452

तृतीयाध्यायः

तृतीयाध्याये प्रथमाह्निकम्


इन्द्रियभेदप्रकरणम्


दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ ३ । १ । १ ॥


अत्र भाष्यं परीक्षितानि प्रमाणानि । प्रमेयमिदानीं परीक्ष्यत इति वृत्तानुकीर्तनं
प्रमेयपरीक्षां वर्तिष्यमाणां प्रति वृत्तायाः प्रमाणपरीक्षाया हेतुभावं दर्शयितुम् ।
प्रमाणेन हि प्रमेयं परीक्ष्यते नान्येन । न च तदपरीक्षितं प्रमेयपरीक्षायै प्रभवति । तस्मात्
प्रमाणपरीक्षा हेतुः । हेतुमती च प्रमेयपरीक्षेति । द्वादशविधं च तत् प्रमेयमिति1819
कस्मात् प्रथमत आत्मैव परीक्ष्यते न प्रमेयान्तरमित्यत आह—तच्चात्मादीत्यात्मा
विचार्यत
इति । आत्मैव हि प्रमेयेषु प्रथममुद्दिष्टश्च लक्षितश्चेति । तदनुरोधादात्मैव
प्रथमं परीक्ष्यते, न प्रमेयान्तराणीति । अत्र च यद्यपि स्वरूपेणात्मन्येव परीक्षां
प्रतिजानीते, तथापि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणात् लक्षणपरीक्षैव द्रष्टव्या ।
यथा चेयमात्मलक्षणपरीक्षा तथोपरिष्टाद् दर्शयिष्यति1820


तदेतद् वार्त्तिककारो व्याचष्टे—आनन्तर्यादिति । किं पुनः प्रयोजनं
प्रमेयपरीक्षायाः ? न हि निष्प्रयोजनं परीक्षन्ते प्रेक्षावन्त इत्यत आह—यद्विषयोऽह
ङ्कार
इति । अहङ्कार इत्यात्मादिविषयं मिथ्याज्ञानं निर्दिशति । शरीराद्यभेदेनात्मदर्शनं
खलु संसारं प्रवर्तयतीत्युक्तं द्वितीयसूत्रे । अनेन प्रमेयपरीक्षायाः प्रयोजनवत्त्वं
दर्शितम् ।


अत्र भाष्यकारेण 1821विचारपूर्वरूपं संशयो दर्शितः । किं देहेन्द्रियमनोबुद्धि
संघातमात्रमात्मेति
संशयकारणं चोक्तं व्यपदेशस्येति । यद्यपि वृक्षप्रासादयोर
वयविसमुदाययोरन्ययोरेवान्येनावयवेन समुदायिना च व्यपदेशः, तथाप्यवयव्यभावं

  1. °विधं प्रमेयम्, तत्C

  2. दर्शयिष्यतेC

  3. °रूपःC