261

न्यायोत्तराङ्गलक्षणप्रकरणम्


अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥
१ । १ । ४० ॥


अत्र भाष्यं तर्कलक्षणावतारपरम्—अत ऊर्द्ध्वमिति । उद्देशक्रमानुसारेण ।
अवि—तर्कः । तर्कप्रवृत्तिक्रममाह—अविज्ञायमानतत्त्वेऽर्थे इति । यद्यपि संशयस्य
पश्चादेव जिज्ञासा भवति, तथापि जिज्ञासायाः परस्तादपि संशयो भवति । स चात्र
विवक्षितः, तर्क प्रवृत्त्यङ्गत्वात् । तर्केण हि प्रसङ्गापरनाम्ना द्वयोः
पक्षयोरेकतरनिषेधेनैकतरः प्रमाणविषयतया अभ्यनुज्ञातव्य इति विषयप्रत्यासत्त्या
तर्कप्रवृत्तिं प्रत्यङ्गता संशयस्येति । कारणोपपत्त्येति व्याचष्टे—संभवत्यस्मिन्
कारणं प्रमाणमिति ।
अत्र च कारणमित्यस्य व्याख्यानं प्रमाणमिति ।
उपपत्तिव्याख्यानं संभवतीति । अनुज्ञाव्याख्यानम्—एवमेतत्, नेतरदिति । एतदुक्तं
भवति, यस्मिन् विषये प्रमाणं प्रवर्तितुमुद्यतं तद्विपर्ययाशङ्कायां न तावत् 1215प्रमाणं
प्रवर्तते । न यावदनिष्टापत्त्या विपर्ययाशङ्का अपनीयते । तदपनय एव च स्वविषये
प्रमाणसंभव इति चोपपत्तिरिति 1216व्याख्यायते । तया प्रमाणस्योपपत्त्या इतिकर्तव्यतया
1217प्रमाणविषयमभ्यनुजानत्या विशोधिते विषये प्रमाणमप्रत्यूहं प्रवर्तते । न
चोपपत्तिरेवास्तु निश्चयहेतुः कृतं प्रमाणेनेति वक्तव्यम् । उपपत्तेः स्वतन्त्राया
आश्रयासिद्धतया स्वतो निश्चयायोगात् । तदुपपादितं प्रथमसूत्रे1218 इति ।


उदाहरणमाह—निदर्शनमिति । स्वकृतस्य कर्मण इत्यादिना पूर्वस्य
कारणमि
त्यन्तेन संसारो दर्शितः । उत्तरेत्यादिना अपवर्ग इत्यन्तेनापवर्गः । तेन
संसारापवर्गाविच्छन्तौ वादिप्रतिवादिनौ प्रति आत्मनित्यत्वविषयं प्रमाणं
262 प्रवर्तमानमनेन तर्केणानुगृह्यत इति प्रमाणविषयविपर्ययाननुज्ञैव च प्रमाण
विषयाभ्यनुज्ञा । अनिष्टप्रसक्त्या विपर्ययस्यैव1219 साक्षात् निवर्तनात् । अत एवान्ते
भाष्यकार उपसंजहार1220यत्र कारणमनुपपद्यमानं पश्यति, तत् नानुजाना
तीति ।


ननु यदि तर्क एवमेतत्, नेतरदित्येवमाकारः, कथं पुनरयं तत्त्वज्ञानार्थो न तु
तत्त्वज्ञानमेवेति देशयति—कथं पुनरिति । परिहरति—अनवधारणादिति ।
पर्यायैर्निश्चयादत्यन्तभेद उक्तः । भावितात् चिन्तितात्, अत एव प्रसन्नात्
निर्मलादिति । प्रमाणसामर्थ्यादिति तर्कस्य स्वातन्त्र्यमपाकरोति । स्यादेतत्—यदि
न तर्कस्तत्त्वनिश्चयसाधनमपि तु प्रमाणमेव, हन्त भोः किमर्थं तर्हि वादे प्रमाण
तर्कसाधनेत्युक्तमित्यत आह—सोऽयं तर्क इति । व्यक्त्यभिप्रायेण प्रमाणानीति ।
प्रमाणविषयविपर्ययशङ्काविघटितानि प्रमाणानि प्रतिसन्दधान इत्यर्थः ।


