ष एव गृह्यते, ग्राहयति चार्थम् ॥


इयांस्तु विशेषः—घटादिग्रहणे आलोकसापेक्षं चक्षुः प्रवर्तते ।
आलोकग्रहणे तु निरपेक्षमिति । नैतावता दीपस्य स्वप्रकाशता स्यात् ।
1448इत्थं च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः
स्युः ॥


ज्ञानस्य परप्रकाशकत्वमेव दृश्यते, न स्वप्रकाशकत्वम्, अर्थ
प्रकाशकाले तदप्रकाशस्य दर्शितत्वात् ॥


मुधैव नस्माद्भणितस्त एते

त्रयः प्रकाशाः स्वपरप्रकाशाः ।

प्रदीपबोधध्वनिनामधेयाः

विभिन्नसामग्र्यभिवेद्यवेदकाः

आत्मप्रत्यक्षवादिनां तु1449 अवस्थाभेदेन ग्राह्यग्राहकांशयोर्भेदो विद्यत
एवेति सर्वथा न स्वप्रकाशं ज्ञानम् ॥


अर्थग्रहणवेलायां न ज्ञानग्रहणसंभवः


यदप्यभिहितं—उत्पद्यमानमेव ज्ञानं अनपेक्षत्वात्, अप्रतिबन्धत्वाच्च
तदैव गृह्यते, न वा कदाचिदिति—तदप्यसांप्रतम्—तदानीं तद्ग्रहण
सामग्र्यभावात् ॥


II.501
न चा1450विबन्धमात्रेण प्रतीतिरवकल्पते

उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ॥

न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे । ज्ञातो मया
ऽयमर्थः
इति कालान्तरे1451 तद्विशिष्टार्थग्रहणदर्शनात् ॥


शुक्लः पट इति ज्ञाने यथाऽसौ भाति तद्गुणः ।

तथा ज्ञातोऽर्थ इत्यत्र भात्यर्थो धीविशेषणः ॥

न विशेष्ये च संवित्तिः अगृहीतविशेषणा ।

ना1452नुसायधियं वेत्थं प्रतीयेत क्रमाग्रहात् ॥

न च नित्यपरोक्षा बुद्धिः अनुमातुमपि न शक्यत इति च विचा
रितमेव ॥


तदलमनया कथया । किमिति शाक्यसुत्सृज्य श्रोत्रियमिदानी
मनुयुंज्महे ॥


ज्ञानाग्रहणेऽपि विषयग्रहणम्


अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनात् ज्ञानग्रहणपूर्वकमर्थग्रहणमिति
—तन्न सार्वत्रिकम्, अपि तु क्वचिदेव ज्ञानविशिष्टार्थसंवेदनात्
तथाऽभ्युपगम्यते । तस्मात् अर्थग्रहणात् पूर्वं ज्ञानस्यानवभासात् निरा
कारावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरु
णाम्बराणाम् ॥


II.502

अर्थस्य कल्पनीयत्वं न


यत्पुनरभ्यधायि—ज्ञानाकारपक्षे कल्पनाऽल्पीयसीति—तत्र यथोक्त
नीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी । कीदृशं
वा तदल्पत्वम् महत्त्वं वेति ॥


अर्थापलापे ज्ञानस्याप्यपलापः स्यात्


उभयसिद्धत्वमपि यदवादि ज्ञानस्य—तत्र यदि प्रमाणायत्ता वस्तु
स्थितिः, अर्थोऽप्युभयसिद्ध एव । इच्छाद्वेषनिबन्धनायां तु वस्तुस्थितौ
ज्ञानमपि कथमुभयसिद्धं1453 स्यादिति यत्किंचिदेतत् ॥


ज्ञानाकारमन्तरापि प्रतिकर्मव्यवस्थासिद्धिः


यत्पुनरिदमभिहितं—अभ्युपगम्यापि बाह्यमर्थं अप्रत्याख्येयः प्रति
कर्मव्यवस्थासिद्धये ज्ञानस्याकारयोग इति—तदपि न सांप्रतम्—प्रतिकर्म
व्यवस्थायाः 1454प्रकारान्तरेणाप्युपपत्तेः ॥


द्यपि अनेकसन्निधाने नीलज्ञानमुपजायते । यद्यपि च बोध
स्वरूपत्वमशेषसाधारणम्, तथापि नीलेनैव कर्मकारकेण तदुपजनितमिति
नीलनिष्ठमेवावतिष्ठते । चक्षुरादिनाऽपि तज्जनितमिति चेत्—सत्यं
जनितम्—न तु कर्मणा सता । नीलेन तु कर्मभूतेन तदुत्पाद्यत इति
तदेकविषयमेव भवति । कुत एष नियम इति चेत्, वस्तुस्वभावकृत
एव । आकारपक्षेऽपि समानोऽयं पर्यनुयोगः ॥


II.503

यदुच्यते—किमिति नीलमेव कर्मकारकम्, किमिति वा कर्मविषयमेव
ज्ञानमिति—तत्र वस्तुस्वभावैरुत्तरं वाच्यम् ॥


1455आकारमपि च ज्ञानमुपाददानं कर्मकारकस्यैव कथमुपाददीत, न
कारकान्तरस्य ? इत्यत्रापि वस्तुस्वभाव एव शरणमिति ॥


ज्ञानं प्रति विषयस्य कारणत्वम्


अर्थस्य च ज्ञानजनकत्वं अन्वयव्यतिरेकाभ्यामवगम्यते ॥


यदा हि देवदत्तार्थी कश्चिद्व्रजति तद्गृहम् ।

तत्रासन्निहितं चैनं गत्वाऽपि न स पश्यति ॥

क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते ।

तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ॥

अनागते देवदत्ते न देवदत्तज्ञानमुदपादि, तस्मिन्नागते च तदुत्पन्न
मिति तद्भावभावित्वात् तज्जन्यं तदवसीयते । इत्थं च तज्जन्यत्वेनैव
तत्र नियमसिद्धेः अलमाकारकल्पनया1456


एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता । साधकतमत्वं तु
सामग्र्याः प्रमाणसामान्यलक्षणे निर्णीतमेव ॥


यस्तु लोकिको व्यपदेश उदाहृतः सोऽपि व्यभिचरति ।
नीलोऽर्थोऽयम्, यतस्तद्विषयं ज्ञानमुत्पन्नम् इत्यपि व्यपदिशन्ति
लौकिकाः ? तस्मादर्थे सत्यपि साकारं ज्ञानमेषितव्यमिति यदुक्तं—
तदनुपपन्नम् ॥


II.504

सहोपलंभात् न ज्ञानार्थयोरभेदः


यदप्यवर्णि—


सहोपलंभनियमादभेदो नीलतद्धियोः

इति—तदपि बालभाषितमिव नः प्रतिभाति, अभेदे सहार्थानुपपत्तेः ॥


अथ एकोपलंभनियमात् इति हेत्वर्थो विवक्षितः—तदयमसिद्धो
हेतुः, नीलादिग्राह्यग्रहणसमये 1457तद्ग्राहकानुपलम्भात् । ग्राहकाकारानु
वेधरहिततद्विच्छिन्नबाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिदम्
इत्यादिः दर्शितः ॥


