452

तृतीयाध्यायः

तृतीयाध्याये प्रथमाह्निकम्


इन्द्रियभेदप्रकरणम्


दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ ३ । १ । १ ॥


अत्र भाष्यं परीक्षितानि प्रमाणानि । प्रमेयमिदानीं परीक्ष्यत इति वृत्तानुकीर्तनं
प्रमेयपरीक्षां वर्तिष्यमाणां प्रति वृत्तायाः प्रमाणपरीक्षाया हेतुभावं दर्शयितुम् ।
प्रमाणेन हि प्रमेयं परीक्ष्यते नान्येन । न च तदपरीक्षितं प्रमेयपरीक्षायै प्रभवति । तस्मात्
प्रमाणपरीक्षा हेतुः । हेतुमती च प्रमेयपरीक्षेति । द्वादशविधं च तत् प्रमेयमिति1819
कस्मात् प्रथमत आत्मैव परीक्ष्यते न प्रमेयान्तरमित्यत आह—तच्चात्मादीत्यात्मा
विचार्यत
इति । आत्मैव हि प्रमेयेषु प्रथममुद्दिष्टश्च लक्षितश्चेति । तदनुरोधादात्मैव
प्रथमं परीक्ष्यते, न प्रमेयान्तराणीति । अत्र च यद्यपि स्वरूपेणात्मन्येव परीक्षां
प्रतिजानीते, तथापि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणात् लक्षणपरीक्षैव द्रष्टव्या ।
यथा चेयमात्मलक्षणपरीक्षा तथोपरिष्टाद् दर्शयिष्यति1820


तदेतद् वार्त्तिककारो व्याचष्टे—आनन्तर्यादिति । किं पुनः प्रयोजनं
प्रमेयपरीक्षायाः ? न हि निष्प्रयोजनं परीक्षन्ते प्रेक्षावन्त इत्यत आह—यद्विषयोऽह
ङ्कार
इति । अहङ्कार इत्यात्मादिविषयं मिथ्याज्ञानं निर्दिशति । शरीराद्यभेदेनात्मदर्शनं
खलु संसारं प्रवर्तयतीत्युक्तं द्वितीयसूत्रे । अनेन प्रमेयपरीक्षायाः प्रयोजनवत्त्वं
दर्शितम् ।


अत्र भाष्यकारेण 1821विचारपूर्वरूपं संशयो दर्शितः । किं देहेन्द्रियमनोबुद्धि
संघातमात्रमात्मेति
संशयकारणं चोक्तं व्यपदेशस्येति । यद्यपि वृक्षप्रासादयोर
वयविसमुदाययोरन्ययोरेवान्येनावयवेन समुदायिना च व्यपदेशः, तथाप्यवयव्यभावं
453 समुदायं च समुदाय्यव्यतिरिक्तं1822 मन्यमानस्य1823 परस्योदाहरणं द्रष्टव्यम् ।


तदेतद् वार्त्तिककार आक्षेप्तुं पृच्छति—किं पुनरस्येति । उत्तरम्—किं
शरीरेति ।
आक्षिपति—नेति । समानधर्मणो धर्मिणो दर्शनात् संशयो न पुनरदर्शनादि
त्यर्थः । समाधत्ते—नेच्छादिसूत्रेति । इच्छादयो हि कार्यत्वात् लिङ्गमात्मन इति
दर्शितम् । तान्येव तु लिङ्गानि दर्शयिष्यन्त्येषितारं परीक्षिष्यन्ते1824 । किं देहेन्द्रियव्यतिरिक्त
एषितैभ्यः सिध्यति, आहोस्विदभिन्न इति युक्तो विचारः ।


अपि चायमात्मशब्दाभिधेयो धर्मी सर्वतन्त्रसिद्धः केवलमस्य शरीरेन्द्रियादि
भेदाभेदे1825 वादिनां विवाद इत्याह—अविप्रतिपत्तेश्चेति । ननु चात्मासत्त्वे परैः
प्रमाणान्यजातत्वादीन्युपन्यस्तानि, तत्र कथं न तत्सत्त्वे विप्रतिपत्तिरित्यत
आह—असत्त्वप्रतिपादकप्रमाणासंभवाच्चेति । वाद्येवासौ न भवति यो धर्मिणि
विप्रतिपद्यते । न हि धर्मिणि विप्रतिपद्यमानस्यास्ति किञ्चित् प्रमाणं सर्वस्य
तस्याश्रयासिद्धेरप्रमाणत्वात् । अभावस्य च भावाधीननिरूपणस्यात्यन्तासद्भावा
निरूपणेनानिरूपणात् । तस्माद् धर्म्यभाववादी न लौकिको नापि परीक्षक
इत्युन्मत्तवदुपेक्षणीय इति भावः ।


1826धर्म्यसिद्धिवादीनां प्रमाणमुपन्यस्यति—न नास्तीति । निराकरोति—नास्त्या
त्मेति ।
यत् पुनरपरे समादधुः


अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।

शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः ॥

भावाश्रयो यथा नीलमिति । अभावाश्रयो यथा शशविषाणमिति । उभयाश्रयो
यथा अमूर्तमिति । अमूर्तं हि भवति विज्ञानं भवति च शशविषाणम् ।

तस्मिन् बाह्यानुपादाने साध्येऽस्यानुपलम्भनम् ।

तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ॥

454 इति । सोऽयमात्मविकल्पो बाह्योपादानो न भवतीति । यथा नीलविकल्पो
बाह्यनीलोपादानः, नैवमात्मविकल्पो बाह्योपादानो भवतीत्यर्थः ।


अत्रैवं भवान् प्रष्टव्यो जायते किमात्मविकल्पस्य बाह्योपादानत्वमात्रं प्रतिषिध्यते,
किं वा बाह्यात्मोपादानत्वम् ? पूर्वस्मिन् सिद्धसाधनम् । मा भूदात्मविकल्पो
बाह्यनीलाद्युपादानः, किं नश्छिन्नम् ? उत्तरस्मिंस्तु कल्पे क्वायं बाह्यात्मा सिद्धः,
यदुपादानत्वं विकल्पस्य प्रतिषिध्यते ? सिद्धश्चेत् क्वापि नास्यात्यन्ताय प्रति
षेधः । असिद्धश्चेत् कथमप्रतीतस्य निषेधः ? प्रतीतो विकल्पे बाह्ये निषिध्यते चैत्र
इव गेहे चत्वरतले निषिध्यते इति चेत् ? एवमपि यत्र प्रतीतस्तत्र न निषिध्यते, यथा
भवद्भिरेवोक्तम्
न तस्यैवाभावः शब्दप्रयोगतः
इति । बाह्यश्चात्मा विकल्पेन नोपदर्शित इति प्रसक्त्यभावान्न शक्यो निषेद्धुम् ।
अप्रदर्शितोऽप्यध्यवसित इति प्रसक्त एवेति चेत् ? अथ1827 कोऽयमध्यवसायो नाम ?
ग्रहणादतिरिक्तः ग्राह्यस्य स्वाकारस्य वा अलीकस्य वा बाह्याध्यारोप इति
चेत्—न, बाह्याऽविषया विकल्पा बाह्यमारोपयन्तीति1828 चित्रम् । न हि आरोपविषयारोप्ये
अजानान आरोपयितुमर्हतीत्यसकृदावेदितम् । अपि चालीकं प्रतीयमानं यथा न
निषेद्धुं शक्यं प्रतीयमानत्वाद् एवमस्य बाह्यत्वमपि । मिथ्यात्वात् प्रतिषिध्यत इति
चेत् ? किमलीकमपि सत्यं यत् तदुल्लङ्घ्य तस्य बाह्यत्वं प्रतिषेद्धुमध्यवसितोऽसि ?
1829बाह्यभेदाग्रहस्तु तदध्यवसायो न प्रसञ्जक इति न निषेधगोचरः । न च ज्ञानाकार
आत्मा परमार्थसन् बाह्यत्वेनारोप्यमाणः प्रतिषिध्यत इति सांप्रतम् । विज्ञाननये1830
सर्वथा बाह्यस्याग्रहे तत्समारोपासंभवात् । अत्यन्तासतश्च बाह्यस्य विज्ञानानात्मनो
ग्रहे तथा विधेनासता 1831विज्ञानानात्मना विज्ञानग्राह्येण किमपराद्धं येन तद्ग्राह्यं न
स्यादिति विज्ञाननयो दत्तजलाञ्जलिः प्रसज्येत । न चायमात्मा पूर्वापरकालावस्थायी
455 क्षणिक विज्ञानाकारो1832 भवितुमर्हति, येन तदाकारो बाह्यत्वेन प्रतिषिध्येत । तस्माद्
अन्यत्र दृष्टमन्यत्र 1833समारोपप्रसञ्जितं प्रतिषिध्यत इति युक्तम् । स च समारोपः क्वचित्
स्वकारणप्रभवः क्वचित् प्रतिषिध्यते यथेन्द्रियादिदोषादुत्पन्नरजतज्ञानस्य शुक्तिकायां
नेदं रजतमिति । क्वचित् पुनराहार्यो यथा नेह गेहे चैत्र इति । तस्मादात्मनो
1834देशकालावस्थान्तरे विकल्पविज्ञाने वा असंभवादत्यन्तासतो न समारोपः,
तदभावादात्मन्येव1835 नास्ति । अस्ति चेत् कथमत्यन्ताय निषेधः ? तस्माद् आत्मा
नास्तीति पदयोर्व्याघातः । यद्यप्यात्मा नास्तीति पदानि, तथापि नास्तीत्यस्यैकपद्यं
विवक्षित्वा पदे इति द्विवचनोपपत्तिः । पद्यते गम्यतेऽनेनार्थ इति हि विवक्षित्वा
पदसमुदायोऽपि पदमुच्यते ।


यद्यपि पटादीनां देशान्तरादौ निषेधस्तथापि आत्मनोऽत्यन्ताय भविष्यति । न
हि प्रतिषेधान्तरधर्ममवश्यं प्रतिषेधान्तरमनुबध्नातीत्यत आह—सर्वश्चायमिति ।
उपपादितमेतदधस्ताद् यथा नानारोपितप्रतिषेधो यथा चाननभूतमशक्यमारोपयितुमिति ।
न क्वचिदात्मन्यनाधारत्वमुक्तमिति स्वातन्त्र्यादात्मनः । सामान्यादयस्तु
पिण्डादिपारतन्त्र्यनिरूपणाः पिण्डाद्याधारा इति पृच्छति—किमयमिति । यन्न
क्वचिदस्ति तदत्यन्तासद् यथा शशविषाणम् । तथा चायम् । तस्मादत्यन्तमसन्निति
भावः । उत्तरम्—न नास्तीति । न तावत् न क्वचिदस्तीति वाक्यमात्मानं स्वरूपेण
निषेधति देशरूपविशेषप्रतिषेधात् । शङ्किता आह—केयं वाचोयुक्तिरिति ।
उत्तरवाद्याह—एषा वाचोयुक्तिरिति । एषा वक्ष्यमाणार्था । तमर्थमाह—यद्
यथाभूतमिति ।
न हि पदार्थानां सत्ता देशवत्त्वेन व्याप्ता, येन देशवत्त्वं निवर्तमानं
तां निवर्तयेदिति भावः । न च कालविशेषप्रतिषेधोऽपीति । कालान्तरप्रतियोगी
एकैकः कालः कालविशेषः । तत्प्रतिषेधोऽप्यात्मनि न युक्तः । न हि यथा
घटादिष्ववच्छेदार्थः कालस्तथा नित्य आत्मनि । प्रध्वंसाभाववान् घटः खल्वासीत्
456 न तथा आत्मा । प्रागभाववान् घटो भविष्यति न तथा आत्मा । अतीतप्रागभावोऽ
नागतप्रध्वंसश्च घटो वर्तमानः । न च तथात्मा । तस्मान् नास्यावच्छेदार्थं
त्रैकाल्यमुपावर्तते । अतीतानागतव्यपवृक्तवर्तमानक्रियाव्यङ्ग्यः कालोऽस्ति सदा
नित्यानां यतः अस्त्यात्मा, विद्यते व्योमेति भवति । तस्मादवच्छेदकत्रैकाल्याप्राप्तेर्न
त्रैकाल्यप्रतिषेधः, अतीतानागतव्यपवृक्तक्रियाव्यङ्ग्यस्य च वर्तमानस्या
शक्यप्रतिषेधत्वात् नात्मनि कालप्रतिषेध इति स्थितम् । आत्मप्रतिषेधं चेति ।
आत्मेति हि पदं लोकसिद्धम्, पद्यते हि तेन कश्चिदर्थभेदः । येन च कश्चिदर्थः
पद्यते, न तदनर्थकं भवितुमर्हतीति ।


किमसतः सता साधर्म्यमिति । न हि भवतां सिद्धान्ते सर्वोपाख्या
विरहितमसत्प्रमेयमपीति भावः । अथ शरीरदेरात्मत्वं कल्पितं निषिध्यते शरीरादयो
नात्मन इति तत्राह—आत्मसामान्यं चेति । अथ शरीरादीति । अहङ्कारस्तावत्
परमार्थतः शरीरादिविषयः स्थूलोऽहं कृशोऽहं गौरोऽहमिति प्रत्ययात् । तमिमम्
आत्मनि कल्पयित्वा विपर्यस्यति तदनुरूपं व्यपदिशति व्यवहरति च । सोऽयं
विपर्ययः प्रतिषिध्यते नास्त्यात्मेति । निराकरोति—एवं च शरीरादीति । न ह्यहङ्कार
समारोपविषयसत्त्वमनभ्युपगच्छतः समारोप उपपद्यते । तस्मात् तत्प्रतिषेधतो व्याघात
इत्यर्थः । चतुर्णामुपादानरूपत्वात् तमस इति । रूपरसगन्धस्पर्शाश्चत्वारो
घटादिरूपेण विपरिणतास्तेषामुपादानरूपं तम उपादीयत इत्युपादानम् ।
उपादेयरूपत्वादिति क्वचित् पाठः । स तु सुगमः । सोऽयं वात्सीपुत्राणां वैभाषि
काणां
सिद्धान्तः । तेन विरोध इत्यर्थः । सुगममन्यत् ।


अथायं भावप्रतिषेध इति । न जन्ममात्रप्रतिषेधोऽपि त्वात्मनो भावः सत्ता
प्रतिषिध्यते इत्यर्थः । स्वतन्त्रस्य धर्मस्य समवायादन्यस्य अदर्शनाद् इति । निकायो
देवमनुष्यतिर्यगादीनामनौत्तराधर्येणावस्थितः संघातः तद्विशिष्टाभिरित्यर्थः ।


कार्यं कारणं वेति । यदि विषाणमवयवस्तदा कारणं यदि तु केशनखादितुल्य
त्वेनानारम्भकत्वात् नावयवः, ततः कार्यम् तस्मात् तत् प्रभवतीति । उक्तमप्यर्थं
457 पुनर्विकल्पयन् पर्यनुयोगार्थमाह—इदं च शशविषाणं नास्तीति ब्रुवाण इति ।
सामान्यप्रतिषेधः विषाणसंबन्धमात्रप्रतिषेध इति । विशेषप्रतिषेधः कार्यकारण
भावलक्षणसंबन्धप्रतिषेध इति ।


