311

द्वितीयाध्यायः

द्वितीयाध्याये प्रथमाह्निकम्


संशयपरीक्षाप्रकरणम्


अत ऊर्ध्वं प्रमाणादिपरीक्षा इत्यादिभाष्यनिराकरणीयामाशङ्कामाह
वार्त्तिककारः-त्रिविधा चास्येति । स्थानवतां क्रमवताम् । परीक्षावचनमिति ।
प्रमाणमेव परीक्ष्यत इति युक्तमिति । किमत्रादौ प्रमाणं न परीक्षितम् ? 1447न परीक्षितम् ।
किंतु संशय एव परीक्ष्यत1448 इत्याह—तानि विलङ्घ्येति । सोऽयं किमर्थं क्रमभेदः
कृत1449 इति भाष्यार्थमाह—परीक्षाङ्गत्वादिति । उद्देशक्रमानुरोधेन हि प्रमाणं पूर्वं
लक्षितम्, न खलु लक्षणे संशयस्याति कश्चिदुपयोगः । परीक्षा तु सर्वा
विमर्शकरणिकेति1450 परीक्षापर्वणि सर्वथा आर्थक्रमेण संशयस्य पूर्वभावः, यथा
अग्निहोत्रं जुहोति
यवागूं पचति


इत्यत्राग्निहोत्रात् प्राग्भावो यवागू पाकस्य । तस्याग्निहोत्र साधनत्वात् । संशयलक्षणं
चात्र परीक्ष्यते, न संशय इति नानवस्थापि । देशयति—ननु चोक्तमिति । शास्त्रगता
त्वियं परीक्षा । सा च न विमर्शपूर्वेत्यार्थक्रमाभावात् नोद्देशक्रमो बाधनीय
इत्यर्थः । परिहरति—सत्यम्, न निर्णये नियम इति । न निर्णयः सर्वः संशयपूर्वः ।
विचारस्तु सर्व एव1451 संशयपूर्वः । शास्त्रवादयोश्चास्ति विचार इति तेन नियतं1452
संशयपूर्वेण भवितव्यम् । शिष्टयोश्च वादिप्रतिवादिनोः शास्त्रेण विमर्शाभावो न
शिष्यमाणयोः, तस्मादस्ति शास्त्रेऽपि विमर्शपूर्वो विचार इति सिद्धम् । संशेत इति1453
संशयस्य निरुक्तम् । नावधारयतीत्यर्थः ।


312

समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः
॥ २ । १ । १ ॥


समाना…यः । ननु यथा लक्षणार्थः पूर्वं निरूपितः, तथा निर्बीजः पूर्वपक्ष इत्यत
आह1454तस्य यथाश्रुतीति । परीक्षासाध्यो ह्यर्थः । तत्र व्याख्यानतो लक्षणपदेभ्यः
साक्षादेव गम्यत इत्यर्थः । समानमनयोरिति साक्षात्कारं दर्शयति ।


न हि साक्षात् स्थाणुपुरुषावुपलभमानः समानं चानयोर्धर्मं कश्चित् संदिग्ध
इत्यर्थः । व्यवच्छेदात्मकत्वादिति । न निश्चयोऽनिश्चयस्य जनकः कारणानुरूपत्वात्
कार्यस्तेत्यर्थः । न समानधर्माध्यवसायादेवेति संशयलक्षणोक्तकारणमात्रोप
लक्षणपरम् । एकवृत्तित्वाच्चेति । न हि यावेवारोहपरिणाहौ स्थाणोस्तावेव
पुरुषस्येत्यर्थः ॥ १ ॥


विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २ । १ । २ ॥


विप्र…च्च ॥ २ ॥


विप्रतिपत्तौ च संप्रतिपत्तेः ॥ २ । १ । ३ ॥


विप्रतिपत्तौ च संप्रतिपत्तेरिति । न स्वरूपविरोधाद् विप्रतिपत्तिरस्तीति ॥ ३ ॥


अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ २ । १ । ४ ॥


अव्य…याः ॥ ४ ॥


313

तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ २ । १ । ५ ॥


तथात्यन्तसंशय इति तत्पदान्तरेण समानधर्मोपपत्त्यादेर्विशेषणमपश्यतः
पूर्वपक्षः ॥ ५ ॥


यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो
नात्यन्तसंशयो वा ॥ २ । १ । ६ ॥


सिद्धान्तमाह—अस्योत्तरमिति । यथो…वा ॥


यदि हि निर्विशेषणं समानधर्मोपपत्त्यादि संशयकारणमुच्येत ततः पश्चाद
करणात् पूर्वमपि न कुर्यादित्यसंशयः, पूर्वं वा करणात् पश्चादपि कुर्यादित्यत्यन्त
संशयः । न त्वसौ निर्विशेषणः संशयकारणमिति नासंशयो नात्यन्तसंशय इत्यर्थः ।
यथोहित्वेति भाष्ये यदप्युक्तमित्यर्थः ।


एतेनेति समानपदप्रयोगेण । सदृशार्थो हि समानशब्द इति पूर्वं व्याख्यातम्1455
यदप्येतत् सारूप्याभावात् अध्यवसायसंशययोः कार्यकारणयोरिति ।
विशेषानवधारणमुभयोः समानमित्यर्थः । भाष्यकारेण तु यत् सारूप्यमुक्तं तत्
तथा न बोद्धव्यम् । यदि हि कार्यकारणयोरुत्पत्तिः सारूप्यम्, तदतिव्यापकं
चाव्यापकं च नित्यानामपि कारणत्वात् । तस्मात् सारूप्यशब्दो न सारूप्यस्य
निर्देशः, अपि तु कार्यकारणधर्मान्वयव्यतिरेकपर इत्याह—कारणसद्भावाच्चेति ।
अनवधारणेनैव तत्त्वानुपलब्धेरिति प्रत्युक्तम् ।
सत्प्रतिपक्षयोरपि मिलितयोरन्यत्रा
दर्शनेनासाधारण एवान्तर्भावात् । एकैकविवक्षया तु हेत्वाभासान्तरत्वमिति
भावः । न चाव्यवस्थातः संशय इति । नासौ पृथक् कारणम्, अपि तु
समानधर्मोपपत्त्यादिपरिकरतयेत्यर्थः । यत् पुनरेतत् विप्रतिपत्ताविति । विषया
314 पेक्षया विप्रतिपत्तिः । स्वरूपापेक्षया तु संप्रतिपत्तिरिति । एवमव्यवस्थायामपि
द्रष्टव्यम् ॥ ६ ॥


यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ २ । १ । ७ ॥


कोऽस्य सूत्रस्येति तात्पर्यप्रश्नः । उत्तरम्—स्वयमिति । संशयपूर्वकत्वात्
सर्वपरीक्षाणां परिचिक्षिषमानेन संशयाक्षेपहेतुभिर्न प्रतिषेध्यव्योऽपि तु परैरेवमाक्षिप्तः
संशय उक्तैः समाधानहेतुभिः समाधेयः । शास्त्रे कथायां वा वादलक्षणाया
मित्यर्थः ॥ ७ ॥


॥ इति संशयपरीक्षाप्रकरणम् ॥

सामान्येन प्रमाणपरीक्षाप्रकरणम्


प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ २ । १ । ८ ॥


अथ प्रमाणपरीक्षेत्यादि भाष्यम् । प्रत्य…द्धेः । आर्थेन हि क्रमेण संशय
परीक्षायामुक्तेनोद्देशक्रमो बाधितः । प्रमाणादिषु तु तद्बाधकारणाभावाद्
उद्देशक्रमानुरोधेन प्रमेयादिभ्यः प्राक् प्रमाणान्येव परीक्षणीयानि । तत्रापि प्रथमं
प्रमाणसामान्यलक्षणपरीक्षा, तत्पूर्वकत्वाद् विशेषलक्षणानाम् । तत्र सामान्यलक्षणम्
उपलब्धिसाधनं प्रमाणमिति । तच्चोपलब्धिसाधनत्वं प्रत्यक्षादीनामेवेति प्रत्यक्षा
दीनामित्युक्तम् ।


तदेतदाह वार्त्तिककारः । अथेदानीमिति । परीक्षणीयं पृच्छति—किं
पुनरेषामिति
सर्वैरेव वादिभिः स्वसिद्धान्तव्यवस्थापनाय प्रमाणान्यभ्युपेतव्यानि,
तदभावे तद्व्यवस्थानुपपत्तेः । यस्य तु स्वपक्ष एव नास्ति, नासौ लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्षणीयः । तस्मात् सर्वप्राणभृत्सिद्धेर्न प्रमाणसामान्यं परीक्षणीयमिति
315 भावः । उत्तरम्—आदौ तावत् संभव इति । न परीक्षा संशयमन्तरेणेति संशयस्य
बीजमाह—सदसतोरिति । पूर्वपक्षमाह—व्युदस्य संशयमिति । अयमत्र पूर्वपक्षिणो
माध्यमिकस्याभिसन्धिः, यद्यपि मम विश्वविचारासहत्ववादिनः प्रमाणं नाम न
किञ्चिदस्ति विचारसहम्, तथापि लोकसिद्धान्येव प्रमाणानि तैरेव प्रमाणैः
पर्यालोच्यमानानि विचारं न सहन्ते । सोऽयं प्रमाणानामपराधो यानि स्वविरोधेन
विलीयन्ते, न तु ममापराध इति ॥ ८ ॥


पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्यत्तिः ॥
२ । १ । ९ ॥


ज्ञानं हि प्रमाणं तद्योगात् प्रमेयमिति चार्थ इति च भवति । तद् यदि प्रमाणं
पूर्वं प्रमेयादर्थादुत्पद्यते ततः प्रमाणात् पूर्वं नासावर्थ इति इन्द्रियार्थेत्यादिसूत्र
व्याघातः ॥ ९ ॥


पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ २ । १ । १० ॥


अथ पूर्वं प्रमेयं पश्चात् प्रमाणं तत्राह—पश्चादिति । यद्यपि च वस्तुस्वरूपं न
प्रमाणाधीनं तथापि तस्य प्रमेयत्वं तदधीनम् । तदपि चेत् प्रमाणात् पूर्वं, न
प्रमाणयोगनिबन्धनं स्यादित्यर्थः । तदिदमुक्तम्—प्रमेयसंज्ञेति ॥ १० ॥


युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥
२ । १ । ११ ॥


यौगपद्ये दृष्टव्याघातः सूत्रव्याघातश्च । प्रयोगस्तु प्रत्यक्षादयो न प्रमाणत्वेन
316 व्यवहर्तव्याः, कालत्रयेऽप्यर्थाप्रतिपादकत्वात् । यदेवंविधं न तत् प्रमाणत्वेन व्यवहृयते
यथा शशविषाणम् । तथा चैतत् । तस्मात् तथेति । एवं पूर्वपक्षिते सिद्धान्तमाह—अत्र
समाधिरिति । उपलब्धिहेतो
रित्यादिभाष्यवाक्यस्य कालत्रयेऽप्यर्थाप्रतिपादक
त्वादिति हेतोरसिद्धतोद्भावनमर्थः ।


स्वयं वार्त्तिककारोऽस्यानुमानस्य दूषणमाह—प्रत्यक्षादीनाम् अप्रामाण्य
मिति चेति ।
लब्धात्मकं खल्वनुमानं प्रत्यक्षादीनां प्रमाणानामप्रामाण्यमापादयेत् । न
च लब्धात्मकम् । तस्य तु प्रतिज्ञाविरोधेनात्मलाभ एव नास्तीति कथं तेषाम
प्रामाण्यमापादयितुमर्हतीति भावः । यदि प्रमाणानि नार्थं साधयन्ति प्रत्यक्षादीनीत्येव
न स्यात् । न खलु तानि प्रमाणतोऽसिद्धानि प्रत्यक्षादीनीत्येव भवन्तीत्यर्थः । न
चैतेषामर्थसाधनत्वं सामान्यविशेषाभिधायिप्रत्यक्षादिपदगोचरतापीत्याह—कथं
चान्यथेति ।


अपि च प्रामाण्यनिषेधे न प्रमाणानां प्रत्यक्षादीनामसत्त्वम् । न ह्यकमण्डलु
र्माणवक इत्यनेन माणवकः प्रतिषिध्यते । किं तर्हि ? तस्य कमण्डलुयोगो धर्मः ।
ततश्च प्रमाणानामसत्त्वं पूर्वपक्षिणोऽमिमतं न स्यादित्याह—धर्मप्रतिषेधाच्चेति ।
शङ्कते, अथ भावस्यास्वतन्त्रत्वादिति । निराकरोति एवमपीति ।


प्रतिषिध्यमान इतिमात्रे वक्तव्ये विधीयमान इति दृष्टान्तार्थम् । एतेन
तद्धितार्थ
इति, प्रामाण्यपदार्थ इत्यर्थः । यथाश्रुतश्च हेतुर्व्यधिकरण इत्याह—
यश्चायं हेतुरिति ।


यत् पुनरित्यादि भाष्यं व्याचष्टे—यत् पुनरेतत् प्रमाणेनेति । संभवः
प्रत्यक्षादीनां निवर्तत इति । प्रत्यक्षादीनामभावे 1456कारकहेतुवचनमित्यर्थः । न ह्यसतो
निवृत्तिरिति ।
नासन् घटो मुद्गरप्रहारेण निवर्त्यत इत्यर्थः । असंभवं प्रत्यक्षादीनां
सिद्धमेव ज्ञापयतीत्याह—असंभवो ज्ञाप्यते इति ॥ ११ ॥


317

त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ २ । १ । १२ ॥


देशयति—त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरित्येवमभिदधानेनेति ।
परिहरति—नैष दोष इति । त्वद्वचनं त्वदभ्युपगमविरुद्धम् । अस्माकं तु नैतद्
वचनम्, नाप्ययमभ्युपगम1457 इत्यर्थः । न च धर्मिणां प्रतिषेधे कश्चित् न्याय इति ।
नानुमानं धर्मिप्रतिषेधे प्रभवति आश्रयासिद्धत्वाद्धेतोरित्यर्थः ।


अपि च प्रमाणमात्रमधिक्षिपतः प्रत्यक्षादीनामप्रामाण्यमिति च प्रत्यक्षादीनां
प्रामाण्यमिति च वाक्ययोरर्थभेदाभेदौ विचारं न सहेते इत्याह—प्रत्यक्षादीनाम
प्रामाण्यम्
इति । एवमेव वक्तव्यम् इति नञोरप्रयोगे लाघवात् । घटस्य सामर्थ्यं
वेति,
यदा सत्येव घटे तस्यासामर्थ्यं विवक्षित्वोच्यते नास्ति घट इति, नोदकाहरणसमर्थ
इति तदा गम्यते । तन्त्रान्तराभ्युपगतानां वा प्रतिषेधः इति । तन्त्रान्तरे यादृशं
प्रमाणमभ्युपेयते तादृशप्रतिषेधे अन्यादृशस्याभ्युपगमो भवति । यथा प्रधानं नास्तीति
जगत्कारणस्य सुखदुःखमोहात्मकत्वं प्रधानत्वं तत्प्रतिषिध्यते, न पुनर्जगत्कारणम् ।
तस्यान्यादृशस्याभ्युपगमादिति । कथमिति प्रमाणाक्षेपः । कस्येति प्रतिपाद्याक्षेपः ।
कश्चेति प्रतिपादकाक्षेपः । प्रतिपाद्याक्षेपं विभजते—अप्रतिपन्न इति । प्रतिपादकाक्षेपं
विभजते—प्रतिपन्नश्चेति । क्व प्रतिपाद्ये किं प्रतिपाद्यत इति ॥ १२ ॥


सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ २ । १ । १३ ॥


यद्युपादीयते उदाहरणम्, तत्प्रमाणेनानवधारितं न शक्यमुपादातुमिति
भावः1458 । न केवलमशक्यं व्यर्थं चेत्याह—प्रत्यक्षादीनां चेति । सर्वैः प्रमाणैरिति,
उदाहरणादिविषयैः प्रमाणैः विप्रतिषिद्धो विरुद्धो भवति, बाधितविषयतया
प्रमाणाभासो भवतीत्यर्थः । विरुद्धं चाह1459सिद्धान्तमभ्युपेत्येति । प्रमाणानाम्
318 इत्यवयवाभिप्रायम् । अवर्जयन्निति वर्जनविरुद्धमपादानमुच्यते, उपाददान
इत्यर्थः ॥ १३ ॥


तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ २ । १ । १४ ॥


तत्प्रामाण्ये वेति । अस्यार्थः । यदि माध्यमको ब्रूयात् प्रत्यक्षादीनामप्रामाण्यं
त्रैकाल्यासिद्धेः1460 इति, स्ववाक्यावयवाश्रितानि प्रमाणानि यथालोकप्रतीतिसिद्धानि
तैरविचारितसिद्धैरितरेषां प्रामाण्यं प्रतिषिध्यत इति, तत्रेदमुच्यते—तत्प्रामाण्ये वा
अवयवाश्रितप्रत्यक्षादिप्रामाण्ये न सर्वप्रमाणविप्रतिषेधः, अवयवाश्रितानामेव
प्रामाण्याभ्युपगमात् । किं पुनरिदमविचारितसिद्धत्वम् ? किं विचारासहत्वम्, आहो
सर्वजनसिद्धतया सन्देहानास्पदत्वम् ? तत्र पूर्वस्मिन् कल्पे विचारासहेन1461 स्वयं
दुःस्थितेनान्येषां प्रामाण्यं बाध्यत इति सुभाषितम् । तस्मादुत्तरः कल्पः । तथा च न
सर्वाप्रामाण्यम्,—तस्यैव प्रामाण्यात् ।


अत्र भाष्यम्—वीत्ययमुपसर्गः संप्रतिपत्त्यर्थे । प्रतिषेधशब्दार्थमनुजानाति
विशेषमभिदधत् न तु तद्व्यतिरिक्तार्थः । न व्याघातवचन इत्यर्थः । तदिदमुक्तम्—
व्याघाते ।
कस्मात् । अर्थाभावात् । स्ववाक्यावयवाश्रितानां हि प्रमाणानां प्रामाण्ये
सर्वप्रमाणप्रतिषेधव्याघातः पुर्वमुक्तः, तत्प्रतिषेधः पूर्वेण विरुध्यते अशक्यश्चेति
अर्थाभाव इत्यर्थः ।


तदेतद् वार्त्तिककारो व्याचष्टे—वीत्ययमुपसर्गो विशेषप्रतिषेधे । यावदुक्तं
भवति विशेषेण सर्वेषु प्रमाणेषु प्रतिषेध इति तावदुक्तं भवति विप्रतिषेध इति ।
प्रतिषेधशब्दार्थाभ्यनुज्ञानत्वाद् विशब्दस्य । तेन तु न सर्वप्रमाणविप्रतिषेधः
इत्यनेन विपदसहितेन किमुक्तं भवति ? इदमुक्तं भवति—कानिचिदिति ।
अवयवाश्रितानि प्रमाणानि विचार्य समुदायं विचारयति—यच्चेदमिति ॥ १४ ॥


319

त्रैकाल्याप्रतिषेधश्चशब्दादातोद्यसिद्धिवत् तत्सिद्धेः ॥ २ । १ । १५ ॥


तदिह1462 सूत्रकारेण श्रैकाल्यासिद्धेरित्यनुयोगस्य प्रतिषेधेऽपि साम्यं
सर्वप्रमाणविरोधश्चापादितः संप्रत्यसिद्धतोद्भावनपरं सूत्रं पठति—त्रै…द्धेः ॥


तत्पाठमाक्षिपति—किमर्थमिति । स्वातन्त्र्येण चेदस्य सूत्रस्यार्थः पूर्वमुक्तः,
कृतं सूत्रपाठेनेत्यर्थः । परिहरति—पूर्वोक्तेति । न तदस्माभिरुत्सूत्रमुक्तम्, अपि तु
सूत्रार्थ एवेति ज्ञापनार्थं सूत्रपाठोऽस्माकमित्यर्थः । नियमेन यः प्रतिषेधः पूर्वमेव वा
पश्चादेव वा सहैव वेति तं प्रतिषेधति1463अनियमेति । खलुशब्दोऽयं यस्मादर्थे ।
यस्माद् अनियमदर्शी ऋषिः ।


वार्त्तिकम्, तदुत्थानज्ञापनार्थं सूत्रपाठ इति । देशयति—पाठक्रममतिलङ्घ्य
कस्मात् ? तत्रैवेदमिति । अत्रैव वा तद् भाष्यम् कस्मान्नोक्तमित्यपि1464 द्रष्टव्यम् ।
परिहरति—अविशेषादिति । अथ शब्दः श्रोत्रविवरे समवेतः कथमातोद्यमसंबद्धं
गमयतीत्यत आह—योऽसौ वीणावेणुशब्दयोरिति । अयं शब्दविशेषो धर्मी ।
वीणाङ्गुलिसंयोगजशब्दपूर्व इति साध्यो धर्मः, तन्निमित्तासाधारणधर्मवत्त्वात्
पूर्वोपलब्धवीणानिमित्तध्वनिवदिति । तदिदमुक्तम्—वीणानिमित्तकत्वमिति ।
धूमदर्शनादिति ।
संयोगिना हि वह्निना विशिष्टो धूमोऽनुमीयते न कारणेन,
अस्तीति वर्तमानावभासानुपपत्तेरिति ॥ १५ ॥


प्रमेया च तुलाप्रामाण्यवत् ॥ २ । १ । १६ ॥


यत्पुनराक्षिप्यते यदनियतं न तत् परमार्थसत् । यथा रज्ज्वामारोपितं सर्पत्वम् ।
तामेव हि रज्जुं तदैव कश्चित् सर्प इति कल्पयति कश्चित् हार इति । स एव कदाचित्
सर्प इति कल्पयित्वा पश्चात् हार इति कल्पयति । तथा च प्रमाणप्रमेयभावः । तस्मात्
न परमार्थसन्निति । अत्रेदमुत्तरसूत्रम्—प्रमे…त् ।


320

तद्योजनिकां करोति—प्रमाणं प्रमोयमिति चेयमिति । अयमभिसन्धिः ।
क्षणभङ्गपरिणामनिरासे सति स्वकारणादुत्पन्नं स्थिरं वस्तु तत्तद्वस्त्वन्तरसन्निधानात्
तत्तद्धर्मयोगे सति तत्तद्बुद्धिव्यपदेशमनुभवति । समावेशं दर्शयितुं पृच्छति—यदा
पुनरिति ।
उत्तरम्—तदा निमित्तेति । अस्य चार्थस्य ज्ञापनार्थं सूत्रम्—प्रमे…त् ॥


इति । न केवलं प्रमाणं समाहारगुरुत्वे तुला । यदा पुनरस्यां सन्देहो भवति
प्रामाण्यं प्रति, तदा सिद्धप्रमाणभावेन तुलान्तरेण यत्परीक्षितं सुवर्णादि तेन प्रमेया
च तुलाप्रामाण्यवत् । यथा प्रामाण्ये तुला प्रमेया च, तथान्यदपि सर्वं प्रमाणं प्रामाण्ये
प्रमेयमित्यर्थः । तदेतद् भाष्यकृद् आह—एवमनवयवेन कार्त्स्न्येन तन्त्रार्थः
शास्त्रार्थ इति । क्वचित् प्रमातृत्वप्रमेयत्वप्रमाणत्वादीनां समावेशः, यथात्मनि । स हि
प्रमाता च प्रमीयमाणश्च प्रमेयम् । तेन तु प्रमितेन तद्गतगुणान्तरानुमाने प्रमाणम् ।
क्वचित् पुनः प्रमाणत्वप्रमेयत्वफलत्वानां समावेशः, यथा बुद्धौ । क्वचित् पुनः
प्रमाणत्वप्रमेयत्वयोः, यथा संशयादौ । सेयं समावेशस्य तन्त्रार्थव्याप्तिरिति । तथा च
कारकशब्दा
इति भाष्यम् पूरयित्वा व्याचष्टे वार्त्तिककारः—यथा च प्रमाणेति ।
यावन्ति यत्र निमित्तानि तावतां तत्र नैमित्तिकानां प्रवृत्तेरवश्यंभावो नियमः । स्व
स्थितौ वृक्षः स्वातन्त्र्यात् कर्तेति भाष्यम् ।
तत्र स्वातन्त्र्यं पृच्छति वार्त्तिक
कारः—किं पुनः स्वातन्त्र्यमिति ।
इतरकारकाप्रयोज्यत्वं प्रयोजकत्वं च 1465कारकाणां
मध्ये कर्तुः स्वातन्त्र्यमुक्तम् । इह तु कारकान्तराणामभावात् तादृशं स्वातन्त्र्यं
नास्तीति भावः । उत्तरम—कारकान्तरानपेक्षित्वम्, कारकान्तरापेक्षस्य हि प्रयोजक
तया कथञ्चित् स्वातन्त्र्यं विवक्ष्यते, तदनपेक्षस्य पुनर्नितरां स्वातन्त्र्यमित्यर्थः ।
यदायं स्थितिशब्दो गतिप्रतिषेधवचन इति । यावदुक्तं भवति न यातीति,
तावदुक्तं भवति तिष्ठतीति । अत्र च निषेधस्य निषेध्याधीननिरूपणतया तदुपाधिः
पूर्वापरीभावो न तु स्वरूपेण निषेधस्य पूर्वापरीभावसंभव इति । यदाप्यस्तेरभि
धायक
इति सत्तासामान्याभिधायक इत्यर्थः । अस्ति व्यनक्तीति, वृक्षस्य हि
321 महत्त्वे रूपवत्त्वे सति सतासमवाय एव सत्ताव्यञ्जकत्वम्, तत्र चानपेक्ष इत्यर्थः ।
गेहसंबन्धानुभवः गेहसंबन्धप्राप्तिः समवायः, तद्विषया क्रिया गतिविधारकः
प्रयत्नः । तेन हि स तिष्ठति । घटो गृहेऽस्तीति त्वौपचारिकः प्रयोगः । यदाप्य
यमभग्नवचन
इति । अत्रापि निषेध्यस्य पूर्वापरीभावोपाधिरेव निषेधस्य तथाभावः
। अथवा तिष्ठतीत्यत्रापि कयाचिद् विवक्षया कारकान्तरापेक्षा अस्तु, तथापि
तत्प्रोयजकत्वेनैव स्वातन्त्र्यमित्याह—समुदायेति । अवयवानां समूहः समुदाय
स्तदेकदेशोऽवयव इति । ध्रियत इति कर्तरि लकारः ।


प्रत्यभिज्ञानविषयता वा स्थितिः । तस्यां सत्यामपि कारकान्तरापेक्षायां कथञ्चित्
प्रयोजकतया स्वातन्त्र्यमित्याह—पूर्वापरेति । अनेके पर्यायवन्तः प्रत्ययाः । प्रागनु
भवः । अनु1466 तत्ताश्रयस्य धर्मिणः पुनरनुभवः । अथ स्मृतिः । अथ प्रतिसन्धानमिति ।


वैनाशिको देशयति—चक्रेति । यदेव दण्डसंयोगेन चक्रभ्रमणं तदेवेदमुपरतेऽपि
दण्डसंयोगे इत्यर्थः । परिहरति—न प्रमाणेति । नासति बलवति बाधके प्रमाणे
प्रत्यभिज्ञानस्य शक्यं मिथ्यात्वम् । ज्वालादिषु तु तदस्तीत्यर्थः । न च समस्तप्रतिसन्धान
प्रत्ययमिथ्यात्वे मिथ्याप्रतिसन्धानप्रत्ययो भवितुमर्हति बीजाभावादित्याह1467
मिथ्याप्रत्ययाश्चेति । वैनाशिकः पृच्छति—अथ भवत इति । एवं ब्रुवाणः
प्रत्यक्षमप्रमाणयन्न शक्यस्तेन बोधयितुमित्यनुमानमुत्तरमाह1468उक्तं प्रमाणम्
आत्मलक्षणे रूपेति । अनुमानान्तरमाह—कार्यस्येति । कार्यकालानुभवनं
कार्यकालप्राप्तिः । वैनाशिकः शङ्कते—अनाधारमिति । प्रतीत्येति पूर्वभावं
विकृत्येत्यर्थः । दुषयति—तन्नेति । आधेयस्याधारसमानकालत्वमनुभवसिद्धम् ।
तेनाधारेण कारणेन कार्यकालं स्थातव्यम् । अनाधारत्वं तु कार्यस्य नानुभव
गोचरः, अपि तु युक्त्या साध्यम् । सा च दृष्टान्ताभावादनुपपन्ना । न च विप्रतिपत्ति
मात्रादनुभवः शक्योऽपवदितुम् । क्षणभङ्गसाधनानि च निराकरिष्यन्ते ।