सहोपलंभोऽप्यसिद्धः


क्वचिच्च ग्राह्याकारानुपर्श्लिष्टकेवलग्राहकावमर्शनमर्पि दृश्यते—
न स्मरामि, मया कोऽपि गृहीतोऽर्थस्तदा इति । तदेवमितरेतर
विभक्तज्ञानार्थाकारसंवेदनात् कथम् ॥


एकोपलम्भनियमादभेदो नीलतद्धियोः

इत्युच्यते । नीलतद्धियोः इति वदता भवताऽष्येष भेद एव
निर्दिश्यते ॥


परमतानुवादमात्रमेतदिति चेत्—न—अभेदे पृथङ्निर्देशस्याप्यघट
मानत्वात् । तस्मादपि न ज्ञानस्यायमाकारः ॥


ज्ञानार्थयोः भेदः अनुभवसिद्धः


यदप्युक्तं—असत्यपि बाह्येऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्या
कारवत्ता दृश्यत इति तस्यैवायमाकारो युक्त इति—तदपि दुराशामात्रम्
—सर्वत्र ज्ञानाद्विच्छिन्नस्व ग्राह्याकारस्य प्रतिभासनात् ॥


II.505

तथा हि—भ्रमज्ञानेषु चतुष्टयी गतिः—आत्मख्यातिः, असत्ख्यातिः,
अख्यातिः, विपरीतख्यातिर्वा1458


तत्र रजतमिदम् इति सामानाधिकरण्येनैकार्थप्रतिभासात्, तन्मते
च संवित्तेरपरोक्षत्वात् रजताधिगमाभिमानेन तदर्थिनस्तत्र प्रवृत्तेः,
बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावात् न तावदख्या
तिरिति प्रागेव प्र. सं. 456 प्रासाधितमेतत् ॥


असत्ख्यातिनिरासः


असत्ख्यातिरपि नास्ति, एकान्तासतः स्वपुष्पादेः प्रतिभासायोगात् ।
देशकालव्यवहितानुभूतपूर्वपदार्थविषय एव भ्रान्तोऽपि प्रत्ययः प्राणभृतां
भवति, न त्वत्यन्तासदर्थविषयः ॥


सर्वेषां भ्रमाणां सालम्बनत्वम्


तथा हि—द्विविधा भ्रान्तिः—बाह्येन्द्रियजा, मानसी च । तत्र
बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषात्, इन्द्रियदोषाद्वा समुत्पद्यमाने न
क्वचित् निरालम्बनता दृश्यते । भास्वररूपसादृश्येन हि विषयदोषेण1459
शुक्तिका रजतमिति परिस्फुरति । मरुस्थलीपतितोत्फलितं च
सावित्रं तेजः तरलतरङ्गसारूप्येण पय इति चकास्ति । इन्द्रियदोषादपि
पित्तोपहतरसनस्य तिक्ततया शर्कराऽवभासते । तिमिरसीमन्तितनयनवृत्तेः
चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति । 1460तिमिरकणनिकरविवरविरचित
II.506 प्रसृताश्च नयनरश्मय एव सूर्याशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः
प्रतिभान्तीति ॥


मानसविभ्रमाणामपि सालम्बनत्वम्


अन्तःकरणदोषेण विभ्रमो यस्तु जायते ।

असत्यपि1461 महेलादौ पुष्पेषुमुषितात्मनाम् ॥

सोऽपि कश्चित् विषयदोषसहायो भवति । स चालम्बन
एव प्र. सं. 228


तस्याः पाणिरिति ज्ञानं यथा भवति कुत्रचित् ।

कोमलानिलकल्लोलवेल्लिते बालपल्लवे ॥

अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः ।

मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ॥

तस्यामपि रागादिवासनाबलोपप्लवमानस्मृत्युपस्थापितदेशकाल
व्यवहितोपलब्धपुरन्ध्रीरूपादिसमुल्लेखः, न त्वेकान्तासतः खरविषाणा
देरिव ॥


प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकार
स्योल्लेखः ॥


1462जालज्वलागळद्वह्निद्रवद्रव्यादिदर्शने ।

रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ॥

तदेवं भ्रान्तिबोधेषु नास्त्यत्यन्तासतां प्रथा ।

देशकालान्यथात्वं तु केवलं भाति वस्तुनः ॥

II.507

असत्ख्यातिवादे विशेषः


ननु ! तत्रासतोऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं क्वोपयुज्यते ?
देशान्तरे हि सन् असन् वा तत्र तावन्नास्त्येव सोऽर्थः । न च 1463द्वयोरस
त्त्वयोः किंचिद्विशेषः । देशकालावपि किं सन्तावसन्तौ वा प्रतिभासेते
इति विकल्पनायां तथा तयोरपि तुल्यो दोषः—मैवम्—भवतोऽप्यसत्ख्याति
वादिनः किं सर्वत्रैव तदर्थासत्त्वं संमतम्, उत तद्देश एव ? तत्रासन्नि
धानमात्रेण तावत् क इव तव 1464स्वार्थः ? सर्वत्रासतस्तु प्रतिभासे
कुतस्त्य एष नियमः—यत् असत्त्वाविशेषेऽपि रजताद्येवासत् प्रति
भाति, न खरविषाणादीति ॥


अयं तु द्वयोरसत्त्वयोर्विशेषः—देशान्तरादिषु सतोऽर्थस्य स्मरणा
द्युपारोहेण प्रतिभासमानता युज्यते, न त्वेकान्तासत इति । एवं देश
कालयोरपि सदसत्त्वविकल्पचोद्यं परिहर्तव्यम् ॥


अतश्च किंचिदपि नात्यन्तासदर्थग्राहि ज्ञानमस्तीति किं दृष्टान्तबलेन
सर्वत्रार्थशून्यता कल्प्येत ? तस्मान्नासत्ख्यातिः ॥


आत्मख्यातिनिरासः


आत्मख्यातेस्तु निराकरणाय सोऽयमियान् कलिः वर्तते । तत्र च
बहुशः कथितं—ग्राहकाद्विच्छिन्नमेव ग्राह्यमवभासते नीलमिदम् इति, न
तु तदभेदेन नीलमहम् इति । भ्रान्तिज्ञानेषु तदर्थासन्निधानात्
भान्तत्वमस्तु, नात्मतत्त्वग्रहणमिति ॥


