268 त्यर्थः । एकशश्च प्रमाणैरिति प्रत्यक्षादिभिः । संहत्य च प्रमाणैरिति
साधनदूषणसमाधानैरित्यर्थः । पक्षप्रतिपक्षाभ्यामेव वादे निर्णयो न तु विमर्शः । शास्त्रे
तु निर्णय एव न तु तत्र1243 शास्त्रातिरिक्तं साधनान्तरमाश्रीयत इत्यर्थः ।


पक्षप्रतिपक्षाभ्यामिति । लक्षणायां हि येन 1244यत् लक्ष्यते तदवच्छेदकतया
तदपि बुद्धौ सन्निधीयते । ततश्च तेन नियमो भवति लक्ष्यमाणस्य, यथा गङ्गायां घोष
इति । गङ्गासंबन्ध्येव तीरं धोषेणान्वीयते, न त्वकूपारतीरमपीति । चोदयति—अर्थेति ।
परिहरति—न नेति । अर्थग्रहणे क्रियमाणे काल्पनिकत्वं प्रतिषिध्यते, न चाकल्पितं
विरुद्धधर्मवदित्येकतरनिर्णयः । नेदं पक्षप्रतिपक्षाभ्यामित्यादि चोद्यभाष्यं
व्याचष्टे—पक्षप्रतिपक्षाभ्यामिति । उभाभ्यामित्यादि परिहारभाष्यं व्याचष्टे—
उभाभ्यामेवेत्याहेति । पृच्छति—एतस्मिन्निति । प्रथमं साधनम्, द्वितीयं दूषणम्,
तृतीयं समाधानम् । उत्तरम्—सर्वत्र । कदाचित् प्रथमे कदाचिद् द्वितीये कदाचित्
तृतीय इत्यर्थः । अवश्यं तु तृतीय इत्याह—अथ वेति । उभयत्र कल्पे प्रश्नः—
कथमिति । उत्तरम्—एकस्तावदिति । 1245तं निवर्त्य वादिनः साधनं दूषणेन निवर्त्य
प्रतिवादी स्वपक्षे साधनं ब्रवीति । प्रथम इति वादी ।


निर्णयोऽनुमानमेवेति केचित् । तथा हि तृतीयलिङ्गदर्शनं प्रत्यक्षफलं
निर्णयः । तदेव चानुमानमतो निर्णयो नानुमानादतिरिच्यते इत्यर्थः । परिहरति—
लिङ्गलिङ्गीति ।
यदि निर्णयमात्रमनुमानमुच्येत, तदा न तस्य सर्वस्य
लिङ्गलिङ्गिसंबन्धस्मृत्यपेक्षत्वमिति । यदि तु लिङ्गपरामर्शो निर्णयः, तस्य चास्ति
लिङ्गलिङ्गिसंबन्धापेक्षेति1246 । तत्राह—प्रमाणफलत्वात् । सामान्यव्याप्तो विशेषः
सामान्यनिवृत्त्या1247 निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्त्या1248 । न च फले प्रमितिरूपे
निर्णये प्रमाकरणत्वं 1249फलत्वे नास्तीति नानुमानत्वं तद्विशेष इत्यर्थः । इतश्चानुमानात्
निर्णयो भिद्यते इत्याह—निर्णयः स्वविषय एवेति । न हि निर्णयो निर्णयत्वेन

  1. तत्रOmC

  2. यत्OmC

  3. तं निवर्त्य…प्रथम इति वादी only inJ

  4. °पेक्षित्वमितिC

  5. °वृत्तौC

  6. °वृत्तौC

  7. फलेC