496

तृतीयाध्याये द्वितीयाह्निकम्


बुद्ध्यनित्यताप्रकरणम्


कर्माकाशसाधर्म्यात् संशयः ॥ ३ । २ । १ ॥


परीक्षितानीन्द्रियाण्यर्थाश्च, बुद्धेरिदानीं परीक्षाक्रमः । क्रमः स्थानम् ।
वृत्तवर्तिष्यमाणानुकीर्तनं हेतुहेतुमद्भावज्ञापनार्थम् । अर्थेन्द्रियपरीक्षा च बुद्धिपरीक्षायां1903
यथोपयुज्यते तथा बुद्धिपरीक्षायामेव स्फुटीभविष्यति । कर्मा…यः ॥
संशयमाक्षिपति—अनुपपन्नरूप इति । यद्युपलभ्यमानज्ञानविषयः संशयः,
सोऽनुपपन्नः । सांख्यानामपि तदनित्यत्वस्याभिमतत्वात्1904 । अथ सांख्या
भिमतमहत्तत्त्वबुद्धिविषयः, तस्य सत्त्व एव विप्रतिपत्तिरिति कुतस्तद्गतधर्म
विचारः ? सति धर्मिणि धर्माश्चिन्त्यन्ते न सन्दिग्धसत्त्व इति भावः ।


समाधत्ते—दृष्टिप्रवादेति । सांख्यानां हि दर्शने प्रवादो महदन्तःकरणं बुद्धिरिति ।
तदुपालम्भार्थं दूषणार्थं प्रकरणमिति । अयमभिप्रायः, नेह नित्यानित्यविचारः
प्रधानतः, अपि त्वनया द्वारा वृत्तेरतिरिक्ता सांख्याभिमता बुद्धिर्निराक्रियते ।
सामान्यतो बुद्धिमात्रस्य नित्यानित्यत्वविचारेण । यदि हि नित्या बुद्धिः स्यात्, ततो
वृत्तिभ्य उदयव्ययवतीभ्योऽतिरिक्तं महत्तत्त्वमन्तःकरणं स्यात् । अथ तु
नित्यत्वसाधनानि प्रतिसन्धानादीनि न बुद्धिनित्यत्वस्येशते, ततो वृत्तय एव बुद्धयो
न तु तदतिरिक्तं बुद्धितत्त्वं सिध्यतीति सिध्यति
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्
इति बुद्धेर्लक्षणम् । तथा चास्य लक्षणेन संगतिः, इतरथा तु प्रधानतो नित्या
नित्यत्वविचारो न लक्षणेन संगच्छेत इति ॥ १ ॥


  1. °क्षणं प्रति C

  2. °स्याभ्युपगमात् C