विषयस्वभावभेदानुविधायीति । अहमिति 1836हि ज्ञानं मानसं विषयस्य
आत्मनो यः स्वभावभेदः कर्तृत्वभोक्तृत्वादिरूपः1837 जानेऽहं भुञ्जे इत्यादिस्तदनुविधायि ।
एतदुक्तं भवति, न केवलमात्मस्वरूपमात्मज्ञानस्य विषयस्तथा सति परसमवेत
क्रियाफलशालित्वाभावेनात्मनः कार्यत्वाभावेनाकर्मतया तद्व्याप्यज्ञानस्यापि
निवृत्तिप्रसङ्गात् । यदा तु धर्मवदात्मविषयं ज्ञानं भवति तदा धर्माणां परसमवायि
क्रियाफलसंकलिततया कर्मत्वात् न कर्माभावेन जानातेर्निवृत्तिरिति1838 । जानातिरा
त्मधर्मकर्मा आत्मानमपि गोचरयतीति सूक्तं1839 विषयस्वभावभेदानुविधायीति ।
अहङ्कारालम्बनेति ।
आलम्ब्यतेऽनेनेत्यालम्बनं विज्ञानम् अहङ्कारेण च विषयिणा
विषयमुपलक्षयति । देशयति—ननु भवत्यहं गौर इति । परिहरति—न भवतीति
ब्रूम
इति । न व्यपदेशमात्रं देहाद्यव्यतिरिक्तात्मसद्भावसाधनमस्माभिरुक्तं
येनानैकान्तिकं भवेत्, अपि त्वनुभवः । स च न शरीरादिष्विदमो विषयेष्वस्ति, अपि
त्वसंभिन्नेदंविषयोऽहंप्रत्ययः शरीराद्यतिरिक्त एवास्ति । स चात्मा । शरीरादयस्तु
मतुब्लोपादभेदोपचाराद् वा अहमा विषयीक्रियन्ते । ममात्मेति तु व्यपदेशमात्रं न
पुनः शरीरादिष्विव ममकारस्तत्र मुख्यो भेदेनाप्रतिभासनात् । राहोः शिर इतिवत्तु
ममकार आत्मनि द्रष्टव्यः । अत एवाह—ममप्रत्ययेति, न पुनर्ममकारमात्रम् ।
तस्मात् सर्वं रमणीयम् । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिर्बाधितेति यावत् ।


कः साधनार्थ इति कः साधनशब्दस्यार्थः । अथानुपलब्धिरपि नास्तीति ।
भावरूपो धर्मोऽसति विरुध्यते, न त्वभावरूपः, उभयोः समानशीलत्वादित्यर्थः ।
निराकरोति—कः साधनार्थोऽनुपलब्धेरिति । असत्यास्तुच्छाया अनुपलब्धेः कः
458 साधनत्वरूपोऽर्थ इत्यर्थः । शङ्कते—अथ कल्पितस्येति । नानुपलब्धिस्तुच्छा किं
तु तत्त्वान्तरं सत् । सा तु कल्पिताश्रयतया नाश्रयासिद्धेत्यर्थः । एतद्विकल्प्य निराकरोति—
कथं कल्पितस्येति । न हि तात्त्विक्यनुपलब्धिः परमार्थसदाश्रया कल्पितसत्त्वस्य
धर्मिणो धर्मो भवितुमर्हतीत्यर्थः । द्वितीयं कल्पमाशङ्कते—अथासत्त्वेनेति ।
निराकरोति—सिध्यत्यनुपलब्धिरिति । असत्त्वेन हि कल्पितस्य पारमार्थिकं
भावत्वमुपेतव्यम्1840 । असत्यसत्त्वकल्पनाया अयोगात् । तथा च भावाश्रयानुप
लब्धिस्तात्त्विकी सिध्यत्येव । यदर्थं त्वसौ तदेव पारमार्थिकम् असत्त्वमात्मनो न
सिध्यति असत्त्वस्य काल्पनिकत्वाभ्युपगमाद् भवद्भिरित्यर्थः । अपि चायमसत्त्वेन
सन्तमात्मानं कल्पयित्वा अत्यन्तासत्त्वमनुपलब्धेरस्य साधयितुमध्यवसितः ।
1841तच्चान्यधर्मेण अनुपलब्ध्या न सिध्यति । न जातु स्थाणुधर्मेण कल्पितेन पुरुषे
स्थाणुत्वं पारमार्थिकं शक्यं साधयितुमित्याह—किमर्थं चायमात्मेति ।


रूपादिशब्देभ्योऽन्यत्वे सतीति । यदि हि पदत्वादित्युच्येत रूपादि
शब्दैरनैकान्तिकत्वं स्यादत उक्तम्—रूपादिशब्देभ्योऽन्यत्वे सतीति ।
1842यद्येकपदत्वादित्युच्येत रूपादिशब्दैरनैकान्तिकत्वं स्यादत उक्तम्—रूपादिशब्दे
भ्योऽन्यत्वे सतीति ।
तथापि रूपविज्ञानवेदनासंज्ञासंस्कारा इत्ययं शब्दो रूपादि
वाचको यः शब्दो रूपं वेदना संज्ञा विज्ञानमित्यादिस्ततोऽन्योऽसमस्तादन्यः समास
इति । तेनानैकान्तिकत्वमत उक्तम्—एकपदेति । तेन रूपादिवाचकैकपदव्यतिरिक्तं
यद्यदेकपदं तत्तद् रूपादिव्यतिरिक्तस्य वाचकम्, यथा घटादिपदम् । तथा चात्मपदम् ।
तस्मात् तदपि तथेति । एतेनेति । आत्मशब्दसाध्यत्वेनैवासंभिन्नेदंप्रत्ययः । अहंप्रत्ययो
व्याख्यातः ।
शङ्कते—असिद्ध इति । घट इति रूपादय एवैकोदकाहरणावच्छिन्ना
उच्यन्ते, न तु रूपाद्यतिरिक्तो घटो नाम कश्चिदस्तीत्यर्थः । निराकरोति—
अत्रोक्तमिति । उपादायरूपत्वात् तमस इति । यथा दाय इति देयमुच्यते
459 एवमुपादायेत्यनेनोपादेयमिति । सविषयत्वं सद्विषयत्वं सिद्धान्तिनोक्तमिति
मन्वानश्चोदयति—तमःशब्दस्य सविषयत्व इति । यद्यप्यभावविषयत्वे अपि न
निर्विषयत्वं तथापि देशकाभिमानमनुविदधानः परिहरति—न सूत्रार्थेति ।


पुनर्दृष्टान्तो नास्तीति । पूर्वमात्मानुपकारकत्वे साध्ये दृष्टान्ताभाव उक्तः
पुनरिहोच्यत इत्यर्थः । देशयति—अथात्मशब्द इति । यो यो वर्णात्मकः स
सर्वोऽनित्यविषयो यथा घटादिशब्दः, तथा चानित्यत्वे सति तद्विज्ञानमेव स्यात्
नात्मेति फलत आत्मप्रतिषेध इत्यर्थः । एतदपि दूषयति—तथापीति ।
नित्यशब्दस्तावन्नित्यमाचष्टे अन्यथा तत्प्रतिषेधानुपपत्तेरित्यर्थः1843 । शङ्कते—अथेति ।
सिद्धसाधननिवृत्त्यर्थं शरीरादिव्यतिरिक्तविधिविषय इति । निराकरोति—तथापीति ।
रूपादिस्कन्धपञ्चकातिरिक्तं नास्तीति भवतां राद्धान्तस्तदतिरिक्ताभ्युपगमे
विरुध्यते इत्यर्थः ।


यदि विवक्षितार्थव्यतिरेकेणेति । वादिनो हि शरीरेन्द्रियबुद्धिवेदनासंघातस्य
पारार्थ्यं विवक्षितम् । परार्थाश्चक्षुरादय इति ब्रुवतो न संघातपरार्थत्वं1844 तच्चेह पक्ष
धर्मताबलात् सिध्यदस्याभिप्रायेण व्याप्यते । न तु साक्षाद्विवक्षितम् । तद्वदिहाभिप्राय
व्याप्तं विवक्षितमारोप्य यद्यनन्वयविरोधौ देश्येते, ततः सर्वानुमानोच्छेदप्रसङ्गः ।
एतच्च ईश्वरसिद्धौ निपुणतरमुपपादयिष्यते । अथानुमानेन बाध्यत इति ।
संघातत्वानुमानमेवाभिप्रेतविपरीतसंघातपरार्थत्वपक्षो व्यवस्थालक्षणानिष्ट
प्रसङ्गरूपतर्कसहायमस्य बाधकं प्राणादिसत्त्वाद्यनुमानं वेति । एकदेशेन
चैकदेशान्तराणामिति
ब्रुवतो वार्त्तिककारस्य गृहप्रासादादयो नावयविनो
विजातीयानामनारम्भकत्वादित्यभिमतम् ।


दर्श…णात् । अकार्यकारणभूतानां चेति । यथा हि कालाक्षीं गामीक्षितवतः
स्वस्तिमत्यां गवि भवति प्रतिसन्धानम्, न चैतयोरस्ति कार्यकारणभाव इत्यर्थः ।
460 भाष्यम्—भिन्ननिमित्ताविति । भिन्नमिन्द्रियं निमित्तं ययोः । अनन्यकर्तृकौ
आत्मैककर्तृकौ समानविषयौ द्रव्यमेकं विषय इत्यर्थः ॥ १ ॥


न विषयव्यवस्थानात् ॥ ३ । १ । २ ॥


पूर्वपक्षसूत्रम्—न वि…नात् ॥ यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ
तच्चेतनम् । इन्द्रियभावाभावानुविधायिनौ च ताविति तदेव चेतनमिति भावः ।


सिद्धान्तभाष्यम्—संदिग्धत्वादहेतुः । अनन्यथासिद्धावन्वयव्यतिरेकौ
कारणत्वमात्रे प्रमाणम्, न तु कर्ता न चेतनश्चेतनं वा करणमित्यत्रेत्यर्थः ॥ २ ॥


तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३ । १ । ३ ॥


विषयव्यवस्थानं च विरुद्धमिन्द्रियादीनामचैतन्यस्य साधनादित्याह—
यच्चोक्तमिति । तद्व्य…धः ॥ सर्वज्ञ इत्यस्य विवरणं सर्वविषयग्राही
सर्वेषामिन्द्रियाणां प्रमाणान्तराणां च ये विषयास्तद्ग्राही । इन्द्रियान्तराणि प्रमाणा
न्तराणि च पुनर्व्यवस्थितविषयाणि तेनार्वाग्दृगपि सर्वज्ञ इति सिद्धम् ।
तत्रेदमभिज्ञानमिति । असाधारणं चिह्नमभिज्ञानमुच्यते । तच्चाप्रत्याख्येयमनुभव
सिद्धत्वात् । चेतनवृत्तमभिज्ञानमप्रत्याख्येयमुदाह्रियत इति योजना । अनियतपर्यायम्
अनियतक्रममित्यर्थः । अनेकविषयमर्थजातमिति । अनेकः पदार्थो विषयो
यस्यार्थजातस्य तत् तथोक्तम् । क्वचित् पाठोऽनेकविधमर्थजातमिति । स सुगम एव ।
आकृतिमात्रं त्विति सामान्यमात्रमित्यर्थः ।


1845चैतन्यं त्वात्मनः स्वातन्त्र्ये सत्यव्यवस्थानाच्चक्षुरादिवदिति1846,
461 प्रमाणसंशयविपर्यासस्मृतिषु योऽनुस्यूत एक उपलभ्यते स चेतनः स्वातन्त्र्ये
सत्यव्यवस्थानात् । यस्त्वचेतनो नासौ स्वातन्त्र्ये सत्यव्यवस्थितो यथा चक्षुरादीति
व्यतिरेकी हेतुः । यद्यव्यवस्थानादित्येतावन्मात्रमुच्येत, ततो मनसानैकान्तिकः
स्यादत उक्तम्—स्वातन्त्र्ये सतीति । अथ वा कृतमव्यवस्थानेन स्वातन्त्र्यमेव
केवलमस्तु चैतन्यसाधनमित्याह—नाचेतन आत्मेति । आत्मेति प्रमाणसंशय
विपर्ययस्मृतिष्वनुस्यूतमनुभूयमानमुपलक्षयति । निराकृतमप्यर्थं प्रकारान्तरेण
पुनरुपन्यस्य निराकरोति—पृथिव्यादिनित्यत्वसाधन इति ।


तदेतच्चेतनवृत्तं देहादिभ्यो व्यावर्तमानं तदतिरिक्तं चेतनं साधयतीति स्थितम् ।
नेच्छाद्याधारत्वं देहादीनामिति ॥ ३ ॥


॥ इन्द्रियभेदप्रकरणम् ॥

शरीरव्यतिरेक्यात्मप्रकरणम्


शरीरदाहे पातकाभावात् ॥ ३ । १ । ४ ॥


सूत्रान्तरमवतारयति भाष्यकारः—इतश्च व्यतिरिक्त आत्मा न
देहादिसंघातमात्रमिति ।


शरी…वात् । प्राणातिपाते पातकाभावप्रसङ्गादिति । अयं च यद्यपि
भूतचैतनानिकानां नानिष्टप्रसङ्गस्तथापि शाक्यान् प्रति द्रष्टव्यः । ते हि प्राणातिपातकृतं
पातकमिच्छन्ति । एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणं विचित्राभिसन्धित्वात्
पुंसाम् । यदि कश्चिद् भूतचैतनिकोऽपि प्राणातिपातकृतं पातकं नेच्छेत् तमपि प्रति
दूषणं 1847भविष्यतीत्येवमर्थमिति मन्तव्यम् ।


462

वार्त्तिकम्—अकृतकृताभ्यागमनाशदोष इति । येनाकृतं कर्म प्राणातिपातः
तस्य पातकाभ्यागमो येन च कृतं तस्य नाश इत्यर्थः ।
शास्त्रचोदितं फलमनुष्ठातरि1848


