549 प्रायणानुपपत्तिं ब्रूमः विनाशानुपपत्तिमित्यर्थः2035यादृच्छिके अकारणके प्रायणे
प्रायणभेदो न स्यात् ।
दृष्टश्च प्रायणभेदः, कश्चिद् गर्भस्थ एव प्रैति, कश्चिज्जात
मात्रः, कश्चित्कुमारक इत्यादिरिति । अकारणस्य नित्यं सत्त्वमसत्त्वं वा स्यात्
गगनवत् तत्कुसुमवदित्यर्थः ॥ ७० ॥


अणुश्यामतानित्यत्ववदेतत् स्यात् ॥ ३ । २ । ७१ ॥


अकारणत्वादित्यस्य हेतोरनैकान्तिकत्वेन प्रत्यवतिष्ठते—अणुश्यामतावत्
इति । अणु…त् ॥ ७१ ॥


नाकृताभ्यागमप्रसङ्गात् ॥ ३ । २ । ७२ ॥


निराकरोति—एतच्च नेति । प्रमाणेनाविषयीकृतमकृतं प्रत्युत प्रत्यक्षा
गमप्रतिषिद्धमिति2036 यावत्, तस्याभ्यागमोऽभ्युपगमः, तत्प्रसङ्गादित्यर्थः । न च
परमाणुश्यामताप्यकारणा पार्थिवरूपत्वात् लोहितादिरूपवदित्यनुमानेन तस्या अपि
पाकजत्वाभ्युपगमादिति भावः । यथाश्रुति वा सूत्रार्थः । अकृतस्य कर्मणः
फलोपभोगप्रसङ्गादिति । यदा खलु परमाणुगुण एव नित्यः शरीराद्यारम्भकः, तदासौ
नित्यत्वात् न केनचित् क्रियते । तस्याकृतस्यैव फलं पुरुषैरुपभुज्यते । ततश्चाय
मास्तिकानां विहितप्रतिषिद्धप्रवृत्तिनिवृत्तिप्रचयोऽनर्थकः । शास्त्रप्रणयनं चाप्यनर्थकं
भवेदिति भावः । एतच्च विस्तरोक्तं2037 भाष्ये । तस्यार्थो निगदव्याख्यातः ।


॥ इति शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
तृतीयाध्याये द्वितीयाह्निकम् ॥

॥ तृतीयाध्यायः समाप्तः ॥

  1. पत्तेरित्यर्थः C

  2. °गमविरुद्धमिति C

  3. अतिविस्तृतं C