II.508

यच्चोच्यते—


यदन्तर्ज्ञेयरूपं तत् बहिर्वदवभासते

इति—सेयं विपरीतख्यातिरेवाङ्गीकृता स्यात् । तद्वरं सैव तप
स्विनी साधीयसी ॥


अर्थस्य ज्ञानरूपत्वासंभवः


अथ कथ्यते—ग्रहकात् 1465सत्यं विच्छिन्नं ग्राह्यं; तत्तु ज्ञानरूपमे
वेति—तत्र विच्छिन्नमिति प्रियमावेदितम् । ज्ञानत्वे तु तस्य का युक्तिः ?
न च 1466ज्ञानयोः युगपदुत्पन्नयोः क्रमभाविनोर्वा ग्राह्यग्राहकभाव उप
पद्यते । यौगपद्ये सव्येतरगोविषाणवत् ग्राह्यग्राहकनियमाभावात् ।
क्रमपक्षेऽपि पूर्वमुत्तरस्य ग्राह1467कं चेत्—तदुत्पत्तितद्ग्रहणकालप्रतीक्षणात्
क्षणिकतां जह्यात् । उत्तरमपि यदि पूर्वस्य ग्राहकं तदापि सैव वार्ता ।
तावत्कालमवस्थितिमन्तरेण तद्ग्राह्यतानुपपत्तेः । न च ज्ञानत्वं नाम
सामान्यं ग्राह्यग्राहकयोरनुगतम्, गोत्वमिव शाबलेयादौ, विभाति ।
अतो विच्छिन्नश्चेत् ग्राहकात् ग्राह्यांशः, सोऽर्थ एव भवेदिति न
ज्ञानस्यायमाकारः ॥


आकारस्य संसर्गधर्मत्वाभावः


यत्तु संसर्गधर्मः आकारो न भवतीति भाषितं, तद्युक्तमेव—


न कुण्डदधिवत् कश्चित् संसर्गोऽस्त्यर्थबोधयोः ।

तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥

II.509

तदेवं शाक्योक्तयुक्तिशकलदौर्बल्यात् सर्वत्र विच्छेदप्रतिभा
सात् ज्ञानस्य स्दतो वैवित्र्यानुपपत्तेः अर्थस्यैवायमाकार इति सिद्धम् ॥


एकस्मिन्नर्थे न विरुद्धाकारोल्लेखः


यत्तु अर्थाकारपक्षे चोदितं—एकत्रार्थे नक्षत्रं तारका तिष्य
इति परस्परविरूद्धाकारसमावेशो न युक्त इति—तत्रोच्यते—अनुपपन्न
मिति नः क्व संप्रत्ययः, यत् न प्रमाणेनावगतं1468 विरुद्धमपि तदवबुद्ध्या
महे, यदेकत्र निविशमानं न पश्यामः । तदिह यद्यबाधितेन ज्ञानेन
विस्पष्टमाकारत्रयमेकत्र गृह्यते, तत् कथमनुपपन्नं स्यात् ? कथं वा
विरुद्धमिति ॥


नानाकारेष्वन्यतमस्य कल्पितत्वसंभवः


अथैकं सम्यक्प्रमाणपरिनिश्चितरूपं, इतरत् काल्पनिकमिति प्रतीयते
—तदेवमस्तु, को दीषः ? दृष्टश्च चित्रादावनेकवर्णसमावेशः । न
चैकत्र विरोधं अविरोधं वा दृष्टवा सर्वत्र तत्कल्पनमुचितम् । अबा
धितावगतिनिबन्धना हि वस्तुस्थितयो भवन्ति, न कल्पनानिर्मिताः ॥


शब्दसाधुत्वं व्याकरणाधीनम्


अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया ।

शब्दप्रयोगसाधुत्वं अन्वाख्यायेत केवलम् ॥

दाराः इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वंहुवं त्व वा विद्यते ।
शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति ॥


II.510
नार्थासंस्पर्शिता चास्य तावता व्यवतिष्ठते ।

यथैतदात्मकं वस्तु तथा शक्नोति भाषितुम् ॥

सर्वस्य वस्तुनः अनेकरूपस्वम्


परिव्राट्प्रभृतीनां च कुणपादिप्रतीतयः ।

अर्थस्यानेकशक्तित्वात्1469 नावहन्त्यर्थशून्यताम् ॥

किं न भक्षयितुं शक्या नारी कौलेयकेन सा

किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥

शवाद्वा केन रूपेण सा विशिष्येत योगिनः ।

धीत्रयं तु न सर्वेषां अभावात् सहकारिणः ॥

प्रतिप्राणिनियतानेकविधवासनाभेदसहकारिसापेक्षो हि तस्य
तस्य ज्ञानस्यात्मलाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ॥


अर्थानां वासनाकल्पितत्वासंभवः


यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति, किं अर्थकल्प
नया ? अयि साधो ! किमद्यापि न परिहरसौ सुचिरं 1470गुणितां
कल्पनावाचोयुक्तिम् । न ह्यर्थः कल्प्यते, अपि तु प्रतिभासत एव ।
बहुरूपस्य तु तस्य एकतमरूपपरिच्छेदनियमे किमर्पि वासनादि कारणं
क्वचित् कल्प्यते । कस्तावताऽर्थनिह्नवस्यावसरः ॥


II.511

वासनाया दुर्निरूपत्वम्


यच्चोक्तं वासनाभेद एव ज्ञानवैचित्र्यकारणम्, इतरेतरकार्य
कारणभावप्रबन्धश्च बीजाङ्कुरवदनादिः ज्ञानयासनयोरिति—तदप्यघट
मानम्—केयं वासना नाम ? ज्ञानादव्यतिक्ता चेत्, साऽपि
1471स्वच्छरूपत्वात् न ज्ञानकालुष्यकारणं भवेत् । ज्ञानव्यतिरिक्ता
चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ॥


वासनायास्संस्काकाररूपत्वम्


अपि च वासना नाम विषयानुभवसमाहितः संस्कार इति लोके
प्रसिद्धिः । संस्कारश्च यदनुभवघटितः, तत्रैव क्वचिदवसरे स्मरणमुपज
नयति । न पुनरसदेव वैचित्र्यमिदमीदृशमावहति ॥


किंच भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्य
वासकभावोऽपि निराकर्तव्यः । स्थायिनो हि भावास्तिलादयः स्थायि
भिरेव चम्पकादिभिः वास्यन्ते । न तूत्पद्य सपद्येव विनश्यद्भिः ज्ञानैः
तादृंश्येव ज्ञानानीति ॥


निरन्वयविनाशाच्च न तदंशोऽनुवर्तते ।

यतः कथश्चिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥

वासनावादेऽव्यवस्थापत्तिः


अपि च एकत्र देवदत्तसन्ताने वासनातः सहस्राणि ज्ञानवैचित्र्यका
रीणि भवेयुः1472 । न हि गोवासनातो हस्तिज्ञानमुदेति ॥


II.512
अनन्तत्वेऽपि खल्वासां 1473आरम्भे नियमः कुतः ?

