पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम्


साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १ । २ । १८ ॥


उद्देशक्रमानुरोधेन जातिलक्षणक्रममाह भाष्यकारः—अतः छललक्षणाद्
ऊर्ध्वम् । साध-तिः । प्रतीपमवस्थानं प्रत्यवस्थानम्, तथा सति छलस्य सम्यग्दूषणस्य
च जातित्वप्रसङ्गः । अत उक्तम्—साधर्म्यवैधर्म्याभ्यामिति । न च छले साधर्म्यवैधर्म्ये
स्तः । न च सम्यग्दूषणं साधर्म्यवैधर्म्यमात्रात्, अपि तु 1443प्रयोगादिति । प्रयुक्ते
हेतौ
तदाभासे वा यः प्रसङ्गो जायते स जातिरिति । जल्पे हि वेदप्रामाण्यं
विद्वांसं प्रति कुहेतुना यदा नास्तिकैरधिक्षिप्यते, सदुत्तरं चास्य यदा सहसा न
प्रतिभाति, तदेश्वराणां जनाधाराणां मा भूद् वेदाप्रामाण्यबुद्धिरिति जात्यापि
प्रत्यवस्थेयम्, अन्यथेश्वरचरितानुवर्त्तिनीनां प्रजानां विप्लवो भवेदिति । क्वचित्
पुनरबुद्धिपूर्वमेव हेतौ हेत्वाभासे वा जातिप्रयोगः संभवति । जायमानोऽर्थः इति
जातिपदव्युत्पत्तिनिमित्तं दर्शितम् । तदेतद् वार्त्तिककारो व्याचष्टे—साधर्म्येणेति ।
309 यथा पक्षे सति प्रतिपक्षः, एवं स्थापनायां सत्यां प्रत्यवस्थानमिति । सूत्रार्थस्तु
यथाश्रुति, न पुनरुदाहरणसाधर्म्येण
यथाभाष्यं बोद्धव्यः । यद्येवम् भाष्यं तर्हि
कथमित्यत आह—उदाहरणार्थमिति । एवं वैधर्म्येण वेत्येतदपि । यथाश्रुति
पुनर्यथाभाष्यम् उदाहरणार्थं तदित्यर्थः । अस्य व्याख्यानस्य गुणाभिधानेन प्रश्नपूर्वकं
प्रपञ्चमाह—किमर्थमिदमिति ॥ १८ ॥


विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १ । २ । १९ ॥


सूक्ष्मविषया 1444प्रतिपत्तिर्विपरीता । स्थूलविषया च कुत्सिता, कथमसौ
निग्रहस्थानमित्यत आह—विप्रतिपद्यमान इति । अप्रतिपत्तिमाह—आरम्भविषय
इति । लाघवाय विप्रतिपत्त्यप्रतिपत्ती इति वक्तव्ये कस्मादसमासकरणमित्यत
आह—असमासाच्चेति । विप्रतिपत्त्यप्रतिपत्तिभ्यामन्यदपि हेतूदाहरणाधिकं नाम
जल्पे निग्रहस्थानमस्ति, तदपि ग्रन्थाधिक्येनावरुध्यत इत्यर्थः । आरम्भविषयेऽनारम्भ
इत्यादि भाष्यम्, तद् व्याचष्टे—स्वपरार्थोत्तरासंवित्तिरिति । द्वेधा
खल्वारम्भविषयेऽनारम्भो भवति, दूष्यं वा परोक्तं साधनं विप्रतिषेधहेतुं वा न
प्रतिपद्यते । सेयं परार्थोत्तरासंप्रतिपत्तिः उत्तरग्रहणं साधनमप्युपलक्षयति ।
स्वार्थोत्तराप्रतिपत्तिस्तु साधनप्रतिषेधहेतू परकीयौ प्रतिपद्य तत् प्रतिषेद्धुं1445 स्वकीयमुत्तरं
न प्रतिपद्यत इत्यर्थः । चोदयति—स्वयं प्रयुक्ते वस्तुतः समर्थे साधने कथम्
अप्रतिपत्तिर्विप्रतिपत्तिर्वेति
द्रष्टव्यम् । परिहरति—तदापीति । समर्थसाधनज्ञानं
साधनप्रतिपत्तिर्न साधनमात्रज्ञानमित्यर्थः ॥ १९ ॥


तद्विकल्पाज् जातिनिग्रहस्थानबहुत्वम् ॥ १ । २ । २० ॥


सूत्रान्तरमवतारयितुं भाष्यकार आह—किं पुनरिति । यद्यपि साधर्म्यवैधर्म्याभ्यां
310 दृष्टान्तस्यापि भेदः, तथापि लक्षणाभेदाभिप्रायेणाभेद उक्तः । तद्वि—त्वम् ।
नाना कल्प
इति स्वरूपतः, विविध इति प्रकारतः । यथालक्षणमिति
यथास्वरूपमित्यर्थः ।


अध्यायार्थं संक्षिप्याह वार्त्तिककारः—तन्त्रप्रतिज्ञेति । तन्त्रस्य शास्त्रस्य
प्रतिज्ञा प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इति सूत्रम् । शास्त्रमेव हि तत्त्वज्ञानमिति ।
संसारः दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामिति । तन्निवृत्तिश्च संविदा उत्तरोत्तरापाये
तदनन्तराभावाद् अपवर्ग इति । तस्माद् यः प्रमाणादिसूत्रेणोद्देशः, तत्परिकरो द्वितीयं
सूत्रम्, द्वाभ्यामुद्देशः । शेषं सुबोधमिति ॥ २० ॥


॥ पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥
  1. प्रयोजकात्J

  2. विप्रति°J

  3. °षेधंJ