322

यदि हि रूपादीनामाधारवत्त्वं निषिध्यते ततोऽस्याभ्युपगमविरोधो भवति,
भूतानि पृथिव्यादीनि भौतिका रूपादय इति । अभ्युपगमान्तरविरोधमाह
यच्चोक्तं भवद्भिरिति शेषः । न केवलं रूपादीनामाश्रितत्वं भवद्भिरभ्युपगतमुपपन्नं
चेत्याह—अनाश्रिताश्चेति ।


पृच्छति—कर्मणिकः कारकार्थः कारकशब्दार्थः । क्रियानिमित्तं हि कारकम् ।
यत् पुनः क्रियाया एव व्याप्यं न तत् क्रियानिमित्तमिति न कारकम् । अकारकं
च कथं कर्म, कारकाधिकारित्वात् कर्मसंज्ञाया इति भावः । उत्तरम्—क्रिया
विषयत्वमिति ।
अनात्मसमवेतक्रियाफलशालित्वं क्रियाविषयत्वं कर्मत्वम् ।
देवदत्तसमवेतया हि क्रियया दर्शनलक्षणया वृक्षविषयोऽनुभवो जन्यते । इदमेव
चानुभवस्यार्थविषयत्वं यदर्थाधीननिरूपणत्वमित्युक्तं प्रमाणलक्षण इति । तेन
क्रियाविषयस्य क्रियातः प्राग्भावाद् युक्तं कारकत्वम् । एवं च विकार्यप्राप्य
योरुपपन्नः1469कर्मभावः, निर्वर्त्यस्य तु पटादेर्यद्यपि क्रियायाः प्राग्भावो नास्ति, तथापि
तदवयवानां तन्तूनां प्राग्भावः, तेषां च तादर्थ्येन पटत्वे उपचारात् पटं करोतीति
युक्तः प्रयोगः । तथा हि
सहचरणादिसूत्रे1470


वक्ष्यति कटार्थेषु वीरणेष्विति । एतेन च कर्मलक्षणेनाहिं लङ्घयति ग्रामं गच्छन्
वृक्षमूलान्युपसर्पतीत्यादयोऽपि संगृहीता वेदितव्याः । नगरं गच्छति चैत्र इत्यत्र
यथाप्राप्तिर्नगरसमवेता एवं चैत्रसमवेतापीति चैत्रस्यापि क्रियाजनितफलशालिनो
मा भूत् कर्मत्वमित्यत उक्तम्—अनात्मसमवेतेति । आत्मविषयेऽपि च मानसप्रत्यक्षे
यद्यप्यात्मनो न कर्मता तथापि ज्ञानक्रिया सकर्मिकैवात्मधर्मस्यात्मनो व्यतिरिक्तस्य
कस्यचित् तत्र कर्मणोऽवभासनादिति सर्वदवदातम् ।


वृक्षः संप्रदानं भवतीति । पाणिनीयलक्षणानुरोधेन लौकिकप्रयोगानुरोधाच्च
संप्रदानमिति, नेयमन्वर्थसंज्ञेति भावः । गुरुत्वप्रतिबन्धे कारणमिति प्रकृतोदाहरणा
323 भिप्रायम् । तथा च गुणादीनामप्याधेयत्वाधिगतेर्द्रव्यादिभिराधेयभावः सिद्धो भवति ।
तेन न द्रव्यस्वभावः कारकामिति यदुक्तं माध्यमिकेन तदस्माकमभिमतमेव ।
काल्पनिकं तु कारकं न मृष्यामहे इत्यनेनाभिसन्धिना भाष्यकारेणोक्तम्—एवं च
सतीति । न क्रियामात्रमिति,
नावान्तरक्रियामात्रम् । यत् प्रधानक्रियासाधनम
वान्तरक्रियाविशेषयुक्तमिति, तदेतदनुभाष्य वार्त्तिककारो व्याचष्टे—एवं च सतीति ।
तदनेन कारकसामान्यमुक्तम् । विशेषलक्षणपरं भाष्यं यत् क्रियासाधनं स्वतन्त्रमिति ।
तद् व्याचष्टे—यदा तु विशेष इति ।


स्यादेतत् । क्रियासाधनमित्येतावदेवास्तु, क्रियाविशेषयुक्तमिति वा,
कृतमुभयोपादानेनेत्यत आह—सर्वस्य च कारकस्येति । यद्यवान्तरक्रियामात्रमुच्यते
ततस्तस्मिन् सर्वस्य कर्तृत्वात् कारकवैचित्र्यं न स्यात्, प्रधानक्रियामात्रोपादाने च
तत्र सर्वेषामवान्तरव्यापारमन्तरेण वैचित्रायोगाद् अत उभयोपादानं प्रयोजनवदिति ।
एवं लक्षणत इति भाष्यं व्याचष्टे—एवं च शास्त्रमिति ।


देशयति—यदीति । परिहरति—न, शक्तेरिति । पुनर्देशयति—शक्तेरिति ।
परिहरति—नैष दोष इति । ननु च बुद्ध्यादयोऽपि शक्तिव्यक्तिहेतवः, न चैते
क्तियारूपाः किं तु गुणरूपा इत्यत आह—क्रियेत्यनेनेति । सामर्थ्यं बलम् । दुर्बलो
हि जानन्नप्युपायं न व्यापारयति । यथा पाणिना कुण्ठः कुठारम् । तेन
शक्तिक्रियासंबन्धयोः कारकशब्दो मुख्यः, शक्तिमात्रे तु गौण इति । प्रकृते
योजयति—कारकशब्दश्चायमिति ॥ १६ ॥


प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ २ । १ । १७ ॥


संप्रति प्रकारान्तरेण प्रमाणान्याक्षिप्य समाधीयन्ते—अस्ति भोः कारक
शब्दानामिति ।
अत्रैते कल्पा उपप्लवन्ते, किं प्रत्यक्षादीनामुपलब्धिः ससाधना
निःसाधना वा ? यदा ससाधना तदापि किमेभिरेव प्रत्यक्षादिभिराहो प्रमाणान्तरेण ?
324 यदाप्येभिस्तदापि किं तयैव प्रत्यक्षव्यक्त्या, अथैका व्यक्तिर्व्यक्त्यन्तरेणेति ? तत्र
प्रमाणान्तराभ्युपगमे विभागसूत्रव्याघातः, अनवस्थापातश्च । प्रत्यक्षादिभिः
प्रत्यक्षाद्यन्तराणां ग्रहणेऽनवस्थापातः । तथैव व्यक्त्या तद्ग्रहणे आत्मनि वृत्ति
विरोधः; न हि तयैवासिधारया सैवासिधारा छिद्यते । तस्मादसाधना प्रमाणोप
लब्धिः । एवं चेत्, कृतं प्रमेयसाधनै प्रमाणैः, प्रमाणवद साधनैवास्तु प्रमेयोपलब्धिरिति
पूर्वः पक्षः । नासाधना प्रमाणसिद्धिः, नापि प्रत्यक्षादिव्यतिरिक्तप्रमाणाभ्युपगमो येन
विभागसूत्रव्याघातः स्यात् । नापि च तथैव व्यक्त्या तस्या एव ग्रहणभ्युपेयते
येनात्मनि वृत्तिविरोधो भवेत् । अपि तु प्रत्यक्षादिजातीयेन प्रत्यक्षादिजातीयस्य
ग्रहणमातिष्ठामहे । न चानवस्था । अस्ति किञ्चित् प्रमाणं यत् स्वज्ञानेनान्यधीहेतुः
यथा धूमादिः । किञ्चित् पुनरज्ञातमेव बुद्धिसाधनं यथा चक्षुरादि । तत्र पूर्वं स्वज्ञाने
चक्षुराद्यपेक्षम् । चक्षुरादि च स्वज्ञानमनपेक्षमेव तज्ज्ञानसाधनमिति का अनवस्था ?
बुभुत्सया च तदपि शक्यज्ञानम् । सा च कदाचिदेव क्वचिदिति नानवस्था । न च
प्रामाण्यं प्रमाणानामप्रतीतं न प्रवृत्यङ्गमिति तदर्थं प्रमाणान्तरापेक्षायामनवस्थेति
वाच्यम् । दृष्टार्थेषु संशयादपि प्रवृत्तौ सत्यां प्रवृत्तिसामर्थ्येन तस्य सुज्ञानत्वात् ।
अदृष्टार्थेषु प्रवृत्तिसामर्थ्यावधृतप्रामाण्यप्रमाणसाधर्म्येण तस्य शक्यज्ञानत्वादिति
दर्शितं प्रथमसूत्रे । तस्मात् प्रत्यक्षादिभिः प्रत्यक्षादीनामुपलब्धिर्न चानवस्थेति
सिद्धान्तः ।


भाष्ये भो इत्यामन्त्रणे । कुतः पुनरुपलिब्धहेतुत्वमित्यत आह—संवेद्यानि
चेति ।
चो हेतौ । उपलब्धिविषयत्वं कुत इत्यत आह—प्रत्यक्षं मे ज्ञानमिति ॥ १७ ॥


तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ॥ २ । १ । १८ ॥


तद्वि…द्धिः ॥ १८ ॥


325

न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥ २ । १ । १९ ॥


प्रदीपभावाभावयोर्दर्शनस्य तथाभावात् । ज्ञातृमनसोश्च दर्शनादिति
भाष्यम् ।
तद्व्याचष्टे वार्त्तिककारः । न चायमेकान्त इति । ज्ञाता ज्ञेय इति
सकर्माभिप्रायम्, न ह्यन्यसमवेता ज्ञानक्रिया येनात्मनः कर्मता स्यात्, अपि तु
ज्ञातृस्थैव । परसमवेतक्रियाफलशालि हि कर्मेत्युक्तम् । तस्मात् सुखादीना
मात्मधर्माणामत्र कर्मता, आत्मनस्तु, प्रकाशमानता, तत्र विवक्षया ज्ञेयत्वाभिधानम् ।
मनस्तु यद्यपि स्वज्ञानं प्रति करणं कर्म च तथापि न स्वात्मनि वृत्तिविरोधः । यदि
हि ज्ञानं करणं भवेत् तदात्माश्रयदोषप्रसङ्गः । स्वसत्तया च ज्ञानं प्रति करणम् ।
अन्यच्चास्य ज्ञानम् अन्या च सत्ता । न च तत्समवेता ज्ञानक्रिया, किं त्वात्मसमवेता ।
तस्मात् ज्ञेयत्वं ज्ञानसाधनत्वं च मनसो न दोषमर्हतीति ॥ १९ ॥


क्वचिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः ॥ २ । १ ।
२० ॥


ये तु प्रदीपप्रकाशो यथा न प्रकाशान्तरमपेक्षते, एवं प्रमाणान्यपि प्रमाणान्तरमन
पेक्षमाणान्यपि सन्ति भविष्यन्तीत्याचार्यदेशीया मन्यन्ते, तान् प्रत्याह—क्व…न्तः ।


यथायं प्रसङ्गः प्रमाणानामनपेक्षत्वप्रसङ्गः, प्रदीपे प्रदीपान्तरानपेक्षया
प्रकाशकत्वदर्शनात् प्रमाणान्तरानपेक्षाण्येवालोकवत् प्रमाणानि सेत्स्यन्तीति
एवमर्थमुपादीयते । एवमनपेक्षत्वप्रसङ्गः1471 । प्रमेयाण्यप्यनपेक्षाण्येव सेत्स्यन्तीत्येवम
र्थमप्युपादेयः । तथा च प्रमाणाभाव इत्यर्थः । तदेवं प्रदीपदृष्टान्ताश्रयणेन प्रमाणाभाव
प्रसङ्गमुक्त्वा स्थाल्यादिदृष्टान्तोपादानेन तु प्रमाणस्यापि प्रमाणान्तरापेक्षेत्याह
यथा स्थाल्यादिरूपग्रहणे इति ।


326

तदेतद् भाष्यं व्याचष्टे वार्त्तिककारः—यथाप्रदीपप्रकाशः सजातीयानपेक्षः तथा
प्रमाणानि
सजातीयानपेक्षाणि, न पुनर्यथास्थाल्यादिरूपं प्रमाणापेक्षं तथा प्रमाणान्यपि
प्रमाणापेक्षाणीति । कस्मात् पुनः स्थाल्यादिरूपं प्रमाणापेक्षमित्यत आह
स्थाल्यादिरूपप्रकाशने चेति । प्रदीपप्रकाशस्तत्र प्रमाणमिति लोकसिद्धमित्यर्थः ।
कस्मादेवं स्थालीरूपवत्1472 न प्रमाणानि, तान्यपि प्रमाणान्तरेण प्रकाश्य
न्तामित्यर्थः । तदनेन प्रदीपदृष्टान्तेन निरपेक्षत्वम्, न तु स्थाल्यादिदृष्टान्तेन
सापेक्षत्वमित्यत्र नियमहेतुर्नास्तीत्युक्तम् । नियमान्तरहेत्वभावमाह—अयं च
प्रदीपप्रकाशदृष्टान्त
इति । यथा हि प्रमाणानि प्रदीपदृष्टान्तेन निरपेक्षाणि, एवं तेनैव
दृष्टान्तेन कस्मान्न प्रमेयाण्यपि ? ततश्च प्रमाणाभावप्रसङ्गः । न हि प्रमाणानामेव
प्रदीपो दृष्टान्तो न प्रमेयाणामिति नियमहेतुरस्ति । तदनेन यथायं प्रसङ्गः इति भाष्यं
व्याख्यातम् । प्रदीपप्रकाशो दृष्टान्तो भवतु इत्यनेनायमेव दृष्टान्तो नायमिति
नियमो निराकृतः । पूर्वेण तु प्रदीपदृष्टान्तेन निरपेक्षत्वमेव न तु स्थालीदृष्टान्तेन
सापेक्षत्वमित्ययं नियमो निराकृत इति न पुनरुक्तम् । प्रकाशकत्वादिना तु हेतुना
संगृहीतः प्रदीपदृष्टान्तो1473 नियतो भवतीति नानियमः शक्यो वक्तुम् । केवलं
प्रकाशकत्वं सजातीयान्तरानपेक्षत्वे साध्ये विकल्पनीयम् किमत्यन्तसजातीयमाहो
सजातीयमात्रम् यद्यत्यन्तसजातीयम् ततः सिद्धसाधनम् । न हि चक्षुरादि प्रमाणं
स्वग्रहणे चक्षुराद्यन्तरमपेक्षते । अथ कथञ्चित् सजातीयम्, तदपेक्षत्वमालोकस्या
प्यस्ति, तस्यापि चक्षुराद्यपेक्षत्वात् । ततश्च साध्यहीनो दृष्टान्तः, विरुद्धश्च हेतुः ।
विषयज्ञानमपि न विषयज्ञानेन गृह्यते, किंतु ज्ञानविषयेन ज्ञानेनेति नात्यन्तसजातीय
मिति । तदनोभिप्रायेण वार्त्तिककृता उक्तम्—अनेकान्त इत्ययं दोषो न भवति
दोषान्तरं तु भवतीत्यर्थः । 1474उत्तरग्रन्थस्तु सिंद्धान्तं दर्शयाद्भिरस्माभिरुपपादितार्थ इति
न व्याख्यातः । येन प्रयुक्तोऽनवस्थामुपाददीतेति 1475सोत्प्रासम् ॥ २० ॥


॥ इति सामान्येन प्रमाणपरीक्षाप्रकरणम् ॥

327

प्रत्यक्षलक्षणपरीक्षाप्रकरणम्


प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ २ । १ । २१ ॥


प्रत्यक्षकारणं1476 वानेन सूत्रेणोच्येत प्रत्यक्षस्वरूपं वा ? न तावत् प्रत्यक्षकारण
मित्याह—यदिदं भवता प्रत्यक्षलक्षणमुच्यत इति प्रत्यक्षकारणमित्यर्थः । कारणे
सति कार्यं ज्ञानं लक्ष्यते प्रज्ञायत इति1477 । द्वितीयकल्पं शङ्कते—अथेति । सिद्धान्तवाद्याह
नोभयथापीति । लक्षणपक्ष एव सिद्धान्तिनोऽभिमतः । कारणपक्षाभ्युपगमस्तु
प्रौढिवादेन द्रष्टव्यः । सकलप्रत्यक्षव्यापकमसाधारणं कारणमवधार्यते । न हीदृशमन्यत्
कारणमात्ममनःसंयोगो वा, इन्द्रियमनःसंयोगो वा प्रत्यक्षस्यास्ति पूर्वस्य साधारणत्वाद्
उत्तरस्य चाव्यापकत्वादिति । समाधानान्तरमाह—अर्थतो वा इत्यादिना मनः
सन्निकर्षोऽपि कारणम्
इत्यन्तेन । तदेवं सिद्धान्तसारमुक्तत् ॥ २१ ॥


नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥ २ । १ । २२ ॥


नात्ममनसोरित्यादिसूत्रमपठित्वैव भाष्यकारो व्याचष्टे—न चासंयुक्ते द्रव्ये
इति ।
सर्वं हि कारणजातं कार्योपजननाय परस्परसमबधानमपेक्षते, अन्यथा यत्र तत्र
व्यवस्थितेभ्योऽपि कारणेभ्यः कार्यमुपजायेत । तदात्मनापि मनःसंबद्धेन कार्यं
जनयितव्यम् । संबन्धश्चात्ममनसोः संयोग एव । भवतु वा संयोगजं ज्ञानम् ।
अथेन्द्रियात्मसंयोगजं कस्मान्न भवति, कृतं मनःसंयोगेनेत्यत आह—मनःसन्निकर्षेति ।
तस्मादात्ममनःसन्निकर्षोऽपि वक्तव्य इति पूर्वः पक्षः । तदिदं1478 नात्मनसोः
सन्निकर्षेत्यादिसूत्रपाठस्य पुरस्तात् कृतभाष्यम् ।


तदेतद् वार्त्तिककारो भाष्यम् अनुभाष्य पूर्वपक्षसूत्रं पठति—


328

तदिदं सूत्रमिति । सूत्रार्थमाह—आत्ममनसोरिति । पूर्वपक्षस्य क्षण
मप्यवस्थानमनिच्छन्1479, वार्त्तिककारः प्रतिषेधमस्योक्तं स्मारयति—न,
उक्तेति
॥ २२ ॥


दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥ २ । १ । २३ ॥


तदेवं द्वाभ्यां सूत्राभ्यां पूर्वपक्षिते सति भावमात्रेण इन्द्रियार्थसन्निकर्षा
दीनामनेन कारणत्वमुक्तमिति मन्यमानः1480 पार्श्वस्थः प्रत्यवतिष्ठते—सति चेन्द्रियार्थेति ।


दिग्दे…ङ्गः । न सति भावमात्रेण कारणत्वम् । आकाशादीनामपि कारणत्वप्रसङ्गात् ।
तादृशश्चात्ममनः संयोग इन्द्रियार्थसन्निकर्षश्चेति न कारणं युक्तमित्यर्थः । दूषयति—
अकारणभावेऽपीति । नान्वयमात्रात् कारणत्वनिश्चयोऽपि त्वन्वयव्यतिरेकाभ्याम् ।
न च दिगादावस्ति व्यतिरेकः । नित्यत्वविभुत्वाभ्यामवर्जनीयः सन्निधिः ।
सेन्द्रियशरीरवर्त्यात्ममनःसंयोगस्त्वन्वयव्यतिरेकावधृतसामर्थ्यः, सुप्तस्य
ज्ञानानुत्पादात् । इन्द्रियार्थसन्निकर्षे त्वसति विप्रकृष्टे व्यवहिते च ज्ञानं न जायते ।
इन्द्रियमनःसन्निकर्षाभावे तु नायुगपज्ज्ञानानि भवन्ति । तस्मात् नाकाशादिभिरतिप्रसङ्ग
इति ।


तदेतद् वार्त्तिककारो व्याचष्टे—ये च सति भावात् कारणभावं वर्णययन्ति
पूर्वपक्षिणः सिद्धान्तिनो वा, असति न भवतीति दैवादागतो व्यतिरेको न तु
प्रयोजकः, तान् प्रति पार्श्वस्थो ब्रूते तेषां दिग्देशेति । यथा चान्द्रमसं रूपमिति ।
यद्यपि तत्रापि तेजस्यौष्ण्यमस्ति तथाप्यत्यन्ताभिभवेन स्वेचितार्थक्रियानुपयोगाद
सत्कल्पत्वमित्यर्थः ॥ २३ ॥


329

ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥ २ । १ । २४ ॥


एवं पार्श्वस्थे निरस्ते पूर्वपक्षी ब्रूते—यद्येवमिति । सिद्धान्त्याह—नोपसंख्येय
इति ।


ज्ञान…धः । अत्र ज्ञानस्यात्मलिङ्गत्वमुच्यते । ज्ञानं तावत् कार्यमनित्यत्वाद्
घटादिवत् । क्वचित् समचेतं च कार्यत्वाद् घटवत् । न च तत् पृथिव्याद्याश्रितं
मानसप्रत्यक्षत्वात् । यत् पुनः पृथिव्याद्याश्रितं तत् प्रत्यक्षान्तरवेद्यमप्रत्यक्षमेव वा । न
च तथा ज्ञानम्, तस्माद् द्रव्याष्टकातिरिक्ताश्रितम् । तदाश्रयश्च द्रव्यजातीयः
समवायिकारणत्वादाकाशवत् । तस्य च विभुत्वमात्मलक्षणेऽस्माभिरुक्तम् । अतो
गुणजातीयं ज्ञानं कार्यत्वे सति विभुद्रव्यसमवायात् शब्दवत् । एवं व्यवस्थिते
प्रश्नोत्तरे वार्त्तिकगते व्याख्यातव्ये ॥ आत्मसमवायादिति कार्यत्वे सति विभु
द्रव्यसमवायादित्यर्थः । विभुद्रव्यसमवाय एव तस्यासिद्ध इति चेदत1481 आह—
पृथिव्यादिगुणः स्वसंवेद्यत्वात्,
मानसप्रत्यक्षवेद्यत्वादित्यर्थः । स्वपरसंवेद्यं1482
प्रत्यक्षान्तरवेद्यं द्रष्टव्यम्, अन्यथा पृथिव्यादिगुणेन द्वित्वादिना व्यभिचारः स्यादिति ।
तस्मात् ज्ञानलिङ्ग आत्मा । न चासावसंयुक्तो ज्ञानं जनयति, तस्य सदातनत्वेन सदा
ज्ञानोत्पादप्रसङ्गात् । तस्मात् संयोगभेदं कादाचित्कमपेक्षत इति अर्थात् सिद्ध
आत्ममनः संयोग इति न सूत्रकृता उक्तः । प्रौढिवादितयैष1483 समाधिरिति दर्शयितु
मुक्तमेव परमं समाधिं स्मारयति—उक्तं चात्रेति ॥ २४ ॥


तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥ २ । १ । २५ ॥


अन्यार्थमिति प्रमेयभूतमनःस्वरूपप्रतिपादनार्थम् । अन्यार्थस्यापि तदर्थ
प्रकाशकत्वम् । उपपत्ति
र्लिङ्गम् । ईदृशं हि तल्लिङ्गं यदन्यार्थमपि मनसो ज्ञान
330 कारणत्वं प्रतिपादयतीति । न हि ज्ञानं स्वतन्त्रं येन स्वकारणं मनो नापेक्षेत, नापि
चक्षुरादि स्वतन्त्रं ज्ञानोपजनने येन मनो ज्ञानकारणं न स्यादित्याह—न च
चक्षुरादीति ।
तस्मादर्थप्राप्तत्वादात्ममनःसंयोग इन्द्रियमनःसंयोगश्च नोक्तौ
सूत्रकारेण ॥ २५ ॥


प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ॥
२ । १ । २६ ॥


देशयति—अथ कस्मादिति । इन्द्रियार्थसन्निकर्षेऽप्यर्थतः प्राप्तिरविशिष्टेति
भावः ।


प्रत्य…नम् । परिहरति—प्रत्यक्षेति । सर्वानभिधाने हि प्रत्यक्षं न लक्षितं
स्यादिति तल्लक्षणाय किञ्चिद् वक्तव्यम् । तत्रेन्द्रियार्थसन्निकर्ष एव वक्तव्यः
समस्तप्रत्यक्षव्यापकत्वात्, नेतरौ अव्यपकत्वादतिव्यापकत्वाच्चेति परमः
समाधिः ॥ २६ ॥


सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥
२ । १ । २७ ॥


ज्ञानोत्पत्तेरिति सूत्रशेषः । प्रणिधाय संकल्प्य प्रदोषे सुप्तोऽर्धरात्रे
मयोत्थातव्यमिति सोऽर्धरात्र एव प्रबुध्यते । प्रबोधज्ञानमिति, प्रबोधे निद्राविच्छेदे
सति तीव्रस्पर्शस्य1484 ज्ञानं प्रबोधज्ञानमित्यर्थः । सुप्तमनसामिति व्याख्याय
व्यासक्तमनसामिति1485 व्याचष्टे—एकदा खल्वयं विषयान्तरेति ॥ २७ ॥


331

तैश्चापदेशो ज्ञानविशेषाणाम् ॥ २ । १ । २८ ॥


प्राधान्ये च हेत्वन्तरम्—


तैः…णाम् । इन्द्रियैर्व्यपदेशं विग्रहसमासाभ्यां ज्ञानस्य दर्शयति—घ्राणेनेति ।
इन्द्रियविषयसंख्यावरोधात् तज्ज्ञानस्य1486 तद्व्यपदेश इत्याह—इन्द्रियेति । वार्त्तिकम्
यच्चासाधारणं तेनेति ।
दिगादिरप्युपाधिकल्पितेन प्राचीत्वादिना कार्यं विशेषयन्
असाधारण एवेत्यमिप्रायः ॥ २८ ॥


व्याहतत्वादहेतुः ॥ २ । १ । २९ ॥


अनेन प्रबन्धेनेन्द्रियार्थसन्निकर्ष एवं कारणं ज्ञानस्य न त्वात्ममनःसन्निकर्षो न
मन इन्द्रियसन्निकर्षो वा ज्ञानकारणमनेनोक्तमिति मन्वानो देशयति—व्या…तुः ।


व्याहतत्वादिति पूर्वपक्षसूत्रम् । अस्य तात्पर्यमाह वार्त्तिकारः—अनेनेति ।
नन्वियं त्रिसूत्री इन्द्रियार्थसन्निकर्षस्य प्राधान्यमाह न पुनः संयोगान्तरस्य कारणत्वं
प्रत्याचष्ट इत्यत आह—इयं किलेति । कारणत्वं प्रतिषेधतीत्यभिमानः पूर्वपक्षिण
इत्यर्थः । दृष्टव्याघात इति, अयौगपद्यं दृष्टं तस्य व्याघात इत्यर्थः । शेषं तु
भाष्यव्याख्यया गतार्थमिति1487 ॥ २९ ॥


नार्थविशेषप्राबल्यात् ॥ २ । १ । ३० ॥


परिहारसूत्रम्—ना…त् ।


अनेनेन्द्रियार्थसन्निकर्षस्य प्राधान्यमात्रमुच्यते, न त्वात्मममनःसंयोगस्येन्द्रियमनः
संयोगस्य वा अकारणत्वमुच्यत इति न व्याघात इत्यर्थः । पृच्छति—असति संकल्पे
332 प्रणिधाने चेति । प्रयत्नः प्रणिधानम् । संकल्प इच्छा । उत्तरम्—यथैवेति । नन्वस्य
जात्यायुर्भोगनिमित्तत्वमवगतम्, न तु मनःप्रेरकत्वमपीत्याह—तेन ह्यप्रेर्यमाणे
मनसीति ।
भोगो ह्यदृष्टस्य प्रधानं प्रयोजनं तन्नान्तरीयकतया जन्मायुषी अप्याक्षि
पति । स्वसंबन्धिसुखदुःखसाक्षात्कारश्च भोगः । तदायतनं च शरीरम् । अप्राप्तं च
मनो न तत्र भोगं च भोगविषयौ सुखदुःखे च तयोः कारणं च ज्ञानं जनयितुमर्हतीति
नूनं तत्र प्राप्तिहेतोर्मनःकर्मणः कारणमदृष्टं वक्तव्यम् । अन्यथास्य सर्वद्रव्य
गुणकर्मकारणता न स्यात् । मा भूत् सर्वार्थतेत्यत आह—एषितव्यं चास्येति । अणूनां
विशेषणं भूतसूक्ष्माणाम् इति ॥ ३० ॥


