षट्पक्षीरूपकथाभासप्रकरणम्


प्रतिषेधेऽपि समानो दोषः ॥ ५ । १ । ३९ ॥


तदेवं जात्युत्तरवादिनं प्रति साधनवादिना सर्वत्रैव सम्यक् समाधानं स्वसाधनस्य
वक्तव्यम् । एवं सति तत्त्वनिर्णये कथा पर्यवसानं भवति । यदि पुनर्वाद्यपि
जातिवादिनं प्रति साधनाभासेन प्रत्यवतिष्ठेत, ततः षट्पक्ष्यां सत्यां न तत्त्वनिर्णयावसाना
कथा भवेदिति शिष्यहितः सूत्रकारः समाधानाभासवादिनं प्रति षट्पक्षी
मवतारयति—प्रति…दोषः ॥


तदेतत्सूत्रावतारपरं भाष्यम्—हेतोश्चेदनैकान्तिकत्वमुपपाद्यते प्रतिवादिना,
अनैकान्तिकत्वादसाधकः स्यादिति यदि चानैकान्तिकत्वादसाधकं वादिनो
वचनम्, प्रतिषेधेऽपि समानो दोषः । योऽयं प्रयत्नकार्यानेकत्वादिति प्रतिषेधो
जातिवादिनः, सोऽप्यनैकान्तिकः । एवं ह्यनैकान्तिकः स्याद् यदि सर्वमेव प्रतिषेधेत्,
यतस्तु किंचित् प्रतिषेधति किंचिच्च न, तस्मादयमप्यनैकत्वादसाधक2398 इत्यर्थः ।


व्याख्यान्तरमाह—अथवा शब्दस्येति । नित्यपक्षोऽभिव्यक्तिर्नोत्पादः,
एवमनित्यपक्षे उत्पादो नाभिव्यक्तिरित्ययं विशेषो न सिध्यत्ययं प्रतिषेधेऽपि
समानो दोष इत्यर्थः ॥ ३९ ॥


सर्वत्रैवम् ॥ ५ । १ । ४० ॥


669

न केवलमस्यां जातावयं समाधानाभासो वादिनः, अपि तु सर्वत्रैव जाताविति
शिष्यान् शिक्षयति सूत्रकारः—सर्वत्रैवम् ॥ ४० ॥


प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ॥ ५ । १ । ४१ ॥


अस्मिन् समाधाने प्रयुक्ते वादिना पुनर्जातिवादी प्रत्यवतिष्ठते—प्रति……
दोषः ॥
प्रतिषेधो जातिवादिनस्तस्य विप्रतिषेधो मूलसाधनवादिनः । तस्मिंस्तुल्यो
दोष इति जातिवादिनः प्रत्यवस्थानमित्यर्थः ॥ ४१ ॥


प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोष
प्रसङ्गो मतानुज्ञा ॥ ५ । १ । ४२ ॥


अथ पञ्चमं पक्षं साधनवादिनश्चतुर्थपक्षवादिनं प्रति मतानुज्ञापादन
माह—प्रतिषेधं…मतानुज्ञा ॥ ४२ ॥


स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा
भ्युपगमात् समानो दोषः ॥ ५ । १ । ४३ ॥


सेयं मतानुज्ञा तृतीये पक्षे पञ्चमपक्षवादिनोऽपि साधनवादिन इति जातिवादी
षष्ठे पक्षे स्थित आह—स्वप…दोषः ॥ स्वपक्षेण लक्ष्यते तदुत्थानत्वाज्जातिः,
स्वपक्षलक्षणा अनैकान्तिकत्वोद्भावनलक्षणा । तामपेक्ष्य2399 अनुद्धृत्य प्रतिषेधेऽपि
जातिलक्षणे समानोऽनैकान्तिकत्वदोष इत्युपपद्यमानं स्वपक्षेऽपि दोषं परपक्षे
जातिवादिपक्षे साधनावाद्युपसंहरति । तत्र चानैकान्तिकं2400 हेतुं ब्रूते । तदेवं
670 स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षे यत्स्वयं दूषणं दत्तं तस्याभ्यु
पगमाद् वादिनोऽपि समानो दोष इति जातिवादिनो वचनं षष्ठे पक्षे स्थितस्य ।
तदेवं 2401विस्तीर्णं संकलय्याह—तत्र खलु स्थापनाहेतुवादिन इति । सेयं षट्पक्षी
समानदोषापादनेनानिर्णायकत्वात् पौनरुक्त्याच्च न तत्त्वनिर्णयाय पर्याप्ता । तस्मात्
समाधानाभासेन जातिवादिनं प्रति साधनवादिना न प्रत्यवस्थेयम्, किं तु सम्यक्
साधनेन । तथा चेयमुपहता षट्पक्षी नावतरति । तत्त्वनिर्णयपर्यवसाना च कथा
भवति । यदि त्वस्य कथंचित् सम्यक्साधनवादिनोऽपि प्रतिभाक्षयात् समाधानं न
स्फुरति, ततोऽत्यन्तपराजयाद् वरं संशयोऽपीति न्यायेन समाधानाभासेनापि
प्रत्यवस्थेयमेवेत्याशयवानाह—तेषां साध्वसाधुतायामिति । भाष्यव्याख्यया
वार्त्तिकमपि व्याख्यातम् । एतास्तु जातयो न तत्त्वविवेकमुपकुर्वन्ति
प्रयुज्यमानतया, निराकरणीयतया त्वासामप्युपकार इति ॥ ४३ ॥


॥ षट्पक्षीरूपकथाभासप्रकरणम् ॥
  1. °न्तिकः, अतोऽसा° C

  2. °मभ्युपेत्यC

  3. °कत्वेJ

  4. विस्तीर्य C