मंजकारित्वे व्यवहारस्य विप्लवः ॥

धूमज्ञानसमुत्पादे धूमवासनया कृते ।

किं तदा न जलज्ञानं जनयेज्जलवासना ॥

वासनाश्च वासनासन्तानारम्भहेतव एव भवेयुः, न पुन
रनुभवज्ञानमाधातुमुद्यच्छेयुः । सदृशात् सदृशोत्पत्तिरिति हि भवतां
दर्शनम् ॥


वासनाया आश्रयानुपपत्तिः


अपि च न निराधारा वासना आसते । न च भवत्पक्षे तदाधारः
कश्चन संभवति, भङ्गुरत्वेन, ज्ञानस्य तदाश्रयत्वानुपपत्तेः । एकज्ञाना
श्रितत्वे सर्वासां वासनानां तद्विनाशे नाशः स्यात् । प्रतिवासनमाश्रया
भेदे तदानन्त्येनानियमश्च शतशाखः ॥


आलयविज्ञानप्रवृत्तिविज्ञानभेदनिरासः


न चालयविज्ञानं नाम किंचिदस्ति । सत्यपि तस्मिन्नशेषवासना
सहस्रसमाश्रये तत्क्षणिकत्वात्, सकृदेव तथाविधवासनाकुसूलज्ञानविनाशः
स्यात् । पुनरुत्पादेऽपि कथं तथाविधं ज्ञानमेव समुत्पाद्येत । त तु
गवाश्वादिज्ञानक्रमनियमो भवेत् इति सर्वथा सङ्कटोऽयं पन्थाः ।
तस्मात् मृगतृष्णिकैषा तपस्विनां वासनात एव लोकयात्रालिद्धेः किं
बाह्येनार्थेनेति1474


II.513
कृतमतिवाचालतया चिरमपि निपुणैर्निरूप्यमाणोऽतः ।

अर्थस्यैव न बुद्धेः सिध्यति नीलादिराकारः ॥

एकश्च बोधः प्रमितिप्रमाण-

प्रमेयरूपाणि कथं बिभर्ति ?

भिन्नं प्रमाणात् फलमभ्यधायि

प्रन्यक्षचिन्तावसरे पुरस्तात् ॥

शून्यवादिभिः अवयवातिरिक्तावयविखण्डनम्


ये तु ब्रुवते—1475तिष्ठतु तावत् प्रमाणमार्गं इति प्रमेयमेव विकल्प
यन्तो न ब्राह्ममर्थं कंचन निरपवादं प्रतिपद्यामहे । तथा हि—न तावदयं
अवयवी घटादिरवकल्पते, अवयवव्यतिरेकेणावयविनोऽनुपलम्भात् । यो हि
यस्माद्व्यतिरिक्तः, सः तदधिष्ठितदेशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते,
घटदिव पटः । न चैवमवयवेभ्यः पृथग्देशो दृश्यते अवयवी । तदग्रहणे
च तद्बुध्यभावात् । घटाग्रहणेऽपि पटो गृह्यते, नत्ववयवानुपलब्धाववय
वीति कथं स तेभ्यो भिद्येत ॥


सर्वावयवैर्नेन्द्रियसन्निकर्षः


अवयवग्रहणानुपपत्तेश्च । न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुंमर्वा
ग्भागवर्तिन एव गृह्येरन्, न मध्यपरभागगता इति ॥


बुध्या विभज्यमाने चानुपलम्भात् । यदा हि पटं पाणौ निधाय
बुध्या विविनाक्ति, एष तन्तुः एष तन्तुरिति, तदा प्राच्यादंचलात्प्रभृति
II.514 प्रतिचीनमंचलं यावद्विविंचयन्नसौ तन्तुसन्ततिमेव केवलामुपलभते, न
ततोऽतिरिक्तं पटावयविनम् ॥


अवयिनः वृत्त्यनुपपत्तिः


वृत्त्यनुपपत्तेश्च । नैकत्रावयवे कार्त्स्न्येनावयवी वर्तते, तदन्येष्व
वृत्तिप्रसङ्गात् । नैकदेशेनवर्तते, स्वारम्भावयवव्यतिरिक्तदेशाभावात् ।
अभ्युपगमे वाऽनवस्थाप्रसङ्गात् । यैरप्येकदेशैरवयवेष्वसौवर्तते, तेष्वपि
कथं वर्तते अन्यैरेकदेशैः तेष्वपि अन्यैरिति नास्त्यन्तः । 1476असंबद्धस्त्वेकदे
शैरवयवीति कथं तद्वारेण स्वारम्भकैरपि संबध्येत । तस्मादभय्यपि
नास्य वृत्तिरवयवेष्विति ॥


धारणाकर्षणादिकं नावयविनः, किन्तु संधातस्यैव


धारणाकर्षणादि तु अनारब्धकार्ये काष्ठमूलककार्पासादावपि1477 दृश्यत
इत्यनैकान्तिकम् । एकाकारातु प्रतीतिविकल्पमात्रम् । एकदेशावस्था
नादिनिमित्तमाश्रित्य करितुरगपदातिप्रभृतिष्विव सेनेति, धवखदिर
पलाशादिष्विव वनमिति, संचितेष्वभवयवेष्वेव घठ इत्यादिबुद्धिर्भविष्यती
त्येवावयवावयवपर्यालोचनयाऽणुसंचयमात्रमेवावशिष्यते, नान्यत् ॥


संघातोऽपिनातिरिक्तः


संचयोऽपि च व्यतिरिक्ताव्यतिरिक्ततया चिन्त्यमानो नास्त्येवेत्यणव
एवावशिष्यन्ते । परमाणवोऽपि—


II.515
षट्केन युगपद्योगात्परमाणोष्षडंशता

इत्येवं विकल्प्यमाना विप्लवन्त एव । न च तैरतिसूक्ष्मैरेष व्यव
हारोऽभिनिर्वर्त्यत इति । तस्माद्वाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानु
पपत्तेः विज्ञानमात्रमेवेदमित्यभ्युपगमनीयम् ॥


अवयवातिरिक्तावयविसाधनम्


तेऽप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः1478 कृपणतरा इव लक्ष्यन्ते ।
अपूर्वं एष तर्कमार्गः, यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः
क्रियन्ते ॥


दृढेन चेत्प्रमाणेन बाधादिरहितात्मना ।

गृहीत एवावयवी किमेभिर्बालवल्गितैः ॥

अथ नास्ति प्रमाणेन केन चित्तदुपग्रहः ।

1479एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम् ॥

न च शक्नुयः पदे पदे वयमेभिरभिनवमल्पमपि किंचिदपश्यद्भिः
तदेव पुनःपुनः पृच्छद्भिः शाक्यहतकैस्सह कलहमतिमात्रं कर्तुम् ॥


