604 निकायनियमेन रागादीन् 2221प्रवर्तयन्तीति कर्मनिमित्तत्वमुक्तमिति भावः । ननु यथा
रागादयः सत्यपि कर्मणि मिथ्यज्ञाननिवृत्त्या निवर्तन्ते, एवं सत्यपि कर्मणि
मिथ्याज्ञाननिवृत्त्या फलमपि मा भूदित्यत आह—सुखदुःखसंवित्तिफलं तु
भवतीति ।


2222संकल्पाद्यपेक्षं कर्म रागादिकारणमिति । यज्जातीयस्य जन्मनो यत्कर्म
कारणं तत् तज्जन्मोचितामेव मिथ्याज्ञानवासनामभिव्यनक्तीति तद्द्वारेण रागादीनां
कारणं भवति । चोदयति—सुखादीनामपीति । यथा मिथ्याज्ञानसहायं कर्म रागादि
हेतुः, एवं तत्सहायं फलहेतुरिति चरमदेहस्य तत्त्वज्ञानवतः सदपि कर्म फलकारणं
न स्यादित्यर्थः । परिहरति—न निरपेक्षत्वादिति । 2223कर्माशयप्रचयं क्षेतुममूढोऽप्य
सक्तोऽप्यद्विष्टोऽपि मूढ इव सक्त इव द्विष्ट इव तत्फलं भुङ्क्ते इति रागाद्यनपेक्षं कर्म
स्वफलं जनयति । तेनासौ फलोपभोगो न बन्धहेतुः । मूढादीनां बन्धहेतुः फलोप
भोगः । स च तादृशो रागादिसहायैः कर्मभिः क्रियते, न रागादिनिरपेक्षैरित्यव
दातम् ॥ ६८ ॥


॥ इत्यपवर्गपरीक्षाप्रकरणम् ॥

॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
चतुर्थाध्याये प्रथमाह्निकम् ॥

  1. °र्तन्त इति J

  2. वार्त्तिकमित्यादिकर्मार्थत्वादिति सन्दर्भोऽर्थसंगत्यनुसारं ५९४-५
    पत्रयोः सन्निवेशितः ।

  3. °शयप्रपञ्चमुच्छेत्तु° C