वार्त्तिककारः सूत्रतात्पर्यमाह—अस्येति । समानजातीयात् संशया
देरसमानजातीयात् चेच्छादेर्व्यवच्छिद्यते । यद्यपि संशयजिज्ञासे अप्यविज्ञाततत्त्वेऽर्थे
प्रवर्तेते, तथापि न कारणोपपत्तित इति तयोर्व्यवच्छेद इति । तत्त्वं व्याचष्टे—यथेति ।
समानासमानजातीयव्यवच्छिन्नमविपरीतं रूपं तत्त्वमित्यर्थः । चोदयति—कुतः
पुनरिति ।
न हि सामान्यज्ञानविधायकं पदमत्रास्तीत्यर्थः । परिहरति—अविज्ञातेति ।
विशेषनिषेधः शेषाभ्यनुज्ञाहेतुरित्यर्थः । विमृशति—अविज्ञाततत्त्व इति समासोऽय
मिति ।
अवधारयति—षष्ठीविग्रहेणेति । युक्तम् उपपन्नम् । तृतीयाविग्रहेण त्वनुप
पन्नमित्यर्थः । संशयवाद्याह—विशेषहेत्वभावादिति । युक्तमिति प्रतिज्ञामात्रेणोच्यते,
न त्वत्र हेतुरभिधीयत इति भावः1221 । युक्तत्वे हेतुमाह—युक्तमर्थग्रहणसामर्थ्यादिति ।
अन्यश्चोदयति—अर्थग्रहणमन्तरेणापीति । ज्ञेयेन हि ज्ञानं निरूप्यते न ज्ञात्रा,
तस्य साधारण्यादिति सामर्थ्यमित्यर्थः । निगूढाभिसन्धिः परिहरति—एवमपीति ।
263 तस्याभिसन्धिभेदमुररीकृत्य चोदयति—मा भूत् समास इति । उत्तरवाद्याह—
भवत्येवमिति । नाद्याप्यनेन स्वाभिप्रायो दर्शित इति मत्त्वा पुनश्चोदयति—
अनुक्तेऽपीति । उक्तपरिहारपूर्वं स्वाभिप्रायमुद्धाटयति—अत्रोक्तमिति । समस्तान
भिधानप्रसङ्गाच्चेति
स्वाभिप्रायोद्धाटनम् । एतदुक्तं भवति, सामर्थ्यप्राप्तस्यान
भिधानेऽतिप्रसङ्ग इति न सामर्थ्यमाश्रित्य लक्षणे संशयो निराकरणीय इति
तन्निराकरणार्थमर्थग्रहणं कर्तव्यमिति ।