इत्ययमुत्सर्गो यत्र पुनः शास्त्रमन्यस्य फलमाह यथा श्राद्धे वैश्वानरीयेष्ट्यादौ
तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलम्, पितृकृताया वा जातेष्टेः पुत्रगामि
फलमिति । भावना स्मृतिहेतुः संस्कारः । यत्कायेति । येन कायेनोपलक्षितः
कश्चिच्चित्तसन्तानः1849 स कायान्तरवर्त्यपि फलं भुङ्क्त इत्यर्थः । एकनिमित्तानां
प्रत्ययानां प्रतिसंधानाद्
इति । उक्तमेतद् यथा नर्तकीभ्रूलताभङ्ग एकस्मिन् बहूनां
प्रतिसंधानमिति । सर्वावस्थोपलब्धेरिति । सर्वास्ववस्थासु बीजावयवानामुपलब्धेः
परमाण्ववस्थत्वे त्वनुपलब्धिः स्यात् । तस्मान्न बीजावयवाः पच्यमाना अङ्कुरोत्पत्तौ
परमाण्ववस्था भवन्ति, अपि त्ववयविन एव पच्यन्त इत्यर्थः । परमाण्ववस्था
बीजावयवा न बीजत्वादिजातिविशेषवन्तमारब्धुमर्हन्तीत्युक्तं सिद्धान्तिनेति मत्वा
देशयति—यदि तर्हीति । परिहरति—नानेनैवोक्तोत्तरत्वादिति । प्रतिसंधानाय
बीजत्वजातीयानवयवान् लक्षयितुमस्माभिर्बीजावयवानां परमाण्वन्तो विभागो
निषिद्धः । कल्पादौ त्वारम्भे परमाणूनां न प्रतिसन्धानमस्ति । न हि पूर्वसर्गे ये
बीजमारेभिरे सांप्रतमपि त एवारभन्ते नान्य इति प्रतिसंधाननियमः, अपि त्वन्येभ्योऽपि
भवन्तीति भावः । पैलुकण्ठः शङ्कते—आ मध्यात् पाकानुपपत्तिरिति चेत् ?
परिहरति—नाप्रतिबन्धादिति । सान्तराण्येवावयविद्रव्याणीत्यर्थः । अथायमवय
वानुप्रवेशो द्रव्यस्य विनाशकः कस्मान्न भवतीत्यत आह—यदि चायमवयवानुप्रवेश
इति । भाजनगतानामपां भाजनविनाशे अवस्थानमेव न स्यात् । सान्तरत्वे तु
तावत्य एवापो भाजने स्यन्दन्ते यावतीभिर्बहिः शीतस्पर्शोपलब्धिर्भवति, मात्रया च
तत्र कालपरिपाकवशादनवस्थानमपि । विनाशे तु सहसानवस्थानमपां भाजनगतानां
463 भवेदित्यर्थः । व्यवहिते चाव्यवहिते च स्फटिभाजने न द्रव्ये तुल्योपलब्धिरिति1850


शङ्कते—सुखी स्यामिति तत्क्रियेति चेत् ? यद्यपि विशरारवः स्कन्धाः
तथाप्यनाद्यविद्यावासनावशोऽयमेकमहङ्कारास्पदं सत्त्वं नित्यमभिमन्यमानः1851
सुखी भवेयं दुःखी मा भूवमिति तृष्णक्1852
प्रवर्तते इत्यर्थः । निराकरोति—तन्न, अननुभूतत्वादिति । यथा च क्षणिकानां
विज्ञानानां परस्परवार्तानभिज्ञतया न प्रतिसन्धानक्षमत्वं तथोपपादितमस्माभिरात्म
लक्षणावसर इति । न अनागतानामनुत्पत्तेः सत्त्वादिति । न च ब्रह्मचर्यादि
परिपाकसहितेन ज्ञानक्षणेनासमर्थो ज्ञानक्षणो जन्यते, स च न ज्ञानान्तरं1853 प्रसूत
इत्यनागतानुत्पत्तिरसमर्थस्य च क्षणस्य स्वभावतो विनाश इति युक्तम्,
असमर्थक्षणस्योत्पादस्यैव केवलात् सहकारिसापेक्षाद् वानुपपत्तेः1854 । यथा चैतत्
तथा क्षणभङ्गभङ्गावसरे उपपादयिष्यते ॥ ४ ॥


तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥ ३ । १ । ५ ॥


वैनाशिको नैयायिकपक्षवत् सांख्यपक्षेऽपि हिंसातत्फलानुपपत्तिमापा
दयितुं हिंसा तत्फलसंभवं पूर्वपक्षयति—इयं तु हिंसेति । व्यक्तेरिति । सदेव हि
कार्यं कारणेन व्यज्यते, न त्वसत् क्रियते इत्यर्थः । परिहरति—नेति । त्रिविधोऽप्ययं
धर्मलक्षणावस्थारूपः परिणामो नित्याद् धर्मिणो न भिद्यते इति परिणामानित्यत्वं
धर्मिनित्यत्वेन विरुध्यते । अविरोधाय वा धर्मिणोऽप्यनित्यत्वाभ्युपगमे
वैनाशिकपक्षोक्तदोषप्रसङ्ग इत्यर्थः । गुण इति । ऋजुत्ववक्रत्वे खलु
अङ्गुल्यवयवसंयोगविशेषौ1855 सत्येव द्रव्यारम्भकसंयोगे उदयव्ययवन्तावनुभूयेते
इति ।


464

तदेतत् नैयायिकपक्षदूषणं सांख्यपक्षेऽप्यापाद्य नैयायिकं पृच्छति—
अथात्मनो नित्यस्येति । नैयायिक आह—सुखदुःखे इति । नित्यादात्मनो व्यति
रिक्ताभ्यां पुण्यपापाभ्यामात्मधर्माभ्यामनित्याभ्यामात्मधर्मावेव सुखदुःखे जन्येते
इत्यर्थः । एतदुक्तं भवति । नित्यस्यानित्यधर्माधानमेवोपकारो न तु नित्यस्वरूपकरणं
येन तदनित्यं स्यात् । धर्मश्च धर्मिणो भिन्नो न तु धर्मिस्वभावः । यथा च भेदाविशेषे
सत्यपि 1856धामधूमयोरेव कार्यकारणभावो न वह्निक्रमेलकयोर्वस्तुस्वभावनियमात्
एवं भेदाविशेषेऽपि आत्मनः पुण्यपापयोरेव धर्मधर्मिभावो नात्माकाशयोः
पुण्याकाशयोर्वेति लेशमात्रमत्रोक्तम् । विस्तरस्तु क्षणभङ्गभङ्गे भविष्यतीति ।
नानेकान्तादिति । वाद्यभिमतपरमाणुनित्यत्वग्राहि प्रमाणदार्ढ्याभि
प्रायेणानैकान्तिकत्वमुक्तम् । न तु बौद्धराद्धान्ते नित्यः परमाणुरिति । अत एवा
परितोषेणान्यथासिद्धिमाह—चर्मणश्चानित्यत्वमिति । तद्वतां च उपलादीनाम्
अवस्थानादिति । नासति विनाशप्रत्यये विनाशेऽस्ति किञ्चित् प्रमाणम् । उपलादिषु
चावयवविभागविनाशाभ्यां प्राग् न विनाशोऽनुभूयते क्षणभङ्गश्च निषेत्स्यत इति
भावः ।


आरब्धकार्याणां द्रव्यान्तरानारम्भिका इति अवयव्यारम्भकात् संयोगाद्
भेद उक्तः । विक्रियायां च दृष्टान्ताभाव इति । धर्मोत्पादमन्तरेणाविनश्यतो
धर्मिस्वरूपस्य विक्रियायामित्यर्थः । शङ्कते—यद्येवमिति । यद्येवंभूतो विकारः
यादृशो घटादीनां श्यामतानिवृत्तौ लोहितोत्पादे विकारः तादृशो नात्मन इति यदि
शङ्कसे इत्यर्थः । निराकरोति—आत्मन्यपीति । न बाह्येन्द्रियग्राह्य एव विकारोऽपि
तु धर्मान्तरोत्पत्तिमात्रम् । तच्चात्मन्यप्यस्तीति ॥ ५ ॥


न कार्याश्रयकर्तृवधात् ॥ ३ । १ । ६ ॥


465

वैकल्यं वा प्रमापणं वेति । यथा शरीरमुपघ्नन् हिनस्त्येवं चक्षुराद्युत्पाटयन्
हिनस्त्येवेति । पृच्छति—कुत एतदिति । स्वरूपतो हिंसासंभवे भाक्ती हिंसा न
युक्तेति वैनाशिकस्याभिसन्धिः । उत्तरम्—हिंसाफलोपभोगस्येति । वैनाशिक
स्यापि विशरारूणां भावानां न स्वरूपतो हिंसा कारणजन्येति विलक्षणोत्पादो
हिंसेति वक्तव्यं तत्र कारणव्यापारसंभवात्, तथा च तत्रापि हिंसा भाक्तीति
भाक्त्वस्योभयत्राप्यविशेषाद् यतरस्मिन् पक्षे कृतविप्रणाशाकृताभ्यागमदोषो नास्ति
स पक्षोऽभ्युपेतव्यः । स च नित्यात्मपक्षः । तस्मात् पारिशेष्यात् तत्सिद्धिरिति ।


ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वमिति । उपायतद्व्यापाराणामनभिज्ञो
हि चिकीर्षन्नपि न कर्ता । एवमभिज्ञोऽप्यचिकीर्षन्नकर्ता । तथा चिकीर्षन्नप्यलसतया
अप्रयतमानो न कर्तेति । सुखदुःखसंवित्समवाय इति । स्वसुखदुःखेति द्रष्टव्यम् ।
अस्ति हि परकीयसुखदुःखसाक्षात्कारो योगिनां न चैते भोगिनः ॥ ६ ॥


॥ इति शरीरव्यतिरेक्यात्मप्रकरणम् ॥

चक्षुरद्वैतप्रकरणम्


सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ ३ । १ । ७ ॥


इतश्च देहादिव्यतिरिक्त आत्मा कुतः ? सव्य…नात् ॥ तत्र
मानसमनुव्यवसायलक्षणं प्रत्यभिज्ञानं भाष्यकारो दर्शयति—तमेवैतर्हीति । व्यवसायं
बाह्येन्द्रियजं प्रत्यभिज्ञानमाह—स एवायमर्थ इति । अस्यैव चानुव्यवसायः पूर्वः ।


तदेतत् प्रकरणं वार्त्तिककारो दूषयति—सिद्धत्वादनारम्भ इति । युक्तोऽन्यः
समुच्चयः
शास्त्रे । अयमभिसन्धिः । काणस्तथा न पश्यति पिहितैकलोचनो वा यथा
अविकलेन्द्रियः । तत्र यदि सव्यदक्षिणाधिष्ठानभेदभिन्नं चक्षुः, न चैतद् द्वयमणुना
मनसा युगपदधिष्ठातुं शक्यमित्यन्यतरदधिष्ठेयम् । तथा च सर्व एवैकैकेन चक्षुषा
466 पश्यतीति पिहितैकलोचनेन तुल्योपाम्भोऽविकलाक्षस्य स्यात्, न चैवमस्ति ।
एकत्वे तु तदुभाभ्यामधिष्ठानाभ्यां विनिर्यत् क्वचिदपि मनसाधिष्ठितमेवेत्यविकलाक्षस्य
न विकलाक्षवदुपलम्भप्रसङ्गः । तस्मादेकमनेकाघिष्ठानं चक्षुरिति । प्रकरणविरोध
श्चेन्द्रियपञ्चत्वादिति ।
न चैतदेकस्मिन् शरीरे जात्यभिप्रायं घ्राणादीनां व्यक्तीनां
चतसॄणां व्यक्त्यन्तरेण समभिव्याहारोपपत्तेर्न तु जात्या । न हि भवति ब्राह्मण
युधिष्ठिरावागताविति किं तु ब्राह्मणराजन्याविति वा वसिष्ठयुधिष्ठिराविति वेति ॥ ७ ॥


नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥ ३ । १ । ८ ॥


तदेतच्चक्षुरैक्येनाक्षिपति—नैक…त् ॥ ८ ॥


एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ३ । १ । ९ ॥


समाधत्ते—एक…त्वम् ॥ विनाशाविनाशलक्षणविरुद्धधर्मसंसर्गात्1857
नानात्वमित्यर्थः । विनष्टेऽप्येकस्मिन्नधिष्ठाने योऽविनष्टोऽवशिष्यते तेन प्रत्ययमात्रं
काणस्येव भवति ॥ ९ ॥


अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ ३ । १ । १० ॥


आक्षेप्ताह—अव…तुः ॥ १० ॥


दृष्टान्तविरोधादप्रतिषेधः ॥ ३ । १ । ११ ॥


467

समाधाता आह—दृष्टा…धः ॥ तृतीयं व्याख्यानमाह—अथ वा
एकविनाशस्यानियमादिति ।
एकत्वे चक्षुषो विनाशनियमो न स्यात् । सव्यस्यैव
चक्षुषो न दक्षिणस्यैव वेति1858 । एकत्वात् सव्यविनाशे दक्षिणस्यापि विनाशप्रसङ्गात् ।
दृश्यते चायं नियमः । तस्माद् द्वावर्थौ पृथगावरणौ पृथगुपघातौ चेति । अपि च यदि
चक्षुरेकं मध्येन नासावंशेनावपीडितम्, ततोऽङ्गुल्यावपीडितं यथैकमर्थं भिन्न
मिवावभासयति अवपीडने च निवर्तमाने भिन्नावभासितावर्थौ1859 संदधातीव तथा
नासावंशावपीडितं भिन्नमिव दर्शयेत्, तन्निवृत्तौ संदध्यादिवेत्याह—अव
पीडनाच्चैकस्य चक्षुष
इति । रश्मिभेदाद् विषयसन्निकर्षस्य भेद इत्यर्थः ।
अङ्गुल्यवपीडितेन चक्षुषा दृष्टान्तेन विरोधादित्यर्थः । एकविनाशे इतराविनाशो वा
दृष्टान्तः । तेन विरोधादिति । स खलु दृश्यमानश्च एकान्तावधारणाद् अन्तश्चेति
दृष्टान्त इति सूत्रार्थः ।


न च नासावंशावपीडनेन सर्वेषां सर्वदा सर्वत्र द्विचन्द्रवद्विभ्रमप्रसङ्गः,
आगन्तुकमवपीडनं भ्रमहेतुर्नौत्पत्तिकमिति कार्यदर्शनात् कल्प्यते ॥ ११ ॥


इन्द्रियान्तरविकारात् ॥ ३ । १ । १२ ॥


तदेवं प्रतिसन्धानद्वारेणात्मनि प्रत्यक्षं प्रमाणयित्वा अनुमानमिदानीं प्रमाणयति—
अनुमीयते चायमिति । विप्रतिपन्नं हि प्रति प्रतिसन्धानमनुमानमुक्तम् । परमार्थतस्तु
अनुभवानुसारमार्गोऽसाविति मन्तव्यम् । इन्द्रि…त् ॥ कस्यचित् फलस्य
चिरविल्वादेरम्लस्याम्लेन रसेन सहचरितं रूपं वा गन्धं वानुभवति । अथ तत्सहचरितं
रसमनुस्मरति । स्मृत्वा चेच्छति । इच्छातोऽस्य रसनेन्द्रियविकारो दन्तोदकसंप्लव
लक्षणः प्रवर्तते । तद्दर्शनाच्चास्येच्छानुमीयते । इच्छया च स्मृतिः । सेयं स्मृतिरसत्या
त्मनि सर्वेन्द्रियविषयवेदिनि न भवितुमर्हतीति ॥ १२ ॥


468

न स्मृतेः स्मर्तव्यविषयत्वात् ॥ ३ । १ । १३ ॥


अस्याक्षेपसूत्रम्—न स्मृ…त् ॥ स्मृतिरात्मानं कारणत्वेनावगमयेत्, विषयत्वेन
वा ? न तावत् कारणत्वेन तस्याः संस्कारकारणत्वात् । न विषयत्वेन स्मर्तव्यविषयत्वात् ।
स्मृताच्च तस्मादिन्द्रियान्तरविकारोत्पत्तिरित्यर्थः ॥ १३ ॥


