सामान्येन प्रमाणपरीक्षाप्रकरणम्


प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ २ । १ । ८ ॥


अथ प्रमाणपरीक्षेत्यादि भाष्यम् । प्रत्य…द्धेः । आर्थेन हि क्रमेण संशय
परीक्षायामुक्तेनोद्देशक्रमो बाधितः । प्रमाणादिषु तु तद्बाधकारणाभावाद्
उद्देशक्रमानुरोधेन प्रमेयादिभ्यः प्राक् प्रमाणान्येव परीक्षणीयानि । तत्रापि प्रथमं
प्रमाणसामान्यलक्षणपरीक्षा, तत्पूर्वकत्वाद् विशेषलक्षणानाम् । तत्र सामान्यलक्षणम्
उपलब्धिसाधनं प्रमाणमिति । तच्चोपलब्धिसाधनत्वं प्रत्यक्षादीनामेवेति प्रत्यक्षा
दीनामित्युक्तम् ।


तदेतदाह वार्त्तिककारः । अथेदानीमिति । परीक्षणीयं पृच्छति—किं
पुनरेषामिति
सर्वैरेव वादिभिः स्वसिद्धान्तव्यवस्थापनाय प्रमाणान्यभ्युपेतव्यानि,
तदभावे तद्व्यवस्थानुपपत्तेः । यस्य तु स्वपक्ष एव नास्ति, नासौ लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्षणीयः । तस्मात् सर्वप्राणभृत्सिद्धेर्न प्रमाणसामान्यं परीक्षणीयमिति
315 भावः । उत्तरम्—आदौ तावत् संभव इति । न परीक्षा संशयमन्तरेणेति संशयस्य
बीजमाह—सदसतोरिति । पूर्वपक्षमाह—व्युदस्य संशयमिति । अयमत्र पूर्वपक्षिणो
माध्यमिकस्याभिसन्धिः, यद्यपि मम विश्वविचारासहत्ववादिनः प्रमाणं नाम न
किञ्चिदस्ति विचारसहम्, तथापि लोकसिद्धान्येव प्रमाणानि तैरेव प्रमाणैः
पर्यालोच्यमानानि विचारं न सहन्ते । सोऽयं प्रमाणानामपराधो यानि स्वविरोधेन
विलीयन्ते, न तु ममापराध इति ॥ ८ ॥


पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्यत्तिः ॥
२ । १ । ९ ॥


ज्ञानं हि प्रमाणं तद्योगात् प्रमेयमिति चार्थ इति च भवति । तद् यदि प्रमाणं
पूर्वं प्रमेयादर्थादुत्पद्यते ततः प्रमाणात् पूर्वं नासावर्थ इति इन्द्रियार्थेत्यादिसूत्र
व्याघातः ॥ ९ ॥


पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ २ । १ । १० ॥


अथ पूर्वं प्रमेयं पश्चात् प्रमाणं तत्राह—पश्चादिति । यद्यपि च वस्तुस्वरूपं न
प्रमाणाधीनं तथापि तस्य प्रमेयत्वं तदधीनम् । तदपि चेत् प्रमाणात् पूर्वं, न
प्रमाणयोगनिबन्धनं स्यादित्यर्थः । तदिदमुक्तम्—प्रमेयसंज्ञेति ॥ १० ॥


युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥
२ । १ । ११ ॥


यौगपद्ये दृष्टव्याघातः सूत्रव्याघातश्च । प्रयोगस्तु प्रत्यक्षादयो न प्रमाणत्वेन
316 व्यवहर्तव्याः, कालत्रयेऽप्यर्थाप्रतिपादकत्वात् । यदेवंविधं न तत् प्रमाणत्वेन व्यवहृयते
यथा शशविषाणम् । तथा चैतत् । तस्मात् तथेति । एवं पूर्वपक्षिते सिद्धान्तमाह—अत्र
समाधिरिति । उपलब्धिहेतो
रित्यादिभाष्यवाक्यस्य कालत्रयेऽप्यर्थाप्रतिपादक
त्वादिति हेतोरसिद्धतोद्भावनमर्थः ।


