कार्यसमप्रकरणम्


प्रयत्नकार्यानेकत्वात् कार्यसमः ॥ ५ । १ । ३७ ॥


उदाहरणपूर्वकमस्यार्थं व्याचष्टे—प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति ।
कार्यत्वानित्यत्वे च परस्परासंकीर्णे प्रथम एवाध्याये दर्शिते । उदाहृत्य
666 जातिमवतारयति—एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यत इति ।
प्रयत्नानन्तरीयकत्वम्—प्रयत्नानन्तरोत्पादो वा स्यात्, प्रयत्नानन्तरोपलम्भो वा ? न
तावत् पूर्वः कल्पोऽसिद्धत्वात् । तस्मात् प्रयत्नानन्तरोपलम्भ आस्थेयः । तत्र
कार्यसमं प्रतिषेधमाह—प्रयत्नानन्तरम् उपलभ्यमानानां प्रयत्नानन्तरम्
आत्मलाभश्च दृष्टो यथा घटादीनाम्, व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानां
मूलकीलकादीनाम् । तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्य, आहोस्विद्
अभिव्यक्तिरिति विशेषो नास्ति ।
तदेवं कार्याविशेषेण प्रत्यवस्थानं
कार्यसमः ।


येन तु कार्यसमा जातिरन्यथैवोक्ता, तद् यथा—अनित्यः शब्दः कृतकत्वाद्
घटवदित्युक्ते अन्यद् मृत्पिण्डादिकार्यत्वं घटस्य, अन्यच्च विवक्षाप्रयत्नवायुप्रेरणा
भिघातकार्यत्वं शब्दस्य । तस्माच्छब्दकृतकत्वस्य घटादिकृतकत्वाद् भेदान्न साधनं
कृतकत्वमनित्यत्वस्येति । सेयं कार्यान्यत्वेन प्रत्यवस्थानात् कार्यसमेति । तदाह,

कार्यत्वान्यत्वलेशेन यत् साध्यासिद्धिदर्शनम्2391

तत् कार्यसमम्2392
इति भदन्तेनोक्तम् । कीर्तिरप्याह,
साध्येनानुगमात् कार्यसामान्येनापि साधने ।

संबन्धिभेदाद् भेदोक्तिर्दोषः कार्यसमो मतः2393

इति ।


तदनेन यदीश्वरसाधननिराकरणायोक्तम्—तनुगिरिसागरादीनामन्यत् कार्यत्वम्,
अन्यच्च प्रासादाट्टालगोपुरादीनाम् इति, तदपि जात्युत्तरभेवेति उक्तं भवति । न च
प्रत्यक्षदृश्यमानं बुद्धिमदन्वयव्यतिरेकानुविधानं सौधादीनामिव तनुभुवनादीनां
नास्तीत्येतावता भेदेन कार्यभेदे शब्दमात्राभेद इति साम्प्रतम्, अभूत्वा भावलक्षणस्य
667 कृतकत्वस्य संस्थानवत्त्वस्य वा वस्तुन एवाभेदात् । तस्मादेतदप्ययुक्तम्—


वस्तुभेदे प्रवृत्तेऽपि शब्दसाम्यादभेदिनः ।

न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने2394

न चेयं जातिरुत्कर्षापकर्षसमाभ्यां भिद्यते । साध्यदृष्टान्तयोर्धर्मविकल्पेन
प्रवर्तमानत्वात् । तस्मात् सूत्रकारोक्त एव कार्यसमोऽसंकीर्ण इति युक्तमुतप
श्यामः ॥ ३७ ॥


कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ॥ ५ । १ । ३८ ॥


अस्य प्रत्यादेशसूत्रम्—कार्या…पत्तेः ॥ कार्यस्योत्पत्तिलक्षणस्या
न्यत्वेऽभिव्यक्तिलक्षणात् कार्यात् प्रयत्नस्याभिव्यक्तिं प्रति अहेतुत्वम् ।
कस्मादभिव्यक्तिं प्रति हेतुत्वं न भवतीत्यत आह—अनुपलब्धिकारणस्यावरणादेः
उपपत्तेः अभिव्यक्तिहेतुत्वं स्यात्, 2395तदेव तु नास्तीति व्यतिरेकपरं द्रष्टव्यम् । सति
कार्यान्यत्व
इति भाष्यं सूत्रवद् योजनीयम् । यत्र प्रयत्नानन्तरमित्यत्र यत्रतत्रयो
र्व्यत्यासः, तत्र प्रयत्नानन्तरमभिव्यक्तिर्यत्रानुपलब्धिकारणं व्यवधानमुपपद्यत इति ।
कस्मादनुपलब्धिकारणोपपत्तेः प्रयत्नाभिव्यङ्ग्यत्वमित्यत आह—व्यवधानापोहाच्च
इति चो हेत्वर्थे । प्रयत्नानन्तरभाविन इति विषयेण विषयिणमुपलक्षयति ।
प्रयत्नानन्तरभाविन2396 इत्यर्थः अनुपलब्धिकारणोपपत्तेरित्यस्य व्यतिरेकप्रधानतामाह—
न तु शब्दस्यानुपलब्धीति ।


देश्यवार्त्तिकं—संशयसमात इति । परिहरति—उभयसाधर्म्यादिति ।
विशेषानुपलब्धौ2397 सत्यामुभयसाधर्म्यात् संशयसमः । इह तु विशेषोपलब्धि
मविवक्षित्वेति विशेषः । तदिदमुक्तम्—अयं तु न तथेति । देशयति—साधर्म्य
समात
इति । निराकरोति—न, हेत्वध्यारोपणादिति । प्रयत्नानन्तरीयकत्वादित्ययं
668 हेतुः प्रयत्नानन्तरमुपलब्धिरित्यध्यारोप्य प्रतिषिध्यते । साधर्म्यसमे तु नारोपण
मित्यर्थः ॥ ३८ ॥


॥ इति कार्यसमप्रकरणम् ॥

  1. °द्धि चोदनममिति ज्ञानश्रीनिबन्धेषु पाठः ।

  2. एतत्तु त्रिधा वक्त्रभिसन्धितः इति
    तदनुसारी श्लोकशेषः ।

  3. प्र. वा १. १६

  4. प्र. वा. १. १४

  5. एवंC

  6. भासिनःJ

  7. विशेषो°J