अत्र चोदयति—अविज्ञाततत्त्व इति न वक्तव्यमिति । न हि तत्त्वे ज्ञाते
तत्त्वज्ञानार्थिता भवति । तस्माद् गम्यते अविज्ञाततत्त्व इति भावः । गूढाभिसन्धिरुक्तं
परिहारं स्मारयति—अत्र तावदुक्तमिति । अविदिताभिप्रायश्चोदक आह—मा
भूदिति ।
अस्तूहस्तर्क इत्येतावदेवेत्यर्थः । उत्तरवादी स्वाभिप्रायमुद्धाटयति—
बुद्धिधर्मेति ।
यद्यपि नास्माकं राद्धान्ते शुश्रूषादयो 1222बुद्धिधर्मा बुद्धिमत्त्वस्यैवा
भावात्, तथाप्यात्मगुणा अपि सांख्याभिप्रायेण बुद्धिगुणा उक्ताः । एतदुक्तं भवति,
यद्यूहस्तर्क इत्येतावदुच्येत, यदि वा तत्त्वज्ञानार्थमूहस्तर्क इत्येतावन्मात्रम्, ततो
विज्ञातेऽपि तत्त्वे1223 य ऊहः पूर्वानुभूतपरिच्छेदात्मा जायते पुनस्तत्त्वज्ञानार्थं सोऽपि
तर्कः स्यात् । तस्मादविज्ञाततत्त्व इति वक्तव्यमित्यर्थः । यद्यपि कारणोपपत्तित
इत्येतस्मादयमर्थोऽपि गम्यत एव, तथापि कारणोपपत्तिरेवैवंरूपत्वं नावि
ज्ञाततत्त्वग्रहणमन्तरेण भवति । तथा हि अधिगतपरिच्छेदात्माप्यूहः कारणस्योप
पत्त्या संभवेन 1224जायते, कारणासंभवे 1225कार्यस्याभावात् । न त्वसावविज्ञाततत्त्व
इति ततो व्यवच्छेदः । तथा च सति प्रमाणमपि तर्कः स्यात् । अत उक्तं
कारणोपपत्तित इति । उक्ते सति प्रयोजनानुसरणम्, न त्विह लाघवादरः सूत्र
कारस्येति
मन्तव्यम् ।


264

चोदयति—षष्ठ्यभिधानमिति । परिहरति—न विभक्तिव्यत्ययादिति ।
यथान्यत्र कणभुजः सूत्रे ।
विप्रतिपन्नः पृच्छति—कस्मात् ? प्रष्टैवैकग्रन्थेनाह—यदि
व्यत्ययेनेति ।
परिहरति—न न युक्त इति । सामान्येनाधिगतस्य विशेषेण ज्ञापनार्थम् ।
नित्यत्वादयो विशेषाः समवायिनो वह्न्यादयश्च धूमादिसंयोगिन इति । शेषं सुगमम् ।


देशयति—ऊहः संशयनिर्णयाभ्यामिति । केचित् सिद्धान्तैकदेशिनः अनुमानं
तर्क इत्याहुः । अन्ये त्वनुमानमेव युक्त्यपेक्षं विपर्ययेऽनिष्टप्रसङ्गापेक्षं तर्क इति
वर्णयन्ति । तत्र प्रथमचोदकं प्रत्याह—यत् तावदिति । आक्षिप्त आक्षिप्तहृदयः, न
तु तर्कप्रत्ययस्वरूपं चेतयत इत्यर्थः । विशेषदर्शनादिति विशेषदर्शनात् निश्चयः
प्रमाणेन भवति न तर्केण, तदनुज्ञानमात्रत्वात् तर्कस्येत्यर्थः । चोदकं निराकृत्य
सिद्धान्तैकदेशिनं निराकरोति—एतेनेति । यदि संशयात् प्रच्युतो निर्णयं
चाप्राप्तः, तर्हि तस्य स्वरूपं वक्तव्यमिति पृच्छति—किं पुनरिति । उत्तरम्—भवे
दिति,
प्रमाणविषयाभ्यनुज्ञेत्यर्थः । द्वितीयमेकदेशिनं निराकरोति—यैरपीति ।
1226युक्तिरिह प्रमाणोपपत्तिः । तज्जन्मा च प्रत्ययस्तर्क एव । स चानुमानमिति त्वयोच्यते ।
अस्माभिस्तु तर्क इति संज्ञाभेदमात्रमित्यर्थः । शङ्कते—अथेति । निराकरोति—
अनुमानमिति । 1227प्रसङ्गोपपत्त्यतिरिक्ताया युक्तेरनिरूपणाद् 1228अपेक्षार्थो वक्तव्यः ।
न ह्यपेक्षणीयमन्तरेणापेक्षा शक्या निरूपयितुमिति भावः । ननु यदेव किञ्चित्
स्वविषयाधिगमे अनुमानमपेक्षते सैवापेक्षणीया युक्तिरनुमानस्य भविष्यति इत्यत
आह—स्वविषयाधिगमे चेति ।