स्वयं वार्त्तिककारोऽस्यानुमानस्य दूषणमाह—प्रत्यक्षादीनाम् अप्रामाण्य
मिति चेति ।
लब्धात्मकं खल्वनुमानं प्रत्यक्षादीनां प्रमाणानामप्रामाण्यमापादयेत् । न
च लब्धात्मकम् । तस्य तु प्रतिज्ञाविरोधेनात्मलाभ एव नास्तीति कथं तेषाम
प्रामाण्यमापादयितुमर्हतीति भावः । यदि प्रमाणानि नार्थं साधयन्ति प्रत्यक्षादीनीत्येव
न स्यात् । न खलु तानि प्रमाणतोऽसिद्धानि प्रत्यक्षादीनीत्येव भवन्तीत्यर्थः । न
चैतेषामर्थसाधनत्वं सामान्यविशेषाभिधायिप्रत्यक्षादिपदगोचरतापीत्याह—कथं
चान्यथेति ।


अपि च प्रामाण्यनिषेधे न प्रमाणानां प्रत्यक्षादीनामसत्त्वम् । न ह्यकमण्डलु
र्माणवक इत्यनेन माणवकः प्रतिषिध्यते । किं तर्हि ? तस्य कमण्डलुयोगो धर्मः ।
ततश्च प्रमाणानामसत्त्वं पूर्वपक्षिणोऽमिमतं न स्यादित्याह—धर्मप्रतिषेधाच्चेति ।
शङ्कते, अथ भावस्यास्वतन्त्रत्वादिति । निराकरोति एवमपीति ।


प्रतिषिध्यमान इतिमात्रे वक्तव्ये विधीयमान इति दृष्टान्तार्थम् । एतेन
तद्धितार्थ
इति, प्रामाण्यपदार्थ इत्यर्थः । यथाश्रुतश्च हेतुर्व्यधिकरण इत्याह—
यश्चायं हेतुरिति ।


यत् पुनरित्यादि भाष्यं व्याचष्टे—यत् पुनरेतत् प्रमाणेनेति । संभवः
प्रत्यक्षादीनां निवर्तत इति । प्रत्यक्षादीनामभावे 1456कारकहेतुवचनमित्यर्थः । न ह्यसतो
निवृत्तिरिति ।
नासन् घटो मुद्गरप्रहारेण निवर्त्यत इत्यर्थः । असंभवं प्रत्यक्षादीनां
सिद्धमेव ज्ञापयतीत्याह—असंभवो ज्ञाप्यते इति ॥ ११ ॥


317

त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ २ । १ । १२ ॥


देशयति—त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरित्येवमभिदधानेनेति ।
परिहरति—नैष दोष इति । त्वद्वचनं त्वदभ्युपगमविरुद्धम् । अस्माकं तु नैतद्
वचनम्, नाप्ययमभ्युपगम1457 इत्यर्थः । न च धर्मिणां प्रतिषेधे कश्चित् न्याय इति ।
नानुमानं धर्मिप्रतिषेधे प्रभवति आश्रयासिद्धत्वाद्धेतोरित्यर्थः ।


अपि च प्रमाणमात्रमधिक्षिपतः प्रत्यक्षादीनामप्रामाण्यमिति च प्रत्यक्षादीनां
प्रामाण्यमिति च वाक्ययोरर्थभेदाभेदौ विचारं न सहेते इत्याह—प्रत्यक्षादीनाम
प्रामाण्यम्
इति । एवमेव वक्तव्यम् इति नञोरप्रयोगे लाघवात् । घटस्य सामर्थ्यं
वेति,
यदा सत्येव घटे तस्यासामर्थ्यं विवक्षित्वोच्यते नास्ति घट इति, नोदकाहरणसमर्थ
इति तदा गम्यते । तन्त्रान्तराभ्युपगतानां वा प्रतिषेधः इति । तन्त्रान्तरे यादृशं
प्रमाणमभ्युपेयते तादृशप्रतिषेधे अन्यादृशस्याभ्युपगमो भवति । यथा प्रधानं नास्तीति
जगत्कारणस्य सुखदुःखमोहात्मकत्वं प्रधानत्वं तत्प्रतिषिध्यते, न पुनर्जगत्कारणम् ।
तस्यान्यादृशस्याभ्युपगमादिति । कथमिति प्रमाणाक्षेपः । कस्येति प्रतिपाद्याक्षेपः ।
कश्चेति प्रतिपादकाक्षेपः । प्रतिपाद्याक्षेपं विभजते—अप्रतिपन्न इति । प्रतिपादकाक्षेपं
विभजते—प्रतिपन्नश्चेति । क्व प्रतिपाद्ये किं प्रतिपाद्यत इति ॥ १२ ॥


सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ २ । १ । १३ ॥


यद्युपादीयते उदाहरणम्, तत्प्रमाणेनानवधारितं न शक्यमुपादातुमिति
भावः1458 । न केवलमशक्यं व्यर्थं चेत्याह—प्रत्यक्षादीनां चेति । सर्वैः प्रमाणैरिति,
उदाहरणादिविषयैः प्रमाणैः विप्रतिषिद्धो विरुद्धो भवति, बाधितविषयतया
प्रमाणाभासो भवतीत्यर्थः । विरुद्धं चाह1459सिद्धान्तमभ्युपेत्येति । प्रमाणानाम्
318 इत्यवयवाभिप्रायम् । अवर्जयन्निति वर्जनविरुद्धमपादानमुच्यते, उपाददान
इत्यर्थः ॥ १३ ॥


तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ २ । १ । १४ ॥


तत्प्रामाण्ये वेति । अस्यार्थः । यदि माध्यमको ब्रूयात् प्रत्यक्षादीनामप्रामाण्यं
त्रैकाल्यासिद्धेः1460 इति, स्ववाक्यावयवाश्रितानि प्रमाणानि यथालोकप्रतीतिसिद्धानि
तैरविचारितसिद्धैरितरेषां प्रामाण्यं प्रतिषिध्यत इति, तत्रेदमुच्यते—तत्प्रामाण्ये वा
अवयवाश्रितप्रत्यक्षादिप्रामाण्ये न सर्वप्रमाणविप्रतिषेधः, अवयवाश्रितानामेव
प्रामाण्याभ्युपगमात् । किं पुनरिदमविचारितसिद्धत्वम् ? किं विचारासहत्वम्, आहो
सर्वजनसिद्धतया सन्देहानास्पदत्वम् ? तत्र पूर्वस्मिन् कल्पे विचारासहेन1461 स्वयं
दुःस्थितेनान्येषां प्रामाण्यं बाध्यत इति सुभाषितम् । तस्मादुत्तरः कल्पः । तथा च न
सर्वाप्रामाण्यम्,—तस्यैव प्रामाण्यात् ।


अत्र भाष्यम्—वीत्ययमुपसर्गः संप्रतिपत्त्यर्थे । प्रतिषेधशब्दार्थमनुजानाति
विशेषमभिदधत् न तु तद्व्यतिरिक्तार्थः । न व्याघातवचन इत्यर्थः । तदिदमुक्तम्—
व्याघाते ।
कस्मात् । अर्थाभावात् । स्ववाक्यावयवाश्रितानां हि प्रमाणानां प्रामाण्ये
सर्वप्रमाणप्रतिषेधव्याघातः पुर्वमुक्तः, तत्प्रतिषेधः पूर्वेण विरुध्यते अशक्यश्चेति
अर्थाभाव इत्यर्थः ।


तदेतद् वार्त्तिककारो व्याचष्टे—वीत्ययमुपसर्गो विशेषप्रतिषेधे । यावदुक्तं
भवति विशेषेण सर्वेषु प्रमाणेषु प्रतिषेध इति तावदुक्तं भवति विप्रतिषेध इति ।
प्रतिषेधशब्दार्थाभ्यनुज्ञानत्वाद् विशब्दस्य । तेन तु न सर्वप्रमाणविप्रतिषेधः
इत्यनेन विपदसहितेन किमुक्तं भवति ? इदमुक्तं भवति—कानिचिदिति ।
अवयवाश्रितानि प्रमाणानि विचार्य समुदायं विचारयति—यच्चेदमिति ॥ १४ ॥


