छललक्षणप्रकरणम्


वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ १ । २ । १० ॥


उद्देशक्रमानुरोधेन लक्षणक्रमस्य हेत्वाभासानन्तरं छलस्योद्देशात् छललक्षण
स्यापि हेत्वाभासलक्षणानन्तर्यमाह भाष्यकारः-अथछलम् ।


वच—लम् । यथा वक्तुरभिमतोऽर्थः ततो विरुद्धः अर्थ स्तस्य 1419विकल्पः
कल्पना, सैवोपपत्तिस्तया । अथ लक्षणान्तर इव1420 छलस्य सामान्यलक्षणे कस्मादुदाहरणं
न दीयत इत्यत आह—न सामान्यलक्षणे इति । सामान्यविशेषवत् सर्वमुदाहरणम्,
निर्विशेषस्य सामान्यस्यासत्त्वेन केवलस्य सामान्यस्योदाहरणमशक्यमित्यर्थः ।
विभागे त्विति । विभज्यत इति विभागो विशेषलक्षणम्, तस्मिन् उदाहरणानि ॥ १० ॥


तत् त्रिविधं वाच्छलं सामान्यच्छलमुपचारच्छलं च ॥ १ । २ । ११ ॥


छलसामान्यलक्षणमभिधाय तद्विशेषलक्षणान्यभिधातुं प्रथमं तावत्
न्यूनाधिकसंख्याव्यवच्छेदार्थं विभागलक्षणसूत्रमवतारयति1421विभागश्चेति ।
विभज्यतेऽनेति विभागः सूत्रमुच्यते—तत् त्रि—च ।


304

अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम्
॥ १ । २ । १२ ॥


तत्र च विशेषलक्षणमवतारयति तेषां छलानां मध्ये वाक्छलं
लक्ष्यते—अवि—लम् । नवः कम्बलोऽस्येति एकत्र विग्रहः, नव कम्बला
अस्येति 1422अपरत्र इति विग्रहे विशेषः । वाक्छलशब्दार्थं व्युत्पादयति—वाचि निमित्ते
छलं वाक्छलमिति । नवकम्बल इत्युभयत्रापि समानायां वाचि निमित्तभूताया
मित्यर्थः । तदेतच्छलं पराजयावस्थायां जल्पे प्रयोक्तव्यमित्युक्तम् । परवाक्ये
पर्यनुयोगोऽस्येति चोक्तम् । तदत्र यथा पर्यनुयोगः, तथा दर्शयति शिष्यहिततया
भाष्यकारः—अस्य प्रत्यवस्थानमिति । 1423उभयार्थप्रतिभाने 1424संभवत्पदार्थ
परित्यागेनासंभवत्पदार्थकल्पनमयुक्तमित्यर्थः ।


अथ प्रयोक्तापि कथं साधारणेन शब्देनार्थविशेषं बोधयति ? अबोधयंश्च कथं
प्रतिपादको नाम इत्यत आह—प्रसिद्धश्चेति । संबन्धस्वरूपमाह अभिधाना
भिधेययोर्यो नियमः, अयमेव शब्दोऽस्यैवार्थस्येति । तत्र यः पुरुषस्य नियोगः
अस्मादयमेव बोद्धव्य इत्येवमाकारः । किमतो यद्येवमित्यत1425 आह—
प्रयुक्तपूर्वाश्चेति । तथापि किमित्यत आह—प्रयोगश्चेति । तामिमां भूमिरचनां
प्रकृते योजयति—तत्रैवमर्थगत्यर्थ इति । एतदुक्तं भवति, न सङ्केतकरणावस्थायां
वृद्धव्यवहारे वा कश्चित् शब्दः कञ्चिदर्थं शृङ्गग्राहिकया बोधयति, अपि तु
सामान्यद्वारेणार्थप्रकरणादिसहकारी विशेषे वर्तते । तस्मात् नैष प्रतिपादयितुरपराधो
यदेष विशेषशब्दैर्विशेषं न1426 प्रतिपादयति, किन्तु सङ्केतस्यापराधो यो विशेषमपहाय
सामान्ये शब्दानां वर्तते । तस्माद् यथासङ्केतं बोधयन् नापराध्यः प्रयोक्तेति सिद्धम् ।
सामर्थ्यमेव दर्शयति—यत्रार्थे क्रियाचोदनेति ।