शङ्कते—अथेति । निराकरोति—एवमपीति । यद्युत्पत्तौ प्रत्यक्षागमापेक्षमनुमानम्
न वक्तव्यं युक्त्यपेक्षमिति, सर्वस्यानुमानस्य तथा भावेनाव्यभिचारेण विशेषणा
योगादिति भावः । पुनः शङ्कते—अथानुमानस्येति । निराकरोति—तत्रापीति ।
एवमपि तर्को नार्थान्तरं स्यात् । अनुमानभेदस्य चेदृशस्य प्रमाण एवान्तर्भाव इति
265 भावः । उक्तमर्थं प्रमाणयति—भवेदिति । भवेदिति प्रत्ययोऽवधारणप्रत्ययश्चे
त्यर्थः । चोदयति—अनुमानमिति । विपर्ययोऽनिष्टप्रसङ्गो व्यतिरेकि लिङ्गम् ।
तच्चागृहीतसंबन्धं लिङ्गिनि न प्रवर्तत इति लिङ्गलिङ्गिसंबन्धस्मृत्यपेक्षत्वाद
प्राणादिमत्त्वप्रसङ्गादितिवदनुमानमेवेत्यर्थः । परिहरति—न तर्केति । युक्तं व्यति
रेकिणि जीवच्छरीरे धर्मिणि प्राणादिमत्त्वस्य साधनधर्मस्य दर्शनात्, न तु यद्युत्पत्तिमान्
आत्मा अभविष्यत् न संसारापवर्गावुपपत्स्येतामित्यत्रात्मनि धर्मिणि साधनधर्म
उत्पत्तिरस्ति 1229यद्दर्शनतः संस्कारोद्बोधे सति लिङ्गलिङ्गिसंबन्धस्मृतिर्भवेदित्यर्थः । न
केवलं प्रसङ्गसाधनं साध्यधर्मिण्यसिद्धम्, अपि त्वन्यगतमेव1230 प्रसङ्गहेतुः । न
त्वनुमानमन्यगताद् धर्मात् प्रवर्तते, तस्मादनुमानादस्य स्फुटो भेद इत्याह—अनुमानं
चेति । भाष्य
व्याख्यानं सोऽयमिति ॥ ४० ॥


विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ १ । १ । ४१ ॥


नैतन्निर्णयमात्रस्य लक्षणम्, अपि तु परीक्षाप्रयोजनस्य । स च निर्णयभेदो1231
विमर्शानन्तरोत्पन्नतर्कसहायप्रमाणनिबन्धनस्तर्कविषय एवेति निर्णयभेदलक्षण
मिति नाव्यापकं तत्र तल्लक्षणमिति दर्शयितुं भाष्यकारो निर्णयलक्षणमवतारयति—
एतस्मिंश्च तर्कविषये ।


विमृ—यः । अत्र पक्षप्रतिपक्षयोः कर्मतया न निर्णयसाधनत्वमित्यनुपपत्त्या
साधनोपालम्भौ वादसूत्रगतौ लक्षणीयाविति तावेव तावद् भाष्यकृद्
विभजते—स्थापना साधनम्, प्रतिषेधः साधनस्य उपालम्भः । लक्षणानिबन्धनं
संबन्धमाह—तौ साधनोपालम्भाविति । यद्यप्युपालम्भो न प्रतिपक्षाश्रितः, तथापि
तदुद्देशेन प्रवृत्तस्तदाश्रित इत्युच्यते । मुख्यपदोपादानोल्लङ्घनेन1232 लाक्षणिकपदो
266 पादानलभ्यं 1233प्रयोजनमाह—व्यतिषक्ताविति । अर्थग्रहणसामर्थ्यलभ्यमेकतर
निर्णयावसानत्वमाह—अनुबन्धेन प्रवर्तमानाविति । एतच्च वार्त्तिके स्फुटी
भविष्यति । तमेव साधनोपालम्भयोः परस्परानुबन्धं दर्शयति—तयोरन्यतरस्येति ।
यस्य साधनस्य वा उपालम्भस्य वावस्थानम्, तस्य साधनस्य वा उपालम्भस्य वा
योऽर्थः पक्षः प्रतिपक्षो वा तस्यावधारणमित्यर्थः ।