॥ प्रत्यक्षलक्षणपरीक्षाप्रकरणम् ॥

प्रत्यक्षस्यानुमानत्वपरीक्षाप्रकरणम्


प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ॥ २ । १ । ३१ ॥


अतः परमिदानीमिति । न ह्यवयवी नाम कश्चिदर्थान्तरभूतोऽवयवेभ्योऽस्ति,
अपि त्ववयवा एव परमार्थसन्तः । तेषु च कतिपयानवयवान् गृहीत्वा तत्सह
चरितानवयवाननुमाय प्रतिसंधानजेयं वृक्षबुद्धिस्तानेवावयवानालम्बमानानुमान
मिति प्रत्यक्षस्यानुमानेऽन्तर्भावाद् विभागसूत्रेण न्यूनाधिकसंख्याव्यवच्छेदो
नोपपद्यत इत्यर्थः ।


निराकरोति—न, यथासंभवं विकल्पानुपपत्तेः । एकदेशो ह्यवयविन आधार
इति । एकश्चासौ देशश्चेत्येकदेशः । देशश्चाधारो न चाधेयो ह्यवयवीति कथमाधार
इत्यर्थः । अहो शब्दार्थकौशलमिति शब्दे चार्थे च1488 कौशलमित्यर्थः । अर्थे तावद
कौशलमाह—अकार्येति । कार्यस्यैकस्य कारणानां तदेव कार्यं कर्तुं परस्पर
प्रत्यासत्तिर्भवति, यथा मृद्दण्डचक्रसूत्राणां घटे कार्ये जनयितव्ये प्रत्यासत्तिः ।
333 कार्यणां चैकसामग्रीजन्मनां परस्परप्रत्यासत्तिः, यथा रूपरसगन्धस्पर्शानाम् । कार्य
कारणयोर्वा यथाग्निधूमयोः । येषां तु न कार्यकारणभावो, नैककार्यत्वं वा, नैककारणत्वं
वा, तेषां कुतो नियमवती प्रत्यासत्तिरित्यर्थः । शब्दाकौशलमाह—न च परस्परेति ।
अवयविनं दधदवयवान्तरमवयवान्तरमपेक्षते, ततश्चावयवाः परस्परोपकारिणो
भवन्ति । अवयव्यभावे तु न परस्परोपकारिणः, कथमवयवा इत्यर्थः ।


न चावृक्षप्रतिसन्धानजेति । स्वस्तिमतीं हि गां गृहीत्वा कालाक्ष्यां गवि
गौरिति प्रतिसन्धानं दृष्टम्, न त्वश्वं गृहीत्वाश्वान्तरे गौरिति प्रतिसन्धानं दृष्टम् । तत्
कस्य हेतोः ? तयोरगोत्वात् । एवमर्वाग्भागपरभागाणामवृक्षत्वाद् वृक्ष इति प्रतिसन्धानं
न भवेदित्यर्थः । यद्युच्येत मा भूद् वृक्षरूपधर्मिग्रहः पूर्वम्, अर्वाग्भागं तु धर्मिणं
वृक्षविशिष्टमनुमाय1489 प्रतिसन्धास्यतीत्यत आह—न चानुमानम् । कस्मादित्यत आह—
अनुमान इति । नायमनुमाता पूर्वमनुपलभ्याग्निमनुमानेन च धूमस्य विशेषणमग्निं
प्रतिपद्य प्रतिसंधत्ते अयं धूमोऽयं चाग्निरिति । अथ पूर्वं प्रतिसन्धानं पश्चादनुमानमित्यत
आह—न च प्रतिसंधायेति । प्रतिसन्धानसमय एवाग्नेरवगतत्वाद् भवितव्यमत्राग्निनेति
व्यर्थमनुमानं स्यादित्यर्थः । अभ्युपेत्याह—प्रतिसंधायापि चेति ।


किं चार्वाग्भागमयमिति । स भागवान् भागो न भवति किं तु भाग्येव ।
कस्मान्न पश्यतीत्यत आह—नार्वाग्भागपरभागौ संबद्धौ । एकावयविसमवायेन
हि परस्परसंबद्धौ स्याताम्, न चावयव्यस्ति, नापि संयुक्तौ संयोगस्याप्यवय
विनिरासमार्गेणापास्तत्वादित्यर्थः । पृच्छति—कथं पुनरिति । उत्तरम्—नित्यमर्वाग्
भागेनेति ।
संबन्धस्तावन्नास्तीत्युक्तमेव । तमभ्युपेत्य तूत्तरम्—सत्यं संबद्धाविति ।
सत्यपि संबन्धे अशक्यग्रहोऽसावित्यर्थः । सत्यं संबद्धावित्ययमभ्युपगमवाद एव ।


यच्चेदमुच्यते प्रतिसन्धानप्रत्ययजेति । पूर्वं सत्यपि वृक्षे अवयवानाम
वृक्षत्वान्नावययेषु प्रतिसन्धानजा वृक्षबुद्धिरित्युक्तम् । संप्रति तु वृक्षस्यासत्त्वेन
नावयवेषु वृक्ष इति प्रतिसन्धानमित्यपौनरुक्त्यम् । रूपं च मयोपलब्धं रसश्चेति ।
334 य एवोपलब्धा रसप्रत्ययोपरञ्जितः स एव रूपप्रत्ययोपरञ्जित इत्यर्थः । प्रमाणस्य
यथाभूतार्थपरिच्छेदकत्वादिति ।
यथा भ्रान्तमप्यनुमानमर्थसंबन्धेन प्रमाणमिति न
भवति तथा प्रथमेऽध्याये दर्शितम् । प्रधानानुकारेण भ्रान्तिरिति विपरीतख्यातौ
सत्याम् । सा चोपपादिता प्रथमाध्याये ।


न, तथाशब्दस्यार्थानाभिधानदिति । कः पुनरयं तथाशब्दार्थः, परमाणूनां
रूपं वा नैरन्तर्यं वा संयोगभेदो वा उत्पादभेदो वा ? यदि रूपमात्रम्, तद्
घटादिष्वपीति तेष्वपि वृक्षबुद्धिः स्यात् । अथ रूपभेदः, क्षणान्तरेणावृक्षः1490 स्यात्,
न हि तत् पूर्वं रूपम् । अथ नैरन्तर्यम्, तद् घटादिष्वप्यस्ति । न वा क्वचिदपि
गन्धरसरूपस्पर्शपरमाणुव्यवधानात् । न संयोगो भवद्भिरास्थीयत इति कुतस्त
द्भेदः ? उत्पादभेदोऽपि हि परमाणूनां रूपमेव । न हि परमाणुव्यतिरिक्तः कश्चिदस्ति
तेषामुत्पादः । 1491रूपं च पूर्वं विकल्पितम् । यदि हि क्वचिदवयवसन्निवेशो वास्तवः
पूर्वापरभागादिशब्दप्रवृत्तिहेतुरूपलब्धः स्यात्, ततस्तथाशब्दार्थः प्रतीयते । न तु
भवतां क्वचिदेष वास्तवः, वस्तुसतां परमाणूनामभागत्वादित्यर्थः । सामान्यतोदृष्टे
धर्मिविषयकमपि प्रत्यक्षं नास्तीति भ्रान्तः पृच्छति—कः सामान्यतोदृष्टस्येति ।
उत्तरम्—अयं विशेष इति । द्विकस्य प्रत्यक्षेण प्रसिद्धौ सामान्यतोदृष्टं प्रवर्तते त्रिकस्य
तु प्रत्यक्षेण प्रसिद्धौ प्रत्यक्षतो दृष्टमिति विशेषः । सर्वस्याप्रत्यक्षत्वाद् वृक्षबुद्धिस्तु
न प्रत्यक्षतोदृष्टादनुमानात् नापि सामान्यतोदृष्टादित्याह—भवत्पक्षे त्विति ॥ ३१ ॥


न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥ २ । १ । ३२ ॥


न प्रत्यक्षस्यानुमानता । कुतः ? यावदेकदेशभूतस्यार्थजातस्य ग्रहणम्


एक देशग्रहणादुपलब्धेः


इत्यत्र हेताविष्यते तावदपि प्रत्यक्षेण, अन्यथैकदेशग्रहणाभावेनानुमानानुदयात्,
335 अनुमानान्तरेण वा तद्ग्रहणेऽनवस्थापातात् । अतस्तावतोऽर्थजातस्य प्रत्यक्षेणोप
लम्भात् सर्वं प्रत्यक्षमनुमानमिति प्रतिज्ञा हेतुना एकदेशग्रहणादुपलब्धेरित्यनेन
बाधिता, एकदेशग्रहणस्य प्रत्यक्षेणानभ्युपगमे वा प्रमाणान्तरस्य तत्रानुपपत्तेरसिद्धो
हेतुः । सेयमुभयतः पाशा रज्जुरित्यर्थः । अनुमानेनैकदेशग्रहणात् नासिद्धो हेतुरित्यत
आह भाष्यकारः—न चैकदेशग्रहणमिति । अनुमितिः अनुमानम् भावयितुं कर्तुम् ।
अनवस्थाप्रसङ्गेन हेत्वभावादिति ।


तदेतत् सूत्रं वार्त्तिककारो व्याचष्टे—विरुद्धश्चायमिति । नन्वेकदेशप्रत्यक्ष
त्वेऽपि तन्मात्रं प्रत्यक्षं न तु सर्वं प्रत्यक्षं स्यादित्यत आह—न चैवं प्रतिज्ञायते
सर्वमिति । अप्रकारवदिति ।
अनुमानस्य हि त्रयः प्रकारा यादृशा न तादृशाः प्रत्य
क्षस्येति । त्रिकालविषयत्वाच्चेति । अनेन परोक्षार्थत्वं सूचयत्यनुमानस्य । प्रत्यक्षं
त्वपरोक्षार्थविषयम् । तस्मादपि भेद इत्यर्थः । लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफल
स्यापि प्रमाणस्य सतो लिङ्गलिङ्गिसंबन्धस्मृत्यनुग्रहोऽस्त्युत्पत्तौ । न त्वेवं प्रत्यक्षस्य
प्रमाणस्य सत1492 उत्पत्तौ वा कार्ये वा लिङ्गलिङ्गिसंबन्धस्मृत्यपेक्षेत्यर्थः ।


अन्यथापि चेत्यादि भाष्यं व्याचष्टे—इतश्चेति । न त्वेतदनुमानम् इत्यादि
भाष्यार्थ माह—इन्द्रियेति । इन्द्रियसंबन्धाच्चार्थस्य प्रत्यक्षमुत्पद्यते, न त्वनुमानमेव
मित्यर्थः ।


अपि चावयविनोऽसत्त्वं मन्यमानेन त्वयैकदेशमात्रोपलब्ध्या वृक्षबुद्धेरनुमान
त्वमुक्तम् । न त्वियमेकदेशमात्रोपलब्धिरपि तु तस्य च तत्सहचरितस्य चावयविन
उपलब्धिलक्षणप्राप्तस्य सिद्धेरित्याह—न चैकदेशोपलब्धिरिति । तदेतद्भाष्य
मनुभाष्य वार्त्तिककारो व्याचष्टे—न चेति ।


अत्र देश्यभाष्यम्—अकृत्स्नग्रहणादिति चेत् ? उत्तरभाष्यम्—न कारणत
इति । देश्यविवरणम्—न चावयवा इति । एकदेशग्रहणनिवृत्त्यर्थं हि त्वया
अवयविग्रहणमास्थीयते । न चैतावता कृत्स्नग्रहणसंभवो यत एकदेशग्रहणनिवृत्तिः
336 स्यात् । न ह्यवययविग्रहणेऽप्यवयवा कृत्स्ना गृहीता भवन्ति, नाप्यवयवी,
तस्यार्वाग्भागस्य ग्रहणेऽपि मध्यपरभागस्थस्याग्रहणादिति देश्यभाष्यार्थः ।


तदेतद् भाष्यं वार्त्तिककारो व्याचष्टे—नावयविन उपलब्धिरिति । यत् खलु
बहुषु वर्तते तत् प्रत्येकं परिसमाप्त्या1493 वा यथा कलविङ्ककण्ठगुणः, एकदेशेन वा
यथास्रक्सूत्रं कुसुमेषु । न च कृत्स्नैकदेशाभ्यां प्रकारान्तरमस्ति । अनयोरन्यतर
निषेधस्यान्यतरविधाननान्तरीयकत्वात् नित्यत्वानित्यत्ववदिति । न चैकत्र
कृत्स्नसमाप्तावन्यत्र तस्यैव संभवः । तथा सति कृत्स्नसमाप्तेरसंभवात्1494 । तस्माद्
योऽवयवान्तरे दृश्यते नासाववयवी । तथा चावयवा एवेति प्राप्तमित्यपि द्रष्टव्यम् ।
ह्मस्य कारणव्यतिरेकेणेति ।
यदि ह्येकदेशान्तराण्यस्य स्युः, ततस्तेष्वपि
वृत्तावेकदेशान्तरकल्पनायामनवस्थाप्रसङ्ग इत्यर्थः । पूर्वपक्षवाद्येव प्रश्नपूर्वकं
क्रियातिपत्तिमाह—अथोपलभ्यमान इति ।


उत्तरभाष्यविवरणपरं भाष्यम्—कृत्स्नमिति वै खल्वित्यादि । तदेकग्रन्थतया
अङ्ग तु भवानित्यादि संबोधनोपक्रमं भाष्यं व्यवस्थितम् ।


तदेतद् वार्त्तिककारो व्याचष्टे—एकस्मिन्निति । अयमभिसन्धिः । यत् तावत्
कुसुमेषु सूत्रमेकदेशेन वर्तमानं दृष्टमिति तदनुपपन्नम् । यदि कुसुमेषु सूत्रावयवा
वर्तन्ते किमायातमवयविनः सूत्रस्य ? न ह्यन्यस्मिन् वर्तमाने अन्यद् वर्तत इति
युक्तम्1495 । न चावयविनोऽभावे भवत्येतदपि सूत्रमवयव्यवयवैर्वर्तत इति । अथ मा
भूत् सूत्रं नामावयवी एकदेशास्तु कुसुमेषु वर्तन्त इति ब्रूमः । तथा च सति
नैकमनेकत्रैकदेशेन वर्तते किं त्वनेमनेकत्रेति । तथा च कुसुमपरमाणावेकस्मिन्
सूत्रपरमाणुरेको वर्तत इत्युक्तं भवति । न च वृत्तिरपि परमाणुभ्यामतिरिच्यते यतो
भवति वर्तत इति । तस्मात् निरन्तरोत्पाद एव परमाण्वोर्वृत्तिरिति व्यवहर्तव्यः, न पुनः
परमाणुस्वरूपातिरिक्ता काचिद् वृत्तिरस्ति वस्तुसती । एतेन कलविङ्ककण्ठगुणवत्
प्रत्येकं कृत्स्नपरिसमाप्तिर्वृत्तिरित्यपि व्याख्यातम् । तथा च वृत्तेरभावादेकदेशेन वा
337 कार्त्स्न्येन वा वर्तत इति रिक्तं वचः । यथालोकप्रत्ययं तु वृत्तेरभ्युपगमे सूत्रं कुसुमेषु
नैकदेशेन वर्तते किन्तु तदेकदेशाः सूत्रं च कुसुमेषु वर्तत इति लौकिकोऽनुभवः ।
तत्र सूत्रस्य वृत्तिः कुसुमेषु नैकदेशेन, नापि कार्त्स्न्येन किं तु स्वरूपतः । एवम
वयवेष्ववयविनोऽपि स्वरूपत एव । इयांस्तु विशेषो यत् सूत्रस्य कुसुमेषु वृत्तिं प्रति
सन्ति भागा अपीति सूत्ररूपं च भागाश्च कुसुमेषु वर्तन्त इति । अवयविनस्तु
स्वावयवेषु वृत्तिं प्रति नावयवान्तराणि सन्तीति रूपमात्रेण तत्र वर्ततेऽवयवीति ।
तस्मात् न किञ्चित् क्वचित् कार्त्स्न्येन एकदेशेन वा वर्तमानं दृष्टमिति तयोर्वृतिं प्रति
व्यापकत्वमसिद्धम् । रूपस्यैव तु व्यापकत्वम् । तच्चावयविन्यप्यस्तीति
व्यापकानुपलब्धेरसिद्धेर्नावयविनोऽवयवेषु वृत्तिनिवृत्तिरिति सिद्धम् । यथा च
कृत्स्नैकदेशशब्दौ नावयविरूपे प्रवर्तेते तथोक्तं वार्त्तिककृतेति । नैकदेशेन वर्तते,
न कार्त्स्न्येन वर्तते, अथ च वर्तत इति कैषा वाचो युक्तिः ? यद् यथाभूतं वस्तु तत्
तथा निर्दिश्यत इत्येषेति योजना ।


उभयेन व्याघातादिति । एकस्यानेकवृत्तेरेकदेशेन कार्त्स्न्येन च व्याघात
इत्यर्थः । स एव हि धर्मो विकल्प्यते यो विकल्प्यमानो धर्मिणं न बाधते । यथा शब्दो
नित्योऽनित्यो वेति । यस्त्वधिकरणं धर्मिणमेव बाधते नासौ धर्मविकल्पो
न्याय्यः, आश्रयस्याप्रसिद्ध्या तस्यानुपपत्तेरिति ।


यस्तु मन्यते यत् सत् तत् सर्वमनवयवम्, यथा विज्ञानम् । सच्चेदं
नीलाद्यनुभूतावसितमिति स्वभावहेतुः, सत्तामात्रानुवर्तित्वाद् अनवयवत्वस्य । तथा
हि एकस्य सत्त्वं विरुद्धधर्मासंसर्गेण व्याप्तम् । तद्विरुद्धश्च विरुद्धधर्मसंसर्गो
नीलादीनां सावयवत्वे प्रसजन् स्वविरुद्धं विरुद्धधर्मासंसर्गं निवर्तयंस्तद्व्याप्यं
सत्त्वमपि निवर्तयति । तथा हि पाण्यादिकम्पे तत्स्थानोऽवयव्यपि कम्पत इति तस्य
जङ्घादिष्वप्यवयवेष्वविशेषावस्थानस्याप्यवयविनः कम्प उपलभ्येत । न चोपलभ्यते,
तस्मात् स एव तदानीमेव कम्पते न कम्पते चेति विरुद्धधर्मसंसर्गः । अथावयवेषु
कम्पमानेष्वपि नावयवी तत्समवेतः कम्पते, ततश्चलाचलयोर्वस्त्रोदकवद्
338 युतसिद्धिप्रसङ्गः । एवम् एकस्य1496 चावयवस्यावरणे तत्तदवस्थानोऽवयव्यावृत इति
अवयवान्तरस्थानस्याप्यावरणप्रसङ्गः, अभेदात् । न वास्य क्वचिदप्यावरणमित्यविकलो
दृश्येत । अवयवस्यावरणं नावयविनस्तस्यान्यत्वात् । न ह्यन्यस्यावरणेऽन्यदावृतं
भवत्यतिप्रसङ्गादिति चेत् ? न, अर्धावरणेऽप्यनावृतत्वादवयविनः प्राग्वदविकल
ग्रहणप्रसङ्गः । अवयवदर्शनद्वारेणावयविनो दर्शनाददृष्टावयवस्यावयविनोऽप्रति
पत्तिरिति चेत् ? न, विकल्पासहत्वात् । किं सर्वावयवदर्शनद्वारेणावयविनः प्रति
पत्तिरुत कतिपयावयवदर्शनद्वारेण ? पूर्वस्मिन् कल्पे नावयवी कदाचिदपि दृश्येत ।
न ह्यसर्ववित् सर्वावयवोपलम्भक्षमः, अर्वाग्भागेन मध्यपरभागयोर्व्यवधानात् ।
कतिपयदर्शनेन तु तदभिव्यक्तौ अल्पावयवदर्शनेऽपि बह्ववयवदर्शनवत् स्थूलोप
लम्भप्रसङ्गः । रक्ते चैकस्मिन्नवयवे तत्स्थानोऽवयव्यपि रक्त इत्यवयवान्तरेऽपि
तस्याभेदाद्रागोपलम्भप्रसङ्गः । अवयवमात्ररागे वा तत्स्थानस्यावयविनो रूपमरक्तं
दृश्येत, सोऽयं विरुद्धधर्मसंसर्ग इति ।


तदनेनाभिप्रायेण वार्त्तिककारो ग्रहणाग्रहणलक्षणेन विरुद्धधर्मसंसर्गेण सर्वानेव
विरुद्धधर्मसंसर्गानुपलक्षयति—ग्रहणाग्रहणेति । निराकरोति—न भेद इति । इदं
तावदत्र वक्तव्यम्, यद्यनुभूतावसितं नीलमनवयवत्वेन साध्यते ततः सिद्धसाधनम् ।
नो खलु रूपविशेषो नीलादिरस्माकमपि सावयवो गुणत्वात् । तदाश्रयो घट इति
चेत् ? ननु घट इत्यपि च रूपरसगन्धस्पर्शा एवार्थक्रियाकारिणः 1497तथा व्यपदिश्यन्ते
ते च गुणत्वेन निरवयवा एव न तु तदाश्रयोऽस्ति द्रव्यं1498 नाम । अथ परसिद्धं द्रव्यं
रूपाद्याश्रयं पक्षीकृत्य परसिद्धेनैव तस्य सत्त्वेनानवयवत्वं साधयति । सोऽयम
सिद्धमसिद्धेन साधयन् महानैयायिकत्वमात्मनो दर्शयति । न हि स्वयमप्रतीतौ
हेतुधर्मसाध्यधर्मिणौ परप्रत्यायनाय कल्पेते । यदाहुः


योऽपि तावत् परासिद्धः स्वयं सिद्धोऽभिधीयते ।

भवेत् तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ॥ इति ।

339

न च प्रसङ्गसाधनेऽप्येतद्1499 भवितुमर्हति । सत्त्वस्य1500 सावयवत्वेन विरोधाभावात् ।
न चैकस्य विरुद्धधर्मसंसर्गो1501 बाधकं प्रमाणम् । न तावदेकस्यावयविनो ग्रहणाग्रहणे,
अवयवावरणेऽपि तस्य कतिपयावयवावस्थानस्य ग्रहणादेव । न च बह्ववयव
स्थानस्य ग्रहण इव कतिपयावयवस्थानस्य ग्रहणे तादृशस्थौल्यानवभा
सादनवभासोऽवयविन इति साम्प्रतम् । परिमाणभेदो हि स्थौल्यमवयविधर्मः । न च
तस्य तादृशस्यानवभासेऽवयवी नावभासितो भवति । तस्य ततोऽन्यत्वात् ।
तस्मादिन्द्रियसन्निकर्षमात्रादवयावनो ग्रहणम् । इन्द्रियेणार्थस्य, इन्द्रियावयवैरर्थस्य,
इन्द्रियेणार्थावयवानाम्, इन्द्रियावयवैरर्थावयवानां सन्निकर्षात् परिमाणभेदग्रणमिति
सामग्रीभेदादवयवितत्परिमाणभेदयोर्ग्रहणाग्रहणे उपपद्येते । एतेनार्वाग्भागसहितस्य
ग्रहणेऽपि न मध्यभागपरभागसहितस्याग्रहणं कथञ्चिद् विरोधमावहतीत्युक्तं
भवति । न चावयवकम्पेऽप्यवयविनः कम्पो येनावयवान्तरेऽपि कम्पप्रसङ्गः,
भिन्नत्वादवयवावयविनोः । तथा सति युतसिद्धिप्रसङ्ग इति चेत् ? का पुनरियं
युतसिद्धिः ? किं भेदोऽवयवावयविनोः, आहोस्विदसंबद्धस्य विद्यमानत्वम् ? यदि
भेदः सोऽस्माभिरिष्यत एव । अथासंबद्धस्य विद्यमानत्वम्, तत् सत्यपि पृथग्गतिमत्त्वे
नावयविनोऽस्ति । जातः संबद्धश्चेत्येकः कालः1502 । तथा हि नावयवी अवयवा
संबद्धोऽस्ति । न हि जातिमान् जात्यसंबद्धोऽस्ति । न गुणकर्मणी द्रव्यासंबद्धे
स्तः । न च विशेषो द्रव्यासंबद्ध इति ।


ये त्वप्राप्तिसंयोगौ युतसिद्धिमाहुः, तैरवयवावयविनोरसंयोगे हेतुर्वक्तव्यः ।
अयुतसिद्धिरिति चेत् ? न, तस्या एवासंयोगेन बुभुत्सनादिति । रक्तारक्तत्वं च
नावयविन एकस्य, तस्यारक्तत्वादेव । तत्संयोगिनस्तु महारजनस्य रक्तत्वात् तस्य
च पटादरक्तादन्यत्वात् । पटो रक्त इति तु भ्रमः । न त्वनेन विभ्रमेण सर्वत्र भवित
व्यम्, तस्य महारजनयोगनिमित्तत्वात् । तस्य च पटवृत्तित्वात् । पटस्य च सर्वत्राविशेषात् ।
340 पटस्य वा क्वचिदसंयोगे संयुक्तासंयुक्तभेदप्रसङ्गः । न हि स एव तदैव तत्रैव भवति
न भवति चेति युज्यते । तस्मात् संयुक्तात् पटादन्योऽसंयुक्तः पट इति प्राप्तम् ।


अत्रोच्यते । एषा तावत् प्रमेयगतिः, भावाभावौ परस्पराभावात्मानौ1503 भावनिवृ
त्तिरेवाभावः । अभावनिवृत्तिरेव भावः । न तु भावाभावाभ्यामन्या तयोर्निवृत्तिः ।
तेन नैतयोः कदाचिदपि परस्परात्मत्वं भवितुमर्हति अदर्शनात् । एवमनयो
राश्रयैकत्वनानात्वे अपि यथादर्शनं व्यवस्थापनीये । यथा तस्यैव श्वैत्यस्य यदा
प्रासादे सद्भावस्तदैवाभावः काक इति । एवं च य एव कुम्भः श्यामः स एव
पश्चादग्निसंयोगादश्यामः । यः पुनरस्य परिमाणभेदो नासौ सति कुम्भे विनश्यति ।
तत्र किमेवमुच्यतां 1504परिमाणवत् श्यामतापि न नश्यतीति ? एवं प्रमेयवैचित्र्यं दर्शन
वैचित्र्यव्यवस्थापितं यथाभ्युपेयते, तथा तस्यैव संयोगस्य तस्मिन्नेवैकदा भावाभावौ
व्यवस्थापनीयौ तथैव दर्शनादिति । न हि दृश्यमानस्य दृश्यमानान्तरवैधर्म्येण
रूपमुपलभ्यमानं शक्यमपाकर्तुम् । मा भूद् दृश्यमानवैधर्म्येण दृश्यमानरूपान्तरा
पाकरणम्1505 अविशेषात् । तद्दर्शनानुरोधात् प्रमेयवैचित्र्यसिद्धेरुपपन्नः संयोगशब्द
बुद्ध्यादीनां तत्रैव तदानीमभावो भावश्चेति । अत एवैषामव्याप्यवृत्तित्वमास्थीयते ।
रूपादीनां तु न दृष्टस्तत्रैव तदानीमभावो भावश्चेति तेषां व्याप्यवृत्तीनां भावाभावौ
युगपदेकत्र विरोधिनाविति सिद्धो रक्तारक्तयोरेकत्राविरोधः सह दर्शनादिति ।