अवयविनि प्रमाणोपन्यासः


विकल्पकं प्रत्यक्षं प्रमाणमिति साधितम् । निर्विकल्पकेनापि
शब्दोल्लेखमात्ररहितं सविकल्पकग्राह्यमेव वस्तु गृह्यत इति च दर्शितम् ।
एकाकारविषयव्यतिरेकेण च तद्बुद्धेरेककार्यत्वैकदेशाद्यन्यथासिद्धिनिब
II.516 न्धनत्वमपि न किंचिद्वक्तुं शक्यत इत्यपि वर्णितम् । क्वचिद्वा पृतना
वनादौ बाधकोपनिपातात् एकावगतिमिथ्यात्वात्, न सर्वत्र मिथ्यात्व
कल्पना युक्तेत्यप्युक्तम् । किं वा तदस्ति, यत्सामान्यसमर्थनावमरे
नाकथितम् । तस्मात्तयैव नीत्याऽवयव्यपि सिद्ध एव, तद्ग्राहिणः
प्रत्यक्षस्य निरपवादत्वात् ॥


अवयविन्याक्षेपानां परिहारः


यत्तु देशभेदेनाग्रहणात्, 1480तदग्रहे तद्बुद्ध्यभावादिति—तत्रावयवा
श्रितत्वमेव निमित्तं, नासत्त्वम् ॥


देशभेदेन हि ज्ञानं, 1481द्देशस्य कथं भवेत् ।

न हि कश्चित् स्वतन्त्रोऽसौ अपि त्ववयवाश्रितः ॥

यावतां ग्रहणोऽप्यस्मिन् बुद्धिर्भवति तावताम् ।

अपेक्षतेऽसौ ग्रहणं न सर्वेषामिति स्थितिः ॥

विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः ।

तदावयविनाशो हि बुद्धौ विपरिवर्तते ॥

अवयववविभागो ह्यवयविनो विनाशहेतुः । तस्मिन् बुद्ध्या
समुल्लिख्यमानेऽवयविविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी
तदानीं गम्येत ?


अवयवेषु अवयविनः व्याप्तज्यवर्तमानत्वम्


वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते ।

न प्रत्यवयवं तस्य समाप्ति1482र्व्यक्तिजातिवत् ॥

II.517
व्यासज्य वर्तमानो हि न खल्ववयवान्तरैः ।

वर्तते, तदसंवित्तेः, किन्तु वर्तत एव सः ॥

तथा चाहुः—वर्तत इति ब्रूमः, अनाश्रितस्यानुपलंभात्


वृत्तिरेवंविधाऽन्यत्र क्वदृष्टेति यदुच्यते ।

प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥

तस्मात् प्रत्यक्षत एवावायववृत्तेरवयविनः उपलब्धेः न तद्वत्तौ
विकल्पानामवसरः ॥


अवयविग्राहकप्रमाणस्यानन्यथासिद्धत्वम्


स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता । तदियमवयविवृत्ति
रपीदृशी दृश्यमाना किमिति निह्नूयते । न चावयविग्राहिणः प्रत्यक्षस्य
कश्चिदपवादः समस्ति ॥


अदुष्टकारणोद्भूतं अनाविर्भूतबाधकम् ।

असन्दिग्धं च विज्ञानं कथं मिथ्येति कथ्यते ?

न च सेनावनवदवयविग्रहणं अभिधातुमुचितम्, अबाधितत्वात्,
सेनादौ बाधकसद्भावात् ?


सेनादिवैलक्षण्यं पटादेरवयविनः


अपि च गजवाजिपदातिपीलुपलाशशिंशपादिदर्शनस्य तत्र घटमान
त्वात्, तत्समवाये सेनावनादिप्रतीतिरुपपद्येतापि । इह तु किंसमुदाय
विषयः पटप्रत्यय इति चिन्त्यम् । तन्तुससुदायालम्बन इति चेत्, तन्तु
1483 II.518 प्रत्यय इदानीं किमालम्बनः ? सोऽपि स्वावयबालम्बन इत्येवमवयवाव
यवनिरूपणे परमाणवः, पत्त्यश्वशमीशिंशपादिस्थानीय वक्तव्याः । तेषां
च तद्वत् ग्रहणमनुपपन्नं, अतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः ।
तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् ॥


परमाणूनां प्रमाणसिद्धत्वम्


परमाणवोऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः
सन्तीति पूर्वमेव समर्थितम् । अतो न षट्कयोगादिना सावयवत्वमेषा
उपपादयितुं पार्यते । मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यते ॥


शून्यवादे प्रमाणाभावः


अतः प्रमेयपर्यालीचनवर्त्मनाऽपि शून्यवादसमर्थनं न सुशकम् । प्रमेय
विचारेऽपि हि प्रमाणवृत्तमेव परीक्ष्यते । अतश्च प्रमाणचर्चातो
विभ्यद्भिः प्रपलाय्य या प्रमेयकथावीथी तथागतैबलम्बिता तस्यामपि
सैव भीषणमुखी प्रमाणचर्चिकैवोपनता1484


सर्वती विपदां मार्गं आदेशयितुमुद्यते ।

विधौ विधुरतां यति प्रपलाप्य क्व गम्यते ॥

तस्मात् प्रमाणतोऽशक्ये शक्ये वा वस्तुनिर्णये ।

एवंप्रायमयुक्तं वः कुशकाशाबलम्बनम् ॥

एवं निष्फलमुत्सृथ्य शून्यवादबकव्रतम् ।

बाह्येनैवार्थजातेन व्यवहारो विधीयत्तम् ॥

II.519

वैराग्यजननायापि न क्षणिकवादाद्यावश्यकता


अथ 1485अस्थाशैथिल्यजननाय सर्वं शून्यं सर्वं क्षणिकं सर्वं निरा
लम्बनं
इत्युपदिश्यते—तर्हि किमनेन मृषोद्येन ! सत्यप्यात्मनि, सत्स्वपि
स्रेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति
तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः । प्रत्युत प्राज्ञो मुमुक्षुः
क्षणिकनैरात्म्यशून्यतादिवचनं युक्तिबाधितमवबुध्यमानः वंचनामयमिव
तदुपदेशमाशङ्कते ॥