अत्र पक्षप्रतिपक्षप्रयोगाद् वादे संशयोऽस्तीति 1234वादभ्रान्त्या चोदयति—नेदमिति ।
एक
इति वादी । प्रतिज्ञातमर्थं हेतुतः स्थापयति । द्वितीयस्य प्रतिवादिनः
प्रतिषिद्धं प्रतिषेधं वाद्युक्तस्य हेतोर्दूषणमिति यावत् । उद्धरति दूषणाभासी
करोति । द्वितीयेन तु प्रतिवादिना वाद्युक्तस्य हेतोः स्थापनाहेतुत्वं प्रतिषिध्यते ।
तस्यैव वादिनः प्रतिवाद्युक्तदूषणप्रतिषेधहेतुश्च प्रतिवादिनैवोद्ध्रियते । वादिनो
वा प्रतिवादिनो वा हेतुर्वोपालम्भो वा1235 निवर्तते । तस्मिन् निवृत्ते योऽवतिष्ठते
एकः, तेनार्थनिर्णयः, न द्वाभ्याम् । तस्मादयुक्तं पक्षप्रतिपक्षाभ्यामिति । न तावत्
संशयविषये निर्णये वादिप्रतिवादिनौ स्तः, तयोर्निश्चितयोरेव प्रवृत्तेः ।


अभ्युपेत्य 1236तु परिहरति—उभाभ्यामिति । वादिनः साधनस्य संभवः प्रति
वादिन उपालम्भस्य असंभवः । एवं प्रतिवादिनः साधनस्य संभवो वादिन
उपालम्भस्यासंभव इति । विमृश्येति विमर्शं कृत्वेति । अनुपादेयोऽपि विमर्शः
कार्यत्वात् कृतिव्याप्य उक्तः । विमृश्येति पदोपादानस्य प्रयोजनमाह—सोऽयम्
इति । अवद्योत्य नियमेन विषयीकृत्येत्यर्थः । एकधर्मिस्थयोरित्यस्य व्यतिरेक
माह—यथा क्रियावदिति । विरुद्धयोरित्यस्य कालभेदेन व्यतिरेकमाह—
एकधर्मिस्थयोश्चेति । न निर्णयमात्रस्येदं लक्षणमपि तु परीक्षाविषयस्येत्याह—
चायं निर्णय
इति । अर्थावधारणं निर्णय इत्येतावन्मात्रं लक्षणमिन्द्रियार्थ
सन्निकर्षोत्पन्नप्रत्यक्षे भवतीति योजना । हृदि व्यवस्थितमभ्युपगममुद्धाटयति—शास्त्रे
267 वादे चेति ।
न हि ज्योतिष्टोमादीनां स्वर्गादिसंबन्धनिर्णये आगमेन कर्तव्ये
विमर्शोऽस्ति, नापि वादजल्पवितण्डासु विमर्शः, निश्चितयोरेव 1237वादिप्रतिवादिनो
स्तत्र प्रवृत्तेरित्यर्थः ।