यत् पुनर्यदनेकवृत्ति तन्नाना, अनेकवृत्तिश्चावयव्यभ्युपगतः इति प्रसङ्गसाधनं
स्वभावहेतुः । नानात्वाभावादनेकवृत्तित्वाभाव इति च प्रसङ्गविपर्ययो व्यापकानुप
लब्धिरिति । तत्र ब्रूमः । एकत्वानेकवृत्तित्वयोरविरोधेन नानात्वस्य व्योपकत्वासिद्धेर्न
प्रसङ्गो नापि तद्विपर्ययः । यथैव नीले परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, अन्यथा
न नीलं परिच्छिन्नं स्यात् । एवं तदभावाविनाभावि पीतमपि नीलपरिच्छेदकं प्रत्यक्षं
व्यवच्छिनत्ति, तथैकावयवसंसर्गे अवयविनः परिच्छिद्यमाने तदभावो व्यवच्छिद्यते
तदभाववन्तश्चावयवान्तरसंसर्गा इति तेऽपि व्यवच्छेत्तव्याः । तदव्यवच्छेदे
341 तदभावोऽपि न व्यवच्छिद्येतेति स एव तदानीमेव तत्र भवेच्च न भवेच्चेति1506
दुर्घटमापद्येत । सोऽयमेकत्वानेकवृत्तित्वयोर्विरोध इति चेत् ? हन्त, भावपरिच्छेदे
तदभावो व्यवच्छिद्यत इति युक्तम्, भावपरिच्छेदलक्षणत्वात् तदभावव्यवच्छेदस्य ।
न हि भावादन्यस्तव भावाभावो नाम । भावान्तराणि तु कस्माद् व्यवच्छिद्यन्ते ?
तदभावाविनाभावादिति चेत् ? कुतः पुनरयं भावान्तराणां भावाभावाविनाभावः ?
पीतादिभावतादात्म्येन कदाचिदपि नीलस्य भावस्यानुपलम्भादिति चेत् ? यत्र
तर्ह्येकावयववृत्तेरप्येकस्यावयवान्तरेषु1507 वर्तमानस्य तादात्म्यं दृश्यते, न तत्रैका
वयवसंसृष्टाभावाविनाभावोऽवयवान्तरसंसृष्टस्य । तस्मान्नैकत्वनानावृत्तित्वयो
र्विरोधः । अपि चैकं विज्ञानमनेकै रूपचक्षुरालोकनमनस्कारैः कथं संबध्यते ?
संबध्यमानं वा कथमेकम् ? न वास्तवः कश्चित् कार्यकारणभावो नामास्ति
संबन्धः, प्रतीत्यसमुत्पादमात्रं तदिति चेत् ? अथ कस्माद् रूपाद्येव प्रतीत्य रूपज्ञानं
जायते न पुना रसाद्यपि ? स्वभाव एव तेषां तादृशो यतस्तानेव प्रतीत्य विज्ञानं जायते,
न पुना रासभादीनिति चेत् ? हन्त भोः स्वभावान् भिन्नान् प्रतीत्य कथमेको भावो
जायते ? को विरोधः ? न हि कार्यकारणयोस्तादात्म्यं येन कारणस्वभावानुरोधः
कार्यस्य भवेदिति चेत् ? तत् किमवयवावयविनोरप्यभेदः, समवायस्य वा ताभ्याम्,
येनावयवभेदेऽवयविनो वा समवायस्य वाभेदो भवेदिति समः समाधिः । तस्माद्
यद् यदवयविनि प्रमाणं वक्ष्यामः, तत्तदसति बाधकेऽप्रत्यूहमवयविनमवस्था
पयिष्यतीति सिद्धम् । यः पुनर्मन्यते अवयवसमुदाय एवावयवीति, तं प्रत्याह
भाष्यकारः—समुदाय्यशेषतेत्यादि । सुगमम् ॥ ३२ ॥


॥ इति प्रत्यक्षस्यानुमानत्वपरीक्षाप्रकरणम् ॥

342

अवयविपरीक्षाप्रकरणम्


साध्यत्वादवयविनि सन्देहः ॥ २ । १ । ३३ ॥


1508परं प्रत्यसिद्धत्वमेवावयविनः साध्यत्वम् । स खल्वेवं मेने संविन्निष्ठा हि
विषयव्यवस्थितिः । स एव च संविदा व्यवस्थाप्यते, यस्तस्या विषयः । स एव च
विषयो यः स्वाकारमस्यामर्पयति । न च निरन्तरोत्पन्नरूपादिपरमाण्वतिरिक्त
मवयव्याकारं बिभ्रतीं संविदमीक्षामहे, किं तु निरन्तरोत्पन्नरूपादिपरमाण्वाकाराणाम् ।
स्थौल्यं च न यद्यपि परमाणूनां प्रत्येकमस्ति तथापि प्रतिभासधर्मो बहुत्वादिवन्न
पुनवरवयविनमेकमवस्थापयितुमर्हति । यदाहुः सोऽयममूल्यदानक्रयी स्वाकारं च
ज्ञाने समर्पयति प्रत्यक्षतां च स्वीकर्तुमिच्छत्यवयवीति । तदेवं परं
प्रत्यवयविनोऽसिद्धेर्विप्रतिपत्तिः । ततः साधकबाधकप्रमाणाभावे सति संशय
इत्यर्थः । न साध्यत्वं स्वरूपेण संशयहेतुरिति मत्वा भाष्यकृद् आह—एवं च
सतीति ।
परासिद्धत्वे सतीत्यर्थः ।


साध्यत्वादिति यथाश्रुतं सूत्रं गृहीत्वा वार्त्तिककारो विकल्प्याक्षिपति—किं
पुनरत्रेति । कुतश्चिद्
हेतोः तस्य धर्मिण अभ्यनुज्ञानम् अङ्गीकारम् अर्हति
सर्वस्यैव हेतोराश्रयासिद्धत्वादिति1509 भावः । अथाव्यतिरेक इति, सत्येव धर्मिणि
तस्यावयवेभ्योऽभेदो धर्मः साध्य इत्यर्थः । अवयव्यपेक्षत्वादिति । पटमपेक्ष्य हि
तन्तवोऽवयवा भवन्ति, नो खलु रण्डाकरण्डावस्थितास्तन्तवोऽवयवा उच्यन्ते
इति । न च षष्ठीति । पटस्यावयवास्तन्तव इति न षष्ठी । तथा च पटस्येति
विशेषणाभावे अवयवत्वमात्रं हेतुः स्यात् । स च विरुद्ध इत्यर्थः । 1510अनर्थान्तरभावे
नावयवत्वमित्यस्योदाहरणम्—न तन्तुस्तन्तोरिति । षष्ठ्यर्थाभावे तूत्तरमुदाहरण
मिति । तन्तूनां तन्त्ववयवत्वं ब्रवीतीति । तच्छब्दस्य प्रधानपरामर्शित्वादित्यर्थः ।
343 अवयवशब्दस्य चेति । पूर्वं कारणमविवक्षित्वा अवयवशब्दस्य परापरशब्दवत्
संबन्धिशब्दतामात्रं गृहीत्वोक्तम् । संप्रति तु कारणत्वं विवक्षित्वोच्यत इत्यपौनरुक्त्यम् ।


देशयति—नैव हीति । असत् क्रियमाणं निर्वर्त्यम् । न चास्माकं सत्कार्यवादिनां
तदस्तीत्यर्थः । दूषयति—एतच्चेति । न हि पटाकारप्रत्ययस्तन्तुमात्रालम्बनो, रण्डा
करण्डावस्थितेष्वपि तन्तुषु प्रसङ्गात् । न च तन्तुपरिमाणभेदालम्बनः, तस्य पूर्वमपि
सत्त्वात् । असत्त्वे वा सत्कार्यवादव्याहतिप्रसङ्गात् तस्यैवासत उत्पत्तेः । तस्मात्
तन्तुष्वपटेषु पट इत्यकामेनापि मिथ्याप्रत्यय इति वक्तव्यम् । तथा च दूषणमिति ॥


प्रतिज्ञैकदेशश्चेति संयोगमात्रपक्षीकरणे इत्यर्थः । तान्येव तानीति तान्येवा
प्रत्यासन्नानि तानि प्रत्यासन्नानि, क्षणभङ्गपरिणामप्रतिक्षेपादित्यर्थः । यथा दण्डाद्यनेकं
कारणमिति
दण्डवेमाद्यनेकं कारणं घटपटादीनां कार्याणाम् । संयोगादिनिमित्ता
न्तरापेक्षमिति
संयोग आदिर्येषां निमित्तान्तराणां कुम्भकारकुविन्दादीनां तानि
निमित्तान्तराणि । अतद्गुणसंविज्ञानश्च बहुव्रीहिः यथा चित्रगुरिति । तेन साध्यस्यैव
दृष्टान्ततेति न दोषः । विमृश्यावधारयति—वयं तु ब्रूमो विभाग उत्पन्न इति ।
संयोगोऽनपेक्षकर्मकारणकः कर्मकार्यत्वाद् विभागवदिति स्थिते प्रतिबन्धकापगम
मात्रं विभागेन क्रियत इति सिध्यति । यथा वा संयोगः साधारणकार्यद्रव्येति । यदा
हि पटः पाट्यते तदा येषामवयवानामवस्थितानां संयोगानां पटाख्यं साधारणं कार्यं
तस्य साधारणस्य कार्यद्रव्यस्य पटस्य च तदसमवायिकारणानां च संयोगानां केषा
ञ्चिद् विनाशोत्तरकालमर्धपटारम्भे तेषामेवानपेक्षाणां कारणत्वम् । विभागस्तु
कर्मजन्यस्तत्र कतिपयसंयोगविनाशद्वारेण साधारणपटाख्यकार्यविनाशमात्रे व्याप्रियते ।
न तु विभागापेक्षा । अर्धपटे जनयितव्ये संयोगाः कारणमित्यर्थः ।


न हि प्रमाणमन्तरेणेति । मिथ्याज्ञानमपि प्रमाणपूर्वकं सम्यग्ज्ञानपूर्वकत्वाद्
विपरीरव्यातेरित्यर्थः । वृक्षस्थितिं भावयद्भिः पूर्वापरप्रत्ययैकविषयस्य वृक्षस्य
स्थितिं स्थिरतां विभावयद्भिरित्यर्थः ।


भेदादर्शनमिति आकारिभेदादर्शनम् । यथा घटपटावाकारिणौ भेदेन दृश्येते,
344 नैवमवयवावयविनौ नापि समवायसमवायिनावित्यर्थः । यस्मादयमुपनयः
अवयवाश्च तन्तवोऽवयवी च पट
इति । पूर्वमवयवाश्चेत्येतावन्मात्रं हेतूकृतं
संप्रति त्ववयवावयविनावित्यपौनरुक्त्यम् ।


अन्योऽवयवार्थ इति । अवयविनोऽन्योऽवयवशब्दार्थ इत्यर्थः । प्रदेशिनोऽन्यः
प्रदेशशब्दार्थ इत्यर्थः । तत्प्रदेशशब्दस्य व्यपदेशविषयत्वस्येति । तन्तवो हि पक्षीकृताः
प्रधानमिति तदिति सर्वनाम्ना हेतुगतेन ते परामर्ष्टव्याः । तथा च तन्तुप्रदेशस्य व्यप
देशविषयत्वं न तन्तूनामित्यसिद्धो हेतुरित्यर्थः ।


तेभ्यस्तूत्पत्तेरिति कल्पितस्य हेतोर्विवरणं तन्तुभ्यस्तूत्पद्यते पट इति ।


उभयेन व्याघातादिति । अभ्युपगमेनानभ्युपगमेनेत्यर्थः । द्रव्यान्तरेति
द्रव्यान्तरोत्पत्तिदेशव्युच्छेदो व्यवच्छेदः । यथा पटोत्पत्तिदेशादन्यो घटोत्पत्तिदेश
इत्यर्थः । व्यक्त्यादिधर्मभेदेनेति आदिग्रहणेनाविर्भावसंस्थानादय उच्यन्ते । ते च
कारणव्यापारात् पूर्वं नासन्निति जन्मापि तेषामपूर्वमित्यर्थः ।


यथा चक्रादिभ्यो रथावयवेभ्य इत्यर्थः ।


हिमवत्परमाणुकमिति । परमाणुग्रहणं सूक्ष्मद्रव्योपलक्षणार्थम् । न पुनः
परमाणोर्द्व्यणुकादन्यत्रारम्भसंभवः । न च विवादाध्यासितः परमाणुर्न महद्द्रव्य
मारभते, परमाणुत्वाद् द्व्यणुकारम्भकपरमाणुवत् । अमहत्त्वाच्च न हिमवत्परमाणुकं
प्रत्यक्षं स्यात् । तस्माद्धिमवद्धिमबिन्दुभ्यां संसर्गिभ्यां संयोगादवयविद्रव्यमारभते ।
महत्त्वं चास्यावयवमहत्त्वादुत्पद्यते । तथा च चाक्षुषत्वमस्य भवति । एवं
तोयदविमुक्तोदबिन्दूदधिसंयोगाद् द्रव्यान्तरोत्पत्तिः प्रतिपत्तव्या । भावोऽप्रत्यक्षः
स्यादिति ।
भावः सत्ता । ननु यथा संयोगः संयोगिद्वयनिरूपणाधीननिरूपण
स्तयोरेकस्यैवाप्रत्यक्षत्वे न प्रत्यक्ष एवमवयवाप्रत्यक्षत्वे नावयवी प्रत्यक्षः स्यादित्यत
आह—न चायं पक्ष इति । संसृज्यमाननिरूपणाधीननिरूपणो हि संसर्गो युक्तः, यत्
तदनिरूपणे न निरूप्यत इति । न त्ववयवी अवयवनिरूपणाधीनो यत् तेष्व
निरूपितेषु न निरूप्यत इति, त्र्यणुकस्यावयवाग्रहणेऽपि ग्रहणात् । एवं विदूरवर्तिनो
345 हस्तिवनस्पत्यादेरवयवाग्रहणेऽपि ग्रहणादिति भावः । न च तत्कृतोऽस्ति भेद इति,
न ग्रहणाग्रहणकृतो भेद इत्यर्थः ।


न हीन्द्रियमन्यस्य साङ्ख्यस्य अन्यथा सूक्ष्मत्वेन अर्थं प्रकाशयति ।
अन्यस्य नैयायिकस्य अन्यथा
स्थौल्येन अविकल्पत्वाद् ऐकरूप्येणावस्थानादिति ।


प्रत्यक्षप्रमाणविरोधादिति । महाभूतानां हि मूलकारणं परमाणवः परम
सूक्ष्माः । तेषामप्रत्यक्षत्वं मानसानुव्यवसायगम्यं परमसूक्षमविषयं मे प्रत्यक्षमिति ।
तदभावश्चात्मनि संयुक्तविशेषणेन मनःसन्निकर्षेण प्रत्यक्षविरोध इत्यर्थः ।


एके त्विति । यमेव हि त्र्यणुकं दृश्यं भवन्तोऽदृश्यावयवमाचक्षते, तमेव वयं
परमाणुमाचक्ष्महे1511 । न हि तदवयवकल्पनायामस्ति प्रमाणमिति भावः । कथमवगम्यते
भिद्यते त्रसरेणुरिति,
अङ्गुल्यग्राभ्यां मृद्यमानस्यास्यादर्शनं सूक्ष्मतयाप्युपपद्यते ।
जालसूर्यमरीचिस्थमेव हि तद्रजः कथञ्चिद् उपलभ्यते नान्यत्रेति भावः । द्रव्यत्वे
सतीति
सामान्यसमवायौ निवर्तयति । बाह्यग्रहणेनात्मानं निवर्तयति । अनित्य
त्वाच्चेति ।
अनन्तावयवत्वेन मेरुसर्षवयोरभिन्नपरिमाणत्वप्रसङ्गात् । महाभूत
मूलकारणमनवयवं कल्पितम्1512 । न च द्रव्यमनवयवं विनश्यति आकाशादिवदिति
नित्याः परमाणवः । त्रसरेणुस्त्वनित्य इति न परमाणुः । अनित्यत्वमेव कुत इत्यत
आह—सामान्यविशेषवत इति ।


संहतानामिति । रूपादीनां संघातः परमाणुरिति । न चासंहतप्रतिषेध इति ।
अप्रतिषेधे वा त एवासंहताः परमाणव इति भावः ।


संयुज्यते चायं विभज्यते च अयमवयव्यन्तरेणेति । न व्यतिरेक इति । यथा
भिन्नात् संयोगप्राप्त्यभावो व्यावृत्त एवमभिन्नादपि । न हि स एव तन्तुस्तेनैव तन्तुना
प्राप्यत इत्यर्थः । सर्पकुण्डलोदाहरणे अन्वयी हेतुरित्यर्थः । सत्त्वरजस्तमसां न
संयोगः किं तु तेषां स्वाभाविकः स कोऽपि परिणतिभेदो यतः संभूयकारित्व
मित्यर्थः ।


346

गुरुत्वान्तरकार्याग्रहणादिति । अवयवगुरुत्वाद् यत् गुरुत्वान्तरमवयविनः
तस्य यत् कार्यमवनतिविशेषस्तस्याग्रहणादित्यर्थः । सत्यमुपपादितः पक्षधर्म इति ।
कार्याग्रहणेन कार्याभावस्ततः कारणस्य गुरुत्वस्याभाव इत्यर्थः । प्रतिषेध्यं कार्य
गतं रूपादि । तद् अभ्यनुज्ञातं भवतीति ।
तथापि कुतः प्रत्यक्षविरोध इत्यत आह
कारणरूपादयश्चेति । चो हेतौ । एतेन कार्ये रूपादिप्रतिपत्तिः प्रत्युक्ता ।
दोषत्वेनेति1513
यदा हि कार्यमेवरूपादि नास्ति तदा कस्मात् तत्र रूपादिप्रतिपत्तिः
प्रतिषिध्यत इत्यर्थः । यथा रूपाद्यन्तरकार्यमिति । अवयविगतानां हि रूपादीनां
कार्यं रूपसंस्कारादवयविनश्चाक्षुषता एवं स्पृश्यतेति । उपन्यासः स्थापनम्1514


यद्यप्ययमवनमनविशेषाभावस्तुलाव्यधिकरणः, तथापि न शाब्दी तुला
संबन्धितास्य प्रतीयते किं त्ववनमनविशेषसंबन्धितेत्येतावतोक्तं—सोऽयमिति ।
असिद्धस्तावदिति एकदेशिनो
दूषणम् । तदेतदेकदेशिदूषणं दूषयति—
तद्वत्तानुपलब्धेः ।
परमार्थदूषणमाह—अयमपीति । गुरुत्वमात्रोपहितानाम्
द्रव्याणाम्1515 अवनमनविशेषं न करोति तुला ।


द्रव्यसमाहार इति कार्यकारणद्रव्यसमाहारः । मृत्कणमृच्चूर्णशर्कराकपाल
कुम्भसमाहार इत्यर्थः । ननु समाहारः कुम्भस्य कारणं तच्च ज्ञातेयद्गुरुत्वमेवेत्यत
आह—न चेति ।


ये त्वाहुः सर्वो मृत्कणादिः कुम्भपर्यवसानः कार्यसमूहः परमाणुष्वेव
समवैति, ते हि मृत्कणादिकमारभ्य मृच्चूर्णान्यारभन्त इति । प्रसङ्गात् तन्मतमपाकर्तु
मुपन्यस्यति—केचित् त्विति । निराकरोति—तान् प्रतीदमिति ।


गुरुत्वं चानुपतदिति । न च यथा प्रदीपाधीनप्रकाशा घटादयः, न तु प्रदीपः
प्रदीपाधीनप्रकाशः, तस्य स्वमहिमनिषिद्धतमोऽनुषङ्गत्वात् एवं गुरुत्वाधीनपाता
घटादयः । गुरुत्वं तु स्वस्य चान्येषां च गुरुत्वान्तरानपेक्षं पतनहेतुरिति वक्तव्यम् ।
न हि प्रदीपेन स्वात्मनि प्रकाशयितव्ये किञ्चिदन्यत् क्रियते । यादृशा घटादयः
347 स्वप्रकाशोत्पादे तादृशः प्रदीपोऽपि । चक्षुषः पुनरयं स्वभावभेदो येन घटादौ
प्रकाशयितव्ये प्रदीपमपेक्षते, न तु प्रदीपे प्रकाशयितव्ये प्रदीपान्तरमिति । तस्मान्न
प्रदीपस्य स्वात्मनि कर्मकरणभावः । गुरुत्वं तु द्रव्यगतस्य पतनकर्मणः करणम् । तेन
हि द्रव्यं पात्यते । स्वगतस्य तु पतनकर्मणः करणत्वे तदेव कर्म करणं चेति स्वात्मनि
वृत्तिविरोधः । आत्मनस्तु स्वात्मनि प्रकाशयितव्ये कर्तृत्वमेव, न तु कर्मत्वमित्युप
पादितमिति । तस्माद् गुणादयो विवादाधिकरणा न पतन्ति अद्रव्यजातीयत्वाद्
गुरुत्ववदिति सिद्धम् । सिद्धान्त्याह—वेद पुनरिति । कारणं प्रमाणम् । रूपादयो न
संयोगरूपप्राप्तिमन्तो गुणत्वात् संयोगवदित्यप्राप्तेः रूपादिषु विनिश्चयात् तददर्शन
निमित्तो रूपादिषु प्राप्तिभ्रमो द्रव्येषु प्राप्तिप्रत्ययः पारमार्थिक एवेति विनिश्चयः ।
तदनेनाभिप्रायेणोपसंहरति—तस्माद् व्यवस्थितमिति । शेषमतिरोहितार्थम् ॥ ३३ ॥


सर्वाग्रहणमवयव्यसिद्धेः ॥ २ । १ । ३४ ॥


स्यादेतत् । यथावयविनं नाभ्युपैति परः, एवं गुणकर्माद्यपि । तत् कथमयं
प्रसङ्गः परस्य सर्वाग्रहणमित्यत आह—तदिदं सूत्रमिति । योऽपि हि तावद् गुण
कर्मादि नेच्छति सोऽपि न तत्प्रत्ययमपह्नुते । अस्ति लौकिकपरीक्षकाणामवयवि
द्रव्यगुणकर्मादिप्रत्ययः । सोऽयमशक्यापह्नवः । तस्य च प्रत्यक्षत्वमुपपादितं प्रत्यक्ष
लक्षणे । अवयविद्रव्यबाधकानि च प्रमाणानि अधस्तान्निराकृतानि । सोऽयमसति
बाधके स्वयं च गुणादिभिश्च सहोपलभ्यमानो न शक्यो निराकर्तुमित्यधिकर
णार्थः ॥ ३४ ॥


धारणाकर्षणोपपत्तेश्च ॥ २ । १ । ३५ ॥


ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं साधयतः । कुतः ?
निरवयवे विज्ञानाकाशादौ अवयवे च परमाणौ चादर्शनात् इदमेवं प्रयोगमारोहति ।
348 योऽयं दृश्यमानो गोघटादिरवयवी परमाणुसमूहभावेन विवादाध्यासितः,
नासावनवयवी धारणाकर्षणानुपपत्तिप्रसङ्गात् । यो योऽनवयवी तत्र धारणाकर्षणे न
भवतः, यथा विज्ञानादौ न चायं गोघटादिरर्थस्तथा तस्मान्नानवयवीति ।


न च विरोध इति । व्यभिचारलक्षणो दोषो विरोधः । अवयविन एव ते
प्रत्येकमिति । परमाणुसमूहे तु प्रत्येकमपि न परमाणवोऽवयविन इत्यर्थः ।
विशेषहेत्वभावादिति । एवं हि विशेषहेतुः स्यात्, यद्यवयविनमन्तरेण क्वचिद्
विज्ञानाकाशादौ संग्रहश्चोक्तलक्षणो धारणाकर्षणहेतुता वास्य दृष्टा स्यात् । न चासौ
दृश्यते । काष्ठतृणोपलादयः प्रत्येकमवयविन एवेत्यर्थः ।


स्यादेतत् । अवयवित्वेन तुल्यत्वेऽपि कस्मादेकत्र धारणाकर्षणे नान्यत्रेत्यत
आह—पांशुराशीति । समूहमात्रत्वेन तुल्यत्वे सति यथा कश्चिद् विशेषहेतु
रेवमवयवित्वेन तुल्यत्वेऽपीति समानमित्यर्थः । तत्सहचरितस्य संबन्धः1516
स्नेहद्रवत्वकारित इति । तस्माद् भाष्यकारस्य सूत्रदूषणं परमतेन द्रष्टव्यम् ॥ ३५ ॥


सेनावनवद् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ॥ २ । १ । ३६ ॥


अथेदानीमन्वयिन इति, अन्वयव्यतिरेकिण इति । पटोऽयमित्येकविषया
बुद्धिरेकबुद्धिः । तन्तव इति नानाविषया बुद्धिरनेकबुद्धिः । समुच्चितासमुच्चित
विषयत्वादिति ।
असमुच्चितविषयत्वादेकबुद्धेः समुच्चितविषयत्वाच्चानेक
बुद्धेरित्याशङ्कात 1517उत्तरसूत्रम्—सेना…नाम् ।


तथोक्तमिति । बहुत्वसंख्यैव सेना वनं चेति । यस्तु मन्यते, सेना वनमिति
व्यपदेशाय तज्जनिताय वा विज्ञानाय बहुत्वसंख्या कथञ्चित् कारणं संभवति,
यस्त्वयमैन्द्रियकः प्रत्ययः प्रत्येकमसंगृहीतैकत्वेषु वृक्षेष्वनुत्पन्नापेक्षाबुद्धेर्द्रागित्येक
घनवनावगाही जायते तत्र कारणाभावेन बहुत्वस्यानुत्पादान्न बहुत्वसंख्यालम्बन
349 इति न परितुष्यति, तं प्रत्याह—अभेदप्रत्ययस्य चेति । उपलभ्यमानरूपेष्वेव
कुतश्चिन्निमित्तादनुपलभ्यमानपृथक्त्वेषु मिथ्याऽभेदबुद्धिर्भवति । न पुनः सर्वथा
नुपलभ्यमानेष्विति तात्पर्यार्थः । यस्तु नोभयपक्षसंप्रतिपन्नमस्ति जगति किञ्चिदेकमिति
मन्यते तं प्रत्याह—एकं नास्तीति ।


स्यादेतत् । दूरात् काष्ठलोष्टतृणपाषाणादयः प्रत्येकं पृथक्कृता नोपलभ्यन्ते ।
समुदायस्तु तेषां दृश्यते । न च ते द्रव्यान्तरमारभन्ते विजातीयत्वात् । तथा मा भूवन्
परमाणवः प्रत्येकं दृश्याः समूहस्तु तेषां द्रक्ष्यते विनैव कार्यान्तरारम्भमित्यत आह—
गृह्यमाणाग्रहणस्य चेति । तेषामेवागृह्यमाणानामपि मिलितानां दर्शनं ये स्वेन
रूपेण ग्रहणयोग्या निमित्तान्तरात्तु न गृह्यन्ते । परमाणवस्तु परमसूक्ष्मतया न स्वरूपेण
ग्रहणार्हा इति मिलिता अपि न ग्रहीतव्या एव । न जातु मिलिता अपि पवनसमूहा
भवन्ति चाक्षुषाः । रूपवन्महत्त्वमपि हि भावानां स्वरूपयोग्यता ग्रहणं प्रति इति
भावः । 1518अथानुपजातविशेषाः इति । ततश्च त एवैन्द्रियका अनैन्द्रियकाश्चेति
महान् विरोध इति ।
अत्रान्तरे कीर्तिराह स्म

को वा विरोधो बहवः संजातातिशयाः पृथक् ।

भवेयुः कारणं बुद्धेर्यदि नामेन्द्रियादिवत्1519

इति । एतदपि वार्त्तिककृतैव अथानुपजातविशेषा इति वदता परास्तम् । न
खलु स्थैर्यसिद्धौ भावानामवयविद्रव्योत्पादनमन्तरेणास्त्यन्योऽतिशयः परमाणूनाम् ।
न च यदागन्तुकमासाद्य परमाणवोऽवयविनं जनयन्ति तेनैव स्थूलबुद्धिम्,
कृतमवयविनेति सांप्रतम् । यदाभासा हि बुद्धिस्तदस्या आलम्बनप्रत्ययः । न चेयं
परस्परव्यावृत्तपरमसूक्ष्मपरमाण्वालम्बना तथा सति 1520स्थूलमेतदेकमिति न स्यात् । न
चैष प्रत्ययो विकल्पः स्पष्टप्रतिभासत्वात् । न चाविकल्पोपाधिरस्य विशदता ।
निर्विकल्पकेनापि तस्या ग्रहणात् । न च प्रतिभासधर्मः स्थौल्यम् नानादिग्देशस्थितस्य
350 तस्य निरन्तरस्यानेकस्यैकेन विज्ञानेन ग्रहणं स्थौल्यम् । तत् खल्वीदृशत्वं परमाणूनां
प्रतिभाससमयभावीति प्रतिभासधर्म इत्युच्यते । तथा चैष समीचीन एवानुभवः । न
हि ते न परमाणवः, न च न निरन्तरोत्पन्नाः, न च न दिग्देशभिन्नाः, न वैकस्मिन्
विज्ञाने न चकासति । तस्मात् कस्यात्रान्यथात्वम् ? यदाह,