तदात्मगुणसद्भावादप्रतिषेधः ॥ ३ । १ । १४ ॥


समाधत्ते—तदा…धः ॥ असत्यात्मनि स्मृत्यनुत्पत्तिं दर्शयित्वा स्मर्तव्यार्थ
विषयैव स्मृतिर्नात्मादिविषयेति पूर्वपक्षिणोऽवधारणं खण्डयति—अपरिसंख्यानाच्च
स्मृतिविषयस्येति ।
मानसानुव्यवसायजनितसंस्कारकारणासु चतसृष्वपि स्मृतिषु
नार्थमात्रं विषयः । अपि तु ज्ञानज्ञातृज्ञेयानि सर्व एव विषयाः । चतुर्षु च वाक्येषु एकत्र
कारकान्निष्कृष्टा ज्ञानक्रिया, यथा अमुष्मिन् मम ज्ञानमभूदिति अगृह्यमाणोऽप्यर्थः
स्मृतिसन्निधापनामुष्मिन्नित्युच्यते । कारकादनिष्कृष्टाप्येकत्र पूर्वापरीभूतभावनाप्रधाना
ज्ञानक्रिया गम्यते, यथा अज्ञासिषमहममुमर्थमिति । अन्यत्र ज्ञानभावने कारकादनिष्कृष्टे
कर्तृप्रधाने यथा ज्ञातवानहममुमर्थमिति । अन्यत्र तु ज्ञानभावने कारकादनिष्कृष्टे
कर्मप्रधाने यथा असावर्थो मया ज्ञात इति । समानार्थमिति । ज्ञानज्ञेयज्ञातृप्रकाशनं
समानमित्यर्थः । एवं तावदगृह्यमाणेऽर्थे स्मृतिः प्रदर्शिता । अथ प्रत्यक्षेऽर्थे स्मृतिः
प्रदर्श्यते—अथ प्रत्यक्षेऽर्थ इति । स्मृतिरिति प्रत्यभिज्ञानमाह स्मृतिच्छायावाहित्वात् ।
अद्राक्षमिति 1860पूर्वानुभूतमर्थमर्थदर्शनं परामृशति । तेनार्थदर्शनानुभवः कल्प्यताम् ।
1861अनुभवानुभवकल्पना तु कुतस्त्येत्यत आह—न खल्वसंविदिते स्वे दर्शने इति ।
अपि त्वर्थदर्शनं तद्दर्शनं च संविदिते एवेत्यर्थः । कुत एतदित्यत
आह—स्यादेतदद्राक्षमिति । यस्मादनुभवानुभवपुरःसरं यत्राद्राक्षमेतदिति भवति
469 नूनं तत्रानुभवानुभवप्रथाप्यभूदिति कल्पनीयमित्यर्थः । इतोऽपि न शरीरगुणः स्मृतिः
बाल्ये अनुभूतस्य वार्धके स्मरणात् । अन्यद्धि बालशरीरमन्यच्च वृद्धशरीरमिति ।
आस्तां तावत् प्रत्यभिज्ञानं सादृश्यमपि दुर्विज्ञानम् । न च परमाणूनां चैतन्यम् । ते हि
प्रत्येकं वा चेतयेरन् मिलिता वा ? पूर्वस्मिन् कल्पे अनेकचैतन्ये एकस्मिन् शरीरे
नैकमत्यनियमो1862 भवेत् । न हि नानाचेतनानामैकमत्यनियमो दृष्टः । मिलितानां तु
चैतन्ये परमाणूनामावापोद्वापभेदेन मेलकस्य नानात्वात् स एवान्योपलब्धस्यान्येन
स्मृत्यभावप्रसङ्गः । तस्मान्न शरीराधारा चेतनेति ।


परेषां कारिकां दूषयति वार्त्तिककारः—एतेन न तच्चक्षुषि नो रूप इति
प्रत्युक्तम् ।
आत्मनः पारिशेष्यात् सिद्धेः स्मृत्याधारत्वव्युत्पादनेनेत्यर्थः । यत्राधिकरणे
तज्ज्ञानं निष्ठितं भवेत्, न तदधिकरणमस्ति न च नास्तीति व्याहतम् । स्यादेतत् । नायं
विशेषप्रतिषेधो न चक्षुषि विज्ञानं न रूप इति, किन्तु ये चक्षुराद्याश्रयं विज्ञानं मन्यन्ते
तन्मतं प्रतिषिध्यते । आधारवत्त्वं तु न प्रतिषिद्धमप्रसक्तत्वादित्यत आह—कस्य
वेति ।
अपि चैषा कारिका आत्माभावविवक्षया प्रयुक्ता आत्मसत्त्वमेव प्रतिपादयन्ती
विवक्षितविरुद्धेत्याह—अयं च विज्ञानस्येति ।


तदेवं भाष्यमतेनेन्द्रियान्तरविकारादिति सूत्रं व्याख्याय वार्त्तिककारः स्वमतेन
व्याचष्टे—अथ वा एकस्येति । उक्तमेव प्रतिसन्धानं पुनरिन्द्रियान्तरविकारद्वारेण
दर्शयति सूत्रम् । यथा च प्रतिसन्धानं देहेन्द्रियादिव्यतिरिक्तमात्मानं प्रतिपादयति
तथाधस्तादेव विवृतमित्याह—उक्तन्यायमिति ॥ १४ ॥


॥ चक्षुरद्वैतप्रकरणम् ॥

470

आत्मनो मनोव्यतिरेकित्वप्रकरणम्


नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥ ३ । १ । १५ ॥


ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥ ३ । १ । १६ ॥


मतिः स्मृत्यनुमानादिज्ञानम् । यद्यपि चेदं प्रातिस्विकसंस्कारादिकारणकं
तथाप्यवश्यमनेनेन्द्रियजेन भवितव्यम्, ज्ञानत्वात् । रूपादिज्ञानवदिति । तच्चेन्द्रियमसति
चक्षुरादौ भावात् मतेश्चक्षुराद्यतिरिक्तं मन इत्युच्यते । 1863मतेः साधनं मन इति ॥ १६ ॥


नियमश्च निरनुमानः ॥ ३ । १ । १७ ॥


ननु भवतु करणान्तरं मनः, तत्तु कथमिन्द्रियान्तरसहकारि कथं चाणुपरिमाण
मित्यत आह—तच्च ज्ञानायौगपद्यलिङ्गमिति ।


वार्त्तिकम्—यदि सर्वं विज्ञानं ससाधनमुच्यते मनस्यपीति । न च तत्र मन
एव करणमात्मनि वृत्तिविरोधात् । तदन्यस्य करणत्वे तस्येन्द्रियान्तरत्वे1864 तज्ज्ञानायापी
न्द्रियान्तरमुपासनीयमित्यनवस्था । अनिन्द्रियजत्वे तु मतावपि संस्काराद्येव कारणम
स्तीति कृतमत्र मनसेति भावः । परिहरति—ओमितीति । यथा कारणसत्तया कार्यं
जनितं कारणं ज्ञापयति एवं मनःसत्तया मनोलिङ्गज्ञानं जनितं मनो ज्ञापयति । तच्च
लिङ्गजं मनोज्ञानं मनःसत्ताहेतुकम् । न च स्वात्मनि वृत्तिविरोधः । न हि मनः
सत्तायां मनः करणं मनोज्ञाने वा मनोज्ञानं करणं येन स्वात्मनि वृत्तिविरोधः स्यात्,
केवलं वा मनः स्वज्ञाने करणं येनैकस्य कर्मकरणत्वे स्याताम् । अपि तु मनोज्ञाने
लिङ्गज्ञानसहितं मनः करणम्, तत्स्वरूपं तु लिङ्गज्ञानसहितादिति न स्वात्मनि
471 वृत्तिविरोधः । नाप्येकस्यैव केवलस्य कर्मकरणभाव इति भावः । स्यादेतत् ।
लिङ्गज्ञानसहितस्य मनसः करणत्वे माभूदेकस्यैव कर्मकरणभावः स्वरूपेण
कर्मत्वात्, लिङ्गज्ञानसाहित्येन च करणत्वात् । यदा तु योगिना प्रत्यक्षेण मनो गृह्यते
तदा कथमेकस्य कर्मकरणभाव इत्यत आह—यस्य तु मनःप्रत्यक्षम् इति ॥ १७ ॥


॥ मनोव्यतिरेकित्वप्रकरणम् ॥

आत्मनित्यत्वप्रकरणम्


पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः ॥
३ । १ । १८ ॥


शास्त्रार्थभूताभ्युदयनिःश्रेयसोपयोगिनं परलोकिनं1865 परिचिक्षिषुः परीक्षाहेतुभूतं
संशयमाह—किं पुनरयमिति ।


अत्र वार्त्तिककारः संशयं दूषयन् प्रकरणान्तरारम्भमाक्षिपति—एतस्मिन्नर्थ
इति । देहेन्द्रियबुद्धिवेदनाभ्यो व्यतिरेकमात्मनो दर्शयता बाल्यकौमारयौवन
वार्द्धकभेदेऽपि चैकात्मप्रतिसन्धानमर्थादुपपादयता शरीरनाशादूर्ध्वमात्मसद्भावो
दर्शित एव । तावता च नः प्रयोजनम् । तत् किमवशिष्यते यत्र संशयो यत्कृते च
प्रकरणोत्थापनमित्यर्थः । समाधत्ते—नानारभ्यमिति । सिद्धेऽपि देहादिव्यतिरेके
बाल्यादिषु चानुगमे किमयमात्मा आशरीरोत्पत्तेरा च प्रायणाद् यावद्देहसन्तानभावभावी
आत्मा आहोस्विदुपरतेऽपि देहादिसंतानेऽनुवर्तेत एवेत्येष विमर्शोऽद्यापि न निराकृत
इति तन्निरासायेदं प्रकरणमारभ्यत इत्यर्थः ।


472

भाष्यम्—देहभेदादिति । ल्यब्लोपे पञ्चमी । बाल्यकौमारयौवनवार्द्धक
देहभेदमभिसमीक्ष्य प्रतिसन्धानादस्यावस्थानं सिद्धमित्यर्थः । पूर्वा…त्तेः ॥
वार्त्तिकम्—अभिप्रेतविषयप्रार्थनाप्राप्ताविति ।
अभिप्रेतविषयप्राप्ताविति
वक्तव्ये प्रार्थनाग्रहणम् इष्यमाणतमत्वं सूचयति । नेष्यमाणप्राप्तौ हर्षोऽपि
त्विष्यमाणतमप्राप्तौ, तेनाभिप्रेतविषयस्य प्रार्थनायां सत्यां प्राप्तेरित्यर्थः । हाना
शक्यतेति
विषयेण विषयिणीं बुद्धिमुपलक्षयति । अनिष्टो विषयो मरणादिः ।
तस्य साधनमहिव्याघ्रादिः । तस्योपनिपातः सन्निधानम् । तस्मिन् सति तद्व्याघ्रादि
जिहासोरशक्यहानमेतदिति बुद्धिर्भयम् । सा हि कम्पादि1866 जनयति । इष्टविषयवियोगे
सति तत्प्राप्त्यशक्यप्रार्थना शोकः ।
तस्यैव पुरुषस्य यः प्राप्त्यशक्यः तत्र प्रार्थना
शोकः । य इष्टो विषयः प्राप्तुमशक्यस्तत्र प्रार्थना इदं मे उपपद्यतां भवत्विति । इत्थंभूता
चेयं प्रार्थना न स्वरूपेण शोक इत्यत आह—इष्टविषयवियोगे सतीति । अनर्हणेनेति
यावत् । तदयमर्थः । इष्टवियोगे सति तत्प्राप्त्यशक्यताज्ञानं शोक इति । अनर्हणेन
प्राप्त्यशक्यताज्ञानं शोचतः सूचयति—प्रत्यक्षबुद्धिनिरोध इति । प्रत्यक्षग्रहणेन
ग्रहणमात्रमुपलक्षयति । तदनुगृहीतः स्मृत्यनुगृहीतः । तदनुसन्धानविषय इति ।
अनुसन्धीयत इत्यनुसन्धानं स्मृते यदनुसन्धेयं तद्विषय इत्यर्थः । तथापि
स्मृतिप्रत्यभिज्ञानयोरविशेष इत्यत आह—वर्तमानस्य विषयस्य दृश्यस्य
तद्भावविषय इति । दृष्टो हि निरालम्बनो बालः स्खलन् मातुरङ्कात्
पतनस्यानिष्टसाधनत्वमनुस्मृत्येदं च पतनमिति परामृष्य तस्यानिष्टसाधनत्वमनुमाय
रुदन् मातुर्मङ्गल्पमुरःसूत्रं विक्षिप्य हस्तौ वेपमान आलम्बमानः1867 । तदस्यानया
चेष्टया भयशोकावनुमीयेते इत्यर्थः ॥ १८ ॥


पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः ॥ ३ । १ । १९ ॥


473

दृष्टेन विशेषितत्वादिति । दृष्टशब्देन विशेषितो व्यवस्थापितः कार्यकारणभावो
न शक्यो व्युदसितुमित्यर्थः । अथात्मन उत्पत्तिनिरोधानुमानमिति । यद्विकारि
तदुत्पत्तिनिरोधधर्मकं दृष्टम्, यथा पद्मम् । तथा चात्मा । तस्मादनित्य इत्यर्थः । यदि
धर्मोपजननमात्रं विकारः स आकाशादिष्वपीत्यनेकान्तः । धर्मधर्मिणोश्च भेदान्न
धर्मोपजननापायौ धर्मिणि युज्येते इति नानित्यत्वानुमानं विकारात् । अस्माकं
त्वात्मनित्यत्वेऽनुमानमस्तीत्याशयेन नित्यत्वानुमानमाह—तन्न युक्तमिति । सर्वदा
मूर्तत्वादिति ।
घटादयोऽपि प्रथमे1868 क्षणे भवन्त्यमूर्ताः । परिमाणविशेषो हि मूर्त्तिः ।
न च द्रव्यसमानकाला उत्पत्तिर्गुणानामिति तन्निवृत्त्यर्थं सर्वदेति उक्तम् ॥ १९ ॥


नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥
३ । १ । २० ॥


पञ्चात्मकानां पद्मादीनां विकाराः पञ्चात्मकविकारा इति ॥ २० ॥


प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥ ३ । १ । २१ ॥


सामान्यतोऽधिगतस्य विशेषज्ञापनार्थमिति हर्षादिना सामान्यत
इच्छामात्रमवगतम् । तद्विशेषस्तु स्तन्याभिलाषो रागश्चात्रोक्त इत्यर्थः ॥ २१ ॥


अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥ ३ । १ । २२ ॥


न पूर्वाभ्यस्तस्मृत्यनुबन्ध एव प्रवृत्तिकारणम्, अयसोऽयस्कान्तोपसर्पणे
तदभावात् । यदि च बालकस्य पूर्वाभ्यस्तस्मृत्यनुबन्धो भवेत् जात्यन्धबधिरादयः
474 तज्जन्मानुभूतान् गन्धस्पर्शान् जात्यन्तरानुभूतान् रूपस्पर्शादीनपि व्याचक्षीरन्नित्य
भिप्रायः । विकल्प्य दूषयति—किमिदमिति । यौवनाद्यवस्थायां हि चेतनस्य
प्रवृत्तिः क्षीरादौ पूर्वाभ्यस्तस्मृत्यनुबन्धहेतुका प्रतीतेति बाल्यावस्थायामपि चेतनस्य
तद्धेतुकैव भवितुमर्हति । तेन हेतुना चेतनप्रवृत्तेः स्वाभाविकसंबन्धापगमाद् वह्निनेव
धूमस्य । एवं व्यवस्थिते यत्र स्मृतेः कार्यं दृश्यते तन्मात्रविषयैव बालस्य स्मृति
रनुमीयते नान्यत्र । न च य एकस्य स्मरति तेनापरमपि स्मर्तव्यमिति कश्चिन्नियम
हेतुरस्ति, येन जात्यन्धबधिरादयो रूपादिभेदानाचक्षीरन् 1869अदृष्टपरिपाकोद्बोधितस्य
संस्कारस्य तन्नियमेन नियमोपपत्तेः । अद्यत्वेऽपि चानुभूतेषु कस्यचिदेव1870 स्मरामो
न सर्वस्येति ॥ २२ ॥


नान्यत्र प्रवृत्त्यभावात् ॥ ३ । १ । २३ ॥


भाष्यम्—न च स्तन्याभिलाषलिङ्गमन्यदिति । स्तन्याभिलाषो लिङ्गं यस्य
निमित्तान्तरस्य तत् तथोक्तम् । अन्यत्र लोष्टादौ लोष्टादेरिति यावत् षष्ठीसप्तम्योर
भेदार्थत्वात् । एतदुक्तं भवति । लोष्टादेरन्यस्यायस्कान्ते प्रवृत्त्यभावाद् अयसश्च1871
प्रवृत्तेर्न निर्निमित्तमुपसर्पणमिति पूर्वं व्याख्यातम् । संप्रति त्वन्यथा व्याचष्टे—अयसः
खल्वपीति
निपातसमुदायः कल्पान्तरं द्योतयति ॥ २३ ॥


वीतरागजन्मादर्शनात् ॥ ३ । १ । २४ ॥


पूर्वानुभूतविषयानुचिन्तनमिति । एकविषयः स्मृतिप्रवाहो विजातीय
प्रत्ययासंभिन्नश्चिन्तनम् । तच्चानुभवस्य पश्चाद् भवतीत्यनुचिन्तनम् । न च तत्
स्मृतिमन्तरेण भवति । न हि तत्र प्रवाहः प्रवाहिणं विनास्ति । तदेवानुचिन्तनम् ।
475 पूर्वानुभूतविषयप्रार्थना संकल्पः । प्रार्थनार्थः संकल्पः प्रार्थनासंकल्पः । स च
पूर्वानुभूतविषय इत्यर्थः ।


अथास्मिन्नेव जन्मनि इन्द्रियजो विषयानुभवोऽन्वयव्यतिरेकावधारितेष्टो
पायतासहकारी कस्माद् रागहेतुर्न भवतीत्यत आह वार्त्तिककारः—न च
विषयावगमासमर्थेष्विति ।
तदनेन पूर्वानुभवश्च विषयाणामन्यस्मिन् जन्मनीति
भाष्यं
व्याख्यातम् ॥ २४ ॥


सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः ॥ ३ । १ । २५ ॥


अत्रायमुदितानुवाद इति भाष्यम् । तस्यार्थः—उदितमिदं चोद्यम्
अयरकान्तदृष्टान्तेन चोद्येन । तथापि तस्यानुवादो निदर्शनार्थः । पूर्वमयस्कान्तो
निदर्शनम्, इदानीं तु घटादीनामुत्पद्यमानानां रूपादयो निदर्शनमिति तदर्थ
इत्यर्थः । चोद्यस्योदितानुवादत्वात् परिहारोऽप्युदितानुवाद एवेति ।


ननु च सगुणद्रव्योत्पत्तिवदिति साधनपक्षे मा भूत्, अनैकान्तिकापादनपक्षे तु
को दोष इत्यत आह—वार्त्तिककारः—अनैकान्तिकपक्षे सूत्रम् । न, कस्मात् ?
उक्तोत्तरत्वात् । उक्तोत्तरमेतद् यत इति ॥ २५ ॥


न सङ्कल्पनिमित्तत्वाद्रागादीनाम् ॥ ३ । १ । २६ ॥


तन्मयत्वाद्राग इति । अभ्युपेत्यादृष्टकारणत्वं रागादीनां पूर्वं परिहृतम् । परमार्थतस्तु
तन्मयत्वाद्राग इत्यर्थः । स्यादेतत्, यदि पूर्वाभ्यस्तस्मृत्यनुबन्धाद् रागादीनामुत्पादो
हन्त, मनुष्यजन्मानन्तरं प्राप्तकरभभावस्य मनुष्यजन्मोचितानां भावनानामानन्तर्यात्
तदनुरूपा एवास्य रागादयो भवेयुर्न करभानुरूपाः । करभजातेरस्य विजातीय
जन्मसहस्रव्यवहितत्वादत आह—जातिविशेषाच्चेति । कर्मणः संस्कारोद्बोधकत्वात्
476 करभजात्यर्थेन कर्मणा जन्मसहस्रव्यवहितापि करमभावनोद्बोध्यते नानन्तरापि
मनुष्यभावना प्रायणाभिभूतेति भावः ।


अपि च मनुष्यत्वेन तुल्यत्वेऽपि प्रज्ञामेधाप्रकर्षनिकर्षभेददर्शनात्
प्राग्भवीयाभ्यासकल्पना । अद्यत्वेऽपि हि शास्त्राभ्यासस्तद्गोचरप्रज्ञामभिवर्धयन्
अन्वयव्यतिरेकाभ्यामनुभूयते । सोऽयमिह जन्मन्यकृतशास्त्राभ्यासस्य तद्विषयः
प्रज्ञामेधातिशयः प्राग्भवीयमभ्यासातिशयं स्वकारणमवगमयति । जडस्य तु1872
तिर्यगादिजातिशतव्यवधानपरिम्लानप्राग्भवीयसंस्कारस्य प्रज्ञामेधानिकर्ष इति
कल्पनीयम् । तस्मात् नित्यस्यात्मनः कर्माविद्यानिबन्धनोऽनादिरेषोऽ
नेकविधशरीरपरिग्रहपरित्यागप्रवाहोऽपवर्गान्त इति सिद्धम् ॥ २६ ॥


॥ इति आत्मनित्यत्वप्रकरणम् ॥

शरीरपरीक्षाप्रकरणम्


पार्थिवं गुणान्तरोपलब्धेः ॥ ३ । १ । २७ ॥


आत्मानन्तरमुद्दिष्टं शरीरं परिचिक्षिषमाणोऽवान्तरसंगतिमाह भाष्यकारः
अनादिश्चेतनस्य शरीरयोगत्युक्तम् ।
परीक्षोपयोगिनिर्वेदसाधनत्वमाह—स्वकृत
कर्मेति ।
परीक्षापूर्वस्य संशयमाह—किं घ्राणदिवदिति । एकद्वित्रिचतुः
पञ्चप्रकृतिकतामास्थिषत शरीरस्य वादिनः, सोऽयं संख्याविकल्पः ।


अत्र वार्त्तिककारः स्वातन्त्र्येण शरीरपरीक्षायां संगतिमाह—आत्मानन्तरमिति ।
भाष्य
मतेन संगतिमाह—अथ वेति । अवान्तरसंगतेस्तात्पर्यमाह—तस्मिन्
परीक्ष्यमाण
इति ।


पार्थि…ब्धेः । मानुषं शरीरं पार्थिवं गन्धवत्त्वात् पार्थिवपरमाणुवदिति । न
477 कारणं कार्यस्यात्मा । तत् कथमेकात्मकमित्यत आह—एकात्मकमित्येकस्वभावम् ।
स्वो भावो भवितॄणां जातिः । एकजातीयसमवायिकारणत्वे हि तत् तदेकजातीयं
स्यात् नान्यथेत्यर्थः ।


अथ परोक्तान् हेतूननन्यथासिद्धयिष्यन् प्रथमं तावत् सुहृद्भावेनाह—
त्विदमबादिभिरिति
॥ २७ ॥


पार्थिवाप्यतैजसं तद्गुणोपलब्धेः ॥ ३ । १ । २८ ॥


निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम् ॥ ३ । १ । २९ ॥


गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ॥ ३ । १ । ३० ॥


परोक्तसाधनमन्यथासिद्धमुक्त्वा बाधकमुक्तं भाष्यकृता । तदनुभाष्य
वार्त्तिककारो व्याचष्टे—तदिदमनेकप्रकृतीति । पृथिव्युपदकाभ्यामार
भ्यमाणमगन्धं कारणगन्धस्यैकस्यानारम्भकत्वात् ।
अयमभिसन्धिः,
पृथिव्याप्यपरमाणू तावन्नैकं द्व्यणुकमारब्धुमर्हतः तयो रूपरसस्पर्शवत्त्वेन तदार
म्भसंभवेऽपि गन्धवत्त्वाभावप्रसङ्गात् एकपार्थिवाणुसमवेतस्य गन्धस्यैकत्वेनाना
रम्भकत्वात् । नापि पार्थिवपरमाणुद्वयमेकश्च पाथसीयः परमाणुरित्यणूनामारम्भकत्वे
गन्धवत्त्वोपपत्तिरिति साम्प्रतम्, परमाणूनां बहूनामनारम्भकत्वात् । तथा हि त्रयः
परमाणवो न कार्यद्रव्यमारभन्ते परमाणुत्वे सति बहुत्वसंख्यायुक्तत्वाद् घटपरिगृहीत
परमाणुप्रचयवत् । आरम्भकत्वे तु तेषां घटोपगृहीतानां कपालशर्कराचूर्णक्रमो
घटनाशे नोपलभ्येत । द्व्यणुके च विजातीयानारम्भकत्वे सिद्धे तेनैव दृष्टान्तेनान्यत्रापि
विजातीयेनारम्भो निषेद्ध्यः । एतेन पार्थिवावयवानां महतां बहूनां पाथसीयावयवैः
शरीरारम्भः प्रत्युक्तः, विजातीयानामनारम्भकत्वस्य दृष्टान्तधर्मिणि विनिश्चयादिति ।
478 तदनेन वार्त्तिककृता षड्विंशतिकल्पा निराकृता इति । यदि पुनरेकैकं कारणं
स्यात्, ततः किं भवेदित्यत आह—एककारणत्वे त्विति । नित्यं निरपेक्षमेकं
कारणमिति सततोत्पत्तिः कार्यस्य भवेत् । कारणविनाशात् तद्विभागाद् वा द्रव्यं
विनश्यति । न चैकस्य कारणस्य नित्यस्य विनाशोऽस्ति । न च विभागः तस्य
सद्वितीयवस्त्वाश्रयत्वात् । एकस्य व सद्वितीयाभावाद् विनाशकारणाभावेन
कृतकनित्यत्वप्रसङ्गः । रूपमसहायमेकमवयविनि न रूपमारभत इति नीरूपोऽवयवी ।
तथा च रूपसंस्काराभावेनावयवी नोपलभ्येतेत्यर्थः ॥ ३० ॥


श्रुतिप्रामाण्याच्च ॥ ३ । १ । ३१ ॥


स्पृतिः उत्पत्तिरित्यर्थः । न्यायसिद्धमर्थं श्रुतिः उपोद्वलयति न पुनरस्य
प्रापिका, सांख्यराद्धान्तावलम्बनेनाप्यस्याः कथञ्चिदुपपत्तेः ॥ ३१ ॥


॥ इति शरीरपरीक्षाप्रकरणम् ॥

इन्द्रियभौतिकत्वप्रकरणम्


कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः ॥
३ । १ । ३२ ॥


उद्देशलक्षणक्रमानुरोधात् शरीरानन्तरमिन्द्रियाणां परीक्षां प्रतिजानीते भाष्य
कारः—अथेमानीन्द्रियाणि प्रमेयक्रमेणेति ।
तत्र परीक्षापूर्वरूपं संशयमाह—
किमाव्यक्तिकानि आहोस्विद्भौतिकानीति । उपलक्षणं चैतत् । यदापि
भौतिकानि तदापि किं कृष्णसारं यदेतदुपलभ्यते तदेवेन्द्रियम् आहो तदधिष्ठानं
तैजसमित्यपि संशयो द्रष्टव्यः । विप्रतिपत्तेः संशयः । तत्र पूर्वः सांख्यनैयायिक
479 योर्विप्रतिपत्तेः । उत्तरस्तु सौगतनैयायिकयोरिति । आव्यक्तिकत्वमाहङ्कारिकत्वं
द्रष्टव्यम् । अहङ्काराद्धि बुद्धिविकाराद् वैकारिकाद् एकादशेन्द्रियाणि जायन्त इति
सांख्या । आव्यक्तिकत्वं त्वव्यक्तस्य मूलकारणत्वादुक्तम् । विप्रतिपत्तिबीजं
पृच्छति—कुतः संशय इति । विप्रतिपत्तिमाह कारणे कार्योपचारात् ।
उत्तरम्—कृष्णसारे सतीति ।


वार्त्तिकम्—किमाव्यक्तिकानि ? तस्य व्याख्यानम्—आहङ्कारिकाणीति ।
कृष्ण…यः ॥
कृष्णसारे सत्युपलम्भात् कृष्णसारमेव चक्षुरिति बौद्धाः ।
व्यतिरिच्य चोपलम्भात्
तदतिरिक्तम् । तच्चाहङ्कारिकम् अहङ्कारस्य
विभुत्वेनाप्रतिघातात् । भौतिकत्वे तु काचाभ्रपटलादिभिर्भौतिकैः प्रतिघातप्रसङ्गादिति
सांख्याः ।


न प्रदीपादिभिरनेकान्तादिति । वर्तिदेशस्थेन पिण्डितेन तेजसा प्रदीपेनाने
कान्तात् । प्रभा हि विसारिणी तं तमर्थं प्राप्य प्रकाशयति, न तु प्रदीप इत्यर्थः ।
विषयीभावादिति चेदिति । उत्पादविशेष एव स तादृक् चक्षुरर्थक्षणयोर्यतोऽ
प्राप्तयोरपि विषयविषयिभावाद् वेद्यवेदकत्वम् । न चायं व्यवहितविप्रकृष्टयोरिति न
तयोर्वेद्यवेदकभाव इत्यर्थः । निराकरोति—नोक्तोत्तरत्वात् । स एवार्थो विप्रकृष्टो न
विषयः, सन्निहितश्च विषय इत्येकस्य विषयीभावः तदभावश्चायुक्तः । क्षणभङ्गश्च
निषेत्स्यत इति भावः ॥ ३२ ॥


महदणुग्रहणात् ॥ ३ । १ । ३३ ॥


तत्र सांख्यमुत्थाप्य बौद्धपक्षं दूषयति—अभौतिकानीति । कृष्णसाराधिकग्रहणे
विवक्षिते 1873अर्थग्रहणं संपातायातम् । न तु तदत्र विवक्षितम्, असाधकत्वादिति ।
मह…णात् ॥ धाना अङ्कुरः । अभौतिकं तु 1874व्यापकत्वादिति । तद्यथा विज्ञानाद्यभौतिकं
महच्चाणु च गृह्णातीत्यर्थः ।