वार्त्तिकम्—संबन्धोऽर्थश्च पूर्ववत् । संबन्ध उद्देशक्रमेण तर्कानन्तर्य
लक्षणः । अर्थश्च प्रयोजनम् । समानासमानजातीयव्यावृत्तिरित्यर्थः । शेषं
भाष्यव्याख्यानेन गतम् । ननु भवतु पक्षशब्दलक्षितस्य साधनस्य निर्णयं प्रति
1238करणत्वम्, प्रतिपक्षलक्षितस्य तु तद्दूषणस्य न साक्षात्साधकत्वमित्यत आह—
प्रतिपक्षाच्चेति हेतुत्वं पारम्पर्येणेत्यर्थः । पक्षप्रतिपक्षाभ्यामिति ।
साधनदूषणाभ्यामित्यर्थः ।


लक्षणमाचिक्षिप्सुर्विकल्पयति—क्व पुनरयमिति । अत्र पक्षप्रतिपक्षाभ्याम्
एवेति
प्रथमः कल्पः, तदा हि यत एवकारः1239 ततोऽन्यत्रावधारणमिति निर्णये
नियमो भवेत् । निर्णय एवेति द्वितीयः कल्पः । तदा हि पक्षप्रतिपक्षाभ्यामित्यत्र
नियमः । विमृश्यैवेति च तृतीयः । तदापि निर्णये नियमः । तत्र प्रथमं
कल्पमाक्षिपति—यदि विमृश्येति । एतस्मिन् 1240विकल्पे निर्णयः पक्षप्रति
पक्षविमर्शातिलङ्घनेनान्यत्र न प्रवर्तत इति प्रत्यक्षं प्रमाणं निर्णयफलं न स्यात् । न हि
तत्र पक्षप्रतिपक्षौ, नापि विमर्श इति प्रत्यक्षलक्षणं बाध्यते1241 इत्यर्थः ।
तृतीयकल्पमाक्षिपति—एतेनेति । व्याघातेनेत्यर्थः । द्वितीये कल्पे दूषणमाह—अथ
पक्षेति ।
तदा निर्णयस्यानियमात् पक्षप्रतिपक्षौ च तदभावश्चेति तदुभयम्, तदाश्रयः
निर्णयः प्राप्नोति । तथा चाव्यापकं लक्षणमित्यर्थः । प्रथमं कल्पमालम्ब्य समाधत्ते—
तर्कविषय इति । न निर्णयमात्रस्येदं लक्षणम्, अपि तु निर्णयविशेषस्येत्यर्थः ।
निर्णय
इति न निर्णयमात्र इत्यर्थः । अथ निर्णयस्य किमिति 1242निर्णयमात्रस्ये
268 त्यर्थः । एकशश्च प्रमाणैरिति प्रत्यक्षादिभिः । संहत्य च प्रमाणैरिति
साधनदूषणसमाधानैरित्यर्थः । पक्षप्रतिपक्षाभ्यामेव वादे निर्णयो न तु विमर्शः । शास्त्रे
तु निर्णय एव न तु तत्र1243 शास्त्रातिरिक्तं साधनान्तरमाश्रीयत इत्यर्थः ।


पक्षप्रतिपक्षाभ्यामिति । लक्षणायां हि येन 1244यत् लक्ष्यते तदवच्छेदकतया
तदपि बुद्धौ सन्निधीयते । ततश्च तेन नियमो भवति लक्ष्यमाणस्य, यथा गङ्गायां घोष
इति । गङ्गासंबन्ध्येव तीरं धोषेणान्वीयते, न त्वकूपारतीरमपीति । चोदयति—अर्थेति ।
परिहरति—न नेति । अर्थग्रहणे क्रियमाणे काल्पनिकत्वं प्रतिषिध्यते, न चाकल्पितं
विरुद्धधर्मवदित्येकतरनिर्णयः । नेदं पक्षप्रतिपक्षाभ्यामित्यादि चोद्यभाष्यं
व्याचष्टे—पक्षप्रतिपक्षाभ्यामिति । उभाभ्यामित्यादि परिहारभाष्यं व्याचष्टे—
उभाभ्यामेवेत्याहेति । पृच्छति—एतस्मिन्निति । प्रथमं साधनम्, द्वितीयं दूषणम्,
तृतीयं समाधानम् । उत्तरम्—सर्वत्र । कदाचित् प्रथमे कदाचिद् द्वितीये कदाचित्
तृतीय इत्यर्थः । अवश्यं तु तृतीय इत्याह—अथ वेति । उभयत्र कल्पे प्रश्नः—
कथमिति । उत्तरम्—एकस्तावदिति । 1245तं निवर्त्य वादिनः साधनं दूषणेन निवर्त्य
प्रतिवादी स्वपक्षे साधनं ब्रवीति । प्रथम इति वादी ।