न च तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः1521

सांवृतग्रहणं 1522चान्यन्न च वस्तुग्रहो भ्रमः ॥

इति । अत्र तावत् तिलतण्डुलवद् गन्धरूपरसस्पर्शपरमाणुभिरन्तरिततया
नैरन्तर्यमेषां नास्ति । तस्मादन्तरालाग्रहणे विदूरादेकघनवनप्रत्ययवदयं मिथ्याप्रत्ययो
रूपादिपरमाणूनां सान्तरत्वादनेकत्वाच्च । न चासति बाधके मिथ्येति युक्तम् ।
उक्तश्च बाधकाभावः । स्थेमा च भावानामुपपादयिष्यते । तस्मादयुक्तमेतदपीति ।


इदमेव च परीक्ष्यते इति भाष्यम् । सर्वत्रावयविनमपह्नुवानस्य अतीन्द्रियं
चाणुसंचयमात्रमिच्छतः सेनावनाङ्गानामपि 1523करिकुसुम्भादीनामतीन्द्रियाणु
संचयमात्रत्वाद् दृष्टान्ताभाव इति तात्पर्यार्थः ।


शङ्कते, दृष्टमिति चेत् ? सेनावनाङ्गानि तावद् दृष्टतया न शक्यान्यपह्नोतुमिति
सिद्धं निदर्शनमित्यर्थः । निराकरोति—तच्च नैवमिति । यदि दृष्टमप्रत्याख्येयमवय
व्यपि दृष्ट इति सोऽप्यप्रत्याख्येयः । अथायं परीक्ष्य प्रत्याख्यायते सेनावनाङ्गान्यपि
प्रत्याख्येयानीति दृष्टान्ताभावः साध्यसमत्वादिति भाष्यार्थः ।


वार्त्तिकम्—यश्चायमनेकस्मिन्निति । अविद्यमानो विशेषः शुक्तौ रजतत्वम् ।
तस्य दर्शनं वणिग्वीथ्यादौ । तस्य द्वारं संस्कारः । तेनाध्यारोपितः स्मारितः 1524तद्विपरीतः
शुक्तिविपरीतो धर्मो रजतत्वं येन सामान्यदर्शनेन तत् तथोक्तं तस्य भावः तत्ता
सामान्यदर्शनस्येति ।


तिरोभूतभेदमुपमानमेव भाक्तम् । भेदोल्लेखेन 1525तूपमानमिति विवेकः ।
351 संज्ञाज्ञानमौपमिकोदाहरणम्—यथा सिंहो माणवक इति । नन्वेतदपि तिरोहितभेदतया
भाक्तमेवेत्यत आह—सिंह इव सिंहः । अयमर्थः । सिंहशब्दाद् उपमानादाचारे
सर्वप्रातिपदिकेभ्यः क्विबिति क्विबन्तादत्र कर्तरि अचि कृते सिंहशब्द उपमानार्थो
भवति । नानाभावे चाणूनामित्यादि भाष्यं व्याचष्टे—मिथ्याप्रत्यया अपीति ।
तदभावे तु
प्रधानाभावे तु घटादौ मिथ्याप्रत्यया इति । परमाणुषु सञ्चितेष्विति ।
येषामपि घटोऽवयवी तैरपि परमाणुसञ्चयोऽभ्युपेयः येषामप्यवयवी नास्ति तैरपि
परमाणुसंञ्चय उपेयः । सोऽयमुभयसम्मतः संचय इत्यर्थः । तेऽपि संचिता एवेति ।
वैभाषिकाः खलु वात्सीपुत्रा 1526भूतभौतिकसमूहान् पञ्चापि शब्दादीनिच्छन्ति ।
अतस्तेषां मते शब्दादयोऽपि सञ्चिता इत्यर्थः । अपि चास्मन्मतेऽपि शब्दादीनां न
मुख्यमेकत्वं संख्याया गुणस्य गुणेषु शब्दादिष्वभावात्, अपि तु भाक्तमेवेत्यत
आह—शब्दादिषु चैकप्रत्यय इति । शङ्कते—सर्वत्रेति । निराकरोति—न द्वे
इत्यत्रेति ।
समुच्चयनिवृत्तिमात्रं चेदेकत्वं द्वित्वनिषेधेन समुच्चयो निवर्तित इति
तन्निवृत्तिमात्रमेकत्वमेवेति एकमनेकं वेति संशयो न स्यात् । न च तत्रोत्तरमेकमेवेति
नियमार्थं भवेदिति । गतौ प्राप्तौ । शङ्कते—सर्वत्रेति । निराकरोति—नैकमित्यत्रेति ।
अयमभि न्धिः । द्वित्वादीनामभावे समुच्चयमात्रं स्यात् । न तु समुच्चयानामवान्तर
भेदः । तथा च नैक इत्यसमुच्चयसहितैकत्वनिषेधे समुच्चयः1527 प्राप्त एवेति न संशयः
स्यात् ।


इदं त्विह वक्तव्यम् । शब्दादौ द्वित्वाद्यभावे कथं द्वित्वादिप्रयोगः ? भाक्त इति
चेत् ? किं भक्तिनिमित्तम् ? समुच्चयमात्रं चेत् ? कुतो द्वाविति नियमः ?
समुच्चयविशेषादिति चेत् ? नन्वस्य नास्त्याजानतो भेद इत्युक्तम् । न चेह द्वित्वमस्ति
यद्विशिंष्यात् । तथाचाकामेनापि समुच्चयानामवान्तरभेदः स्वाभाविको वक्तव्यः ।
तथा च स एवास्तु संशयविषयः । कृतं द्रव्ये द्वित्वादिनेति । तस्मात् संविदेव
भगवती1528 समुच्चयादिविलक्षणं द्वित्वाद्यवगाहमाना व्यवस्थापिका द्वित्वादीनाम् ।
352 तदनुसरणप्रकारश्च युक्तिकुशलतया1529 वार्त्तिककृता कृत इति मन्तव्यम् ।


यः पुनरनुभूयमानमेकत्वं द्वित्वादींश्चानुभूयमानान् न प्रतिपद्यते, तस्य
खल्वनुभवमपह्नुवानस्य निर्मर्यादतयैकत्वाधारोऽपि नास्तीति कस्य समुच्चयो
द्वित्वादिः स्यात् ? समुच्चयाभावे च कस्याभाव एकत्वं स्यादित्याह—यः पुनरिति ।
अपि चैकत्वादीन् मुख्याननभ्युपगच्छतोऽयमपि भाक्तप्रयोगो न स्यादित्यत
आह—एकत्वद्वित्वादींश्चेति ।


भाष्यमनुभाष्य व्याचष्टे—तेषु चैवमिति ।


इयत्तानवधाऋअणादिति । प्रत्यक्षपरिमाणविषयमियत्तावधारणम् परममहतां
त्वप्रत्यक्षपरिमाणानां सत्यपीयत्तानवधारणे नापरिमाणता, द्रव्यत्वेन व्योमादीनां
परिमाणानुमानादिति ।


यथा महत्परिमाण इति । कुवलपरिमाणादामलकपरिमाणं महदिति लौकिका
व्यपदिशन्ति, यथा कुवलादामलकं महदिति । न च परिमाणस्य परिमाणयोगः,
अनवस्थाप्रसङ्गात् । तस्माद् भाक्तोऽयं व्यपदेशो महत्त्वं महदिति । तत् सिद्धमेतत्1530
शब्दो भाक्तमहच्छब्दवान् गुणत्वान्महत्त्ववदिति । गुणत्वं च शब्दस्यानुमानलक्षणे
प्रसाधितम् । भाक्तं च मुख्यपूर्वकमिति क्वचिन्मुख्येन महत्त्वेन भवितव्यम् । तच्चासति
बाधके द्रव्ये मुख्यमिति सिद्धम् । न महत्प्रत्ययविषयत्वादिति । न तन्मात्रादपि
त्वबाधितादनन्यथासिद्धादिति । तदेवाह—अपि त्विति ।


अनेनानन्यथासिद्धिर्द्रव्ये महत्प्रत्ययस्य दर्शिता । तथैकादिमहत्प्रत्यया इति ।
समुदायमेकमाश्रित्येति शेषः । समुदायश्च समुदायान्तरप्राप्ताविति । यदा हि भिन्ना
अपि समुदायिनः प्राप्त्या एकीकृता एकः समुदायः, तदा समुदायान्तरमपि
समुदायान्तरेण प्राप्तमेकः समुदायः । न चैकस्यात्मना प्राप्तिः । न हि तदेवाङ्गुल्यग्रं
तेनैवाङ्गुल्यग्रेण प्राप्यते । ततश्च द्वयोः समुदाययोः प्राप्तिरित्ययुक्तमित्यर्थः ।


चोदयति—नैव जातिरस्तीति । अयमभिसन्धिः । न सामान्यं नाम वस्तुसद्
353 यस्याश्रयो वस्तुभूतोऽनुस्रियते । तथा हि तत् पिण्डे वा वर्तते, सर्वत्र वा । यदि सर्वत्र,
सर्व एव गावः प्रसज्येरन् । यथा हि शाबलेयादयो गोत्वाभिसंबन्धाद् गाव एवं
विश्वमेव तत्संबद्धमिति गौः प्रसज्येत । अथ केषुचिदेव पिण्डेषु वर्तते, ततो
वक्तव्यम्, यदा क्वचिद्देशे पिण्डो जायते तदा वक्तव्यम्, कुतस्त्यं पुनरस्य
गोत्वमिति । न तावत् तत्रापि पिण्डोत्पादात् पूर्वमासीत् नापि पिण्डान्तरादागतं तस्य
निष्क्रियत्वात् पिण्डन्तरत्यागप्रसङ्गाच्च । न च पिण्डे जायमाने जायते, अनित्यत्वा
पत्तेः । पिण्डान्तरस्थाच्च गोत्वाज् जन्माजन्मस्वरूपविरुद्धधर्माध्यासेन भेदे
सत्यसामान्यत्वप्रसङ्गः । तदितो महाव्यसनाद् विह्वता सांवृतमेव सामान्यमास्थेयं न
पारमार्थिकमिति । परिहरति—जातिविशेषस्येति । प्रत्ययानुवृत्तिर्यद्यपि प्रत्यक्षा
तथापि विप्रतिपन्नं प्रति सैव लिङ्गमुच्यते । सन्ति हि केचिद् भावा ये सहावस्थानेऽपि
परस्परमसंबद्धाः, यथा समानकाला गन्धरसरूपस्पर्शाः । विज्ञानानि च बहूनि परेषां
समानकालान्यप्यसंसर्गाणि, दिक्कालाकाशात्मानश्च सहावस्थाना अपि परस्परा
संसर्गिणो वैशेषिकाणाम् । तथा सामान्यमपि सर्वासंबद्धमपि सर्वैः सहावतिष्ठते,
यास्त्वस्य व्यक्तयस्ताभिः परं संबध्यते । तथा च यत्र जायन्ते व्यक्तयस्तत्रासंबद्धावपि
स्तः सामान्यसमवायाविति । तासां जन्मैव सामान्यसमवायावच्छेदः । स च
स्वकारणादननुयोज्यादिति1531 वस्तुगतिं प्रमाणिकीं विद्वांसो नास्माद् व्यसनाद्1532
बिभ्यतीति । बाधकान्तराणि चास्यायवयविव्याख्यानेन प्रत्याख्यातानि । तावदेव
तर्ह्यधिकरणं जातेः प्राप्तमिति ।
ये ये वृक्षत्वादिजातिमनपेक्षा व्यञ्जयन्ति, ते ते
परस्परं वृक्षादिव्यक्तितया भिद्यन्ते । यथा किंशुकाशोकचम्पकादयो भिन्नास्तरवस्त्तथा
चार्वाग्भागमध्यभागापरभागा अपि भिन्नास्तरवः1533स्युः । अवयविनि तु जायमाने नायं
दोषः । तस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात्1534 । न चैवमवयविनोऽपि
तावन्तः स्युरिति वाच्यम्, तस्यैकस्य सर्वावयवसाधारण्येन प्रत्यभिज्ञायमानत्वात् ।
354 अवयवान्तरस्य तु नावयवान्तरे प्रत्यभिज्ञानम्, तेषां वृक्षव्यक्तिहेतुत्वे1535 वृक्षानेकत्व
प्रसङ्ग इति ।


सर्वापकृष्टः संघातश्चेति व्याहतम्1536, संहन्यमानापेक्षयानपकर्षादित्यर्थः ।
सांख्यमवयवेभ्योऽनर्थान्तरमवयविनं मन्यमानं प्रति प्रयोगमाह—अर्थान्तरमिति ।
प्रावरणसामर्थ्यं पटस्य, तन्तूनां तु पटोत्पादनसामर्थ्यम् । तन्तुपटरूपे इति । तन्तूनां
नीलपीतलोहितादिरूपं पटस्य तु चित्रम् । तत्र नीलादीनां समवायिकारणं तन्तवः,
चित्रस्य तु पटः । एवं तन्तुपटयोः सावर्ण्येऽपि क्वश्चिद् विशेष उन्नेयः विशेषवत्त्वं
च वैयधिकरण्येन प्रमीयमानत्वम् । तेन च भिन्नकारणत्वम् । भिन्नसमवायिकारणत्वं
साध्यत इति न सिद्धसाधनं नाप्यनैकान्तिकत्वमिति ।


ये तु पक्षहेतू अन्यथाकारं गृहीत्वा दूषयांबभूवुः, तन्मतमुपन्यस्य दूषयति
एके त्विति ॥ ३६ ॥


॥ अवयविपरीक्षाप्रकरणम् ॥

अनुमानपरीक्षाप्रकरणम्


रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥ २ । १ । ३७ ॥


अनुमानमिदानीमिति भाष्यम् । अत्रेदानीं पदार्थमाह वार्त्तिककारः
अथेदानीमवसरप्राप्तमिति ।
उद्देशक्रम एव लक्षणपरीक्षयोः संबध्यत इत्यर्थः ।


रोधो…णम् । अप्रमाणपदस्य व्याख्यानभाष्यम् एकदापीति । प्रतिपादकं
निश्चायकम् । लक्ष्यपरत्वात् लक्षणस्य लक्षणयुक्तस्य लक्ष्यस्य व्यभिचारादप्रमाणत्वे
लक्षणमेव दूषितं भवतीत्यर्थः ।


355

वार्त्तिकम्—पूर्ववदादेरुदाहरणानीति । अत्र च नदीपूरमयूरवाशिते शेषवत
उदारहरणे । पिपीलिकाण्डसंचारणं चाचिरमुत्पत्स्यमानस्य वर्षस्य न कार्यम् । न
ह्यनागतं कारणं भवति पूर्वोत्पन्नस्य । न च नासावक्रत्वादयोऽप्यनागतेन मरणेन
क्रियन्ते । तथा सति पुत्रोऽपि पितुः कारणं स्यादिति सर्वमवदातम् ।
कार्यकारणभावव्यवस्थापनं लौकिकं भवेत् । नियमवान् खलु प्राग्भावः कारणत्वस्य
व्यवस्थापको नियमवांश्च पश्चाद् भावः कार्यत्वस्य व्यवस्थापकः ।
नासिकावक्रत्वादयोऽपि मरणस्य यत् कारणं तस्य पूर्वकार्याणीति प्रत्यासत्त्यानया
मरणमनुमापयन्ति । न च पिपीलिकाण्डसञ्चारणं वर्षस्य कारणमनुपलब्धसामर्थ्यात्,
असत्यपि तस्मिन् वर्षस्योत्पत्तेः । वर्षमूलकारणस्य तु महाभूतसंक्षोभस्य पिपीलि
काण्डसंचारणं पूर्वकार्यम् । क्वथ्यमानाः खलु पिपीलिका भौमेनोष्मणा स्वान्यण्डानि
भूमिष्ठान्युपरिष्टान्नयन्ति । तस्मात् पिपीलिकाण्डसंचारणेन कार्येण वर्षकारणमनुमाय
यदि वर्षकारणात् कार्यं वर्षमनुमिमतेऽनुमातारः, तदा पूर्ववदुदाहरणम् । अथ
कार्यकारणभावमनपेक्ष्यैव1537 पिपीलिकाण्डसंचारणस्य स्वाभाविकं वर्षेण
संबन्धमात्रमवगम्यानुमिन्वते1538, तदा कार्यकारणभावाभावेन सामान्यतोदृष्टस्यो
दाहरणमेतदित्यवगन्तव्यम्1539उदाहरणव्यभिचारद्वारकमिति । लक्ष्यदूषणद्वारेण
लक्षणस्य दूषणमित्यर्थः । न हि व्यभिचारलक्षणस्यानुमानाप्रामाण्यप्रतिपादकस्य
अनुमानस्य व्यभिचारे किञ्चित् प्रमाणस्तीति ॥ ३७ ॥


नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ॥ २ । १ । ३८ ॥


भाष्ये पिपीलिकाप्रायस्येति । प्रायशब्दः प्रबन्धार्थः ॥ ३८ ॥


॥ इत्यनुमानपरीक्षाप्रकरणम् ॥

356

वर्तमानपरीक्षाप्रकरणम्


वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥ २ । १ । ३९ ॥


तदेवमनुमानलक्ष्यपरीक्षाद्वारेणानुमानलक्षणं परीक्ष्य संप्रत्यनुमानविषय
परीक्षयानुमानपरीक्षामवतारयति भाष्यकारः त्रिकालविषयमिति ।


वर्त…त्तेः । तत्र वार्त्तिककारः सत्यां कालस्य सिद्धौ वर्तमानत्वं परीक्ष्यते ।
स एवापरीक्षितोऽद्यापि न सिध्यतीति कालस्वरूपं परीक्ष्यते—तत्र तावदिति ।
त्रिकारणेयमिति
कारणान्तरवैकल्यं विषयस्यायोग्यत्वमभावो वा विषयस्येति
त्रीण्यनुपलब्धिकारणानीति । अथ धर्मोऽपि नास्तीति । भावरूपो हि हेतुरभावाधि
करणो न भवति । अभावरूपस्य त्वभावाधिकरणत्वादविरोध इत्यर्थः । परिहरति
साधनार्थो हीयते । न हि पराभिमतोऽभावः सर्वसामर्थ्यरहितः साधनं कस्यचिद्
भवति । अस्मदभिमतस्त्वभावः परतन्त्रो भावाधिकरण एव, नानधिकरणो
नाप्यभावाधिकरण इत्यर्थः ।


एवं कालस्य बाधकप्रमाणाभावमुक्त्वा साधकं प्रमाणमाह—परापरादीति ।
स्वयं विद्यमानयोरनियतदिग्देशयोः समानदिक्कयोर्वा देशतः सन्निकृष्टविप्रकृष्टयोर्वा
विप्रकृष्टसन्निकृष्टयोर्वा युवस्थविरयोरेकस्मिन् शरीरावस्थाभेदानुमितातीत
सूर्योदयास्तमयरूपक्रियाप्रचयबहुत्वान्तरितजन्मनि स्थविरे युवानं शरीरावस्थाभेदा
नुमितातीतसूर्योदयास्तमयरूपक्रियाप्रचयाल्पत्वान्तरितजन्मानमवधिं कृत्वा
विप्रकृष्टबुद्धिरुत्पद्यते । तामपेक्ष्य बहुतरसवित्र्युदयास्तमयविशिष्टेन कालप्रदेशेन
योगाद् वर्षीयसि परत्वस्योत्पत्तिः । एवं वर्षीयांसमवधिं कृत्वा यवीयसि
सन्निकृष्टबुद्धिरुत्पद्यते । तामपेक्ष्याल्पतरदिनकरोदयास्तमय1540प्रचयविशिष्टेन काल
357 प्रदेशेन योगाद् यवीयस्यपरत्वोत्पत्तिः । एतयोश्च कालपिण्डसंयोगयोः प्रत्यक्षत्वं न
लोकसिद्धम् । ते एते परापरत्वे कालपिण्डसंयोगादुत्पद्यमाने कालकारणविशिष्ट
मात्मानं कार्यतया गमयतः । सूर्योदयास्तमयक्रिया प्रचयाल्पत्वबहुत्वविशिष्टात्
पिण्डादेव परत्वापरत्वे भविष्यतः, कृतमत्र द्रव्यान्तरेण कालेनेति चेत् ? न । सवितृ
समवेतायाः क्रियायाः पिण्डेनासंबन्धात् । संयुक्तसमवायस्त्वस्याः संबन्धः कालेन
सर्वगतेनास्ति । न चाकाशं सर्वगतमपि परापरव्यतिकराय कल्पते1541 तस्य स्वरूपेणा
भेदात् । अपि चाकाशात्मानौ न परापरव्यतिकरकारणम् असाधारणगुणयोगित्वात्,
पृथिव्यादिवत् । तस्मात् परापरव्यतिकरकारणे कल्पनीये । ते च द्रव्यमपारन्त्र्यादा
काशवत् । ते दिक्काला उच्येते । एवं यौगपद्यायौगपद्यचिरक्षिप्रप्रत्यया अपि काल
लिङ्गम् । न ह्येते क्रियायां तत्कारकेषु वा भवितुमर्हन्ति, तेषु सत्स्वपि कादाचित्कत्वात् ।
नन्वयं कालोऽपि नित्य इति तस्मिन् सत्यप्येते कादाचित्काः कथं कालकारण
मपि ? यद्युच्येत एकसूर्यपरिस्पन्दावच्छिन्नकालसंबन्धिन्यः क्रियायुगपदनेकसूर्यपरि
स्पन्दावच्छिन्नकालसंबन्धिन्यः क्रियाः क्रमवत्योऽयौगपद्यप्रत्ययगोचरः, एवं
बहुतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसंबन्धिनी क्रिया चिरप्रत्ययगोचरः,
अल्पतरानेकसूर्यपरिस्पन्दावच्छिन्नकालसंबन्धिनी क्रिया क्षिप्रप्रत्ययगोचर इति ।
कृतं तर्हि सूर्यपरिस्पन्दस्य कालावच्छेदेन । नन्वयं साक्षादेव क्रियामवच्छेत्स्यतीति ।
तथा च युगपदादिप्रत्यया भविष्यन्तीति ? तन्न, सूर्यपरिस्पन्दस्य क्रियाभिः संबन्धा
भावेन तदवच्छेदकत्वानुपपत्तेः । न चाकाशादिसंबन्धद्वारेणास्य1542 तदवच्छेदकत्वम् ।
तथा हि नाकाशादयः क्रियायौगपद्यादिप्रत्ययनिमित्तम् असाधारणगुणयोगित्वात्
घटवत् ।


एवं यौगपद्यादिप्रत्यया न दिक्कारणका दिग्देशनियमानपेक्षणात्
कालपिण्डसंयोगजपरत्वापरत्ववदिति । तस्मात् सूर्यपरिस्पन्दस्य देवदत्तादिपरिस्प
न्दस्य चास्ति कालेन सर्वगतेन संयुक्तसमवायलक्षणः संबन्धः । एतया च द्वारा
358 परिस्पन्दयोरप्यस्ति संबन्ध इति । कालसंबन्धानपेक्षमेव च सूर्यपरिस्पन्दाव
च्छिन्नस्य देवदत्तादिपरिस्पन्दस्य ग्रहणमुपपद्यते । यथा दण्डीति शब्दाद् दण्डावच्छिन्नं
पुरुषं प्रतीत्य तदन्यथानुपपत्त्या पश्चाद् दण्डपुरुषयोः संयोगभेदोऽवगम्यते, न च
संबन्धज्ञानपुरःसरं दण्डिविज्ञानम् । एवं परत्वापरत्वे अपि कालपिण्डसंयोगनिबन्धने
गृहीत्वा कालोऽनुमीयते, न तु कालज्ञानपुरःसरं तज्ज्ञानम् । तत्सिद्धमरूपतया
कालोऽप्रत्यक्षश्च परत्वापरत्वाद्यनुमेयश्चेति । तस्मात् सुष्ठूक्तम्—परापरादिप्रत्ययानां
चेति । कार्यकारणविशेषापेक्ष
इति । कार्यस्य परापरादेः, तत्प्रत्ययस्य च यः
कारणविशेषो बहुतराल्पतरातीततपनपरिस्पन्दावच्छिन्नकालपिण्डसंयोगः तदपेक्षः
काल एकोऽपि परापरादिप्रत्ययहेतुः परापरत्वलक्षणगुणोत्पादनद्वारेणेति वर्तते
कारकव्यङ्गः कालः । तस्य निष्पन्नतया व्यक्तिसाधनत्वोपपत्तेः । न तु क्रिया
व्यङ्गः, तस्याः साध्यतया असिद्धत्वाद् व्यक्तिं प्रति हेतुभावाभावात् । तथा
चातीतानागतमात्रदर्शनाद् वर्तमानाभावेन न त्रैकाल्यविषयमनुमानम् । तयोश्च
पितापुत्रवत् परत्वापरत्ववद् ह्रस्वदीर्घत्ववच्च परस्परापेक्षा सिद्धिरन्तरेणापि
वर्तमानं कालमिति पूर्वः पक्षः ॥ ३९ ॥


तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥ २ । १ । ४० ॥


नातीतादिरूपता कालस्य कारकव्यङ्ग्या, तयोस्तादवस्थ्यात्, अपि तु
क्रियाव्यङ्ग्या । तां खलूररीकृत्य प्रवर्तमानानयमतीतानागतवर्तमानान् प्रतिपद्यते
नान्यथा । यदा खल्वयं पुरुषः फलं प्रवर्तमानपतनक्रियाविशिष्टं प्रतिपद्यते, तदा
व्यपदिशति पतति फलमिति । तन्मूले चास्यातीतानागतत्वे अपतत् फलं पतिष्यतीति ।
न च वर्तमानं पतनमसिद्धम् येन न कालं व्यञ्ज्यात् । तदसत्त्वे कस्येदं कारणं गुरुत्वं
कस्य च फलं कारकं कस्य च फलं भूमिसंयोगः कार्यम्1543 । न च परत्वापरत्वादीनामपि
359 सिद्धिः परस्परापेक्षा । किं तर्हि ? सन्निकृष्टबुद्ध्यपेक्षमपरत्वम्, विप्रकृष्टबुद्ध्यपेक्षं
परत्वम् । पूर्वसंख्यावच्छिन्नता च संयुक्तसंयोगानां सन्निकर्षः, परसंख्यावच्छिन्नता
च विप्रकर्षः । एवं ह्नस्वदीर्घत्वे अपि परिमाणभेदौ न परस्परापेक्षौ । पितापुत्रौ च
प्रमाणप्रमेयव्याख्यया व्याख्यातौ । तस्मादतीतानागतयोर्वर्तमानसापेक्षत्वाद् वर्तमानस्य
तदनपेक्षत्वादस्ति त्रैकाल्यमिति सिद्धान्तः ॥ ४० ॥


नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥ २ । १ । ४१ ॥


भाष्यम्—अथापीति कस्मादतीतानागतावितरेतरापेक्षौ न भवतः कृतं वर्तमाने
नेति शङ्कां सूचयति । तन्निराकरणाय सूत्रम्—नाती…द्धिः ।


परस्परापेक्षसिद्धेः किल वर्तमानाभावः । सैव तु नास्तीति सूत्रार्थः । कया
युक्त्येति
प्रश्नः । उत्तरम्—केन कल्पेन प्रकारेण अतीतः ? तदनेन वर्तमानाभावेऽ
तीतस्वरूपाक्षेपः कृतः । ह्नस्वदीर्घत्वादीनां परस्परापेक्षसिद्धित्वमङ्गीकृत्याह
तन्नोपपद्यते विशेषहेत्वभावादिति । परमार्थतस्तु न चेतरेतरापेक्षा ह्नस्वदीर्घ
त्वादीनामपि सिद्धिरिति ।


स्वकीयां युक्तिं वार्त्तिककार आह—न च वर्तमानकालानभ्युपगमे पतत
इतीति
॥ ४१ ॥


वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥ २ । १ । ४२ ॥


वक्ष्यमाणसूत्रावतारणपरं भाष्यम्—अर्थसद्भावव्यङ्ग्यश्चायमिति ।
अस्यार्थः, न केवलं पतनादिक्रियाव्यङ्ग्यो वर्तमानः कालः, अपि त्वर्थसद्भावोऽर्थस्य
सत्ता अस्तिक्रियेति यावत् । तया व्यङ्ग्यः कालः । एतदुक्तं भवति—पतनादयः क्रिया
वर्तमानेष्वपयान्त्युपयन्ति च । अस्तिक्रिया तु सर्ववर्तमानव्यापिनी । तदेव
मस्तिक्रियाविशिष्टस्य वर्तमानस्याभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ।