305

स्यादेतत् । अविशेषाभिहितेऽर्थे इति न युक्तम् । न हि नवकम्बल इति पदं
प्रकरणादिनिरपेक्षं कञ्चिदर्थमविशेषेणाभिधत्ते गवादिशब्दवत् । न हि संख्याविशेषे
च नवीनत्वे चास्ति कश्चित्सामान्यविशेषो बाहुलेयादिष्विव गोत्वं यमभिदधीतेत्यत
आह वार्त्तिककारः—सामान्यश्रुतीति । अभिहितिः अभिहितम् उच्चारणमिति
यावत् । समानः शब्दो नार्थे सामान्यमित्यर्थः । अश्व इति नामपदमश्वत्वस्य
वाचकम्, आख्यातपदं यदा कस्यचिदभिमुखं प्रयुज्यते अश्व इति, तदा वृद्धिं
गतोऽसीति प्रतीयते । चोदयति—अविशेषेति । समानो हि शब्दोऽभिधेये संशयमाधत्ते
न त्वर्थमभिधत्त इत्यर्थः । परिहरति—न प्रकरणादीन् इति । श्वेतो धावतीति इतः
सारमेयो द्रुतरं याति, श्वित्री 1427प्रक्षालयतीत्यर्थसन्देह इत्यर्थः । अर्थ इत्यस्य
प्रयोजनमाह—अर्थग्रहणमिति । अविशेषश्रुतौ शब्दे सति अर्थे अर्थान्तरकल्पना,
न शब्द इत्यर्थः । अस्य प्रत्यस्थानमित्यादि भाष्यं व्याचष्टे—तस्येति । सुगमम् ॥ १२ ॥


संभवतोऽर्थस्यातिसामान्ययोगादसंभूतार्थकल्पना सामान्य
च्छलम् ॥ १ । २ । १३ ॥


संभवतोऽर्थस्य ब्राह्मणविशेषस्य 1428विद्याचरणसंपद्विषयत्वेन विद्याचरण
संपदमत्येति यत् सामान्यं ब्राह्मणत्वं व्रात्य ब्राह्मणे, तस्य ब्राह्मणत्वस्यातिसामान्यस्य
योगादसंभूतार्थकल्पनया1429 यः प्रतिषेधः तत् सामान्यच्छलम् । अहो नु1430 खल्वयं
ब्राह्मणो विद्याचरणसंपन्न इति हि स्तुत्यर्थं वाक्यमभ्यनुजानतोक्तं संभवति
ब्राह्मणे विद्याचरण संपदिति
1431तदेतदपि वाक्यं स्तुत्यर्थमेव, न त्वस्य ब्राह्मणत्वात्
हेतोर्विद्याचरणसंपद् विवक्षितेति । तत्र परो 1432हेत्वर्थमस्याविवक्षितमारोप्य वचनं
विहन्तीति तदिदं सामान्यच्छलम् । विषयानुवाद1433 इति । संपद्विषयस्य ब्राह्मणत्व
306 स्यानुवाद1434 इत्यर्थः । कस्य ? अविवक्षितहेतुकस्य पुंसः । तदेतद् वार्तिककारो
व्याचष्टे—सामान्यस्येति । विवक्षितार्थमधिगतं सामान्यमित्यर्थः । शेषं सुबोधम्1435 ॥ १३ ॥


धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥ १ । २ । १४ ॥


शब्दस्य धर्मः प्रयोगः तस्य विकल्पो द्वैविध्यम् । द्विविधः प्रयोगः, प्रधानो
भाक्तश्च । तत्रापि प्रधान औत्सर्गिकः, तस्य तु कुतश्चिदपवादाद्1436 भाक्तो भवति ।
तदेतदाह भाष्यकारः—अभिधानस्य शब्दस्य यथार्थं प्रयोगो धर्मः औत्स
र्गिकः । तत् किमयमेव ? नेत्याह—1437विकल्पो द्वैविध्यम् । कोऽसौ द्वितीय इत्यत
आह—उत्सर्गस्य तु कुतश्चिदपवादाद् अन्यत्र दृष्टस्यान्यत्र प्रयोगः । तदेवं
1438व्यवस्थितेन धर्मविकल्पेन निर्देशे वाक्ये, निर्दिश्यतेऽनेनेति व्युत्पत्त्या । तत्र
भाक्तविवक्षायां मञ्चाः क्रोशन्तीति, अत्रार्थसद्भावेन प्रतिषेधः । तमेवार्थसद्भावमाह—
मञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्तीति । वार्त्तिकमते त्वर्थसद्भाव
स्यैव प्रतिषेध इति व्याख्येयम् । ननु यद्यन्यत्र दृष्टस्यान्यत्र प्रयोगः, हन्त सर्वं सर्वत्र
प्रयुज्येतेत्यत आह—उपचारो नीतार्थः प्रापितार्थः । सहचरणादिना निमित्तेनेति,
अन्यत्र दृष्टस्यान्यत्र प्रयोगः संबन्धादेव भवतीति नातिप्रसङ्ग इत्यर्थः । न छन्दतः
छद्मनेत्यर्थः । ननु यदि भाक्ततयाप्युपपत्तिः, न किञ्चित् जल्पाकभाषितं दुष्टं स्यात् ।
सर्वस्यैव यथाकथञ्चिद् भाक्तत्वेनोपपत्तेरित्यत आह—प्रधानभूतस्येति ।
भाक्तस्येत्येतावति वक्तव्ये प्रधानग्रहणं सिद्धतया दृष्टान्तलाभाय । लोकसिद्ध
एवोपचारः कर्तव्यो नापूर्वो विना प्रयोजनम्, लोकसिद्धश्चायमुपचारो मञ्चाः
क्रोशन्तीत्यर्थः ।


