497

विषयप्रत्यभिज्ञानात् ॥ ३ । २ । २ ॥


साधनं च प्रचक्षते—विष…नात् ॥ इति । वृत्तिमान् किल विषयं प्रत्यभि
जानन्नात्मानमपि प्रत्यभिजानाति । न च चेतनो वृत्तिमान् तस्य कूटस्थनित्यत्वात्
अन्यथा पूर्वापरावस्थाभेदवान् न कूटस्थनित्यः स्यात् । परिणामिनित्या तु
बुद्धिरुदयव्ययवदनेकवृत्तिमती युज्यत इति भावः ॥ २ ॥


साध्यसमत्वादहेतुः ॥ ३ । २ । ३ ॥


सिद्धान्त्याह—साध्य…तुः ॥ इति । वृत्तयो हि वृत्तिमतो भिन्नाः । तेन
तासामनित्यत्वेऽपि न वृत्तिमान् कौटस्थ्यात् च्यवेत । तथा च प्रत्यभिज्ञातात्मैव
प्रत्यभिज्ञानान्नित्यः सिध्यति, न त्वन्तःकरणं बुद्धिसंज्ञकम् । न हि तत्प्रत्यभिज्ञाने
प्रकाशत इत्यर्थः ।


क्रियानाधारत्वाच्च करणस्येति । प्रधानक्रियानाधारः करणम् । प्रधान
क्रियाचेयमुपलब्धिः । अतो1905 यदाधारा सा प्रतीयते स कर्ता न करणम् । तथा च
प्रतत्यभिज्ञानाद्युपलब्ध्या तदाधारः कर्ता आत्मा सिध्यति नित्यो 1906नान्तःकरण
मित्यर्थः । क्रियामात्राभिमानेन च शङ्कते1907स्वक्रियेति । प्रधानक्रियामालम्ब्य
निराकरोति—सत्यं भवतीति । ननु यदि भेदविवक्षया कर्त्रादिशब्दप्रवृत्तिर
भेदविवक्षायां च कारकशब्दप्रवृत्तिः । कथं तर्हि कर्ता कारकं करणं कारकमित्यादि
सामानाधिकरण्यं भेदाभेदविवक्षयोर्विरुद्धार्थत्वादित्यत आह—कारकशब्देनापीति ।
नाभेदविवक्षा विशेषाणां किन्तु सामान्यविवक्षा, भिद्यत इति भेदः, न भेदोऽभेद इति
सामान्यस्याभिधानात् । तथा च सामान्यविवक्षया प्रवृत्तः शब्दस्तद्भेदाभिधानाद्
भेदवाचिना सामानाधिकरण्यं प्रतिपद्यमान इतरेतरव्यावृत्ते विशेषेऽपादानादौ प्रवर्तते,

  1. स्वतोC

  2. न तु क°C

  3. °भिधानेन श°C