स एष बुद्धिशून्यानां शून्यवादपरिग्रहः ।

प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ॥

तस्मात्परीक्ष्यमाणोऽयं शब्दाद्यद्वैतपक्षवत् ।

विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ॥

अपवर्गपरीक्षोपसंहारः


तदेवमद्वैतदृशा1486न दृश्यते

जनस्य निःश्रेयससंपदागमः ।

अतो यथोक्तात्मसुतत्त्वचिन्तया

कृती व्यवस्येदपवर्गसिद्धये ॥

सांख्योक्तप्रक्रियायाः डपसंहारः


साङ्ख्यैर्यस्त्वपवर्गसाधनविधावुक्तःप्रकृत्यात्मनोः

अन्यत्वागमोऽभ्युपाय इति स प्रागेव निर्वासितः ।

II.520
अज्ञा शक्तिमति विकारबहुला बध्नात्यकिंचित्करं

भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ॥

पुंसा न किंचिदपि बन्धनिधानभूतं

अत्यल्पमात्रमपि कर्म कृतं कदाचित्1487

मथ्नाति तं प्रकृतिरेव निरङ्कुशैषा

मत्ता करेणुरिव पद्मवनानि भूयः ॥

जैनाद्युक्तप्रक्रियाया उपासंहारः


कचनिलुंचनदिक्पटधारण-

क्षितिराक्रमण1488क्रमपूर्वकम् ।

क्षपणकास्त्वपवर्गमुशन्त्यमी

ह्यतितरां परमार्थविदस्तु ते ॥

लोम्नां नित्यसंभवात् खलतयो1489मोक्षं क्षणात्प्राप्नुयुः

संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् ।

मुक्ताः स्युः गिरिशृङ्गवासिन इमे शश्वत्तदारोहणात्

जन्तूनामपवर्गवर्त्म निकटं केनेदृशं दर्शितम् ॥

तस्मादात्मज्ञानं सन्तः मोक्षप्राप्तौ हेतुं प्राहुः ।

1490तीर्थे तीर्थे तच्चाचार्यैः तैस्तैरुक्तं संज्ञाभेदैः ॥

II.521

पातञ्जलप्रक्रियोपसंहारः


यदपीह केचिद विकल्प1491मीश्वर—

प्रणिधानमाहुरपवर्ग साधनम् ।

इदमात्मदर्शनमवादि तैरपि

प्रथितो हि पूरषविशेष ईश्वरः1492

गौतमोक्तप्रक्रियैव साधीयसी


दृष्टा वाद्यन्तराणां गतिरियमियती नापवर्गस्य मार्गं

स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वभ्र एव भ्रमन्ति ।

नेदीयानेषु तस्माद्भवमरुपतितैः अक्षपादोपदिष्टः

पन्थाः क्षेमाया मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां नवममाह्निकम् ॥

  1. प्रलयेति सुषुप्त्यादीनामुपलक्षकम् ॥

  2. ऊर्मिष्टकमनुपदमुक्तं क्षुत्पिपासालोभमोहशीतातपा इति ॥

  3. संवेदनम्—अनुभवः ॥

  4. न—इत्यादि समाधानम् । इष्टप्राप्तिवदनिष्टनिवृत्तिरपि पुरुषार्थ एव ॥

  5. विज्ञानम्—इत्यर्शाद्यजन्तम् । आनन्दम् इतिपदसमभिव्याहारात् आनन्दपदस्य स्वतः पुंलिङ्गत्वेनार्शाद्यजन्तत्वावश्यकत्वात् ॥

  6. सुखज्ञानम्—सुखानुभवः ॥

  7. समाधानम्—मेघा इत्यादि । तत्त्वेत्यादि—मिथाभूता सदसदनिर्वचनीया अविद्येति हि तन्मतम् ॥

  8. दुःखकारणस्य रागस्य निवृत्त्या दुःखनिवृत्तिः । सुखे रागे तु नैवं वक्तुं शक्यम् ॥

  9. अन्यथा स्यात् ॥

  10. अन्यथा हि अनुकूलत्वप्रतिकूलत्वादिज्ञानानां भ्रमत्वप्रसङ्गः । सर्वं भ्रम एवेति वादस्तु असकृन्निरस्त एव ॥

  11. न हि चेतन—चैतन्यशब्दौ पर्ययरूपौ ॥

  12. सुखमहमस्वाप्सम् इति प्रत्यवमर्शः । तदा ज्ञानाभाववचनं तु विषयानवभासादित्याशयः ॥

  13. आद्यः माध्यमिकानाम् । अन्यस्तु इतरेषां त्रयाणाम् ॥

  14. शरीरानुगुणपरिमाणवानात्मेति हि तन्मतम् ॥

  15. सिद्धान्तेऽपि घटाकाशवत् शरीरौपाधिकः परिमाणोऽविरुद्धः ॥

  16. सम्यगिति शेषः ॥

  17. अयं प्रायोवादः, तत्त्वज्ञानस्यापि शरीराधीनत्वात् ॥

  18. अभाववैराग्यवतामुपदिश्यताम्, न तूत्साहवतामित्यर्थः ॥

  19. जरामर्यम्—जरामरणावधिकम् ॥

  20. ब्रह्म—वेदः ॥

  21. निदानम्—विषयवासनाः ॥

  22. एकमेव कर्मानेकजन्मारंभकमपि भवति ॥

  23. नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति हि वचनम् ॥

  24. जन्मान्तरी ऋणविषयत्वे लोकव्यवहार याकुली दृढा ॥

  25. प्रतिपदम्—स्वपदेनैवेति यावत् ॥

  26. पतत्यधः इति प्रसिद्धः पाठः ॥

  27. भवेत्सरागस्य तपोवनं गृहं निवृत्तरागस्य गृहं तपोवनम् इति हि प्रसिद्धम् ॥

  28. प्रतिपक्षभावनाः—अविद्यादिविरोधिनः ज्ञानाभ्यासादयः प्रतिपक्षभावनाः, अहिंसाप्रतिष्ठायां वैरत्यागः इत्यादियोगशास्त्रोक्ताः ॥

  29. द्वन्द्वरूपत्वात् जगति सर्वस्य, तत्तद्विरोधिगुणानामभ्यासात् आस्रवाः— दोषाः हीयेरन् । सात्मीभावः—आत्मना समरसभावः ॥

  30. विरोधिदर्शनेऽपि द्वेषाभावाभ्यासायोच्यते—किमित्यादि ॥

  31. धर्मी—शरीरम् ॥

  32. तर्हि किमर्थो मोक्षार्थप्रयत्नः इति चेत्—जाग्रतः पूर्ववत् क्येशानुवृत्तेरवर्जनीयत्वात् । तदानीमपि पूर्णस्य स्वरूपस्य भानाभावात् ॥

  33. न तु शीतातपादिरूपम् ॥

  34. परकायप्रवेशादिना । रण्डेत्यादि—तत्स्वाभिनोऽभावात् ॥

  35. सौभर्यादिः दृष्टान्तः ॥

  36. तानवं—तनुताम् । न तु संपूर्णनाशः ॥

  37. हीनक्लेशस्य—नष्टदोषस्य प्रवृत्तिः, प्रतिसन्धानाय—वासनाद्यनुवृत्तये न—न प्रभवति ॥

  38. अथमेव सिद्धान्त इति वक्ष्यति । वस्तुतस्तु, फलादानस्य पक्षद्वयेऽपि समानत्वात्, धर्माधर्मयोस्तथैवावस्थानकथनमर्थहीनम् ॥

  39. तथा च नाभुक्तम् इत्यादिवचनं प्रारब्धकर्मविषयम् । यथैधांसि इत्यादि संचितकर्मविषयमित्यविरोधः ॥