360

वर्त…त्तेः । न चाविद्यमानं तस्य विवरणम् असदिति । न चायं
वर्तमानाभाववादी विद्यमानं सत् किञ्चिदनुजानाति ।


अत्र वार्त्तिककारः पृच्छति—कथं पुनरिति । न हि सर्वं प्रत्यक्षं वर्तमान
विषयमतीतानागतयोरपि योगिप्रत्यक्षत्वादिति भावः । उत्तरम्—यस्मादिति ।
नातीतानागतविषयतया प्रत्यक्षानुपपत्तिं ब्रूमः, अपि त्वतीतानागताधारतयेत्यर्थः ।
भाष्यमपि वर्तमानाभावे प्रत्यक्षनिमित्तं सन्निकर्षः अस्मदादिप्रत्यक्षविषयः
विद्यमानो घटादिः प्रत्यक्षं प्रमाणमनाधारं सत्सर्वं नोपपद्यत इति द्रष्टव्यम् ॥ ४२ ॥


कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥ २ । १ । ४३ ॥


अत्र भाष्यम्—उभयथा वर्तमानो गृह्यत इति । तदवतार्य व्याचष्टे वार्त्तिक
कारः—उपपन्नः सन् द्वेधा भिद्यत
इति । क्वचित् क्रियामात्रव्यङ्ग्यः, यथास्तिति ।
क्वचित् क्रियासन्तानव्यङ्ग्यः पचति छिनत्तीति । अत्र हि पूर्वापरीभावः प्रतीयते । न
च प्रतिक्षणमपवर्गवतः कर्मणः एकस्य पाकस्य वा छेदनस्य वा अस्ति पूर्वापरीभाव
इति कर्मसन्तान आस्थेयः । सोऽपि चैकमुपसंग्राहकमन्तरेण न भवत्यत उक्तं
भाष्यकृता—एकार्था क्रिया क्रियासन्तान इति, एकप्रयोजनावच्छिन्नेत्यर्थः । अत्र
चाधिश्रयणादयो भवन्तु पच्यर्थाः । यथाह महाभाष्यकारः—तदभिसन्धिपूर्वकं
प्रेषणमध्येषणं वा युक्तं यत् तत्सर्वं पच्यर्थ इति । रूपादिपरावृत्तिमात्रार्थत्वं वास्तु
पचेः । आख्यातार्थः सर्वोऽयमध्येषणादिर्भवतु भावनाभिधानः । नोभयथापि काचिदस्ति
दर्शनक्षतिः । अनागताद् व्यवच्छिनत्ति—नानारम्म इति । अनारम्भः अननुष्ठानं न
विवक्षितम् । यथा पक्ष्यतीत्यत्रेत्यर्थः । अतीताद् व्यवच्छिनत्ति—नोपरमो विवक्षित
इति । यथा अपाक्षीदित्यत्रेत्यर्थः । सन्तानारम्भविवक्षायामिति । आरम्भोऽत्र
चिकीर्षाभिधीयत इति न विरोधः । तदेवं वर्तमानं क्रियासद्भावमुक्त्वा तत्संबन्धव्यङ्ग्यां
कारकस्य वर्तमानतामाह—यच्चेदं छिद्यमानमिति तत् क्रियमाणं वर्तमानक्रिया
361 संबन्धेन वर्तमानं न तु स्वरूपत इत्यर्थः ।


तस्य च कारकस्य वर्तमानक्रियासंबन्धमतीतानागतानपेक्षमपेक्ष्यातीतानागतत्वे
क्रियायाः कारकस्यापि तद्भावव्यक्तिः, तद्धेतुकं च द्वैविध्यमिति प्रतिपादनपरं
सूत्रमवतारयति—तस्मिन् क्रियामाणे


कृत…णम् । भाष्यम्—आरब्धः अभीष्टफलोरीकरणेन क्रियासन्तानः पच
तीति । वक्ष्यमाणासंपृक्ततोपयोगितया क्रियासन्तानस्वरूपमाह—तत्रेति क्रियासन्ताने ।
ननु विद्यत इत्यत्रापि पूर्वापरीभावावगमादतीतानागताभ्यां । 1544संपर्क एवेत्यत आह
वार्त्तिककारः—अत्र हि केवल इति । शब्दमाहात्म्यात् संपर्को न वास्तवः, वास्तवं
तु वर्तमानत्वमेव । अत एवाह—केवलः शुद्धः इति । पर्यायाभिधानमात्यन्तिकं
संपर्काभावं दर्शयति । यदि च क्वचिन्मुख्यं वर्तमानत्वं नाभ्युपेयते, ततस्तत्पूर्वको
भाक्तोऽपि वर्तमानप्रयोगोऽपि न स्यादित्यत आह—अन्यश्च लोक इति ॥ ४३ ॥


॥ वर्तमानपरीक्षाप्रकरणम् ॥

उपमानपरीक्षाप्रकरणम्


अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः ॥ २ । १ । ४४ ॥


यथा गौरेवं गवय इत्यतिदेशवाक्यार्थस्मृतिसहकारि सारूप्यदर्शनं साध्यस्य
गवयोऽयमिति संज्ञासंज्ञिसंबन्धस्य साधनमुपमानम् । तच्चेदं नोपपद्यते विकल्पानुप
पत्तेः । किं यथा गौरेवं गवय इति गवात्यन्तसाधर्म्यं विवक्षितम् तथा सति
गवान्तरमेव गवयः स्यात् । तदिदमाह भाष्यकारः—न चैवं भवति यथा गौरेवं
गौरिति ।
चो यस्मादर्थे । 1545यस्माद् यथा गौरेवं गवय इति वाक्यस्यार्थो न भवति यथा
गौरेवं गौरिति । गवा प्रायसाधर्म्यादपि गवयोपमानं न सिध्यति महिषस्यापि गवा
362 भूयःसाधर्म्यस्य विद्यमानत्वेन तस्यापि गवयाभिधानप्रसङ्गात् । तदिदमाह—न हि
भवति यथानड्वानेवं महिष इतीति ।
यथानड्वानेवं गवय इत्यस्य वाक्यस्यार्थो
यथानड्वानेवं महिष इति यस्मान्न भवति । एकदेशसाधर्म्याद् गवा गवयोपमानं1546
भवति, एकदेशोपमानस्यैवानुपपत्तेरतिप्रसङ्गात् । तदिदमाह—न हि सर्वेण
सर्वमुपमीयते ।
तथा सति सुमेरोरपि सर्षपेणोपमानप्रसङ्गात् ॥ ४४ ॥


प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ २ । १ । ४५ ॥


प्रकरणाद्यपेक्षं हि वाक्यं स्वार्थं प्रतिपादयति, न केवलम् । तद्वशाच्च
क्वचिदत्यन्तसाधर्म्यं प्रतीयते, क्वचिद्भूयःसाधर्म्यं, क्वचिदेकसाधर्म्यम् । तदिदं
प्रतीतमहिषादिकं पुरुषं प्रति यदा यथा गौरेवं गवय इति वाक्यमुच्चार्यते तथा
महिषादिपरिहाण्या1547 भूयःसादृश्यं विवक्षितमित्यवगम्य तद्1548 वाक्यार्थं स्मरन्
महिषादिषु वने गोसाधर्म्यं पश्यन्नपि न गवयसंज्ञां निवेशयति, अपि तु भूयः
साधर्म्यवति गवय एव तां निवेशयति । यस्त्वप्रतीतमहिषादिस्तं प्रति एतद्वाक्यमुप
मानं न भवत्येवेति परमार्थः । यथा च प्रकरणादिवशादत्यन्तप्रायैकदेशसाधर्म्य
माश्रित्यातिदेशवाक्यानि प्रवर्तन्ते तथा चोक्तं वार्त्तिककृता ।


न साधर्म्यस्येत्यादि भाष्यं नियमं निषेधति । न साधर्म्यस्य कृत्स्नभावमेव वा
प्रायोभावमेव वा अल्पभावमेव वा आश्रित्योपमानमतिदेशवाक्यं1549 प्रवर्तते । किं
तर्हि ? प्रसिद्धसाधर्म्याद् हेतोः साध्यसाधनभावमाश्रित्य उद्दिश्येति । एतदुक्तं
भवति । न नियमः, किं तु क्वचित् किञ्चित् साधर्म्यमाश्रित्यातिदेशवाक्यं प्रवर्तते । तच्च
प्रकरणाद्युन्नेयमिति । अनभ्युपगमादितिवार्त्तिकं नियमाभिप्रायमेव । तत्
क्रिययैव
तत्क्रियान्तरमित्यर्थः ॥ ४५ ॥


363

प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥ २ । १ । ४६ ॥


यथा गौरेवं गवय इति हि वाक्यं प्रत्यक्षेण गवा 1550गवयमप्रत्यक्षं प्रतिपादयति ।
न खलु श्रुतवाक्योऽपि यदा प्रत्यक्षेण गवयं पश्यति तदा वाक्यार्थावगमादधिकं
किञ्चित् प्रतिपद्यते । संज्ञासंज्ञिसंबन्धोऽप्यनेन वाक्यादेवावगतः । तस्मात् प्रत्यक्षेण
गवा अप्रत्यक्षस्य1551 गवयस्य गवयसंज्ञाविशिष्टस्य प्रतीतेरुपमानस्यानुमानतेति पूर्वः
पक्षः ॥ ४६ ॥


नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः ॥ २ । १ । ४७ ॥


सिद्धान्तस्तु—ना…मः ।


गवयत्वं हि संज्ञि । न च तद् यथा गौरेवं गवय इति वाक्यात् प्रतीयते । अपि
तु कस्यचिद् गवा सादृश्यम् । न च वाक्यगतो गवयशब्दस्तस्य वाचकः तथा
तदानीमगृहीतसंगतित्वात् । न च सादृश्यं संज्ञि । तस्मात् प्रत्यक्ष एव गवये गवयत्वस्य
प्रत्यक्षत्वात् संज्ञासंज्ञिसंबन्धपरिच्छेदः प्रमाणार्थः । उपपादितं चैतदुपमानलक्षणे ।
तस्मादप्रत्यक्षो गवयः प्रत्यक्षेण गवा प्रतीयत इति सिद्धमित्यर्थः ।


पूर्वपक्षवाद्याह—परार्थमुपमानमिति चेत् मन्यसे सिद्धान्तवादिन्, तत् न
अस्ति । कुतः ? स्वयमध्यवसायात् । एवं हि परार्थं स्याद् यथा गौरेवं गवय इति
वाक्यं यदि परस्यैवाध्यवसायं जनयेत्, यावतोच्चारयितुरप्यध्यवसायं जनयति ।
तस्मात् स्वार्थमपीत्यर्थः । एतदेव दर्शयति भाष्यकारः—भवति भोः स्वयम्
अप्युच्चारयितुर्वाक्याद् अध्यवसाय इति । सिद्धान्तवाद्याह—नाध्यवसाय उच्चारयितुः
प्रतिषिध्यते, उपमानं तु उच्चारयितारं प्रति न भवति । कुत इत्यत आह—
प्रसिद्धसाधर्म्यादिति ॥ ४७ ॥


364

तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ॥ २ । १ । ४८ ॥


वार्त्तिकं तु परार्थत्वेनानुमानादुपमानभेदमाह—परार्थत्वाच्चेति । ननु प्रत्यक्षं
सारूप्यज्ञानमुपमानम्, न चैतत् परार्थमित्यत आह—न हि यथा गौरिति । अस्तु तर्हि
वाक्यमेवेत्यत आह—न ह्यागमेति । भिन्नयोरप्यनुमानोपमानयोरेतावन्मात्रेण
साधर्म्यमित्युपसंहारव्याजेनाह—तस्माद् यथेति । अतिरोहितमितरत् ॥ ४८ ॥


॥ इत्युपमानपरीक्षाप्रकरणम् ॥

शब्दसामान्यपरीक्षाप्रकरणम्


शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ॥ २ । १ । ४९ ॥


अत्र हि सूत्रकारेण प्रथममनुमानान्तर्गतिः परीक्षिता । न चापरीक्षितप्रमाण
भावस्य सा युक्तेति वार्त्तिककारः प्रथममस्य प्रमाणभावमेव परीक्ष्यते । तस्या
क्षेपः, न शब्दः प्रमाणमिति ।
यस्मिन् सति प्रमा भवत्येव न न भवति1552, तत्प्रमाणं
साधकतमस्य करणत्वात् । सत्यपि शब्दे प्रमा न भवतीति तस्य साधकतमत्वं
विघटयति—विषयाभावाच्चेति । प्रामाण्यं हि विषयवत्तया व्याप्तम् । सा
शब्दान्निवर्तमाना प्रामाण्यमपि निवर्तयति, वृक्षतेव निवर्तमाना स्वव्याप्यं शिंशपात्वम् ।
द्विविधश्च विषयः प्रत्यक्षः परोक्षश्च । तत्र पूर्वः प्रत्यक्षस्य प्रमाणस्य विषयः ।
अप्रत्यक्षश्चाविनाभूताल्लिङ्गादवगन्तव्यः । तदनपेक्षणेऽसंबन्धाविशेषात् सर्वे सर्वस्माद्
गम्येत । तथा च सर्वः परोक्षार्थप्रत्ययोऽनुमानव्याप्तः । न च प्रत्यक्षपरोक्षाभ्यामन्यो
राशिरस्ति । तस्माद् विषयाभावदपि न शब्दः प्रमाणमिति ।


यत् तावत् सत्यप्यप्रमितेरिति, तन्न असिद्धत्वादिति । न शब्दमात्रं प्रमाणमपि
365 तु गृहीतः स्मर्यमाणसंबन्धश्च । न चेदृशे शब्दे सति प्रमा न भवति । यादृशे तु सति
प्रमा न भवति, नासौ प्रमाणमित्यर्थः । तन्महत्प्रत्ययकर्तृत्वादिति । महत्त्वपरिमाणं
हि महतो विशेषणम् । तज्ज्ञानं विशेष्ये1553 महति प्रमाणम् ।


तदेवं सिद्धप्रमाणभावस्य शब्दस्यानुमानादभेदं परीक्षमाणः पूर्वपक्षयति
अनुमानं शब्द इति ।


शब्दो…त्वात् । यज्ज्ञानं प्रत्यक्षेणानुपलभ्यमानार्थविषयं प्रत्यक्षस्य पश्चादुप
जायते तदनु—मावम्, यथाग्निमद्धूमज्ञानम्, तथा च शब्दज्ञानं तस्मादनुमान
मित्यर्थः ॥ ४९ ॥


उपलब्धेरद्विप्रवृत्तित्वात् ॥ २ । १ । ५० ॥


अद्विप्रवृत्तिकत्वं प्रकारभेदरहितत्वं प्रत्यक्षानुमाने तु परोक्षापरोक्षावगाहि
तया प्रकारभेदवती इत्यर्थः ॥ ५० ॥


संबन्धाच्च1554 ॥ २ । १ । ५१ ॥


आप्तोपदेशसामर्थ्यात् शब्दादर्थसंप्रत्ययः ॥ २ । १ । ५२ ॥


सिद्धान्तस्वरूपमुपक्रमते—यत् तावदिति । एतेन संशयादिषु व्यभिचारेण ।
तेऽपि हि त्रिकालविषया इति । अन्वयव्यतिरेकोपपत्तिमात्रं प्रत्यक्षेऽप्यस्ते ।
प्रत्यायनाङ्गान्वयव्यतिरेकज्ञानं तु अन्यादृशं शब्दे, अन्यादृशं चानुमाने । तद्धि पक्ष
धर्मताद्यपेक्षमनुमाने, शब्दे तु तदनपेक्षमित्यत्र सूत्रं भवति—आप्तो…यः ।


यो ह्मत्यन्तादृष्टपूर्वः स्वर्गापूर्वदेवतादिः स वाक्यार्थरूपः । तथा हि


366
यन्न दुःखेन1555 संभिन्नं न च ग्रस्तमनन्तरम् ।

अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्1556

इति स्वर्गो वाक्यार्थः । एवमपूर्वमपि । तत् खलु स्वर्गनरकादिभोगहेतुः
पुरुषविशेषगुणः कालान्तरावस्थायी 1557स्वफलविरोधीति वाक्यार्थ एव । एवं देवताऽपि ।
सा हि सूक्तहविर्भागिनी सहस्राक्षाद्युपेतदेहादिमती वाक्यार्थ एव । न चैष1558
शब्दादृतेऽस्मदादिप्रत्यक्षादिगोचरः । न चागृहीतसंबन्धं लिङ्गमस्मिन् प्रवर्तितुमर्हति ।
न चागृहीते संबन्धिनि शक्यग्रहः संबन्धः । पदं तु यद्यपि पदार्थसंगतिसंविदमपेक्षते
यद्यपि च पदार्थ एव पदार्थान्तरविशिष्टो वाक्यार्थः, तथापि वाक्यार्थे स्वर्गादौ
पदार्थस्मरणद्वारेण प्रवर्तमानं संगतिग्रहानपेक्षमेव स्वर्गरूपवाक्यार्थं प्रतिपादकानि
च पदानि कुर्वन्ति, लोकसिद्धं सुखजातीयमुद्दिश्य लोके सिद्धैरेव दुःखाद्यसंभेदैर्विशिष्टं
स्वर्गपदवाच्यं प्रतिपादयन्ति, नापदार्थं वाक्यार्थीकुर्वन्ति । वाक्यार्थे च पदवचनं
स्वर्ग इति यथा । श्रोत्रियश्छन्दोऽधीत1559 इति । यथा च चक्षुरादयो रूपादिष्वगृहीतसङ्गतयः
प्रवर्तन्ते, एवं पदार्थसंगतिग्रहापेक्षाण्यपि पदानि वाक्यार्थावबोधने न संगति
ग्रहमपेक्षन्ते, कार्यव्यङ्ग्यत्वात् प्रमाणभावस्य, संगतिग्रहापेक्षेभ्योऽपि च 1560पदेभ्यो
वाक्यार्थावबोधकार्यदर्शनात् । तस्मान्न पदं तदर्थो वा वाक्यार्थावबोधे लिङ्गं तत्र
संबन्धग्रहानपेक्षत्वाद् रूपादिबोधे चक्षुरादिवत् ।


स्यादेतत् । माभूत् प्रत्यक्षतोदृष्टमनुमानं वाक्यार्थे, सामान्यतोदृष्टं भविष्यति ।
यद्यपि च वाक्यार्थे साध्ये पदानामपक्षधर्मत्वं, यद्यपि च पदस्मारिताः पदार्था व्यभि
चारिणः तथाप्याकाङ्क्षायोग्यतासत्तिविशेषणाः पदार्थाः स्वसंसर्गे लिङ्गं भविष्यन्ति ।
तथा हि यन्न दुःखेनेत्यादिभिः पदैः स्मारिताः पदार्था गुणप्रधानभावेनावस्थिताः
संसर्गवन्तः आकाङ्क्षायोग्यतासत्तिमत्त्वे सति पदैः स्मारितत्वात् गामभ्याजेत्यादिपद
स्मारितपदार्थवत् । संसर्गस्य च संसृज्यमाना एव विशेषो न पुनराजानतोऽस्ति
367 कश्चिद् भेदः1561 । संसृज्यमानाश्च पदैरेव स्मारिता इति संसर्गविशेषप्रतिलम्भः1562 । स
एव च वाक्यार्थ इति सिद्धमानुमानिको वाक्यार्थ इति । गामभ्याजेत्यत्र पदार्थानां
संसर्गवत्त्वं च वाक्यश्रवणसमनन्तरप्रयोज्यवृद्धप्रवृत्त्यनुमितपदार्थसंसर्ग
प्रत्ययादवगतम् । तदेतदचतुरस्रम् । पदानामेव पदार्थस्मारणावान्तरव्यापाराणां
वाक्यार्थप्रमां प्रति करणतया प्रमाणत्वात् तेषां चापक्षधर्मतया लिङ्गत्वानुपपत्तेः1563


यदि तु पदानि पदार्थमात्रपर्यवसितवृत्तीनि न वाक्यार्थप्रत्यायनपराणि1564
स्युः, ततो न पदार्थानामाकाङ्क्षा अस्तीति वाक्यार्थप्रत्ययो न भवेत् । न खल्वाकाङ्क्षां
विना सन्निधियोग्यताभ्यामेव पदार्थाः संसृज्यन्ते, यथा अयमेति पुत्रो राज्ञः
पुरुषोऽपसार्यतामित्यत्र पुत्रसंबन्धेन निराकाङ्क्षो राजा न पुरुषेण संबध्यते । न च
पदानां वाक्यार्थप्रत्ययपरत्वमन्तरेण तत्स्मारितानां पदार्थानामाकाङ्क्षास्ति । न हि
यद् येन विना न भवति तत् तदाकाङ्क्षति, येन कारकं क्रियामपेक्षेत द्रव्यं वा गुणम् ।
तथा सति पटो भवतीति वाक्यं न निराकाङ्क्षं स्यात्, पटस्य गुणाकाङ्क्षित्वात् ।
तस्माद् रक्तः पटो भवतीत्यस्यैकदेशः पटो भवतीति साकाङ्क्षत्वादप्रमाणम् । एवं
केवलं पटो भवतीत्यपि वाक्यं साकाङ्क्षं स्यात्, न चैवमस्ति । पटो भवतीति हि
वाक्यं यं कञ्चिद् गुणं गृहीत्वा अनाकाङ्क्षं प्रमाणमेव । 1565यदा पुना रक्तः पटो
भवतीत्यस्यैकदेशो, यं कञ्चिद् गुणमाक्षिप्य निराकाङ्क्षः, एवं हि विभागे सति
निराकाङ्क्षत्वेन वाक्यभेदः स्यात् । रक्त इत्यपि हि वाक्यं यं कञ्चिद् गुणिनं क्रियां
च यां काञ्चिदाक्षिप्य निर्वृणुयात् । न च विशेषदर्शने सति नाक्षेप इति युक्तम् ।
एकवाक्यतायां सत्यां विशेषदर्शनेऽनाक्षेपः । विशेषदर्शनेऽनाक्षेपे च सत्येक
वाक्यतेत्यन्योन्याश्रयापत्तेः । तस्माद् वाक्यार्थप्रतिपादनपरसमभिव्याहृतपदकदम्ब
स्मारितत्वेनापर्यवसानमेव पदार्थानामाकाङ्क्षेति युक्तमुत्पश्यामः । तथा च पटो
भवतीत्येतावन्मात्रं निराकाङ्क्षं यं कञ्चिद् गुणमाक्षिप्य निर्वृणेति । रक्तः पटो
368 भवतीत्यत्र तु रक्तपदस्यापि समभिव्याहारात् पटादिसंसर्गपरत्वमिति पटादि
संसर्गमन्तरेण रक्तत्वमपर्यवस्यत् पटादयश्च रक्तत्वसंसर्गं विनापर्यवस्यन्तः
परस्परसंबद्धा भवन्तीति सिध्यत्येकवाक्यता । तस्मात् पदान्येव पदार्थस्मारणेन
तत्संसर्गं लक्षयन्ति वाक्यार्थे प्रमाणम् । तेषां चापक्षधर्मतया न लिङ्गत्वम् ।


स्यादेतत् । अयं पदकदम्बकविशेषः स्मारितपदार्थसंसर्गवान् आकाङ्क्षादिमत्त्वे
सति पदकदम्बत्वात् गामभ्याजेतिपदावलीवदिति नापक्षधर्मता । नैवम्,
अन्योन्याश्रयापत्तेः । कर्मकारकं हि फलादन्यद् वस्तुतः सिद्धं ज्ञानलक्षणाय फलाय
कल्पते । यथा अग्निमत्ता धूमस्य पर्वतस्य वाग्निसंयोगः, न त्वग्निज्ञानजनकत्वं तद्वत्ता ।
फलव्यङ्ग्यं हि तन्नानुपजाते फले कल्पते । तथा च फलोपजनने सत्यग्निमत्ता
तद्वत्तायां च कर्मणि फलोपजननमित्यन्योन्यसंश्रयापत्तिः । न च फल कर्मणोरैक्यम् ।
न हि वृक्ष एव छिदा भवति । तदिह संसर्गवत्त्वं पदानां तज्ज्ञानजनकत्वं नानुमानसाध्यं
भवितुमर्हति । न ह्यग्निज्ञानजनकत्वं धूमस्यानुमानसाध्यमित्युक्तम् । स्मृतिजनक
त्वमप्येषां वाक्यार्थप्रत्यायनाय कल्पितं न संबन्धान्तरं व्यनक्तीति । तत् सिद्धमेतत्
न पदानि वाक्यार्थबोधे लिङ्गम् अपक्षधर्मत्वान्मनोवदिति ।


अपि च लौकिक एवार्थः परीक्षकैरनुगम्यते । न तु स्वकृतलक्षणानुरोधेना
लौकिकमास्थीयते । न च क्लेशेन कयाचित् प्रणाड्या पक्षधर्मतां कल्पयित्वा लोकः
पदेभ्यो वाक्यार्थमवगच्छति, अपि तु स्वतन्त्रेभ्य एव तेभ्य इति सिद्धः शब्दस्य
प्रमाणस्यानुमानाद् भेदः । आप्तोक्तत्वं तु स्वर्गादिप्रतिपादकस्यागमस्य प्रामाण्ये
लिङ्गमेव । न चैतावता तदर्थ आनुमानिको भवति । न हि प्रवृत्तिसामर्थ्यानुमितप्रामाण्यस्य
प्रत्यक्षस्य विषयो भवत्यानुमानिकः । अर्थविषयं हि प्रमाणं प्रामाण्यविषये च
प्रवृत्तिसामर्थ्याप्तोक्तत्वे इति । एवं व्यवस्थिते अभ्युच्चयमात्रतया
भाष्यवार्त्तिककारभ्यामाप्तोक्तत्वाश्रयत्वानाश्रयत्वे शब्दानुमानभेदहेतुतयोपन्यस्ते
इति मन्तव्यम् । एतेन प्रवृत्तिभेदकथनेन अद्विप्रवृत्तिकत्वं व्याख्यातम् निराकार्यतया ।


संबन्धात् प्रतिपत्तेरनुमानं शब्द इति यदुक्तं पूर्वपक्षिणा तदनुभाष्य दूषयति—
369 यत्पुनरेतदिति । अस्येदमिति षष्ठीविशिष्टस्येति भाष्यम् । तस्य व्याख्यानम्
वाच्यवाचकमाव इति । स्वाभाविको हि शब्दार्थयोः संबन्धस्त्रेधा1566 स्यात्
तादात्म्यलक्षणो वा प्रत्याय्यप्रत्यायकभावो वा प्राप्तिलक्षणो वा । तत्राव्यपदेश्यपदेन
प्रत्यक्षलक्षणस्थेन तादात्म्यमपाकृतम् । शब्दार्थयोः प्राप्तिनिराकरणहेतुना चोपरिष्टा
दौत्पत्तिकः प्रत्याय्यप्रत्यायकभावो निराकरिष्यते । तेन प्राप्तिं निराकरोति भाष्य
कारः—प्राप्तिलक्षणस्त्विति ।
एकेन्द्रियग्राह्ययोर्हि1567 प्राप्तिः प्रत्यक्षा यथाङ्गुल्योः
न तु शब्दार्थयोरेकेन्द्रियग्राह्यता, तस्मान्नानयोः प्राप्तिः प्रत्यक्षगम्या, वायुवनस्पत्योरिवे
त्यर्थः । ननु शब्दशब्दस्यार्थः समानेन्द्रियग्राह्य एव, तत् कथं येनेन्द्रियेण गृह्यते
शब्दस्तस्य विषयभावमतीतोऽर्थ
इति । अत आह—अस्ति चातीन्द्रिय
विषयभूतोऽपीति ।
शब्दग्राहकेन्द्रियमतिपतित इन्द्रियमात्रमतिपतितश्चातीन्द्रियः
स च विषयभूतश्चेति कर्मधारयः ।