निर्णयोऽनुमानमेवेति केचित् । तथा हि तृतीयलिङ्गदर्शनं प्रत्यक्षफलं
निर्णयः । तदेव चानुमानमतो निर्णयो नानुमानादतिरिच्यते इत्यर्थः । परिहरति—
लिङ्गलिङ्गीति ।
यदि निर्णयमात्रमनुमानमुच्येत, तदा न तस्य सर्वस्य
लिङ्गलिङ्गिसंबन्धस्मृत्यपेक्षत्वमिति । यदि तु लिङ्गपरामर्शो निर्णयः, तस्य चास्ति
लिङ्गलिङ्गिसंबन्धापेक्षेति1246 । तत्राह—प्रमाणफलत्वात् । सामान्यव्याप्तो विशेषः
सामान्यनिवृत्त्या1247 निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्त्या1248 । न च फले प्रमितिरूपे
निर्णये प्रमाकरणत्वं 1249फलत्वे नास्तीति नानुमानत्वं तद्विशेष इत्यर्थः । इतश्चानुमानात्
निर्णयो भिद्यते इत्याह—निर्णयः स्वविषय एवेति । न हि निर्णयो निर्णयत्वेन
269 प्रतिपत्त्यनुबन्धिभूताद्1250 विषयादन्यत्र, अनुमानं तु तत्र 1251चान्यत्र च । 1252यदानुमेयोऽग्निरेव
हेयत्वादिभिः परिच्छिद्यतेऽग्निज्ञानेनानुमानेन, यदा तु धूमज्ञानेनाग्निरनुमीयते तदान्यत्र
चेति1253 गमयितव्यम् । शेषमतिरोहितम् ॥ ४१ ॥


॥ इति न्यायोत्तराङ्गलक्षणप्रकरणम् ॥
  1. प्रमाणंOmC

  2. चाख्या°J

  3. प्रमाणस्याभ्यनुज्ञातस्यC

  4. टी.
    पृः ५०

  5. °प्रसज्यविप°C

  6. °एव भाष्ये उपसंहारःC

  7. इत्यर्थःC

  8. बुद्धिगुणा बुद्धितत्त्व° C

  9. विज्ञाततत्त्वेऽपि C

  10. ज्ञायते C

  11. °स्या
    सत्त्वात्
    C

  12. युक्तिर्हिC

  13. प्रमाणोप°C

  14. युक्त्यर्थोC

  15. यद्दर्शनं वाJ

  16. °गत एवC

  17. निर्णयोC

  18. °दानातिल°J

  19. अर्थमाहJ

  20. वाद°OmC

  21. हेतुश्चोपलम्भश्चC

  22. तुOmC

  23. वादिप्रति°OmC

  24. कारणत्वम्C

  25. °कारकरणंC

  26. किल कल्पेC

  27. बाधतेJ

  28. निर्णयसामान्यस्ये°C

  29. तत्रOmC

  30. यत्OmC

  31. तं निवर्त्य…प्रथम इति वादी only inJ

  32. °पेक्षित्वमितिC

  33. °वृत्तौC

  34. °वृत्तौC

  35. फलेC

  36. °बधीभूताद् J

  37. चान्यत्र Om J

  38. यथा C

  39. °त्रेति C