नित्यसमप्रकरणम्


नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥ ५ । १ । ३५ ॥


धर्मस्य सर्वदा भावाद् धर्मिणोऽपि सर्वदा भावः । न ह्यस्ति संभवः
सामान्यसमवायातिरिक्तधर्मो नित्यो2390 धर्मी चानित्य इति ॥ ३५ ॥


प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेःप्रतिषेधा
भावः ॥ ५ । १ । ३६ ॥


665

अस्य प्रत्यादेशसूत्रम्—प्रति…भावः ॥ नित्यमनित्यभावादिति
हेतोरभ्युपगमेऽनभ्युपगमे च दोष इत्यर्थः । उत्पन्नस्य च निरोधादभावः
शब्दस्यानित्यत्वम् ।
तत्र च परिप्रश्नानुपपत्तिः । यदि हि निरोधकादभावोऽनित्यता
तथापि प्रश्नानुपपत्तिः । अथाप्यस्मन्मते समवायः, तथापि तदनुपपत्तिः । अनित्यत्वं
हि शब्दस्यापरान्तावच्छिन्नसत्तासमवायः । न चासौ शब्दाधेयस्तस्य स्वतन्त्रत्वादेवे
त्यर्थः ।


वार्त्तिकम्—पृथग्धर्मत्वेनानित्यत्वस्यानभ्युपगमादिति । अनात्यन्तिक
सत्तासमवायो ह्यनित्यता । न चासौ समवायात् पृथग्धर्मो न च समवायोऽपि
धर्मोऽनाश्रितत्वात्, पारतन्त्र्येण तु निरूपणात् कथञ्चिद् धर्मीत्युच्यते इति । अपि
चानात्यन्तिकसत्तायोगोऽनित्यतेत्युक्ते न युक्तः प्रश्न
इति । न हि घटमानयेति
प्रेषितः परिवृत्य पृच्छति—किं घट आनेतव्य उत पट इति । तादृशमेतदित्यर्थः । अपि
चानित्यता नित्यानित्या वेति विकल्पो नावतरति, विरोधादित्यत
आह—आत्यन्तिकानात्यन्तिकभावयोगश्चैकस्येति । शङ्कते—प्रतिषेध्येति ।
एवमभ्युपगच्छतोऽयं दोष इत्येतत्परमेतत्, न तु स्वपक्षोपवर्णनपरमेतदिति
शङ्कार्थः । निराकरोति—न, विकल्पानुपपत्तेरिति । विरोधस्य चोक्तोत्तरत्वादिति ।
परिप्रश्नानुपपत्तेरित्युत्तरं विरोधस्योक्तमित्यर्थः ॥ ३६ ॥


॥ इति नित्यसमप्रकरणम् ॥

  1. धर्मा नित्याः C