  40. भर्त्सनादिनेति यावत् । नर्मोक्तिरियम् ॥

  41. अपरे इत्यादिना 455 पुटे उक्तः । चतुर्थः पक्षः 454 पुटे उक्तः ॥

  42. ब्राह्मी—ब्रह्मप्राप्त्यर्हां ॥

  43. अङ्गिनः यत् फलम् तदेव किलाङ्गस्यापि ॥

  44. In the print edition there is a footnote reference, but no corresponding note.

  45. पातञ्जलाः ॥

  46. आत्मा वारे द्रष्टव्यः इत्यस्यार्थानुवादोऽयम् ॥

  47. रूपं—स्वरूपम् । ध्वंसरूपा हि सा ॥

  48. कीदृशं पापं मया जन्मान्तरे कृतम् इत्यादिप्रत्यभिज्ञयेत्यर्थः ॥

  49. लट्वा—सूक्ष्मशलाका ॥

  50. ब्रीहीणां प्रोक्षणसंस्कृतानां पुरोडाशाद्युपयुक्तत्वात्तथात्वम् । सक्तूनां तु न तथोपयोगः, होमेन भस्मीभावात् ॥

  51. परमुखनिरीक्षणं हि स्वप्राधान्यं निवर्तयति ॥

  52. प्रतियोगिस्मरणादिसापेक्षः ॥

  53. प्रत्यक्षं विधायकम्, न निषेधकम्, प्रतियोगिनः तेन उपस्थापयितुमशक्यत्वात् ॥

  54. भामतीकारपक्षोऽयम् । विवरणकारस्तु ब्रह्माज्ञानवादी ॥

  55. अनादेः कालात्—मृदि विद्यमानं रूपं पाकान्नश्यति किल ॥

  56. प्रलयः—मरणम् ॥

  57. स्थासकं—चन्दनादिलेपगम् ॥

  58. अभेदो हि भेदनिराकरणरूपः ॥

  59. स्वरूपेण भासमाना इति यावत् ॥
  60. भिक्षवः—बौद्धाः ॥

  61. स्वरूपेण भासमाना इति यावत् ॥
  62. स्वरूपेण भासमाना इति यावत् ॥
  63. देशान्तरकालान्तरव्यक्तीनां भानस्यावश्यकत्वात् ॥

  64. संबन्धः किल व्यक्त्योरेव, न सामान्ययोः ॥

  65. अभेदेत्यत्र केवलेत्यादिः ॥

  66. जीवे परमात्मतौल्यबोधनायार्थवादः । तौल्यं च स्वतः निर्दुःखत्वादिना ॥

  67. पूर्वसंपुटे 676 तमपुटे ॥

  68. परब्रह्मापेक्षयेति शेषः ॥

  69. सत्येनातपादिना हि सत्यस्य शैत्यादेर्निवृत्तिसंभवः ॥

  70. अभ्युपायः—अभ्युपगमः ॥

  71. रज्जौ हि सर्पभानम्, न तु शून्ये । तथाङ्गीकारे तु निरधिष्ठानभ्रमवादः स्यात् ॥

  72. नेह नानास्ति इत्यादयः मन्त्राः । एकमेवाद्वितीयम् इत्यादयः अर्थवादाः ॥

  73. शब्दार्थयोरविनाभावादिति यावत् ॥

  74. शब्दस्य सूक्ष्मत्वादन्यथासिद्ध्यसंभवादिति हेतुः ॥
  75. शब्दस्य सूक्ष्मत्वादन्यथासिद्ध्यसंभवादिति हेतुः ॥
  76. अनादिनिधनंन सोऽस्ति प्रत्ययःवाग्रूपता चेत् इति श्लोकैरुक्तम्, शब्दस्य तत्त्वरूपत्वम्, सर्वप्रत्ययानां शब्दानुविद्धत्वम्, अर्थस्य शब्दविवर्तत्वं च ॥
  77. गौः इति शब्दः, अर्थः, प्रत्ययश्चेति त्रयमपि हि निर्दिश्यते ॥

  78. वाच्यम्, तद्बुद्धिः, वाचकः शब्दश्च ॥

  79. मीमांसका अपि निराकारज्ञानवादिन इति चक्रधरः । परं तु निराकारज्ञानवादः अन्यः, अन्यश्च निरालम्बनज्ञानवाद इत्यबधेयम् ॥

  80. विभीतकं—फलविशेषः ॥

  81. उक्तार्थत्रयवाचिनः इति शेषः ॥

  82. तिङन्तत्वे साध्यत्वम्, सुबन्तत्वे सिद्धत्वम् । एवं अगात् इत्यादि सुबन्तं तिङन्तं च ॥

  83. न हि तेजसि तमसः, तमसि तेजसो वाऽध्याससंभवः ॥

  84. प्रकृते शब्दतत्त्वरूपम् ॥

  85. अनुरागः—अनुरञ्जनम् ॥

  86. तन्मते शब्दस्यैव ब्रह्मत्वात् ॥

  87. वाक्यपदीये हि विवर्ततेऽर्थभावेन यत्तस्य परिणामोऽयम् इति विवर्तपरिणामशब्दौ पर्यायतया बहुलं प्रयुक्तौ ॥

  88. न तु शब्दसमवायित्वेन ॥

  89. शब्दब्रह्म—अपरं ब्रह्म । परं ब्रह्म—परमात्मा ॥

  90. सुभिक्षम्—इति नर्मोक्तिः ॥

  91. परं ब्रह्म एकमेवेति नाद्वैतद्दानिः इत्यपि न—तर्हि द्वे ब्रह्मणी इति कथनमयुक्तं स्यात् ॥

  92. अयमेव ब्रह्मपरिणामवादः भर्तृप्रपञ्चादिसंमतः शंकराचार्यादिदूषितश्च ॥

  93. ऐकात्म्यवादे हि अहमर्थः न आत्मा, किन्तु अन्तःकरणमेव ॥

  94. अनेकात्मगर्भ इति भूतसर्गविशेषणम् ॥

  95. स्वप्रकाशज्ञानमात्रमिस्यर्थः । निर्विषयस्य कथं ज्ञानत्वमित्यर्थः ॥

  96. परन्तु आकारद्वयानुपलंभाव भवतां विजयः ॥

  97. अन्यथा—ज्ञानं प्रकाशकमन्तरा ॥

  98. ज्ञानस्य, अर्थस्येति द्वितयकल्पना ॥

  99. अन्यथा ग्राहकत्वासंभवः ॥

  100. प्रकाशकान्तरापेक्षायामनवस्था ॥

  101. यस्य ज्ञानं न प्रत्यक्षम्, तस्य तद्विषयस्याप्यभानमेव ॥
  102. द्वितीयस्य ग्राह्यस्याभावादिति भावः ॥
  103. यदा च ज्ञानमेवार्थाकारं जातम्, तर्हि अर्थः प्रत्येकं मा स्तु ॥