सूत्रव्याख्यानपरं वार्त्तिकं धर्मविकल्पनिर्देशशब्देन सूत्रस्थेन । अभिधानं
307 प्रयोगः शब्दस्य धर्मो 1439भवन् द्विधाभिधीयते । द्वैविध्यमाह—प्रधानमिति । सोऽयमभि
धानाभिधेयव्यवहार
इति, अभिधानं शब्दः अभिधेयो गम्यः । स च क्वचिद्
वाच्यः, क्वचिद् भाक्त 1440इत्यर्थः ॥ १४ ॥


वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ १ । २ । १५ ॥


परीक्षापर्वणः सन्निधानात् तदर्थं लक्षणपर्वण्यपि योग्यतायै सूत्रकारः छललक्षणं
परीक्षते—वाक्छ—त् । स्थान्यर्थो गुणशब्दो यो वस्तुतः एव प्रधानशब्दः
स्थानार्थ इति कल्पयित्वेति
योजना । यथा हि वाक्छले नवीनार्थो नव शब्दः
संख्याभेदे कल्पितस्तथेहापीति पूर्वः पक्षः ॥ १५ ॥


न तदर्थान्तरभावात् ॥ १ । २ । १६ ॥


सिद्धान्तसूत्रम्—न त-त् । तस्य उपचारच्छले अर्थसद्भावप्रतिषेधस्य ।
अर्थान्तरकल्पनातो
वाक्छलादित्यर्थः । सूत्रतात्पर्यमाह वार्त्तिककारः—
अविशेषादित्यस्येति ।
विधेयं वस्तु, मञ्चाः क्रोशन्तीत्यत्र क्रोशनं विधीयते, मञ्चा
इति त्वनूद्यते । अत एव
गुणे त्वन्यार्थकल्पना1441
इति मञ्चा इत्येतदप्रधानमनूद्यतया1442 भाक्तम् । न तु क्रोशन्तीति
न विधौ परः शब्दार्थः
इति न्यायात् । तदिह विधीयमानं क्रोशनमेव वस्तु प्रतिषिध्यते, नैव मञ्चाः क्रोशन्तीति
छलवाक्येन । नवकम्बलो देवदत्त इत वाक्ये तु देवदत्तमनूद्य नवत्वविशिष्टः कम्बलो
308 विधीयते । तत्र न विधेयस्य वस्तुनः कम्बलस्य सद्भावः प्रतिषिध्यते, किन्तु
तदेकदेशस्यानेकताया इति महान् भेद इति सिद्धान्तः ॥ १६ ॥


अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥ १ । २ । १७ ॥


किञ्चित्साधर्म्यात् त्रित्वाभावे द्वित्वस्याप्यभ्युपगतस्याभाव प्रसङ्गः । ओमिति
ब्रुवतो वस्तुत्वेन समस्तभेदोच्छेदप्रसङ्गः । भाष्यवार्त्तिके अतिरोहितार्थे ॥ १७ ॥


॥ इति छललक्षणप्रकरणम् ॥

  1. कल्पः J

  2. °न्तरवत् C

  3. विभागमव° C

  4. एकत्रेति J

  5. प्रति Om J

  6. असंभवदर्थकल्पनमयुक्तम् C

  7. इति Om C

  8. °शेषान् न C

  9. निर्णेक्तीत्यर्थःC

  10. °संपदाC

  11. °दसद्भूतार्थ°J

  12. नुOmC

  13. तदपिC

  14. हेतुत्व°C

  15. °र्थवादःJ

  16. °र्थवादःJ

  17. शेषं सुबोधम्OmC

  18. क्वचिद°C

  19. तस्य च वि°J

  20. व्यवस्थितेC

  21. भवन्OmJ

  22. इति सुबोधम्C

  23. °न्याय्यकल्पनाC

  24. °नुवाद्यतयाJ