308 विधीयते । तत्र न विधेयस्य वस्तुनः कम्बलस्य सद्भावः प्रतिषिध्यते, किन्तु
तदेकदेशस्यानेकताया इति महान् भेद इति सिद्धान्तः ॥ १६ ॥


अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥ १ । २ । १७ ॥


किञ्चित्साधर्म्यात् त्रित्वाभावे द्वित्वस्याप्यभ्युपगतस्याभाव प्रसङ्गः । ओमिति
ब्रुवतो वस्तुत्वेन समस्तभेदोच्छेदप्रसङ्गः । भाष्यवार्त्तिके अतिरोहितार्थे ॥ १७ ॥


॥ इति छललक्षणप्रकरणम् ॥

पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम्


साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १ । २ । १८ ॥


उद्देशक्रमानुरोधेन जातिलक्षणक्रममाह भाष्यकारः—अतः छललक्षणाद्
ऊर्ध्वम् । साध-तिः । प्रतीपमवस्थानं प्रत्यवस्थानम्, तथा सति छलस्य सम्यग्दूषणस्य
च जातित्वप्रसङ्गः । अत उक्तम्—साधर्म्यवैधर्म्याभ्यामिति । न च छले साधर्म्यवैधर्म्ये
स्तः । न च सम्यग्दूषणं साधर्म्यवैधर्म्यमात्रात्, अपि तु 1443प्रयोगादिति । प्रयुक्ते
हेतौ
तदाभासे वा यः प्रसङ्गो जायते स जातिरिति । जल्पे हि वेदप्रामाण्यं
विद्वांसं प्रति कुहेतुना यदा नास्तिकैरधिक्षिप्यते, सदुत्तरं चास्य यदा सहसा न
प्रतिभाति, तदेश्वराणां जनाधाराणां मा भूद् वेदाप्रामाण्यबुद्धिरिति जात्यापि
प्रत्यवस्थेयम्, अन्यथेश्वरचरितानुवर्त्तिनीनां प्रजानां विप्लवो भवेदिति । क्वचित्
पुनरबुद्धिपूर्वमेव हेतौ हेत्वाभासे वा जातिप्रयोगः संभवति । जायमानोऽर्थः इति
जातिपदव्युत्पत्तिनिमित्तं दर्शितम् । तदेतद् वार्त्तिककारो व्याचष्टे—साधर्म्येणेति ।

  1. प्रयोजकात्J