  104. अनात्मना—ज्ञानातिरिक्तेन ॥

  105. यद्यपि बौद्धाः निराकारज्ञानवादिनः, परन्तु अर्थे सति च साकारं निराकारं तदत्यये इत्युक्तेः, सांख्यमतेऽन्तःकरणस्य विषयाकारप्राप्तिवत्, ज्ञानस्य अर्थाकारप्राप्तेः साकारज्ञानवादिनस्ते इत्युच्यते । एवं ज्ञानाकाराङ्गीकारादेव विषयस्यापलापः कर्तुं शक्यते, आकारद्वयानुपलंभादिति । विषयासान्निध्ये तु ज्ञानं निराकारं— निर्विषयम् अवतिष्ठते । ततश्च निराकारज्ञानवादः अन्यः, निरालम्बनज्ञानवादपययिः निर्विषयज्ञानवादश्चान्यः ॥

  106. व्यतिरेकतः—अर्थाभावे ज्ञानाकारासिद्धेः, बाह्यार्थसिद्धिः ॥

  107. अन्यथानुपपत्त्या—विषयमन्तरा स्वतः ज्ञानस्याकारान्यथानुपपत्त्या ॥

  108. ज्ञानस्य, अर्थस्य च यः संसर्गः—परस्पराभिमुखीभवनम्, तत्कृतः आकारः ॥

  109. ह्रस्वत्वदीर्घत्वादिकं बुद्धिकृतमिति हि सर्वसंमतम् ॥

  110. बौद्धाः किल नैरात्म्यवादिनः । अतः प्रमाता इति विभागः नास्ति

  111. स्वकर्मणि—स्वस्य स्वेन विषयीकरणे । स्वप्रकाशं हि ज्ञानम् । स्वप्रकाश मित्युक्ते त्रिपुटीरहितमित्येवार्थः । इतरत्तु व्यावहारिकम् ॥

  112. आकारद्वयाप्रतिभासमात्रेण आकारद्वयाभावः न सिद्ध्यति । प्रतीयमानस्त्वाकारः अर्थस्यैव, बाह्यतयाऽनुभवात् । आन्तरं तु ज्ञानम् अनुव्यवसायगम्यम् ॥

  113. ग्राहकस्याजडत्वात् ॥

  114. मात्रेणेति—स्वरूपसदेव ज्ञानमर्थप्रकाशकम्, न तु ज्ञातं सत्, चक्षुरिन्द्रियवदेव ॥

  115. अबोधरूपस्याप्यर्थप्रकाशकत्वं दीपादेदृष्टम् ॥

  116. इत्थं च—सामग्रीन्यूनतामात्रेण । मार्जारादीनामालोकापेक्षाया अभावेन, तेषां घटादयोऽपि स्वप्रक्राशा भवेयुः ॥

  117. पश्यत्यात्मानमात्मना इत्यादौ हि कर्तृत्वकर्मत्वकरणत्वादिकं उपाधिभेदेन स्पष्टम् ॥

  118. अविबन्धः—अप्रतिबन्धः । प्रतिबन्धकाभावमात्रं न हि कार्यजनकम् ॥

  119. कालान्तरे—अनुव्यवसायकाले ॥

  120. अनुसायः—अनुव्यवसायः ॥

  121. शून्यवादिना विवाद इति शेषः । न हि विवादाविषयः कश्चिदर्थो वर्तते ॥

  122. प्रकारान्तरेण—विषयीकरणमात्रेण ॥

  123. ज्ञानं च आकारम् उपाददानमपि—इत्यन्वयः ॥

  124. ज्ञानं हि गुण । न हि द्रव्यस्येव तस्याकारः संभवतीति सारम् ॥

  125. तद्ग्राहकस्य—ज्ञानस्य अनुपलंभात् ॥

  126. इतरख्यातीनामत्रैवान्तर्भाव इति तात्पर्यम् । वस्तुतस्तु अख्यात्यन्यथाख्यात्योरेव सर्वेषामन्तर्भावः ॥

  127. भ्रमहेतुत्वात्तस्य दोषत्वेन कथनम् ॥

  128. तिमिरं—नयनदोषविशेषः । न तु तमः ॥

  129. महेला—महिला । पुष्पेषुः—कामः ॥

  130. जालम्—इन्द्रजालम् ॥

  131. द्वयोः—तद्देशासत्त्वदेशान्तरासत्त्वयोः ॥

  132. असत्ख्यातिरूपः ॥

  133. सत्यम्—इत्यर्धाङ्गीकारे ॥
  134. ग्राह्यकस्य ग्राह्यस्य च उभयोः ज्ञानरूपत्वाङ्गीकारात् ज्ञानयोः इति ॥

  135. सत्यम्—इत्यर्धाङ्गीकारे ॥
  136. पदानां तत्तल्लिङ्गकत्वं व्याकरणशास्त्रसिद्धम् । अर्थेषु व्यक्तिभेदेन विरूद्धधर्मवत्त्वं तु भानमात्रम्; न वस्त्वन्वयि ॥

  137. अनेककार्यकारित्वादित्यर्थः ॥

  138. गुणितां—अभ्यस्ताम् ॥

  139. ज्ञानादव्य तिरिक्तत्वादेव स्वच्छत्वम् ॥
  140. ज्ञानानि इति कर्तृ ॥
  141. आरंभे—उत्तरज्ञानोत्पादने ॥

  142. वासना अपि बाह्यार्थानालम्ब्यैव हि लब्धस्वरूपाः । वासनापदस्य संस्कारपर्यायत्वे तु न हानिः ॥

  143. अतिरिक्तावयविनिराकरणेन सर्वापलापस्सुसाध इति भावः ॥

  144. येषु नास्त्यवयवी, तेषां कथं तदवयत्वम्; अतिप्रसङ्गात् ॥

  145. न हि कार्पासादि अन्त्यावयवि ॥

  146. वैभाषिकाः, माध्यमिका वा ॥

  147. एतदेव—अवयवी नास्ति, प्रमाणाभावादिति ॥

  148. तदग्रहे—देशभेदाग्रहे ॥

  149. तद्देशः—अवयवस्य यो देशः, स एवावयविनोऽपि ॥

  150. In the print edition there is a footnote reference, but no corresponding note.

  151. व्यक्तिषु जातिवत् ॥

  152. प्रमाणं तु अबाधितं साधितम् । तेन प्रमेयमपि सिद्धत्येवेति नावयविनिराकरणसंभवः ॥

  153. आस्था—लौकिकवस्तुष्वासक्तिः ॥

  154. अद्वैतदृशा—विज्ञानाद्वैत-शब्दाद्वैत-ब्रह्माद्वैत-शून्याद्वैतदर्शनैः ॥

  155. कर्तृत्वादिकं सर्वं प्रकृतेरेवेति वर्णनात् ॥

  156. पर्वतशिखरगुहादिवासः । उपह्रासोक्तिरियम् ॥

  157. खलतयः—शिरोरुहव्याधयः ॥

  158. सर्वेषु वैदिकशास्त्रेषु ॥

  159. ईश्वरप्रणिधानाद्वा इति योगसूत्रम् । अविकल्पं—निर्वीजसमाधिरूपम् ॥

  160. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः इति योगसूत्रम् ॥