319

त्रैकाल्याप्रतिषेधश्चशब्दादातोद्यसिद्धिवत् तत्सिद्धेः ॥ २ । १ । १५ ॥


तदिह1462 सूत्रकारेण श्रैकाल्यासिद्धेरित्यनुयोगस्य प्रतिषेधेऽपि साम्यं
सर्वप्रमाणविरोधश्चापादितः संप्रत्यसिद्धतोद्भावनपरं सूत्रं पठति—त्रै…द्धेः ॥


तत्पाठमाक्षिपति—किमर्थमिति । स्वातन्त्र्येण चेदस्य सूत्रस्यार्थः पूर्वमुक्तः,
कृतं सूत्रपाठेनेत्यर्थः । परिहरति—पूर्वोक्तेति । न तदस्माभिरुत्सूत्रमुक्तम्, अपि तु
सूत्रार्थ एवेति ज्ञापनार्थं सूत्रपाठोऽस्माकमित्यर्थः । नियमेन यः प्रतिषेधः पूर्वमेव वा
पश्चादेव वा सहैव वेति तं प्रतिषेधति1463अनियमेति । खलुशब्दोऽयं यस्मादर्थे ।
यस्माद् अनियमदर्शी ऋषिः ।


वार्त्तिकम्, तदुत्थानज्ञापनार्थं सूत्रपाठ इति । देशयति—पाठक्रममतिलङ्घ्य
कस्मात् ? तत्रैवेदमिति । अत्रैव वा तद् भाष्यम् कस्मान्नोक्तमित्यपि1464 द्रष्टव्यम् ।
परिहरति—अविशेषादिति । अथ शब्दः श्रोत्रविवरे समवेतः कथमातोद्यमसंबद्धं
गमयतीत्यत आह—योऽसौ वीणावेणुशब्दयोरिति । अयं शब्दविशेषो धर्मी ।
वीणाङ्गुलिसंयोगजशब्दपूर्व इति साध्यो धर्मः, तन्निमित्तासाधारणधर्मवत्त्वात्
पूर्वोपलब्धवीणानिमित्तध्वनिवदिति । तदिदमुक्तम्—वीणानिमित्तकत्वमिति ।
धूमदर्शनादिति ।
संयोगिना हि वह्निना विशिष्टो धूमोऽनुमीयते न कारणेन,
अस्तीति वर्तमानावभासानुपपत्तेरिति ॥ १५ ॥


प्रमेया च तुलाप्रामाण्यवत् ॥ २ । १ । १६ ॥


यत्पुनराक्षिप्यते यदनियतं न तत् परमार्थसत् । यथा रज्ज्वामारोपितं सर्पत्वम् ।
तामेव हि रज्जुं तदैव कश्चित् सर्प इति कल्पयति कश्चित् हार इति । स एव कदाचित्
सर्प इति कल्पयित्वा पश्चात् हार इति कल्पयति । तथा च प्रमाणप्रमेयभावः । तस्मात्
न परमार्थसन्निति । अत्रेदमुत्तरसूत्रम्—प्रमे…त् ।


320

तद्योजनिकां करोति—प्रमाणं प्रमोयमिति चेयमिति । अयमभिसन्धिः ।
क्षणभङ्गपरिणामनिरासे सति स्वकारणादुत्पन्नं स्थिरं वस्तु तत्तद्वस्त्वन्तरसन्निधानात्
तत्तद्धर्मयोगे सति तत्तद्बुद्धिव्यपदेशमनुभवति । समावेशं दर्शयितुं पृच्छति—यदा
पुनरिति ।
उत्तरम्—तदा निमित्तेति । अस्य चार्थस्य ज्ञापनार्थं सूत्रम्—प्रमे…त् ॥