तदेतद् यस्माच्छब्दस्येति वार्त्तिकेनं व्याख्यातम् ॥ ५२ ॥


पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः ॥ २ । १ । ५३ ॥


प्राप्तिलक्षणे चेत्यादि भाष्यं व्याचष्टे—नानुमानेनापीति । उपसंपद्यते प्राप्नोति,
गच्छतीति यावत् । पूर…वः ॥ आगच्छन्नुपलभ्येत मोदकादिः, न चोपलभ्यते,
तस्मान्नागच्छति शब्ददेशमर्थः । ततश्च अस्मिन् पक्षे शब्देन लोकव्यवहार
उच्छिद्येत । अथ शब्द
इति । न तावद् गुणस्य शब्दस्य गतिरुपपद्यते । तस्मात्
सन्तानवृत्त्या शब्दोऽर्थदेशं गच्छतीति वाच्यम्, तथा च नित्यत्वव्याहतिरित्यर्थः ।
शङ्कते—अथ नागच्छति इति । भवति विद्यत इत्यर्थः । अभूत्वा भवनं भवत्यर्थ इति
मत्वा निराकरोति—नित्यश्च भवति चेतीति । शङ्किता स्वाभिप्रायमाह—अथ न
गच्छतीति ।
निराकरोति—न सर्वार्थेति । न हि समानदेशाः समानेन्द्रियग्राह्याः प्रति
370 नियतव्यञ्जकव्यञ्जनीया दृष्टा इत्यभिप्रायः । सामान्यस्याश्रयोपलब्धिर्व्यक्ति
हेतुः । न च पुनः शब्दस्याश्रयोपलब्धिरस्ति
यतः शब्दो व्यज्येत, प्रत्युत
शब्देनैवाश्रयो व्यञ्जनीयः स्यात् । तथा चार्थाश्रितः शब्दस्ताल्वादिभिरप्राप्तैः सर्वान्
प्रति व्यक्त इत्युक्तदोषापत्तिरिति । न च शब्दस्यार्थे वृत्तिरनुभवगोचर इत्याह—
च वाच्ये वृत्तिः । आगमात् प्रतिपत्स्यत
इति, निरुक्तादिरागमः । उत्तरम्—
एवात्रेति1568
निरुक्तादीनामर्थसंबन्धे सिद्धे प्रतिपादकत्वं भवेत् । स एव तु विचार्यत
इत्यर्थः ॥ ५३ ॥


शब्दार्थव्यवस्थानादप्रतिषेधः ॥ २ । १ । ५४ ॥


पूर्वपक्षवाद्याह—शब्दा…धः ॥ ५४ ॥


न सामयिकत्वाच्छब्दार्थ संप्रत्ययस्य ॥ २ । १ । ५५ ॥


सिद्धान्तवाद्याह—न सा…स्य ।


न सामयिकत्वादिति । अभिधानाभिधेयनियमनियोग इति । अभि
धानाभिधेययोर्नियमो गोशब्दस्य सास्नादिमानेवार्थ एवमश्वशब्दस्य केशरादि
मानेवेति, तस्मिन् नियोगो बोद्धव्य इति भगवतः परमेश्वरस्य सर्गादौ, सोऽयं समय
इत्यर्थः । तस्मिन्नुपयुक्ते ज्ञाते शब्दार्थव्यवस्था भवति । संबन्धवादिनोऽपि
चायमवर्जनीय
इति । येऽपि मीमांसका वैयाकरणा वा स्वाभाविकं शब्दर्थयोः
संबन्धमास्थिषत तेषामपि नैष सत्तामात्रेण गमकोऽपि तु ज्ञातः सन् । विज्ञाने
चायमस्य वाचक इति वास्मादयं बोध्यव्य इति वा संकेत एवोपायः । वृद्धव्यवहारोऽपि
गवादिशब्दानां देवदत्तादिशब्दवत् सङ्केतपूर्व एव । तद् वरमस्तु सङ्केत एव, कृतमत्र
स्वाभाविकेन संबन्धेन तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेरित्यर्थः ।


371

नन्वयं समयः केषाञ्चित् शब्दानामसति स्वाभाविकेऽर्थैः संबन्धे न कर्तुं
शक्यः । निर्दिश्य ह्यर्थं ब्रूयादयमस्माद् बोद्धव्य इति । न च निर्देशोऽसति स्वाभाविके
संबन्धे केषाञ्चित् शब्दानां सिध्यति । सङ्केताधीने तु वाचकत्वे सर्वेषां
शब्दानामकृतसमयत्वात् किं केन निर्दिशेत्1569 ? तस्मात् सङ्केतकरणमेव
स्वाभाविकसंबन्धं प्रतिपादयति शब्दानामित्यत आह—प्रयुज्यमानग्रहणाच्चेति ।
परमेश्वरेण हि यः सृष्ट्यादौ गवादिशब्दानामर्थे सङ्केतः कृतः, सोऽधुना वृद्धव्यवहारे
प्रयुज्यमानानां शब्दानामविदिसंगतिभिरपि बालैः शक्यो ग्रहीतुम् । तथा हि वृद्ध
वचनानन्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिनिवृत्तिभयशोकहर्षादिप्रतिपत्तेस्तद्धेतुं
प्रत्ययमनुमिमीते बालः । तस्य च सत्स्वप्यन्येष्वप्यर्थेषु भूतस्याभूतस्य वा
श्रवणसमनन्तरं च भवतो वाक्यश्रवणहेतुतामवगच्छति तदवयवानां च
पदानामावापोद्वापभेदेन तत्तदर्थप्रत्ययोपजनापायदर्शनात् तेषु तेष्वर्थेषु तेषां तेषां
पदानां वाचकत्वं कल्पयति । एवं पदावयवेषु 1570प्रकृत्यादिष्वपि द्रष्टव्यम् । सोऽयं
वृद्धव्यवहारः साम्प्रतिकानां सङ्केतग्रहोपायः, सर्गादिभुवां तु महर्षिदेवादीनां
परमेश्वरानुग्रहाद् धर्मज्ञानवैराग्यैश्वर्यातिशयसंपन्नानां परमेश्वरेण सुकर एव सङ्केतः
कर्तुम् । तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः । तद्व्यवहारपरम्परागतश्चा
स्मदादीनामपि सङ्केतग्रहो न संबन्धस्मृतिमपेक्षते, आप्तपरम्परात एव ततो
निःशङ्कव्यवहारोपपत्तेः । अत एवाह भाष्यकारः—लौकिकानामिति ।


स्यादेतत् । यदि शब्दानां साङ्केतिकसंबन्धो न स्वाभाविकः कृतं तर्हि साध्व
साधुविभागपरेण व्याकरणेन । स्वाभाविकं हि यस्य वाचकत्वं स साधुरसाधु
श्चेतरः । सामयिकत्वे तु सर्व एव साधवोऽसाधवो वेत्यत आह—समयपरिपालनार्थं
चेदमिति
पारमेश्वरसमयपरिपालनार्थमित्यर्थः, तथा च येषां पदानां येनार्थेन परमे
श्वरेण कृतः समयः, तानि तत्र साधूनि, असाधूनीतरत्रेति विभागाय व्याकरण
मर्थवदिति सिद्धम् । अर्थरूपस्तुषो लेशोऽर्थतुषः, स नास्ति । केवलं परैः प्राप्तिलक्षणः
372 संबन्धः कल्पित इत्यर्थः । तथा च स्वाभाविकसंबन्धाभावादनुमानाभेदायाविना
भावसिद्ध्यर्थं स्वाभाविकसंबन्धाभिधानमयुक्तमिति सिद्धम् ।


वार्त्तिकम्—स पुनः समयः कुत इति । यदि केचनापि शब्दा न प्रसिद्ध
संबन्धास्ततोऽशक्यप्रतीतिः समय इति भावः । उत्तरम्—पदज्ञानात् । पदं ज्ञायते
व्युत्पाद्यते अनेनेति व्युत्पत्या व्याकरणादित्यर्थः । ननु सर्वेषां शब्दानामविदिसङ्गतिः
कथं व्याकरणादपि शब्दमयात्1571 समयं प्रतिपद्यते1572 इत्यत आह—लोकतश्चेति ।
वृद्धव्यवहारावधृतसमयो व्याकरणात् साध्वसाधुविभागं च प्रतिपद्यत1573 इत्यर्थः ।
तदेतद् विभजते—तद्धि शास्त्रमिति ।


एवं तावद् दृष्टेनैव समयेनोभयसिद्धेन शब्दार्थव्यवस्थापनस्योपपत्तेर्नात्यन्ता
परिदृश्यमानस्वाभाविकसंबन्धकल्पना युक्तेत्युक्तत् ॥ ५५ ॥


जातिविशेषे चानियमात् ॥ २ । १ । ५६ ॥


संप्रत्यनुपपन्नोऽप्ययं स्वाभाविकः संबन्ध इत्याह—जाति…मात् ॥ स्वाभाविको
हि संबन्धः कस्यचिच्छब्दस्य केनचिदर्थेनास्ति, न तु सर्वस्य सर्वेण । तथा सति
शब्दार्थव्यवस्था न स्यात् । एवं चेत्1574 न कृष्यार्यम्लेच्छानां नियमः स्यात् । तथा हि
यवशब्द आर्यैर्दीर्घशूके पदार्थे प्रयुज्यते । ते हि यवशब्दाद् दीर्घशूकं पदार्थं
प्रतिपद्यन्ते । म्लेच्छास्तु प्रियङ्गौ प्रयुञ्जते । ते हि ततः प्रियङ्गुं प्रतिपद्यन्ते । एवं
त्रिवृतशब्दमृषयः स्तोत्रीयानवके प्रयुञ्जते आर्यास्तु लताविशेषे । सोऽयमनियमो न
स्वाभाविके संबन्धे । न हि स्वाभाविकसंबद्ध आलोको रूपेण सहस्रेणापि शिल्पिभी
रसादिसंबद्धः शक्यः कर्तुं यतस्ततो रसादयो गम्येरन् । नापि तत्र संकेतेन स्वा
भाविकः संबन्धो व्यज्यते । सदेव हि व्यज्यते नासत् । नो खलु यत्र घटो नास्ति तत्र
तं प्रदीपः शक्तो व्यङ्क्तुम् । सोऽयमनियमः सामयिकत्वे उपपद्यते पुरुषेच्छाधीनत्वात्
373 तस्याश्चानियमात् । न तु स्वाभाविकेन1575 इति । न च वाच्यम् सर्व एव शब्दाः
सर्वैरेवार्थैः स्वभावतः संबद्धाः सङ्केतेन तु नियम्यन्त इति प्रमाणाभावात् । जातिभेदेन
चार्थभेदप्रत्यस्य सङ्केतभेदादप्युपपत्तिरिति ।


नन्वार्यदेशवर्त्तिनां म्लेच्छानामार्यव्यवहारनिश्चिसङ्केतानां नानियम इत्यत आह
वार्त्तिककारः—जातिविशेषशब्देनेति ॥ ५६ ॥


॥ शब्दसामान्यपरीक्षाप्रकरणम् ॥

शब्दविशेषपरीक्षाप्रकरणम्


तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ २ । १ । ५७ ॥


अनुमानान्तर्भावे कदाचिदर्थाविनाभावात् भवेत् शब्दस्य प्रामाण्यम् । तद्बहिर्भावे
तु सुलभमस्याप्रामाण्यमिति मत्वा अनुमानभेदाभिधानानन्तरमप्रामाण्यमाह पूर्वपक्षी—
तद…भ्यः ।


तस्य इत्यादिभाष्यम् । तद् वार्त्तिककारो व्याचष्टे—तदित्यधिकृत
शब्दाभिधानादिति ।
शास्त्रे ह्यस्मिन् निःश्रेयसाधिगमपरे तन्नान्तरीयकतया वेद
प्रामाण्यव्युत्पादनमधिकृतमित्यधिकृतः शब्दो वेद इत्यर्थः ।


स्यादेतत् । अनृतत्वमप्रामाण्यमिति पर्यायः । तथा च प्रतिज्ञार्थ एव हेतुरित्यत
आह—अप्रामाण्यमर्थस्याप्रत्यायकत्वम् । अर्थस्येत्यविपरीतस्येत्यर्थः । पुत्रकामेष्टि
कारीर्यादयो हि ऐहिकफला नामुष्मिकफलाः, ऐहिकत्वेनैव तत्फलस्य चेतनेन
काम्यमानत्वात् एतच्छरीरोपभोगयोग्यत्वाच्चेति । विरुद्धार्थोपस्थापकत्वेन सहासंभवो
वाक्ययोर्वा पदयोर्वेति । अत्र भाष्यकारेणोदितहोमादिविधिवाक्यानां निन्दा
भिर्व्याघात इत्युक्तम् । अधिकविवक्षया वार्त्तिककार आह—अग्निहोत्रमिति ।
374 होमकालानामुदितादीनां निन्दया प्रतिषेधात् । ननु मध्याह्नापराह्णसायाह्नाः भविष्यन्ति
होमस्य काला इत्यत आह—न चान्य इति । तेषामपि सर्वेषामुदितकाल
त्वादित्यर्थः । यस्तु उदयानन्तर एव काल उदितकाल इत्युच्यते, तथा चान्योऽस्ति
काल इत्युक्ते व्याघाते न तुष्यति, तं प्रत्यन्यथा व्याघातमाह—उदितानुदितेति ।
अग्निहोत्रं जुहोतीत्युत्पत्तिवाक्येन विहितेऽग्निहोत्रनाम्नि होमे तदनुवादेनैकं वाक्यमुदितं
कालं विधत्ते । अन्यच्चानुदितकालमपरं च समयाध्युषितकालम् । न चैक एव
होमस्तदा तदा शक्यः कर्तुम् । न च कालगुणानुरोधेन प्रधानहोमस्यावृत्तिर्युक्ता1576 । न
चोदिततादिवाक्येषु होमस्याभ्यासः श्रूयते । तस्मात् परस्परव्याघातादप्रामाण्यमेव
साधीय इति । नन्वेतेऽनृतत्वादयः सर्ववेदवाक्याव्यापिन इति भागासिद्धतया
हेत्वाभासता इत्यत आह—दृष्टान्तत्वेनेति । अयमत्र प्रयोगः । पुत्रकामेष्टिहवनाभ्या
सवाक्यानि अप्रमाणम् अनृतत्वादिभ्यः क्षणिकादिवाक्यवदिति । एवं शेषाणि
वेदवाक्यानि अप्रमाणं वेदवाक्यत्वात् पुत्रकामेष्ट्यादिवाक्यवदिति । पर्युदासं
साध्यमुक्त्वा तेनैव हेतुना प्रसज्यप्रतिषेधं साध्यमाह—अग्निहोत्रादिवाक्यानां
वेति ।
तदन्यद् वाक्यं पुत्रकामेष्ट्यादि ॥ ५७ ॥


न कर्मकर्तृसाधनवैगुण्यात् ॥ २ । १ । ५८ ॥


एवं पूर्वपक्षमुक्त्वा सिद्धान्तमुपक्रममाणः प्रथमं तावदनृतत्वं दूषयति—न क
…त् ।


फलादर्शनमन्यथाप्युपपद्यमानं नानृतत्वं साधयति । ततश्चासिद्धमनृतत्वं हेतु
रित्यर्थः । स्यादेतत् । इष्टेश्चोदितत्वादनपेक्षेयं पुत्रजन्मकारणमिति1577 किमस्याः
कर्मकर्तृवैगुण्यं करिष्यतीत्यत आह—इष्टेः करणसाधनत्वेनेति । दृष्टसहकार्यदृष्टं
कारणम्, न केवलम् । तद् दृष्टवैगुण्यादुपपन्नमभवनं फलस्येत्यर्थः । अपेक्षणीयं
375 कर्तारमाह—पितराविति । करणमाह—इष्ट्येति । क्रियामाह—संप्रयुज्यमानाविति ।
इष्ट्याश्रयं तावदिति भाष्यम् । समीहा
तदङ्गसमिदादिकर्मानुष्ठानम् । तस्या भ्रेषो
भ्रंशोऽननुष्ठानमिति यावत् । अविद्वान् प्रयोक्तेति, विदुषामिहाधिकारः1578 सामर्थ्यात् ।
अत+एव स्त्रीशूद्रतिरश्चामसमर्थानामनधिकारः । विद्वानपि यदि द्विजातिकर्महानिहेतुं
कर्म ब्रह्महत्यादि कृतवान्, तत्कृतमपि कर्म न फलाय कल्पते कर्तृत्वे वैगुण्यादिति
दर्शयति—कपूयेति । कपूयं निन्दितं कर्म । आचरतीत्याचरणः पुरुषः । हविरसंस्कृतम्
1579अशृतमप्रोक्षितं वा । उपहतं श्वमार्जारादिभिः । मन्त्रा न्यूनाः क्रमविशेषेण । दक्षिणा
दुरागता
1580चौर्यद्यूतोत्कोचादेर्दुष्टादुपायादागतेत्यर्थः । अन्वाहार्यमिह दक्षिणा । सा
ततो न्यूना वा दीयते यावत्या पुरूषो न तृप्यति । स च पुरुषाहारो जरत्तरत्वेनापाक्यतया
निन्दितः । मिथ्यासंप्रयोगः पुरुषायितादि । मातरि योनिव्यापदो नानाविधाः
प्रजनप्रतिबन्धहेतवः । लोहितरेतसो बीजस्योपघात उपहतत्वम् । यतः 1581प्रजनो न
भवति । मिथ्याभिमन्थनं यतो नाग्निर्जायते ।


कर्मकर्तृवैगुण्ये आह वार्त्तिककारः—तथेष्टेः साधयितुरिति । मन्त्राणा
मसामर्थादिति ।
मन्त्रादिसाधनानां पुत्रकामेष्ट्यादीनां कर्मणामित्यर्थः । ननु यदि
निरपेक्षा नेष्टिः साधनं 1582तर्ह्यनपेक्षमाणौ पितरावेव सम्यक् संप्रयुज्यमानौ पुत्रस्य
जनकौ, कृतमत्र पुत्रकामेष्ट्या ।


अत+एव म्लेच्छादीनामपि पुत्रजन्मोपपद्यत इत्यत आह—तत्सहकारित्वादिति ।
नान्वयव्यतिरेकगम्यमिष्टेः साधनत्वम्1583 अपि त्वागमगम्यम् । म्लेच्छादीनां पुत्रजन्म
जन्मान्तरीयादृष्टवशादित्यागमप्रामाण्यादनुसरणीयम् । दृश्यमानकर्मकर्तृवैगुण्ये च
फलानुत्पादोऽदृष्टमपेक्षणीयं सूचयति । तदनेन पुत्रकामेष्ट्यादीनामनियतफलत्वमपि
सूचितं भवति । तथा च कर्मान्तरप्रतिबन्धेन कर्मकर्तृसाधनावैगुण्येऽपि फलानुत्पादः
समर्थितो भवति । ऐहिकफलेषु तु कारीर्यादिषु वैगुण्यं1584 परिहारः । अनृतत्वादप्रामा
376 ण्यमिति चेदिति ।
धर्मिविशेषणत्वेनोपयुक्तानामपि पश्चात् निष्कृष्य हेतुत्वाभिधानं1585
न दोषावहमिति भावः । उत्तरम्—किमिदमिति नन्वर्थाप्रतिपादकत्वं प्रतिज्ञातम् ।
1586एतदेवानृतत्वं च हेतुरिति प्रतिज्ञाहेत्वोरर्थाभेद इत्यत आह—अनृतत्वं चेति ॥ ५८ ॥


अभ्युपेत्य कालभेदे दोषवचनात् ॥ २ । १ । ५९ ॥


यत् पुनरुक्तम् उदिते होतव्यमित्यादीनामेव परस्परं व्याघात इति, तत्राह—
उभयेति । त्रिषु कालविधिपरेषु वाक्येष्वेकैकेनैव वाक्येनोभयोभयवाक्यार्थ
प्रतिषेधानभिधानात् । नान्यथा नाप्रामाण्यमित्यर्थः । यद्यपि चैको होमः समुच्चयेन
तदा तदा1587 न शक्यः कर्तुम्, तथापि विकल्पेन करिष्यते । बहुलं हि विकल्पो
लोकेऽप्युपलभ्यते । वस्तु हि व्यवस्थितं न विकल्प्यते । अनुष्ठाने चानागतोत्पाद्ये
विधिप्रतिषेधविकल्पानामविरोधः स्वरूपानिष्पत्तेरिति । वाक्यार्थो न कर्तव्य इति
वाक्यं तन्न कर्तव्यमित्यस्यार्थः1588कामतो वा विकल्प्येत इति परस्परव्याहतार्थं
कल्प्येतेत्यर्थः । अभिहितं वेति, यदनेन वाक्येन स्वसामर्थ्येनाभिहितम्, तद् वा
परीक्षकैरवधृत्यानूद्यते इदमनेन वाक्येनाभिहितमिति । निर्धारयति—अभिहितेति ।
विहितानुवादो वेति क्वचित् पाठः । विहितो होमस्तस्यानुवादः कालविशेषवि
धानायेति । विहितानुवाद एव न्याय्यः कालविशेषविधानाय, न तु कालान्तर
प्रतिषेधोऽर्थः कल्पितोऽर्थ1589 इत्यर्थः ॥ ५९ ॥


अनुवादोपपत्तश्च ॥ २ । १ । ६० ॥


एकादश सामिधेन्य उत्पत्तौ पठिताः । तासां प्रथमोत्तमयोस्त्रिर्वचनं पञ्चदशा
वरत्वं1590 मन्त्रस्य प्रयोजनवतः साधयत्सप्रयोजनमिति ।


377

तदेवं वेदाप्रामाण्यहेतूनुद्धृत्य प्रामाण्यसंभवहेतुः सूत्रकारेण वक्तव्य इति पूर्वं
वार्त्तिककारः स्वत एव तावत् प्रामाण्यसंभवहेतूनाह—पुत्रकामेष्टीति ॥ ६० ॥


वाक्यविभागस्य चार्थग्रहणात् ॥ २ । १ । ६१ ॥


सौत्रं हेतुमवतारयति—समस्तानीति ॥ ६१ ॥


विध्यर्थवादानुवादवचनविनियोगात् ॥ २ । १ । ६२ ॥


विध्य…गात् ॥ ६२ ॥


विधिर्विधायकः ॥ २ । १ । ६३ ॥


विधिर्विधायकः ॥ तस्य व्याख्यानं यद् वाक्यमिति । चोदकं प्रवर्तकम् । अत्र
चारोग्यकामः पथ्यमश्नीयादित्याद्युपदेशश्रवणसमनन्तरं पथ्याशने प्रवर्तमानं
प्रयोज्यवृद्धमुपलभ्य बालस्तस्य प्रवृत्तिहेतुं प्रत्ययमनुमिमीते, अस्य प्रवृत्तिः
प्रवर्तकप्रत्ययपूर्विका स्वतन्त्रप्रवृत्तित्वात्, मत्प्रवृत्तिवत् । स चायमनुमाता व्युत्पित्सुः
स्वात्मसिद्धमेव प्रवर्तकज्ञानमनुमिनोति, नादृष्टपूर्वम् । न हि स्वात्मसिद्धे1591 प्रवृत्तिहेतौ
दृष्टे संभवत्यदृष्टकल्पना न्याय्या । न चैष शब्दतद्व्यापारपुरुषाशयनिरुपाधिप्रवर्तक
मात्रापूर्वप्रत्ययानात्मनि प्रवर्तकानवगतवान्, येन तेषु प्रवर्तकत्वशङ्काप्यवतरेत् ।
स्तन्यपानादिविषयककार्यप्रत्ययोऽस्य प्रवर्तक इति चेत् ? किं पुनरेतत् कार्यमिति ।
पुरुषप्रयत्नः कृतिः, 1592तद्व्याप्यमिति चेत् ? ननु कृतिरिति मानसी प्रवृत्तिः, तदुपहितं
कार्यं प्रवृत्तिविषयः प्रवृत्तिफलं वा फलोद्देशेन पुरुषप्रवृत्तेः । तदवगमश्च
378 प्रवृत्तिहेतुः । प्रवृत्त्यवगतिस्तर्हि प्रवृत्तिहेतुरित्युक्तं भवति । 1593न चाननुविधेय
नियोगेष्वस्माकं व्युत्पन्नानां नास्ति प्रवृत्त्यवगमः । न चास्मात् प्रवर्तेमहि । अपि चेयं
प्रवृत्तिः प्रयत्नापरनामा इच्छाद्वेषयोनिरसति कारणे न स्वज्ञानमात्रादुदेतुमर्हति । न
चेच्छाद्वेषावेव प्रवृत्तिहेतू लिङादिगोचराविति साम्प्रतम् । स खलु लिङादिगोचरोऽ
भ्युपेयो यः स्वज्ञानेन प्रवर्तयति न तु स्वसत्तया, शब्दस्य ज्ञापकत्वादनुत्पादकत्वाच्च ।
न चेच्छाद्वेषौ स्वज्ञानेन प्रवर्तयतो यतः प्रवृत्तिं प्रति स्वज्ञानाय शब्दमपेक्षेयाताम्,
अपि तु सत्तया । तस्मात् तदेव लिङादेर्ज्ञाप्यम् । यज् ज्ञातं यदिच्छाद्वेषै1594 प्रसूते, तत्र फलं
निसर्गसुन्दरतया ज्ञातमात्मनीच्छां प्रसूते, एवं तदुपायोऽपि, तत् तया ज्ञातः
फलसंबन्धादात्मनीच्छाम् । तस्माद् द्वयमवशिष्यते फलं तदुपायो वा । तत्र फलस्य
यद्यपि स्वत+एवेच्छादिविषयत्वम्, तथापि तद्विषयेच्छां न तत्र प्रवर्तयितुमर्हति,
तस्यायोग्यत्वेन प्रवृत्तिविषयत्वानुपपत्तेः । न च फलगोचरेच्छा अन्यत्र तदुपाये
स्वकार्यं प्रयत्नं जनयितुमर्हति 1595इषिप्रयत्नयोरेकविषयतया कार्यकारणयोः
संप्रतिपत्तेः । न च तत्संबन्धात् तदुपायो नेष्यते येन फलेच्छाया एवोपायविषयप्रयत्नः
प्रसवहेतुत्वं प्रकल्प्येत । यथाहुः


अन्यदिच्छत्यन्यत्करोतीति विप्रतिषिद्धमिति ।

तस्मादिष्यमाणमपि फलं प्रवृत्तिविषयत्वाभावान्नात्मनि स्वज्ञानेन प्रवर्तकम् ।
तदुपायस्तु प्रवृत्तिविषयत्वादिष्यमाणत्वाच्च स्वज्ञानेन प्रवर्तक इति युक्तमुत्प
श्यामः । बालानां च स्तन्यादावपेक्षितोपायताज्ञानं प्राग्भवीयव्याप्तिग्रहणजनित
संस्कारानुवृत्तिवशादुत्पन्नव्याप्तिस्मरणानां तज्जातीयत्वलिङ्गज्ञानजमनुमानमेव । एतच्च
पूर्वाभ्यस्तस्मृत्यनुबन्धात्1596
इत्यत्रोपपादयिष्यते । अत एव प्रयोजनलक्षणं व्याचक्षाणेनोक्तं वार्त्तिककृता


इदं सुखसाधनमिति बुद्ध्वा सुखावाप्तये प्रयतते । इदं दुःखसाधनमिति
चावगम्य दुःखहानायेति1597


379

तस्मादपेक्षितोपायता प्रवर्तना स्वात्मनि सिद्धा वृद्धस्यापि प्रवृत्तिहेतु
रित्यवगच्छति व्युत्पित्सुर्बालः । सा च लिङादिश्रवणसमनन्तरमुपजायमाना लिङाद्यर्थ
इति निश्चिनोति । न चापेक्षितोपायतामात्रं प्रवृत्तिहेतुः । भवति हि यजमाननिर्वर्तिता
कारीरी कृषीबलानामपेक्षितोपायः । न चैतेऽस्यां प्रवर्तन्ते तस्याः सिद्धत्वात् । तस्मात्
कर्तुरपेक्षितोपायता प्रवृत्तिहेतुरित्यास्थेयम्1598


न च सिद्धे कर्तृतास्ति । यथाह भगवान् जैमिनिः

शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्1599 इति ।

लोके च क्रियैवापेक्षितोपायः शब्दार्थ इति तदनुसारेण
अग्निहोत्रं जुहुयात् स्वर्गकामः
इत्यादयोऽपि वैदिका उपदेशा क्रियामेवापेक्षितोपायमभिदधति । सा चेयमा
शुतरविनाशिन्यप्यवान्तरापूर्वव्यापारा सती चिरभाविनेऽपि फलाय कल्पते कृषिरिव
निदाघसमयजन्मा हेमन्तसमयभाविने शस्यायेति नापूर्वस्यात्रापेक्षितोपायत्वं
कल्पयितव्यम् । भवतु वा तदेवापेक्षितोपायप्रवृत्तिहेतुः, तथापि कर्तुरपेक्षितोपायता
लक्षणसमानोपाधिप्रवृत्तिर्विधिशब्दस्तदेकोपाधिसंबन्धात् क्वचित् क्रियायां क्वचिदपूर्वे
प्रवर्त्स्यति न नः1600 काचिद् दर्शनक्षतिः । तदेवमुपदेशे नियोज्यप्रयोजनकर्मणि
व्युत्पन्नः तानेव शब्दान् 1601नियोक्तृप्रयोजनकर्मण्याज्ञादौ प्रयुज्यमानानुपलभ्या
ध्येषणानुज्ञावाचकत्वमप्यवगच्छति । अग्निहोत्रादिवाक्यानां तु प्रयोज्यप्रयोजन
कर्मवाचिनामुपदेशत्वमेव । तस्माद् यद्यप्याज्ञाध्येषणामन्त्रणोपदेशाः सर्वे विधयः,
तथापि इह उपदेशो विधिरभिमतः । तस्मात् सुष्ठूक्तम्—यद्वाक्यं विधायकमिति
कर्त्रपेक्षितोपायताज्ञापकमित्यर्थः ।