480

एकदेशिमतेन दूषणमाह—न भौतिकेषु प्रदीपादिषु इति । ननु बुद्धिर्यदि
महदण्वोः प्रकाशनं तत् किमिदानीं सर्वस्यैवाप्रकाशनमित्यत आह—अवधारितस्य
त्वर्थस्येति ।
न च हानोपादानोपेक्षाबुद्धयोऽण्व्यो महत्यो वेति भावः ।
पूर्वपक्ष्याह—नेन्द्रियेऽपि समानत्वादिति । तदेवमेकदेशिनोऽसाधारणत्वापादने
पूर्वपक्षिणा दूषिते परमसिद्धान्ती आह—अभूतात्मकं व्यापकं चेति । सांख्यः
शङ्कते—वृत्तिरिति । इन्द्रियाणां वृत्तयो ज्ञानहेतवः प्रतिषिध्यन्त इत्यर्थः ।
युगपदनेकविज्ञानप्रसङ्गाच्चेति । यद्यपि सांख्यीये राद्धान्ते दीर्घां शष्कुलीं भक्षयतो
युगपदनेकज्ञानोत्पत्तिरभिमता तथापि क्वचित् क्रमोऽपि दृश्यते स न स्यात् ।
वृत्तिमतोऽवस्थाने तदभिन्ना वृत्तिरप्यवतिष्ठत इति तन्मात्राधीनोत्पत्तीनां विज्ञानानां
क्रमो न स्यादिति भावः । उभयं नेष्यत इति । वृत्तिभ्योऽनन्यत्वं वृत्तिमतो नेष्यते,
नापि वृत्तीनामनन्यत्वं वृत्तिमत इत्यर्थः ॥ ३३ ॥


रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् ॥ ३ । १ । ३४ ॥


नैयायिकः सांख्यं दूषयति—रश्म्य…णम् ॥ आहङ्कारिकत्वे चक्षुर्न प्रतिहन्यते
यदि ततः काचाभ्रपटलान्तरितप्रकाशनवत् कुड्यान्तरितमपि प्रकाशयेत् न चैवमस्ति ।
तस्मात् कृष्णसाराधिष्ठानं तेज एव भौतिकं प्राप्य गृह्णाति कुड्यान्तरितं त्वर्थमप्राप्तं
न गृह्णाति । काचाभ्रपटलान्तरिते तु वक्ष्यति । भूयोऽवयवसन्निकर्षानुग्रह इति ।
इन्द्रियावयवानामर्थावयवैः इन्द्रियावयवानामर्थेन अर्थावयवानामिन्द्रियेण
इन्द्रियस्यार्थेनेति ॥ ३४ ॥


तदनुपलब्धेरहेतुः ॥ ३ । १ । ३५ ॥


तदनुपलब्धेरिति । नोपलब्धिलक्षणप्राप्तमनुपलभ्यमानं शक्यमनुमातुं
नरविषाणादिनामप्यनुमानप्रसङ्गादित्यर्थः ॥ ३५ ॥


481

नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ॥ ३ । १ । ३६ ॥


परिहारः—नानुमीयमानस्येति । नानु…तुः ॥ सत्यम् । उपलब्धिलक्षण
प्राप्तमनुपलभ्यमानं न शक्यमनुमातुम् । न तु महत्त्वाद्येवोपलक्षणप्राप्तेरपि तु रूप
विशेषोऽपि । न चासौ विशेष उद्भवसमाख्यातः कृष्णसाराधिष्ठानस्य चक्षुषोऽ
स्तीत्यर्थः ॥ ३६ ॥


द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ॥ ३ । १ । ३७ ॥


आचार्यदेशीयानां मतमाह—अपरे त्विति । दूषयति—एवं तर्हीदमिति ।
यत्रोपलब्धिस्तत्रैतदिति सूत्रार्थः । ततो महत्त्वादिषु मध्ये यत्किञ्चिदेकं वक्तव्यं
सूत्रकारेण यत्रोपलब्धिस्तत्रैतदित्यर्थस्यैकस्मादेव1875 सिद्धेरनेकोपादानवैयर्थ्यम् । तस्मात्
समस्तार्थयोग्यतार्थाभिधानपरं1876 सूत्रम् । ननु यथासूत्रं1877 महत्त्वाद्युपलब्धिकारणमस्ति
चाक्षुषस्य रश्मेरिति कस्मादयं नोपलभ्यते इत्यत आह—द्रव्यगुणधर्मेति ॥ ३७ ॥1878


कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ३ । १ । ३८ ॥


अनेकरश्मिसन्निपाते स्पर्शस्योद्भूतौ सत्यां द्रव्यं दह्येत रूपोद्भूतौ च सत्यां
व्यवहितत्वात् आदौ निपतितेन चक्षुरन्तरेण द्रव्यस्यानुपलब्ध्या भवितव्यम् ।
शङ्कते—अथानेकेति । नानानयनावयवैरेकोऽसौ नयनावयव्यारभ्यत इत्यर्थः ।
निराकरोति—एवं सतीति । नानानयनावयवैरारब्ध एकोऽसौ नयनावयवी समग्रा
समग्रचक्षुःपुरुषसाधारण इत्युपलब्धिस्तुल्या स्यादित्यर्थः ॥ ३८ ॥


482

मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥ ३ । १ । ३९ ॥


न रात्रावप्यनुपलब्धेः ॥ ३ । १ । ४० ॥


न हि यद् यस्याभिभावकं तत् तस्य व्यञ्जकमिति । रात्रौ यद् लोष्टतेजसोऽभि
भावकं दिवा कथं तदेवास्य व्यञ्जकं येन तदभावाद् रात्रौ लोष्टतेजो नोपलभ्येत
इत्यर्थः । अपिशब्दाद् गम्यत इति । न रात्रावपीति सूत्रगतादित्यर्थः ॥ ४० ॥


बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः
॥ ३ । १ । ४१ ॥


सोऽयं चाक्षुषो रश्मिः किमभिभवात्1879 नोपलभ्यते, किं वानुद्भूतेरित्यत आह
भाष्यकारः । उपपन्नरूपा चेयम् । अनभिव्यक्तितोऽनुपलब्धिरिति योजना ।
अनभिव्यक्तितः अनुद्भूतेरित्यर्थः । अत्र हेतुः बाह्यप्रकाशानुग्रहाद् विषयोप
लब्धेः ।
विषयश्च स्वरूपमात्मनोऽन्यच्च । एतदुक्तं भवति । यदुपलब्धौ बाह्यप्रकाश
मनुग्राहकमपेक्षते, तस्यानुद्भूतेरेवानुपलब्धिर्न त्वभिभूतेः । यथा हेमन्ते
विषक्तावयवस्याप्यस्य द्रव्यस्य । आप्यं हि द्रव्यं 1880विषक्तावयवं स्वविषयोपलब्धौ
बाह्यप्रकाशानुग्रहमपेक्षमाणं दृष्टम् । चक्षुरपि च विषयोपलब्धौ बाह्यप्रकाशमपेक्षते
निरालोके तस्याप्रवृत्तेः । तस्माद् विषयोपलब्धौ बाह्यप्रकाशानुग्रहापेक्षत्वात् तदनुद्भूत्या
न प्रतीयते न पुनरभिभूत्येति सिद्धं प्रकृतम् । तदेतद् वार्त्तिककारो व्याचष्टे—तस्य
विद्यमानस्येति
॥ ४१ ॥


अभिव्यक्तौ चाभिभवात् ॥ ३ । १ । ४२ ॥


483

तमिमं विशेषं मध्यन्दिनोल्काप्रकाशादावविद्वान् पृच्छति—कस्मात्पुनर्नायन
स्येति ।
अस्योत्तरम्—अभि…वात् ॥ अभिभवनीयस्वरूपमाह1881यदुद्भूतरूपमिति ।
तद्वैधर्म्यमनुद्भूतरूपस्याह—अनुद्भूतरूपश्चेति । अनुद्भूतरूपस्याभिभवाभावे
निदर्शनमाह—यदनुद्भूतरूपमिति । बाह्यप्रकाशानुग्रहापेक्षस्य चाभिभवाभावे
निदर्शनमाह—यच्च बाह्यप्रकाशानुग्रहापेक्षमिति । कृष्णसारं रश्मिमदित्युच्यमाने
प्रसन्नान्धस्यापि कृष्णसारं रश्मिमत् साध्येत । तथा चापसिद्धान्त इत्यत
आह—विप्रतिपत्तिविषय इति । तेन विप्रतिपत्तिविषयः कृष्णसारं 1882रश्मिमदिति
साध्यनिर्देशः । उपलब्धौ निमित्तत्त्वादित्युच्यमाने गन्धादिभिरनैकान्तिकं स्यादत
उक्तम्—रूपोपलब्धाविति रूपसाक्षात्कार इत्यर्थः । तथापि सन्निकर्षादिभिरने
कान्तोऽत उक्तम्—द्रव्यत्वे सतीति । तथापि मनसानेकान्तोऽत उक्तम्—नियतस्य
साधनाङ्गस्येति ।
असाधारणस्य साधनाङ्गत्वे सतीति मनसस्तु साधारणस्य
साधनाङ्गस्य रूपोपलब्धौ निमित्तत्वम् । साधनं समुदायस्तदङ्गमवयवः । अथ वेति ।
द्रव्यत्वे सति नियतत्वे चार्थप्रकाशकत्वादित्युच्यमाने घ्राणादिभिरनेकान्तः स्यादत
उक्तम्—स्फटिकादिव्यवहितेति ॥ ४२ ॥


नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ ३ । १ । ४३ ॥


मानुषं चक्षू रश्मिमदिति । रूपाद्युमलब्धिनिमित्तत्वादिति सावधारणं
रूपादीनामेवेति । तेन न मनसानेकान्तः । तथापि सन्निकर्षेणानेकान्त इत्यत उक्तम्—
अप्राप्तिस्वभावत्व इति । इतश्च भौतिकानीन्द्रियाणीति । चक्षूरसनत्वग्घ्राणानी
त्यर्थः । तथापि श्रोत्रस्य रूपं न ज्ञायते कीदृशं तदित्यत आह—भूतं श्रोत्रम् ।
अर्थप्रकाशकत्वादित्युच्यमाने मनसानेकान्तोऽत आह—प्राप्तेति । न हि रूपादिभिः
सहास्ति मनसः प्राप्तिः । तथापि मनस्येवानेकान्तः । आन्तरं हि सुखादि मनः प्राप्य
484 प्रकाशयति । अत आह—बाह्येति । तथापि सन्निकर्षादृष्टादिभिरनेकान्तोऽत
आह—द्रव्यत्वे सतीति ।


शङ्काभाष्यम्—जातिभेदवदिन्द्रियभेद इति चेत् ? निराकरोति—धर्म
भेदमात्रं चानुपपन्नम् ।
वृषदंशनयनस्य रश्मिमत्त्वं धर्मो मानुषनयनस्य त्वतद्वत्त्वमिति
योऽयं धर्मभेदः स एव मात्रम् । तच्चानुपपन्नम् । चोऽवधारणे भिन्नक्रमः । अनुपपन्नमेवेति
योजना । कुतोऽनुपपन्नमित्यत्र हेतुमाह—आवरणस्येति । यथा हि धूमवत्त्वं पर्वते
रसवत्यां चान्यत् तथाप्येष विशेषोऽस्याग्निमत्त्वानग्नित्वे प्रत्यप्रयोजकः । एवं
विडालत्वमनुष्यत्वे अप्रयोजके इत्यर्थः ॥ ४३ ॥


अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥ ३ । १ । ४४ ॥


कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥ ३ । १ । ४५ ॥


अप्रतीघातात् सन्निकर्षोपपत्तिः ॥ ३ । १ । ४६ ॥


सोऽप्रति हन्यमान इति । स रश्मिः अप्रतिहन्यमानः काचेन काचं व्यतिभिद्यार्थेन
संबध्यते काचान्तर्गतेन ॥ ४६ ॥


आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् ॥ ३ । १ । ४७ ॥


वार्त्तिकम्—अव्यूह्यमानावयवद्रव्यानुप्रवेश इति । यस्य द्रव्यस्य
भर्जनकपालादेः अवयवा न व्यूह्यन्ते पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्या
न्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियन्ते । तस्य द्रव्यस्य भर्जनकपालादेः
अव्यूह्यमानस्य अवयवव्यूहनमवयविनोऽपीति अव्यूह्यमानस्येत्युक्तम् । तस्य
भर्जनकपालादेः अन्तरावयवैर्योऽभिसंबन्धो वह्नेः सोऽप्रविघातः1883


485

एतदुक्तं भवति—सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्येऽनुप्रवेशः
सोऽप्रतिघात इति । प्रवेशेऽविघातमुक्त्वा निःसरणेऽप्यविघातमाह—
अन्तर्व्यवस्थितस्य वा द्रव्यस्य मधूदकादेः बहिरवस्थितहस्तादिप्राप्तिः । तस्य
कीदृशस्य बहिरित्यत आह—अव्यूह्यमाना अवयवा यस्य द्रव्यस्य कलसादेः तस्य
बहिरिति ॥ ४७ ॥


नेतरेतरधर्मप्रसङ्गात् ॥ ३ । १ । ४८ ॥


आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत् तदुपलब्धिः ॥
३ । १ । ४९ ॥


द्रव्यान्तरासंपृक्तद्रव्यसमवायः स्वच्छतेत्यर्थः । प्रसङ्गात् प्रतिबिम्ब
भ्रमोत्पादक्रममाह—आदर्शादिष्विति । यदभिमुखमग्रमिति । द्रष्टुः पुरुषस्याभि
मुखं नयनरश्मेः परावृत्तस्याग्रं तदभिमुखं मुखादि पश्यति । सारूप्यनिबन्धनत्वाद्
विभ्रमाणां सारूप्यमिहाप्याह—यथाग्रतोऽवस्थितस्य पुरुषस्य मुखं
लोचनरोचिरग्रसंबद्धमभिमुखम् एवमेतदपीति । नन्वादर्शे प्रतिहतश्चेत् नयनरश्मिः
परावृत्तः कथं पश्चादभिमुखमुखविभ्रमहेतुः ? हन्त भोः पातमात्रादादर्शज्ञानेन
भवितव्यम् पश्चात् प्रतिबिम्बविभ्रमेण, न चैवमस्ति यौगपद्यप्रतिभासादित्यत
आह—आदर्शेति । कुतस्तर्हि मणिकृपाणदर्पणतलेषु नानानिर्भासः प्रतिबिम्बावभास
इत्यत आह—आदर्शरूपानुग्रहात् त्विति ॥ ४९ ॥


॥ इन्द्रियभौतिकत्वप्रकरणम् ॥

इन्द्रियनानात्वप्रकरणम्


दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ॥ ३ । १ । ५० ॥


486

स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ॥
३ । १ । ५१ ॥


संप्रति तेषामेवेन्द्रियाणामेकानेकत्वे परीचिक्षिषुः संदिग्धे—अथापि
खल्वेकमिति ।
प्रश्नपूर्वकं सूत्रमवतारयति—कुतः संशयः ?