इति । न केवलं प्रमाणं समाहारगुरुत्वे तुला । यदा पुनरस्यां सन्देहो भवति
प्रामाण्यं प्रति, तदा सिद्धप्रमाणभावेन तुलान्तरेण यत्परीक्षितं सुवर्णादि तेन प्रमेया
च तुलाप्रामाण्यवत् । यथा प्रामाण्ये तुला प्रमेया च, तथान्यदपि सर्वं प्रमाणं प्रामाण्ये
प्रमेयमित्यर्थः । तदेतद् भाष्यकृद् आह—एवमनवयवेन कार्त्स्न्येन तन्त्रार्थः
शास्त्रार्थ इति । क्वचित् प्रमातृत्वप्रमेयत्वप्रमाणत्वादीनां समावेशः, यथात्मनि । स हि
प्रमाता च प्रमीयमाणश्च प्रमेयम् । तेन तु प्रमितेन तद्गतगुणान्तरानुमाने प्रमाणम् ।
क्वचित् पुनः प्रमाणत्वप्रमेयत्वफलत्वानां समावेशः, यथा बुद्धौ । क्वचित् पुनः
प्रमाणत्वप्रमेयत्वयोः, यथा संशयादौ । सेयं समावेशस्य तन्त्रार्थव्याप्तिरिति । तथा च
कारकशब्दा
इति भाष्यम् पूरयित्वा व्याचष्टे वार्त्तिककारः—यथा च प्रमाणेति ।
यावन्ति यत्र निमित्तानि तावतां तत्र नैमित्तिकानां प्रवृत्तेरवश्यंभावो नियमः । स्व
स्थितौ वृक्षः स्वातन्त्र्यात् कर्तेति भाष्यम् ।
तत्र स्वातन्त्र्यं पृच्छति वार्त्तिक
कारः—किं पुनः स्वातन्त्र्यमिति ।
इतरकारकाप्रयोज्यत्वं प्रयोजकत्वं च 1465कारकाणां
मध्ये कर्तुः स्वातन्त्र्यमुक्तम् । इह तु कारकान्तराणामभावात् तादृशं स्वातन्त्र्यं
नास्तीति भावः । उत्तरम—कारकान्तरानपेक्षित्वम्, कारकान्तरापेक्षस्य हि प्रयोजक
तया कथञ्चित् स्वातन्त्र्यं विवक्ष्यते, तदनपेक्षस्य पुनर्नितरां स्वातन्त्र्यमित्यर्थः ।
यदायं स्थितिशब्दो गतिप्रतिषेधवचन इति । यावदुक्तं भवति न यातीति,
तावदुक्तं भवति तिष्ठतीति । अत्र च निषेधस्य निषेध्याधीननिरूपणतया तदुपाधिः
पूर्वापरीभावो न तु स्वरूपेण निषेधस्य पूर्वापरीभावसंभव इति । यदाप्यस्तेरभि
धायक
इति सत्तासामान्याभिधायक इत्यर्थः । अस्ति व्यनक्तीति, वृक्षस्य हि
321 महत्त्वे रूपवत्त्वे सति सतासमवाय एव सत्ताव्यञ्जकत्वम्, तत्र चानपेक्ष इत्यर्थः ।
गेहसंबन्धानुभवः गेहसंबन्धप्राप्तिः समवायः, तद्विषया क्रिया गतिविधारकः
प्रयत्नः । तेन हि स तिष्ठति । घटो गृहेऽस्तीति त्वौपचारिकः प्रयोगः । यदाप्य
यमभग्नवचन
इति । अत्रापि निषेध्यस्य पूर्वापरीभावोपाधिरेव निषेधस्य तथाभावः
। अथवा तिष्ठतीत्यत्रापि कयाचिद् विवक्षया कारकान्तरापेक्षा अस्तु, तथापि
तत्प्रोयजकत्वेनैव स्वातन्त्र्यमित्याह—समुदायेति । अवयवानां समूहः समुदाय
स्तदेकदेशोऽवयव इति । ध्रियत इति कर्तरि लकारः ।


प्रत्यभिज्ञानविषयता वा स्थितिः । तस्यां सत्यामपि कारकान्तरापेक्षायां कथञ्चित्
प्रयोजकतया स्वातन्त्र्यमित्याह—पूर्वापरेति । अनेके पर्यायवन्तः प्रत्ययाः । प्रागनु
भवः । अनु1466 तत्ताश्रयस्य धर्मिणः पुनरनुभवः । अथ स्मृतिः । अथ प्रतिसन्धानमिति ।


