606 तेन तत्र मिथ्याज्ञानं मा निवर्त्तिष्ट, निवर्ततां वा स्वात्मादिदृष्टान्तेन न तु तस्य
संसारनिवृत्तिं प्रति कश्चिदुपयोगः । यस्य तूपयोगस्तत्र तत्त्वज्ञानं न दुष्करमिति ।
पृच्छति—किं पुनस्तन्मिथ्याज्ञानम् ? सन्ति खल्वत्र प्रवादिनां नाना विप्रति
पत्तयः । केचिदाहुः विधूतविविधनामरूपप्रपञ्चोपप्लवविशुद्धप्रकाशानन्दघनाद्वैत
ब्रह्मसाक्षात्कारस्तत्त्वज्ञानमिति । अन्ये तु सत्त्वपुरुषान्यताख्यातिम् । धर्मपुद्गलनैरात्म्य
ज्ञानमित्यपरे । शरीरेन्द्रियाद्यनित्यव्यतिरिक्तनित्यात्मदर्शनमिति वृद्धाः । तदेवं विप्रति
पत्तेः प्रश्नः । उत्तरम्—अनात्मन्यात्मग्रहोऽहमस्मीति मोहोऽहङ्कारः । न तावदद्वैता
नन्दघनात्मज्ञानं तत्त्वज्ञानम् भेदस्य प्रत्यक्षसिद्धस्यासति बाधकेऽपह्नोतुमशक्यत्वात् ।
न च प्रकाशानन्दावात्मधर्मावात्मातिरिक्तावात्मस्वभावौ भवितुमर्हतः ।
सत्यं विज्ञानमानन्दं ब्रह्मेति
च श्रुतिरान्दचैतन्यशक्त्यभिप्राया । भेद एव च तद्वत्तया कथंचित् सामानाधि
करण्यमुपपद्यते । अभेदे त्वानन्दविज्ञानयोस्तत्पदयोः पर्यायतया सहप्रयोगानुप
पत्तिः । न च प्रकृष्टः प्रकाशः2227 सवितेत्यत्रापि प्रकर्षप्रकाशयोरभेदः2228, अप्रकाशस्यापि
प्रकर्षसंभवात्, अप्रकृष्टस्यापि खद्योतादेः प्रकाशसंभवात् । तस्माद् यकिञ्चिदेतत् ।
सत्त्वपुरुषान्यताख्यातिस्तु सत्त्वस्यैव प्रकृतेरसंभवात् अयुक्ता सत्कार्यवादमूल
त्वात्प्रधानसद्भावस्य तन्निराकरणेनैव निराकरणम् । धर्मपुद्गलनैरात्म्ये तु क्षणभङ्गभङ्गेन
नित्यात्मसद्भावकथनेन च निराकृते । तस्मात् सुष्ठूक्तमनात्मन्यात्मग्रहोऽहमस्मीति
मोहोऽहङ्कार इति । अत एव सर्वस्यैवमात्माशीः कृमेरपि मा न भूवं भूयासमिति ।
सोऽयमीदृशोऽभिनिवेशः शरीरादीनामात्मत्वेनाध्यवस्यतो भवति नात्मतत्त्व
विदुषः । स खल्वहिनिर्ल्वयनीमिवाहिः ततो व्यतिरिक्तं शरीरादि पश्यन्न तत्र
स्निह्यति, स्नेहविरहाच्च न तप्यते नाप्यनुशोचतीति । अतत्त्वज्ञानवतः संसारं दर्शयित्वा
तत्त्वज्ञानवतः संसारनिवृत्तिमाह—यस्तु दुःखमिति । तदेवमुक्तेन प्रकारेण
मोहतत्त्वज्ञानयोः संसारापवर्गहेतुभावो यतस्तस्मान्मोक्षमाणैः2229 प्रेत्यभावफल

  1. प्रकृष्टप्रकाशःC

  2. तेत्यत्र प्रकृष्टप्रकाश°C

  3. °माणःJ