स्थाना…यः । तत्र केचिदिदं सूत्रं भाष्यमतानपेक्षं यथाश्रुति व्याचक्षते ।
तद्दूषणपुरासरं भाष्यव्याख्यानं ग्रहीतु यथाश्रुति व्याख्यानं परेषां सूत्रपाठपूर्वक
मुपन्यस्यति—एके त्विति । दूषयति—अनुपपन्नरूपश्चायमिति । अत्र हि यथाश्रुति
स्थानान्यत्व इति निमित्तसप्तम्या नानात्वस्य बीजं स्थानान्यत्वमुक्तं न त्वेकत्वस्येति ।
एकत्वस्य तु बीजं नानास्थानत्वं यथोक्तम् । अवयविनानास्थानत्वादिति अवयवी
त्येकत्वमुपलक्षयति । स्थानान्यत्वं च 1884स्थानानामन्यत्वमुच्यते । नानास्थानत्वं च
नानास्थानानि यस्येत्यन्यपदार्थः स्थानान्यत्वादन्यः । न च धर्मद्वयं साक्षात् संशय
कारणमित्येकतरस्यैकानेकसाधारण्यं वाच्यम् । तत्र यदि तावदेवं क्रियते—संशयः
स्थानान्यत्वे नानात्वैकत्वदर्शनादिति तदा सूत्रार्थालोचनेन एकत्वे
स्थानान्यत्वस्यादर्शनान्न समानधर्मः, सूत्रं
खल्वेकत्वे नानास्थानत्वमाह न
स्थानान्यत्वम् । अनेकत्वमात्रे हि तदुक्तं सूत्रकारेण स्थानान्यत्वे नानात्वादिति ।
अथ नानास्थानत्वे सत्येकानेकत्वदर्शनात् संशय इति ? एतद् दूषयति—तदा
द्रव्यं नानास्थानमनेकं न किञ्चिद् दृष्टं सूत्रे । अवयविनानास्थानत्वादिति
हि
सूत्रं नानास्थानत्वेनैकत्वमाह, न तु नानात्वमपि । यत् पुनर्घटाद्यनेकं न तन्नानास्थानमुक्तं
सूत्रकृता । अपि तु स्थानान्यत्वं तस्य सूत्रकृता उक्तं स्थानान्यत्वे नानात्वादित्यनेन ।
दूषणमुपसंहरति—सोऽयं संशय उभयथानुपपन्न इन्द्रियेषु यथाश्रुतसूत्रपरिग्रहेण ।
उभयथा इति स्थानान्यत्वेन नानास्थानत्वेन चेत्यर्थः । तदेवं परव्याख्यानं दूषयित्वा
भाष्यकारीयस्य व्याख्यानस्य युक्तत्वमाह—स्थानेषु तु युक्तः । स्थानेष्विति
487 निमित्तसप्तमी । नानास्थानत्वनिमित्त इन्द्रियेस्येकत्वानेकत्वसंशयो युक्तः । नानास्थानं
खत्वेकमवयविद्रव्यं दृष्टमनेकं च भिन्नभाजनगतं 1885तालफलमिति । इन्द्रियविषयं
नानास्थाननिमित्तकं संशयमाह—किं नानास्थानानि इन्द्रियाणि उत नानास्थानमेक
मिन्द्रियमिति । तदिदमुक्तं भाष्यकारेण, बहूनि च द्रव्याणि नानास्थानानि
दृश्यन्ते, नानास्थानश्च सन्नेकोऽवयवीति । तेनेन्द्रियेषु भिन्नस्थानेषु संशय

इति । सूत्रेऽपि स्थानान्यत्वे इत्यनेन नानास्थानत्वमेवोपलक्षणीयमित्यविरोधः ।
यथाश्रुतस्तु न सूत्रार्थ इत्याह—इन्द्रियेषु तु न स्थाननानात्वात् संभवति नापि
नानास्थानत्वादिति ।
किं त्विन्द्रियविषयो नानास्थानत्वादेव संशयो भाष्यकारीयः
साधीयानित्यर्थः । तदेवं परोक्तं संशयबीजं दूषयित्वा भाष्यकारीयं संशयबीजं
दर्शयित्वा वार्त्तिककारः स्वातन्त्र्येण संशयबीजमाह—शरीरव्यतिरेकात् सत्त्वाच्च
संशय
इति ॥ ५१ ॥


त्वगव्यतिरेकात् ॥ ३ । १ । ५२ ॥


पूर्वपक्षं गृह्णाति—त्वग…कात् ॥ कः पुनरयमव्यतिरेक इति । घटादिप्राप्तं
चक्षुस्त्वचो व्यतिरिच्यत एवेति भावः । उत्तरम्—सर्वाधिष्ठानसंबन्ध इति ।
सौत्रस्याव्यतिरेकशब्दस्य व्याख्यानान्तरमाह—सति भावो वेति । तदनेन यस्यां च
सत्याम्
इति भाष्यं व्याख्यातम् । चो विकल्पार्थः । सिद्धान्तभाष्यम्—नेन्द्रियेति ।
लोकविरोध
इति । लोक्यते ज्ञायतेऽनेनेति लोकः प्रमाणम्, तद्विरोध इत्यर्थः ?
अनेकेन चानिन्द्रियेणेति । शरीरं पार्थिवं भूतान्तरसंपृक्तं च तद् इन्द्रियाधिष्ठानानि
शरीरावयवभूतानि पृथिव्यादिना प्राप्तानीत्यनेकान्तः । न व्याघातादिति
परदोषोद्भावनपरम् । न पुनः सिद्धान्तिनस्त्वगवयवत्वमिन्द्रियान्तराणामभि
मतमिति ॥ ५२ ॥


488

न युगपदर्थानुपलब्धेः ॥ ३ । १ । ५३ ॥


एवं भाष्यकारीय सिद्धान्तमुकत्वा सौत्रं सिद्धान्तमाह—सूत्रेण चाभिसंबन्धः
सिद्धान्तस्य । न यु…ब्धेः ॥


सूत्रं व्याचष्टे, नैतदस्ति एकमिन्द्रियमिति । कस्मात् ? युगपदर्थानुपलब्धेरिति ।
तदेतत् सूत्रं भाष्यदृष्ट्या व्याचष्टे वार्त्तिककारः—यस्यैकमिन्द्रियमिति । तदेतद्
व्याख्यानं दूषयति—नैकेन्द्रियग्राह्याणामिति । भाष्यव्याख्यानं दूषयित्वा सूत्रम्
अन्यथा व्याख्यातुं भूमिरचनां करोति—एवं ब्रुवाण एकेन्द्रियवादीति । सामि
अर्धम् । एकमपि इन्द्रियमर्धं प्राप्य गृह्णाति । अप्राप्य चार्धमेकदेशमिति यावत् ।
करणधर्ममतिक्रामन्तं प्रति युगपदुपलब्धिप्रसङ्गो दूषणमित्यर्थः ॥ ५३ ॥


विप्रतिषेधाच्च न त्वगेका ॥ ३ । १ । ५४ ॥


एकत्वप्रतिषेधादेव पारिशेष्यान्नानात्वं सेत्स्यतीत्यत आह—नासाधना क्रियेति ।
एकत्वं च कथमिति ।
न शक्यः पक्षो दूषयितुमित्युक्तम् । न च साधननिराकरणमात्रात्
साध्यं निवर्तते । मा भूद् धूमनिवृत्तौ वह्निनिवृत्तिरित्यर्थः । पृच्छति—कथं तर्हीति ।
उत्तरम्—प्रतिषेधाच्चानन्तरमिति । यद्यप्यनन्तरशब्दप्रयोगे पञ्चमी न स्मर्यते
तथाप्यन्यशब्दस्याध्याहारेण पञ्चमी व्याख्येया । अनन्तरं प्रतिषेधादन्यः स्थापनाहेतुरिति
योजना । अथवेति । व्यतिरेकी हि हेतुर्द्वयोर्विरुद्धयोरेकतरनिषेधेन एकतरं
व्यवस्थापयति—यथा नैरात्म्यनिषेधेन जीवच्छरीरस्य सात्मकत्वमिति ॥ ५४ ॥


इन्द्रियार्थपञ्चत्वात् ॥ ३ । १ । ५५ ॥


सूत्रम् आक्षिपति—इदं तु सूत्रामिति । एष न्यायोऽनया वचोभङ्ग्या सूत्रित
इत्यर्थः ॥ ५५ ॥


489

न तदर्थबहुत्वात् ॥ ३ । १ । ५६ ॥


पूर्वपक्षिणः सूत्रम्—न, त…त्वात् ॥ पूर्वपक्षमाक्षिपति—न विरोधादिति ।
पूर्वपक्षिणः समाधानं नासाधनाद् इति ॥ ५६ ॥


गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥ ३ । १ । ५७ ॥


सिद्धान्तः—गन्ध…धः ॥ ५७ ॥


विषयत्वाव्यतिरेकादेकत्वम् ॥ ३ । १ । ५८ ॥


न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ ३ । १ । ५९ ॥


यस्याधिष्ठानं भिन्नम् इति । 1886नियतम् । एतदुक्तं भवति—रूपव्यञ्जकस्य
कृष्णसारमेवाधिष्ठानं न कर्णशष्कुल्यादि । एवमन्यत्रापि द्रष्टव्यम् । यस्य पुनः
सिद्धान्तिनः । अधिष्ठानभेदः तथा च तदधिष्ठानस्येन्द्रियस्यापि भेदः तस्य
एकाधिष्ठानविनाशेन तद्गतस्येन्द्रियस्य विनाशेऽपि अधिष्ठानान्तराश्रयस्य
इन्द्रियान्तरस्य अवस्थानमिति न एकाधिष्ठाननाशे सर्वाधिष्ठाननाशात् सर्वेन्द्रिय
नाशलक्षणः तथैकाधिष्ठानावस्थाने सर्वेन्द्रियावस्थानलक्षणो दोष इति ।
इष्टानिष्टोपेक्षणीय इति । उपेक्षणीयस्यापि पुरुषार्थत्वं भवति केनचित् प्रकारेण ।
यदि हि तत्र पुरुषः प्रवर्तते ततो निष्फले कर्मणि प्रवृत्तौ पुरुषस्तप्येत । दुःखं
कर्मेत्यनुभवो लोकस्य उपेक्षणीयत्वे तु तन्न तस्य भवतीति ॥ ५९ ॥


भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥ ३ । १ । ६० ॥


तत्र पार्थिवं घ्राणं रूपरसगन्धस्पर्शेषु नियमेन द्रव्यत्वे सति गन्धस्यैव
490 व्यञ्जकत्वाद् बाह्यपार्थिववदिति । यथा हि मृगमदगन्धव्यञ्जकाः कुक्कुटोच्चारादयः
पार्थिवा इत्यर्थः । न चातपेनानेकान्तः । न ह्यातपो गन्धस्य व्यञ्जकोऽपि तु जलाभि
भूतो गन्धो द्रव्याणां नोपलभ्यते केवलं जलमातपोऽपनयति, न तु द्रव्यस्य गन्धम
भिव्यनक्ति । तस्मान्नानेकान्तः । एवं रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन
रसस्य व्यञ्जकत्वाद् दन्तान्तरस्यन्दमानोदकबिन्दुवत् । न खलु विशुष्यदास्यो
मोदकादिरसमनुभवति । एवं तैजसं चक्षुः गन्धदिषु मध्ये नियमेन रूपस्य व्यञ्जकत्वात्
प्रदीपवत् । एवं वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये 1887नियमेन स्पर्शव्यञ्जकत्वात्
स्वेदोदबिन्दुशीतस्पर्शव्यञ्जकव्यजनपवनवत् । नियमग्रहणं मनोनिवृत्त्यर्थम् । गन्धादिषु
मध्ये इति चावधारणसिध्यर्थम्, अन्यथा घ्राणादीनां गन्धत्वादिव्यञ्जकत्वेनावधारणं
न स्यात् । तदेतदाह—एवं शेषेष्विति । एवं चेन्द्रियपञ्चत्वे हस्तपादपायूपस्थवा
चामिन्द्रियत्वनिषेधोऽपि 1888संसूचितः इन्द्रियलक्षणविरहात् । यच्छरीरसंयुक्तं
संस्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणम् । न
चैतदस्ति हस्तादिषु । तज् ज्ञानेन्द्रियाणां लक्षणम्, इमानि तु कर्मेन्द्रियाणीति चेत् ?
हन्तैषामिन्द्रियत्वे लक्षणान्तरं वक्तव्यम् । शरीराश्रितमसाधारणकार्यकारीन्द्रिय
मितीन्द्रियलक्षणमिति चेद् ? वक्तव्यमेषामसाधारणं कार्यम् । उक्तम्
वचनादानविहरणोत्सर्गानन्दाः पञ्चानाम्
इति । नन्वादानविहरणोत्सर्गास्तावद् वक्त्रहस्तादिभिरपि शक्याः कर्तुम् । अपि
चास्ति कण्ठहृदयामाशयपक्वाशयादीनां निगरणादितत्तदसाधारणं कार्यमिति
तान्यपीन्द्रियाणि प्रसज्येरन्निति । तस्माद् यत्किञ्चिदेतदपीति ॥ ६० ॥


॥ इन्द्रियनानात्वप्रकरणम् ॥

अर्थपरीक्षाप्रकरणम्


गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥ ३ । १ । ६१ ॥


491

अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥ ३ । १ । ६२ ॥


क्रमप्राप्तमर्थलक्षणं परीचिक्षिषमाणोऽर्थलक्षणं स्मारयति, गन्धादयः
पृथिव्यादिगुणा इत्युद्दिष्टमिति1889
लक्षितमिति वक्तव्ये संमुग्धाभिधानम् । सामान्या
दुद्दिष्टमित्युक्तम् । तत्र परीक्षामुखं संशयमाह—उद्देशश्च नियोगेति । नियोगादीनां
रूपमाह—तत्र नियोग इति । तदेवं विमृश्य नियोगसमुच्चयौ परित्यज्य विकल्प
मालम्बते सूत्राभ्याम्—अतो विशेषणार्थमिति—गन्ध…व्याः ॥ अप्ते…रः ॥
विशेषणार्थमिति सूत्रयोस्तात्पर्यमुक्तम् । तदेव स्फुटयति नियमार्थे इति ।
उत्तरेष्वबादिष्वेकैकशोऽपकर्षो गन्धादीनां स्पर्शपर्यन्तानाम् । तथा हि चतुर्षुगन्धापकर्षः
अप्स्वपकृष्टस्य च गन्धस्य पुनरुद्भवो नास्ति अद्भ्य उत्तरे तेजसि रसस्यापकर्षः ।
एवमपकृष्टयोश्च गन्धरसयोः पुनरुद्भवो नास्तीति तेजस उत्तरे वायौ रूपापकर्ष
इति । एवमपकृष्टानां गन्धरसरूपाणां पुनरुद्भवो नास्तीति वायोरुत्तरस्मिन्नाकाशे
स्पर्शस्यापकर्षः । तदिदमुक्तम्—एकैकश इति । अव्युत्पन्नोऽयमुत्तरशब्दो न तु
तरबन्तः1890 । तेन बहूनां निर्धारणेऽप्युपपन्नार्थ इति । भवतु तरब्निर्देशः तथापि न दोष
इत्याह—भवतु वेति । क्वचित् पाठः 1891तन्त्रं वेति । स यथाभाष्यं स्फुटार्थ एव
॥ ६१—६२ ॥


