498 अन्यस्य कारकविशेषस्य कारकशब्देन सामानाधिकरण्यासंभवात् । पूर्ववदिति
द्वितीयाध्यायोक्तं1908 कारकविशेषलक्षणं स्मारयति । चोदयति—यद्यन्यकारकेति ।
कारकाणामुपादानेन खलु प्रवर्त्तितः कर्त्ता कारकाण्युपादत्ते । तस्मादितराप्रयोज्य
त्वमस्यासिद्धमित्यर्थः । परिहरति—न प्रयुज्यते फलस्य प्रयोजकत्वादिति । ना
प्रयोज्यमात्रं1909 कर्तारं ब्रूमः । अपि तु कारकाप्रयोज्यम् । न च फलं कारकमित्यर्थः ।


उपेत्य प्रत्यभिज्ञानमन्तःकरणे तस्येति । प्रत्यक्षं चेत् प्रत्यभिज्ञानं नैकत्वे किं
त्वनुमानम् । ततो यद् यत् प्रत्यभिज्ञायते तत् तदेकमिति न निदर्शनमस्ति । न हि
तस्यैकत्वमन्यतो निश्चितमतः प्रत्यभिज्ञानात् । नाप्यनेकत्वं दृष्टम् । तथा चासाधारणतया
हेत्वाभास इत्यर्थः । प्रत्यभिज्ञानस्वरूपावधारणे च सति विरुद्धः हेत्वाभासो
बुद्ध्यनित्यत्वसाधनादिति । शेषं निगदेनैव व्याख्यातम् । चेतनाध्यवसायाभेदश्च
1910बुद्धिलक्षणेऽस्माभिर्विचारितः ॥ ३ ॥


न युगपदग्रहणात् ॥ ३ । २ । ४ ॥


वृत्तिमतोऽवस्थानाद् वृत्त्यवस्थानप्रसङ्ग इति सूत्रार्थः ॥ ४ ॥


अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥ ३ । २ । ५ ॥


क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥ ३ । २ । ६ ॥


अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥ ३ । २ । ७ ॥


  1. २॑१॑१६

  2. नाप्रयुज्यमानं C

  3. द्रः न्यायालङ्कारः २॑१॑१