वैनाशिको देशयति—चक्रेति । यदेव दण्डसंयोगेन चक्रभ्रमणं तदेवेदमुपरतेऽपि
दण्डसंयोगे इत्यर्थः । परिहरति—न प्रमाणेति । नासति बलवति बाधके प्रमाणे
प्रत्यभिज्ञानस्य शक्यं मिथ्यात्वम् । ज्वालादिषु तु तदस्तीत्यर्थः । न च समस्तप्रतिसन्धान
प्रत्ययमिथ्यात्वे मिथ्याप्रतिसन्धानप्रत्ययो भवितुमर्हति बीजाभावादित्याह1467
मिथ्याप्रत्ययाश्चेति । वैनाशिकः पृच्छति—अथ भवत इति । एवं ब्रुवाणः
प्रत्यक्षमप्रमाणयन्न शक्यस्तेन बोधयितुमित्यनुमानमुत्तरमाह1468उक्तं प्रमाणम्
आत्मलक्षणे रूपेति । अनुमानान्तरमाह—कार्यस्येति । कार्यकालानुभवनं
कार्यकालप्राप्तिः । वैनाशिकः शङ्कते—अनाधारमिति । प्रतीत्येति पूर्वभावं
विकृत्येत्यर्थः । दुषयति—तन्नेति । आधेयस्याधारसमानकालत्वमनुभवसिद्धम् ।
तेनाधारेण कारणेन कार्यकालं स्थातव्यम् । अनाधारत्वं तु कार्यस्य नानुभव
गोचरः, अपि तु युक्त्या साध्यम् । सा च दृष्टान्ताभावादनुपपन्ना । न च विप्रतिपत्ति
मात्रादनुभवः शक्योऽपवदितुम् । क्षणभङ्गसाधनानि च निराकरिष्यन्ते ।


322

यदि हि रूपादीनामाधारवत्त्वं निषिध्यते ततोऽस्याभ्युपगमविरोधो भवति,
भूतानि पृथिव्यादीनि भौतिका रूपादय इति । अभ्युपगमान्तरविरोधमाह
यच्चोक्तं भवद्भिरिति शेषः । न केवलं रूपादीनामाश्रितत्वं भवद्भिरभ्युपगतमुपपन्नं
चेत्याह—अनाश्रिताश्चेति ।


पृच्छति—कर्मणिकः कारकार्थः कारकशब्दार्थः । क्रियानिमित्तं हि कारकम् ।
यत् पुनः क्रियाया एव व्याप्यं न तत् क्रियानिमित्तमिति न कारकम् । अकारकं
च कथं कर्म, कारकाधिकारित्वात् कर्मसंज्ञाया इति भावः । उत्तरम्—क्रिया
विषयत्वमिति ।
अनात्मसमवेतक्रियाफलशालित्वं क्रियाविषयत्वं कर्मत्वम् ।
देवदत्तसमवेतया हि क्रियया दर्शनलक्षणया वृक्षविषयोऽनुभवो जन्यते । इदमेव
चानुभवस्यार्थविषयत्वं यदर्थाधीननिरूपणत्वमित्युक्तं प्रमाणलक्षण इति । तेन
क्रियाविषयस्य क्रियातः प्राग्भावाद् युक्तं कारकत्वम् । एवं च विकार्यप्राप्य
योरुपपन्नः1469कर्मभावः, निर्वर्त्यस्य तु पटादेर्यद्यपि क्रियायाः प्राग्भावो नास्ति, तथापि
तदवयवानां तन्तूनां प्राग्भावः, तेषां च तादर्थ्येन पटत्वे उपचारात् पटं करोतीति
युक्तः प्रयोगः । तथा हि
सहचरणादिसूत्रे1470


वक्ष्यति कटार्थेषु वीरणेष्विति । एतेन च कर्मलक्षणेनाहिं लङ्घयति ग्रामं गच्छन्
वृक्षमूलान्युपसर्पतीत्यादयोऽपि संगृहीता वेदितव्याः । नगरं गच्छति चैत्र इत्यत्र
यथाप्राप्तिर्नगरसमवेता एवं चैत्रसमवेतापीति चैत्रस्यापि क्रियाजनितफलशालिनो
मा भूत् कर्मत्वमित्यत उक्तम्—अनात्मसमवेतेति । आत्मविषयेऽपि च मानसप्रत्यक्षे
यद्यप्यात्मनो न कर्मता तथापि ज्ञानक्रिया सकर्मिकैवात्मधर्मस्यात्मनो व्यतिरिक्तस्य
कस्यचित् तत्र कर्मणोऽवभासनादिति सर्वदवदातम् ।