न सर्वगुणानुपलब्धेः ॥ ३ । १ । ६३ ॥


पूर्वपक्षी नियोगपक्षमुत्थापयति—न स…ब्धेः ॥ पृथिव्यादिप्रकृतीनां घ्राणादीनां
गन्धादिप्रतिनियम1892 एवमुपपद्यते । यदि गन्धमात्रगुणा पृथिवी रसमात्रगुणा आप
इत्यादि, न त्वन्यथा । अन्यथा तु पार्थिवेन घ्राणेन गन्धवद् रसरूपस्पर्शा अपि
व्यज्येरन् अविशेषादित्यर्थः ॥ ६३ ॥


492

एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ॥
३ । १ । ६४ ॥


विष्टं ह्यपरं परेण ॥ ३ । १ । ६५ ॥


संसर्गस्य द्व्याश्रयत्वेऽपि न 1893द्वयोः समानत्वम्, यथाग्निधूमयोः संबन्धोऽन्य
थाग्नेः1894 । स हि व्यापकः । धूमे धूमध्वजस्य भाव एव नाभावः । धूमस्तु व्याप्यः । तस्य
वह्नावेव भावो नान्यत्रेति । एवमपरं पृथिव्यादि परेणावादिना विष्टं व्याप्तम् ।
नाबादिमन्तरेणास्ति पृथिवी । तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भो
न त्वबादिषु पृथिवीगुणानाम् । एवमप्स्वनलादिगुणा व्याख्येयाः1895 । विष्टत्वं संयोगविशेषो
व्याप्तिरित्यर्थः । भाष्यम्—तच्चैतद् भूतसृष्टाविति । भूतसृष्टिप्रतिपादकेषु पुराणेषु ।
नैतर्हीति । नेदानीमननुभवादित्यर्थः ॥ ६५ ॥


न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ ३ । १ । ६६ ॥


सिद्धान्ती विकल्पवाद्येतद् दूषयति—न पा…त्वात् ॥ त्रिविधं हि द्रव्यं
चाक्षुषमिष्यते पार्थिवमाप्यं तैजसं च । तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्यात्,
नेतरदरूपत्वात् । न च रूपिद्रव्यसंसर्गाच्चाक्षुषत्वमरूपयोरपि पार्थिवाप्ययोरिति
1896युक्तम्, नभोनभस्वतोरपि चाक्षुषत्वप्रसङ्गात् । अस्ति हि रूपवता तेजसा तयोः
संयोग इति । अथवा पार्थिवाप्यसंबन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन
प्रत्यक्षत्वादित्याह भाष्यकारः रसयोर्वेत्यादिना उपपद्यत इत्यन्तेन । पुनस्तस्यैव
व्याख्यानान्तरमाह—स्पर्शयोरिति । पार्थिवाप्ययोरित्यस्योदाहरणमात्रार्थत्वात्
पार्थिवतैजसोरित्यपि व्याख्यानमुक्तम् ।


493

व्याख्यानान्तरमाह—अथ वेति । कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि
व्यवस्थितगुणमनुमीयते । न च सर्वत्र संसर्गो येनान्यस्य गुणोऽन्यत्रोपलभ्यते विवे
कस्यासंसर्गस्य दर्शनादिति । व्याख्यानान्तरमाह—दृष्टश्चेति । चो विकल्पार्थः ।
नियोगस्तु निरनुमान इत्याह—निरनुमानं तु विष्टं ह्यपरं परेणेत्येतदिति ।


यच्चोक्तं भूतसृष्टौ वेदितव्यं नैतर्हीति, तद् दूषयति—नियमकारणा
भावादिति ।
नियमो गन्ध एव पृथिव्यामित्येवमादिः । तस्य कारणं प्रमाणं नास्ति
तद्वाधकस्यैव प्रमाणस्योक्तत्वात् । तस्माद् भूतसृष्टिः कथञ्चिदुपचारतो व्याख्येयेति ।
विष्टत्वं संयोगः । स च द्वयोः समान इति । अन्यगुणो यदन्यत्रोपलभ्यते तत् किं
संयोगादाहो व्याप्तेः ? यदि व्याप्तेः, नायोगोलके वह्निसंपृक्ते वह्निगुणा गृह्येरन्
तयोर्व्याप्यव्यापकभावाभावात् । धूमे च गगनतलावलम्बिनि भूमिष्ठेन वह्निना
व्याप्तेर्वह्निगुणा गृह्येरन्, तयोर्व्याप्यव्यापकभावात् । तस्मादत्यन्तसंयोगो1897 हेतुः । स
चोभयोरविशिष्ट इति तेजसा संपृक्तत्वाद्1898 वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग
इति ॥ ६६ ॥


पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥ ३ । १ । ६७ ॥


प्रधानपदार्थं व्याचष्टे भाष्यकारः—विषयग्राहकत्वम् गन्धादिर्विषयः । तदेव
विषयग्राहकत्वं कुतस्तत्राह—गुणोत्कर्षात् तदभिव्यक्तिसामर्थ्यात् । विषयग्राहकत्वं
चेत् प्राधान्यम्, 1899तत् सर्वेषामविशिष्टम् । सर्वेषामेवेन्द्रियाणां विषयग्राहकत्वा
दित्याशयवान् वार्त्तिककारो भाष्यकारीयं व्याख्यानममृष्यमाणः पृच्छति—का
प्रधानता ।
स्वमतेनोत्तरमाह—चतुर्गुणत्वादिरिति । एतदुक्तं भवति—यस्माच्चतुर्गुण
त्वेन पार्थिवं घ्राणं रसनादिभ्यः1900 प्रधानं तस्मादस्यागन्धवत्त्वं नास्ति येन गन्धं न
गृह्णीयात् । नन्वेवं रसवत्त्वादिकमप्यस्ति घ्राणस्येति रसादिकमपि गृह्णीयादित्यत
494 उक्तम्—गुणोत्कर्षादिति । सर्वेषां समवायाविशेषेऽपि गन्धस्यैव घ्राण उत्कर्ष
इति गन्धमेव गृह्णाति, तेनागन्धवत्त्वनिषेधपरं प्राधान्याभिधानं न पुनर्गन्धग्रहणे
गन्धवत्त्वं प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् । तत्रोत्कर्षपदार्थं पृच्छति
वार्त्तिककारः—को गुणोत्कर्षः ? उत्तरम्—स्वगुणाभिव्यक्तिसामर्थ्यम्, स्वो
गुणो घ्राणस्य गन्धः 1901तज्जातीयतया चन्दनादिसमवेतोऽपि गन्धः स्व इत्युच्यते । न
पुनः स्वगुणमेवाभिव्यनक्ति घ्राणम् । घ्राणसमवेतस्य हि गन्धस्यादृष्टवशात् तादृशो
निर्माणभेदो येन सजातीयं चन्दनादिसमवेतं गन्धमभिव्यनक्ति, यथा मृगमदादिगन्धं
पार्थिवद्रव्यान्तरसमवेतो गन्ध इति । अत एवाह—येन गुणेन यद् द्रव्यमुत्कृष्यते
स तज्जातीयाभिव्यञ्जकत्वादुत्कृष्टो भवति ।
तस्मिन् द्रव्य इति शेषः । यः
पुनर्गन्धगुणत्वाद्
इति गन्धमात्रगुणत्वादेव घ्राणं गन्धस्य व्यञ्जकं न तु
गन्धस्योत्कर्षादित्यर्थः । तस्य वादिनः सर्वेषामेव पार्थिवानां गुणानामुपलब्धिप्रसङ्गः
घ्राणग्राह्यत्वप्रसङ्ग इत्यर्थः ॥ ६७ ॥


तद्व्यवस्थानं तु भूयस्त्वात् ॥ ३ । १ । ६८ ॥


ननु भवतोऽपि कुतो 1902व्यवस्थेति सूत्रम् अवतारयितुं पृच्छति—कस्मात्
पुनरिति । तद्व्य…स्त्वात् ॥ अर्थनिर्वृत्तीति ।
अर्थः पुरुषार्थः । प्रविभक्तस्येति
इतरेभ्यो विशिष्टस्य । संस्कारकारित इति । अदृष्टकारितः ॥ ६८ ॥


सगुणानामिन्द्रियभावात् ॥ ३ । १ । ६९ ॥


शङ्कते—यदि पुनरिन्द्रियस्य गन्ध इति । निराकरोति—तेनैव तस्येति ॥ ६९ ॥


495

तेनैव तस्याग्रहणाच्च ॥ ३ । १ । ७० ॥


तदेतद् ग्रहणकवाक्यं सोपस्कारं व्याचष्टे—यदीन्द्रियं स्वगन्धं गृह्णीयात् ते
तव दर्शने नासाविन्द्रियगन्धः । अथेन्द्रियगन्धः ततो नेन्द्रियग्राह्यः स्यात् ।
कस्मात् नेन्द्रियग्राह्य इन्द्रियगन्ध इत्यत आह—गन्धं च गृह्णदिति । चो हेतौ ।
चात्मसाधनं करणमस्तीति ।
मनस्तु लिङ्गवदात्मनि करणं न केवलमित्युक्तम् ।
तुल्यत्वमापादयितुं सिद्धान्ती पूर्वपक्षिणमनुयुङ्कते—कस्मात् पुनरिदं न देश्यत
इति । पूर्वपक्ष्याह—न देश्यत इति । सिद्धान्तवाद्याह—तुल्यं घ्राणेन स्वस्य
गन्धस्याग्रहणमिति ।
तुल्यतामेवापादयति—एतदप्यदेशनीयमिति ॥ ७० ॥


न शब्दगुणोपलब्धेः ॥ ३ । १ । ७१ ॥


तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥ ३ । १ । ७२ ॥


तद्गुणत्वमेव शब्दगुणत्वमेव दिक्कालयोरिति चेत् ? नाम्नि विवादः
दिक्कालयोर्हि शब्दगुणत्वे सत्यसाधारणगुणयोगित्वेन न परापरव्यतिकरकारणत्वं
पृथिव्यादिवद् भवितुमर्हतीति । तथा च शब्दगुणं परादिप्रत्ययकारणं चाकाशमेवेति
नाम्नि विवादः । दिक्कालौ तु परापरव्यतिकरकारणे कल्पनीयौ ततो व्यतिरिक्तावि
त्यर्थः । अपि चाकाशमिच्छत आकाशप्रत्याख्यानं वा । सामर्थ्यानुपलब्धेरिति ।
रूपादिसाक्षात्कारे हि इन्द्रियाणामिन्द्रियत्वमेव स्वरूपसामर्थ्यम् । तच्चक्षुरादि
द्रव्यस्य दृष्टं न गुणादीनामित्यर्थः ॥ ७२ ॥


॥ इति अर्थपरीक्षाप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
तृतीयाध्याये प्रथमाह्निकम् ॥
  1. °विधं प्रमेयम्, तत्C

  2. दर्शयिष्यतेC

  3. °रूपःC

  4. °य्यनति°C

  5. मन्वानस्यC

  6. दर्शयन्त्येषितारं परीक्ष्यन्तेC

  7. शरीरेण
    सह भेदा°
    C

  8. धर्म्यसत्त्ववा°J

  9. ननु विकल्पस्य कोऽयम्C

  10. बाह्यविषया विकल्पा बाह्यमारोपयन्ति चेतिJ

  11. बाह्यभेदग्रहस्त°C

  12. विज्ञानमये हिC

  13. अविज्ञा°J

  14. °विकल्पाकारोC

  15. समारोप्य प्रति°C

  16. देशकालान्तरे वस्तुनि
    विकल्पनम्, विज्ञाने चासं
    C

  17. आत्मेत्येव ?J

  18. विज्ञानंC

  19. °त्वलक्षणःC

  20. परसमवेतक्रियाफलशालितया तद्व्याप्तस्य
    ज्ञानस्यापि निवृ°
    C

  21. युक्तंC

  22. सत्त्वमनुमन्तव्यम्C

  23. तच्चास्य सधर्मेणC

  24. यदि हिJ

  25. °था न तत्प्रतिषेध°C

  26. न त्वसंहतपरा°J

  27. स्वं चैतन्यंC

  28. °दिति हेतुः ।C

  29. भवत्येवम° C

  30. द्रः पूर्वमीमांसासूत्र ३. ७. १८

  31. °सन्तानो यत्कायचित्तसन्तानः तेन कायेनोपलक्षितो
    यश्चित्तसन्तानः
    J

  32. व्यवहिते द्रव्ये स्फटिकभाजने न तुल्यो° C

  33. सत्त्वमित्यभि° C

  34. अनुत्पत्तिः
    संस्काराणाम्
    J

  35. कार्यान्तरं J

  36. °स्यैव सहकारिसापेक्षत्वानपेक्षत्वानुपपत्तेः C

  37. खलु गुणौ प्रचयसंयोगविभागविशेषौ C

  38. वह्निधूमयो° C

  39. धर्माध्यासात् C

  40. दक्षिणस्येति C

  41. °भासौ तावर्थौ C

  42. पूर्वार्थम°C

  43. अनुभवकल्पना°C

  44. नैकमित्य° C

  45. मते…इतिJ

  46. तस्ये…त्वेJ

  47. परलोकम् C

  48. कस्यापि C

  49. उपाददानः C

  50. एकस्मिन्C

  51. अदृष्टापरि°J

  52. स्मरत्यात्माC

  53. सनिमित्तमुप°C

  54. जनस्यC

  55. अणुग्र° J

  56. विभुत्वादिति भाष्यपाठः C

  57. °तदित्येकस्मादेव C

  58. संभावनायोग्यताभि° C

  59. यथाश्रुतं C

  60. इतः परं
    अनेकद्रव्यः…रूपोपलब्धिरिति वै. सू. ४. १. ९ न्यायभाष्योद्धृतं न्यायसूत्रत्वेन समुल्लिखन्ति केचन ॥

  61. अभावात् C

  62. अविषक्ता° J

  63. °भवनीयस्य रूप°J

  64. °सारं रूपं चC

  65. अविघातः J

  66. स्थानस्यान्य°C

  67. फलमिति C

  68. भिन्नं नियतम्C

  69. स्पर्शस्यैव व्य° C

  70. संगृहीतः J

  71. १. १. १४

  72. °शब्दोऽनन्तरवचनः C

  73. तन्त्रं वेति C

  74. °दिप्रतिव्यक्तिनि° C

  75. द्वये C

  76. °ऽग्नौ J

  77. °गुणो व्याख्यातः C

  78. वाच्यम् C

  79. °दन्यसं°C

  80. संयुक्तस्यC

  81. तत् सर्वेषामेव°C

  82. °दिभ्य आप्यादिभ्यःC

  83. तज्जातीयश्चन्द° C

  84. व्यवस्थितिरिति C