307
प्रयोगः शब्दस्य धर्मो 1439भवन् द्विधाभिधीयते । द्वैविध्यमाह—प्रधानमिति । सोऽयमभि
धानाभिधेयव्यवहार इति, अभिधानं शब्दः अभिधेयो गम्यः । स च क्वचिद्
वाच्यः, क्वचिद् भाक्त 1440इत्यर्थः ॥ १४ ॥
वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ १ । २ । १५ ॥
परीक्षापर्वणः सन्निधानात् तदर्थं लक्षणपर्वण्यपि योग्यतायै सूत्रकारः छललक्षणं
परीक्षते—वाक्छ—त् । स्थान्यर्थो गुणशब्दो यो वस्तुतः स एव प्रधानशब्दः
स्थानार्थ इति कल्पयित्वेति योजना । यथा हि वाक्छले नवीनार्थो नव शब्दः
संख्याभेदे कल्पितस्तथेहापीति पूर्वः पक्षः ॥ १५ ॥
न तदर्थान्तरभावात् ॥ १ । २ । १६ ॥
सिद्धान्तसूत्रम्—न त-त् । तस्य उपचारच्छले अर्थसद्भावप्रतिषेधस्य ।
अर्थान्तरकल्पनातो वाक्छलादित्यर्थः । सूत्रतात्पर्यमाह वार्त्तिककारः—
अविशेषादित्यस्येति । विधेयं वस्तु, मञ्चाः क्रोशन्तीत्यत्र क्रोशनं विधीयते, मञ्चा
इति त्वनूद्यते । अत एव
गुणे त्वन्यार्थकल्पना1441
इति मञ्चा इत्येतदप्रधानमनूद्यतया1442 भाक्तम् । न तु क्रोशन्तीति
न विधौ परः शब्दार्थः
इति न्यायात् । तदिह विधीयमानं क्रोशनमेव वस्तु प्रतिषिध्यते, नैव मञ्चाः क्रोशन्तीति
छलवाक्येन । नवकम्बलो देवदत्त इत वाक्ये तु देवदत्तमनूद्य नवत्वविशिष्टः कम्बलो