विधिस्तु नियोगोऽनुज्ञा वेति भाष्यमनुभाष्य व्याचष्टे—विधिस्त्विति ।
यदेतत्,
380 अग्निहोत्रं जुहुयात् स्वर्गकामः


इति वाक्यमप्रवृत्तप्रवर्तकलक्षणं कर्त्रपेक्षितोपायतामज्ञातां1602 ज्ञापयद्विधिः, तदेव
तत्साधनद्रव्याद्यवाप्तिप्रवृत्तिमनुजानाति ।


एतदुक्तं भवति—1603सन्ति हि द्रव्यार्जननियमविधयः
ब्राह्मणस्य प्रतिग्रहादिना
इत्यादयः । ते च रागतो धनार्जने प्रवृत्तानां ब्राह्मणानां लौकिकानेकोपायप्रसक्तौ1604
सत्यां नियमपराः पुरुषार्थाः न क्रत्वर्थाः । क्रतुविधयस्तु धनसाधनास्तेन विना
अपर्यवस्यन्तोऽपि1605 न धनार्जनं तन्नियमं वा प्रयुञ्जते, पुरुषार्थत्वेनैव1606 तस्य प्रयुक्त
त्वात् केवलमनुजानन्ति । तस्मात् तदेवाग्निहोत्रादिवाक्यमप्राप्तेऽग्निहोत्रादौ
विधिरन्यतः प्राप्ते तु तत्साधनेऽनुज्ञेति सिद्धम् । समुच्चये वाशब्दः ॥ ६३ ॥


स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः ॥ २ । १ । ६४ ॥


स्तुतेरुपयोगद्वयम्—प्रवृत्त्या, धर्मे कर्तव्ये विधिना प्रवृत्तौ कर्तव्यायां च
सहकारिता । प्रशस्तमिति ज्ञात्वा प्रवर्तमानाः पुमांसः प्रवर्तन्तेतराम् । सा च प्रवृत्तिः
श्राद्धस्य धर्मं प्रसूते, नाश्राद्धस्य । तथा च श्रूयते—


यदेव प्रज्ञया श्रद्धयोपनिषदा च करोति तदेवास्य

वीर्यवत्तरं भवतीति1607

तत्र प्रवृत्तेः कार्यसहकारितामाह—स्तूयमानमिति । विधेः कार्ये सहकारिता
माह—प्रवर्तिका चेति ।


कथं परकृतिपुराकल्पावर्थवादौ इति । चरकाध्वर्युपुरुषसंबन्धश्रवणाद्
वपाहोमपृषदाज्याभिघारणयोः क्रमभेदस्याप्राप्तस्य पुरुषविशेषधर्मतया विधायकं
परकृतिवाक्यम् । तथा बहिष्पवमानसोमस्तोममन्त्रसंबन्धस्य पूर्वकालपुरुषसंबन्धितया
381 श्रवणाद् इदानीन्तनपुरुषधर्मतया विधायकं पुराकल्पवाक्यं कस्मात् न भवतीति
भावः । उत्तरम्—स्तुतिनिन्दावाक्येन कस्यचिद् विधेः शेषभूतेनाभिसंबन्धादिति ।
न तावदेतेषु वाक्येषु सिद्धाभिधायिषु विधिश्रुतिरस्ति । तत्र किमश्रूयमाणो विधिः
कल्प्यतामाहो प्रतीतेन विधिनैकवाक्यतेति । तत्र कल्पनालाघवात् प्रतीतेन
विधिनैकवाक्यतैव ज्यायसी । पूर्वपक्षे विधिकल्पना तदेकवाक्यताकल्पनेति द्वयं
कल्पनीयम् । उत्तरस्मिंस्तु एकवाक्यतामात्रमिति भावः । स्फुटतरस्तुतिनिन्दा
प्रतीत्यभावाच्च परकृतिपुराकल्पयोः स्तुतिनिन्दाभ्यां भेदेनोपन्यास इति ॥ ६४ ॥


विधिविहितस्यानुवचनमनुवादः ॥ २ । १ । ६५ ॥


विधिमधिकृत्य स्तुतिर्वोच्यते निन्दा वेति । यथा
अश्वमेधेन यजेत
इति विधेरनुवादः
योऽश्वमेधेन यजेत
इति । किमर्थम् ? स्तोतुम् ।
तरति मृत्युं तरति पाप्मानम्
इति स्तुतिः ।
उदिते होतव्यम्
इत्यस्य विधेरनुवादो
य उदिते जुहोति
इति । किमर्थम् ? निन्दितुम् ।
श्यावो वास्याहुतिमभ्यवहरतीति निन्दा ।


प्रयोजनान्तरमाह—विधिशेषो वाभिधीयत इति । यथा
यदाग्नेयोऽष्टाकपालो भवति
382 इत्यादिभिरुत्पत्तिवाक्यैः षडाग्नेयादयो यागाः पौर्णमास्यमावास्याकालसंबद्धा
विहिताः । ते च विधय इष्टाभ्युपायतारूपाः स्ववाक्ये चेष्टमनासादयन्तः सापेक्षाः ।
एवमाघाराद्युत्पत्तिविधयोऽपि कालविशेषासंबद्धा इष्टापेक्षा एव । तत्र
य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्यां यजते
इति कालविशेषसंबन्धेनोत्पन्नानामाग्नेयादीनां षण्णामनुवादः । किमर्थम् ?
यदाग्नेयोऽष्टाकपाल
इत्याद्युत्पत्तिविध्यपेक्षितेष्टसंबन्धनियमार्थम् ।
दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत
इति षण्णामेवाग्नेयादीनां कालविशेषसंबन्धोत्पन्नानूदितानां फलसंबन्धो यथा स्यात् ।
मा भूदाघारादीनां कालासंबन्धेनोत्पन्नानामित्येवमर्थम् । अत आघारादयः
फलवत्सन्निधावफलं तदङ्गम्
इति दर्शपौर्णमासाङ्गतयावतिष्ठन्त इति सिद्धं भवति । सोऽयं फलसंबन्धनियमो
विधिशेषः । तदर्थमनुवाद इत्यर्थः । एवम्
अग्निहोत्रं जुहोति
इति विहितो होमोऽनूद्यते । किमर्थम् ? दध्यादिगुणविशेषविधानार्थम्, दध्ना जुहोति
पयसा जुहोतीत्यादिषु । सोऽयं गुणविधिर्विधिशेष1608 इति । प्रयोजनान्तर
मनुवादस्याह—विहितानन्तरार्थ इति । यथा सोमो विहितो दर्शपौर्णमासौ च ।
तयोरानन्तर्यं विधातुमुभयानुवादः
दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेत
इति । एवम्
अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति
इति1609विभागेऽर्थग्रहणात् 1610प्रमाणं भवितुमर्हतीति प्रामाण्यं संभाव्यत
इत्यर्थः ॥ ६५ ॥


383

नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः ॥ २ । १ । ६६ ॥


भाष्योक्तमनुवादस्य प्रयोजनमविदुषः पूर्वः पक्षः ॥ ६६ ॥


शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥ २ । १ । ६७ ॥


वार्त्तिकम् यथेति । यथा शीघ्रं गम्यतामित्युक्ते शीघ्रतरं गम्यतामिति न
पुनरुक्तम्, तरपः क्रियातिशयप्रतीतेः, एवं शीघ्रं शीघ्रं गम्यतामित्यभ्यासात्
क्रियातिशयप्रतीतेः सकृदुच्चरिताच्चानवगतेः क्रियातिशयस्य प्रयोजनवानभ्यासः ।
क्रियाविशेषणातिशयोऽपि क्रियातिशय एवेत्यर्थः । अवगतं तावत् शीघ्रं शीघ्रं
गम्यतामित्यत्राभ्यासातिशयप्रतीतेरनुवादस्य1611 विशेषः, पचति पचतीत्यादौ तु को
विशेष इत्याह—कः पुनरसौ विशेषः ? यः पचति पचतीत्यादौ भवतीति । न च
वक्तुरन्यथाप्रत्ययः श्रोतुश्चान्यथा, येन विप्रतिपत्तेः श्रोतुः प्रत्ययो भ्रान्त इति
कल्प्येत इत्याह—यथा च श्रोतुरिति । एवमन्योऽपीति । यथा ग्रामो ग्रामो रमणीय
इत्यादिरिति ॥ ६७ ॥


मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ २ । १ । ६८ ॥


अनन्तरसूत्रावतारणपरं भाष्यं किं पुनः प्रतिषेधेति । तदनुभाष्य व्याचष्ट—किं
पुनरिति ।
उत्तरं नेति । पृच्छति—किं कारणम् ? उत्तरं न साधनमन्तरेणेति । पुनः
पृच्छति—कुतस्तर्हीति । उत्तरं प्रमाणतः । पृच्छति—तत् किं प्रमाणम् । तत्र तावद्
वेदप्रामाण्यसंभावनायां प्रमाणमाह—अर्थविभागवत्त्वात् । न त्वेतद् वेदप्रामाण्ये
प्रमाणम्, बुद्धादिप्रणीतेनागमेनार्थविभागवता अनैकान्तिकत्वात् ।
वेदप्रामाण्यप्रमाणं तु सूत्रोक्तम्—मन्त्रा…ण्यात् ।


384

चशब्दः पूर्वहेत्वनुकर्षणार्थ इति । पूर्वस्य प्रामाण्यसंभावनाहेतोरर्थ
विभागवत्त्वस्यानुकर्षणार्थः । संभावितो हि पक्षो हेतुना साध्यते न त्वसंभावितः ।
यथाहुः


संभावितप्रतिज्ञायां पक्षः साध्येत हेतुना ।


न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः ॥

इति । सूत्रं व्याचष्टे—यथा मन्त्रायुर्वेदवाक्यानीति । पुरुषस्य भगवतो वेदकारस्य
विशेषः प्रत्यक्षीकृतहेयोपादेयतत्त्वता च 1612भूतदया च यथार्थचिख्यापयिषा च
करणपाटवं चेति । विशेष्यते ह्यनेवैव पुरुषः पुरुषान्तरेभ्योऽनाप्तेभ्य इति । त्रिविधेन
विशेषणेनेत्युपलक्षणम्,
करणपाटवमपि द्रष्टव्यम् ।


एतदत्राकूतम् । अनन्तान्तर्गणिकभेदाः सुखदुःखवन्तः1613 प्राणभृद्भेदा दृश्यन्ते । न
चैषां वैचित्र्यं स्वाभाविकमिति तृतीये निवेदयिष्यते । न च दृष्टकारणमात्रनिबन्धनम्,
तस्य तस्य दृष्टस्य दृष्टव्यभिचारत्वात्1614 । तस्माद् दृष्टसहायमदृष्टमस्य वैचित्र्यस्य
कारणम् । तच्चापूर्वमिति च धर्माधर्माविति चाख्यायते । तच्च कस्यचित् प्रत्यक्षं
मन्वादेरित्युपपादितम् । तनुभुवनादिलक्षणस्य कार्यस्य कर्ता तन्निर्माणसमर्थः
समस्तवस्तुतत्त्वज्ञः क्लेशकर्मविपाकाशयापरामृष्टः परमकारुणिकः तनुभुवनादेरेव
कार्यादनुमीयत इति चतुर्थे उपपादयिष्यते । सोऽयमात्मीयहिताहितप्राप्तिपरिहारोपायान्
अविदुषः प्राणिनः पश्यन् प्रत्युतानेकविधदुःखदहनदह्यमानानवलोकयन् कथं न
तप्येत, तप्यमानो वा हिताहितप्राप्तिपरिहारोपायतत्त्वं विद्वान् कथं नोपदिशेत्
अन्यथोपदिशेद् वा । तस्मादनेन परमकारुणिकेन पृथिव्यादि सृष्ट्वा तदनु
प्रजाश्चतुर्विधास्ताभ्यो हिताहितप्राप्तिपरिहारोपाय उपदेष्टव्यः । न ह्ययमनुपदिश्य
स्थातुमर्हति । प्रजानां पितृकल्पस्य चास्योपदेशो देवर्षिमनुष्यगोचरश्चातुर्वण्येन
चातुराश्रम्येण चादराद् ग्राह्यश्च धार्यश्च हिताहितप्राप्तिपरिहारोपायानुष्ठानाय । तस्माद्
यो वर्णाश्रमाचारव्यवस्थापक आगमो महाजनपरिगृहीतः स तत्प्रणीत आप्तोक्तत्वात्
385 प्रमाणम्, मन्त्रायुर्वेदवाक्यवदिति 1615संप्रधार्यते । कतमोऽसावागम आप्तोक्तः, किं
1616शाक्यभिन्नकदिगम्बरसंसारमोचकादीनामागमाः, किं वा वेदा इति ? तत्र
शाक्याद्यागमानां बुद्धर्षभादयः प्रणेतार इति स्फुटतरमस्ति स्मरणं न तूक्तलक्षण
ईश्वरस्तेषां कर्त्तेति । न चैते शौद्धोदनिप्रभृतयः तनुभुवनादीनां कर्तारो येन सर्वज्ञा
इति निश्चीयेरन् । तदुपायानुष्ठानेन तु संभाव्येतैषां सर्वज्ञता । न च संभावनामात्रेण
तत्प्रणीतेषु आगमेषु आश्वासः प्रेक्षावतां भवितुमर्हति । न चैतेषामागमा वर्णश्ररमाचार
व्यवस्थाहेतवः । नो खलु निषेकाद्याः श्मशानान्ताः क्रियाः प्रजानामेते विदधति । नहि
प्रमाणीकृतबौद्धाद्यागमा अपि लोकयात्रायां श्रुतिस्मृतीतिहासपुराणनिरपेक्षा
गममात्रेण प्रवर्तन्ते, अपि तु तेऽपि सांवृतमेतदिति ब्रुवाणा लोकयात्रायां श्रुत्यादीनेवानु
सरन्ति । तस्माद् भवतु वेदेषु जगन्निर्मातृकर्तृकत्वस्मृतिः, मा वा भूत्, एत एव
त्वीश्वरप्रणीता इति पश्यामः । न ह्येते चैत्यवन्दनादिवाक्यवदन्यकर्तृकाः स्मर्यन्ते ।
न चान्य आगमो लोकयात्रामुद्वहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो
दृश्यते । न चेश्वरोऽनुपदिशन्नवस्थातुमर्हतीत्युक्तम् । तत् पारिशेष्याद् वेदा एव
सकललोकयात्रामुद्वहन्तो हिताहितप्राप्तिपरिहारोपायमुपदिशन्त ईश्वरप्रणीता
इत्यवगच्छामः । तथा ह्येत एव त्रैवर्णिकैरद्ययावत् प्रयत्नेन गृह्यन्ते धार्यन्ते च ।
तदनुपालनाय च महर्षिपरम्पराभिरङ्गोपाङ्गेतिहासपुराणधर्मशास्त्राणि प्रणीताणि ।
बुद्धादिवाक्यानि तु न लोकयात्रामुद्वहन्ति । न च तत्र लौकिकानामविगानम् । न च
विगायतां सांवृतमित्युक्त्वापि तदर्थानुष्ठानम् । तस्माद् विगानात् कैश्चिदेव म्लेच्छा
दिभिर्मनुष्यापसदैः पशुप्रायैः परिग्रहान्नैतेषामाप्तोक्तत्वसंभवः । न चैतेषां मन्वादि
वाक्यवद् वेदमूलकतया प्रामाण्यमिति सांप्रतम्, अध्येत्रध्यापयित्रनुष्ठातृकर्तृसामान्यस्य
वेदमूलकत्वानुमानलिङ्गस्य स्मृतिवेदयोरिव बुद्धादिवाक्येष्वभावात् । ततः
सर्वज्ञत्वसंशयेन1617 चानुभवमूलकत्वानिश्चयात् । मन्त्रायुर्वेदेषु च प्रवृत्तिसामर्थ्यानुमित
प्रामाण्येषु वैदिकशान्तिकपौष्टिकादिकर्माभ्यनुज्ञानात् रसायनादिक्रियारम्भे च
386 वेदविहितचान्द्रायणादिप्रायश्चित्तोपदेशाद् आयुर्वेदेनाप्याप्तप्रणीतेन वेदानां
प्रामाण्यम् अभ्युपेयते । तत् सिद्धमाप्तप्रणीता वेदाः प्रमाणमिति । अभ्युच्चयमात्रं तु
कारीर्यादिषु संवाद इति ।


एतदेवाभिप्रेत्य वार्त्तिककारः प्रयोगमाह—अस्य प्रयोगः । प्रमाणं वेदवाक्या
नीति ।
प्रयोगान्तरमाह—एककर्तृकत्वेनेति । मन्त्रायुर्वेदवाक्यानि सर्वज्ञकर्तृकाणि
महाजनादरे सति अलौकिकार्थप्रतिपादकत्वात् । यानि तु न सर्वज्ञपूर्वकाणि तानि
नैवंरूपाणि यथा वातपुत्रीयवाक्यानीति व्यतिरेकी हेतुः । यथा च बुद्धादिवाक्यान्य
लौकिकान्यपि न महाजनपरिगृहीतानि तथोक्तमनन्तरमेव । मन्त्रायुर्वेदवाक्यानां च
सत्यपि प्रवृत्तिसामर्थ्ये तासां तासामौषधीनां तत्तत्संयोगभेदानां च तत्तदक्षरा
वापोद्धारभेदस्य च नासर्वज्ञः सहस्रेणापि पुरुषायुषैः शक्तः कर्तुं प्रथममन्वयव्यतिरेकौ ।
न चानिदंप्रथमतात्र परिहारः, सर्गादौ तदसंभवात् । सृष्टिमहाप्रलयौ चानु
मानागमाभ्यामुपपादयिष्याम इति सर्वं रमणीयम् । तदेवं सर्वज्ञपूर्वकत्वे सति
सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेदप्रामाण्यमोदनार्थो पचेदिति लौकिकवाक्यवदिति ।
यदि न नित्यानि कथं प्रमाणमिति । अनित्यत्वे हि पुरुषाणां विचित्राभिसन्धित्वेन
भ्रमविप्रलम्भादिसंभवेऽप्रामाण्यशङ्का न शक्यापाकर्तुम्1618 । तस्मादपौरुषेयत्वमेव
पुरुषाश्रयान् दोषान् अपाकुर्वद् वेदप्रामाण्यव्यवस्थापकमिति भावः । उत्तरम्
प्रतिपादकत्वादिति । आप्तोक्तत्वेनानित्यस्यापि निश्चायकत्वादित्यर्थः ।


केचित् त्विति । प्रमालक्षणामर्थक्रियां कुर्वत् प्रमाणम् । न च नित्यस्यार्थ
क्रियास्ति तस्मान्न प्रमाणमित्यर्थः । निराकरोति—तत्तु न सम्यगिति पश्याम इति ।
यथा च नित्यस्याप्यर्थक्रियासंभवस्तथा तृतीये वक्ष्याम इति भावः । आत्मा चेति
प्रमाहेतुतामात्रविवक्षया, न तु करणत्वाभिप्रायम् । प्रमाणशब्दस्येति अत्रापि न
करणत्वविवक्षा, किं तु प्रमाहेतुमात्रविवक्षेति द्रष्टव्यम् । इतरवस्तुसाधकत्वेनेति
इतरस्य परमाणुगतस्यैव मूर्तत्वादेः साधकतमत्वेनेत्यर्थः ।


387

तदेवमेकदेशिमतमपाकृत्य स्वमतमाह—तस्मादिति । स च संसारा
नादित्वादिति ।
यद्यपि वर्णपदवाक्यानि प्रत्युच्चारणमन्यानि तथापि
गत्वादिसामान्यावच्छिन्नानां गकारादीनां तत्समूहानां च पदानां पदसमूहानां च
वाक्यानां शक्यो गोत्वादिसामान्यावच्छिन्नाभिः शाबलेयादिव्यक्तिभिरेव सङ्केतो
ग्रहीतुमिति भावः । मन्वन्तरेति । महाप्रलये त्वीश्वरेण वेदान् प्रणीय सृष्ट्यादौ
संप्रदायः प्रवर्त्यत एवेति । शेषं भाष्यं वार्त्तिकं चातिरोहितार्थमिति ॥ ६८ ॥


॥ शब्दविशेषपरीक्षाप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रचिरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
द्वितीयाध्याये प्रथमाह्निकम् ॥
  1. परित्यक्तम्

  2. परीक्षितः J

  3. सोऽयं क्रमभेदः कुतः C

  4. °र्शकारणेति J

  5. एवं J

  6. तेनापि C

  7. संशीतिरिति C

  8. इत्यत पूर्वपक्षबीजम् आह J

  9. १. १. २३ सूत्रीयवार्त्तिकटीके द्रष्टव्ये

  10. कारकं हेतु° C

  11. नाभ्युपगमविरुद्धमि°C

  12. व्याघातःJ

  13. चेत्याहC

  14. न्याः सू २. १. ८

  15. सहत्वेन C

  16. तदिदं C

  17. निषेधयति J

  18. मिति च C

  19. कारकान्तराणां कर्तुःC

  20. प्राक् अनु C

  21. बीजादित्याह C

  22. °मानं प्रमाणमाह C

  23. कारकभावःJ

  24. न्या सू. २ । २ । ६२

  25. उपादीयते प्रसङ्गः C

  26. स्थालीवत् C

  27. प्रदीपप्रकाशदृष्टान्तः ?

  28. इतरग्र° C

  29. सोपहासम् C

  30. लक्षणं C

  31. कार्यं लक्ष्यते ज्ञानमितिC. Var

  32. तदिदं सूत्रमिति C

  33. °मसहमानोC

  34. °मसहमानोC

  35. इति वदतःC

  36. परवेद्यंJ

  37. °तयैवC

  38. द्रव्यस्पर्शस्य C

  39. व्याख्याय व्यासक्तमनसामिति नास्ति K

  40. °संख्यानुरो°C

  41. व्याख्यातमितिC

  42. शब्देऽर्थे वाC

  43. वृक्षविशेषम्C

  44. °रेण वृक्षःJ

  45. स्वरूपं च तेषां Pañjikā

  46. अतःC

  47. समष्ट्याC

  48. °रभावात्C

  49. इत्युक्तम्C

  50. एकस्यावयस्य C

  51. एवैकार्थक्रि J

  52. इत्थं C

  53. °नमप्येतद्J

  54. न चC

  55. °द्धधर्मोC

  56. °त्येकोऽर्थःJ

  57. °रविरहात्माC

  58. परिमाणावस्थापत्तावपिC

  59. दृश्यमानान्तररूपापा°J

  60. भवेन्न भवेद्वेति C

  61. वृत्तेरप्यवय° J

  62. न, परंC

  63. °सिद्धेरितिC

  64. भावेन अव K

  65. आतिष्ठामहे J

  66. कल्पनीयम् C

  67. निषेध्यत्वेनC

  68. सोऽयं व्यधिकरण इत्यधिकम्J

  69. अणूनाम्C

  70. संबन्धविशेषःC

  71. इतरसू°C

  72. अथानुप…ततश्चेति त्यक्तम्J

  73. प्रमाणवार्त्तिके २. २२३

  74. स्थूलभेदात् तदेकC

  75. स्वतःC

  76. नान्य°C

  77. किंशुकादीनाम्J

  78. तद्विपरीतधर्मोC

  79. जायमानमौपमिकमितिC ज्ञायमानमौपमिकम् K

  80. समुहात् पटादीनपिC

  81. °कत्वसमुच्चयःC

  82. वस्तूपगमे नः शरणमित्यधिकम्C

  83. °बहुलतयाC

  84. तस्मिन् तत्C

  85. °दनुयोज्य इतिC

  86. दूषणाद्C

  87. °स्तस्य स्युःC

  88. °वयवसाधारण्यात्C

  89. वृक्षव्यक्तित्वे J

  90. व्याघातः C

  91. °मबुद्धवैव C

  92. पिपीलिका…मिन्वते J

  93. °दाहरणमिति मन्तव्यम् C

  94. मयाल्पत्वान्तरितजन्मानमवधिं कृत्या विप्रकृष्टा बुद्धिरुत्पद्यते, तामपेक्ष्य बहुरतस
    वित्रुदयास्तमय° इत्यधिकम्
    C

  95. °करं प्रत्यवकल्पतेC

  96. °द्वारमस्यC

  97. कार्यःC

  98. संपृक्तC

  99. तस्माद्C

  100. एकदेशसामर्थ्यादुपमानं C

  101. परिहाराय C

  102. गतं वाक्यार्थं C

  103. कृत्स्न
    भावमेव वाल्प° आश्रित्याति°
    C

  104. गवयप्रत्यक्षं C

  105. प्रत्यक्षस्य C

  106. न तु भवतिJ

  107. तन्न ज्ञातं C; ज्ञानं विशेषे J

  108. अत्र टीका नास्ति

  109. दुःखेन यन्न संJ

  110. सुखं स्वर्गपदा°J

  111. स्वकार्यवि°C

  112. नैवैषःC

  113. पा. सू. ५. २. २८

  114. पदभेदेभ्यःC

  115. कश्चिद् विशेषःC

  116. विशेषःC

  117. न लिङ्गत्वम् Alankāraḥ

  118. प्रत्ययपराणिC

  119. न पुनाJ

  120. °स्तथाC

  121. °ग्राह्मेभ्यो हिC

  122. एवायमिति J

  123. निर्दिश्येतC

  124. प्रकृतादि°C

  125. मात्रात्C

  126. बुध्यतेJ

  127. गृह्णातिJ

  128. °वं च तर्हिC

  129. °विकत्वेनJ

  130. °वृत्तिरिति युक्तम्C

  131. °क्षेयं साधयति पुत्रकारणंC

  132. विदुषो ह्यधि°C

  133. अपूतंC

  134. °दौत्य°C

  135. पुत्रजन्मC

  136. तास्तर्हिC

  137. सहकारित्वम्C

  138. साधनवैगुण्यम्C

  139. निष्कृष्याभि° C

  140. अनृतत्वं C

  141. तदा C

  142. वाक्यं न कर्तव्यमित्युक्तम् C

  143. कल्प्यते C

  144. °दशावरत्व° C

  145. स्वात्मनि पूर्वसिद्धेC

  146. °व्याप्यत्वमितिC

  147. न चाननुविधेयोऽश्रद्धेय इत्यधिकम् C

  148. सत्यम् ज्ञानमिच्छा° C

  149. इतिप्रयत्नयोरिति
    मातृके; इच्छाप्रयत्नयोरिति शोधनम्
    C

  150. न्या. सू. ३. १. १८

  151. १. १. २४ सुत्रस्य वार्त्तिकं द्रष्टव्यम्

  152. हेतुरास्थेयम्C

  153. जै. सू. ३. ७. १८

  154. समानोपाधिर्विधि…प्रवर्तत इति नC

  155. नियोक्तुं प्र°C

  156. पायतां ज्ञाप°C

  157. ये for सन्तिC

  158. °प्रयुक्तौC

  159. °स्तेऽनूदिताः
    पर्य°
    C

  160. °र्थेनैवJ

  161. विद्या forप्रज्ञयाCकरोति श्रद्धया च तदेवJ

  162. °विधिविधि° J

  163. इत्यादिः J

  164. प्रामाण्यं C

  165. गम्यतामित्यत्रानु° J

  166. तद्धेतुभूता भूत°C

  167. °र्गणिकसुखदुःखभेदवन्तःC

  168. तस्य दृष्टव्य°C

  169. संप्रसाध्यतेC

  170. °क्यभिक्षुकंC

  171. तत्सर्वज्ञत्वसंदेहेनC

  172. भ्रमशङ्का न शक्यापाकर्तुम् C