वृक्षः संप्रदानं भवतीति । पाणिनीयलक्षणानुरोधेन लौकिकप्रयोगानुरोधाच्च
संप्रदानमिति, नेयमन्वर्थसंज्ञेति भावः । गुरुत्वप्रतिबन्धे कारणमिति प्रकृतोदाहरणा
323 भिप्रायम् । तथा च गुणादीनामप्याधेयत्वाधिगतेर्द्रव्यादिभिराधेयभावः सिद्धो भवति ।
तेन न द्रव्यस्वभावः कारकामिति यदुक्तं माध्यमिकेन तदस्माकमभिमतमेव ।
काल्पनिकं तु कारकं न मृष्यामहे इत्यनेनाभिसन्धिना भाष्यकारेणोक्तम्—एवं च
सतीति । न क्रियामात्रमिति,
नावान्तरक्रियामात्रम् । यत् प्रधानक्रियासाधनम
वान्तरक्रियाविशेषयुक्तमिति, तदेतदनुभाष्य वार्त्तिककारो व्याचष्टे—एवं च सतीति ।
तदनेन कारकसामान्यमुक्तम् । विशेषलक्षणपरं भाष्यं यत् क्रियासाधनं स्वतन्त्रमिति ।
तद् व्याचष्टे—यदा तु विशेष इति ।


स्यादेतत् । क्रियासाधनमित्येतावदेवास्तु, क्रियाविशेषयुक्तमिति वा,
कृतमुभयोपादानेनेत्यत आह—सर्वस्य च कारकस्येति । यद्यवान्तरक्रियामात्रमुच्यते
ततस्तस्मिन् सर्वस्य कर्तृत्वात् कारकवैचित्र्यं न स्यात्, प्रधानक्रियामात्रोपादाने च
तत्र सर्वेषामवान्तरव्यापारमन्तरेण वैचित्रायोगाद् अत उभयोपादानं प्रयोजनवदिति ।
एवं लक्षणत इति भाष्यं व्याचष्टे—एवं च शास्त्रमिति ।


देशयति—यदीति । परिहरति—न, शक्तेरिति । पुनर्देशयति—शक्तेरिति ।
परिहरति—नैष दोष इति । ननु च बुद्ध्यादयोऽपि शक्तिव्यक्तिहेतवः, न चैते
क्तियारूपाः किं तु गुणरूपा इत्यत आह—क्रियेत्यनेनेति । सामर्थ्यं बलम् । दुर्बलो
हि जानन्नप्युपायं न व्यापारयति । यथा पाणिना कुण्ठः कुठारम् । तेन
शक्तिक्रियासंबन्धयोः कारकशब्दो मुख्यः, शक्तिमात्रे तु गौण इति । प्रकृते
योजयति—कारकशब्दश्चायमिति ॥ १६ ॥


प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ २ । १ । १७ ॥


संप्रति प्रकारान्तरेण प्रमाणान्याक्षिप्य समाधीयन्ते—अस्ति भोः कारक
शब्दानामिति ।
अत्रैते कल्पा उपप्लवन्ते, किं प्रत्यक्षादीनामुपलब्धिः ससाधना
निःसाधना वा ? यदा ससाधना तदापि किमेभिरेव प्रत्यक्षादिभिराहो प्रमाणान्तरेण ?
324 यदाप्येभिस्तदापि किं तयैव प्रत्यक्षव्यक्त्या, अथैका व्यक्तिर्व्यक्त्यन्तरेणेति ? तत्र
प्रमाणान्तराभ्युपगमे विभागसूत्रव्याघातः, अनवस्थापातश्च । प्रत्यक्षादिभिः
प्रत्यक्षाद्यन्तराणां ग्रहणेऽनवस्थापातः । तथैव व्यक्त्या तद्ग्रहणे आत्मनि वृत्ति
विरोधः; न हि तयैवासिधारया सैवासिधारा छिद्यते । तस्मादसाधना प्रमाणोप
लब्धिः । एवं चेत्, कृतं प्रमेयसाधनै प्रमाणैः, प्रमाणवद साधनैवास्तु प्रमेयोपलब्धिरिति
पूर्वः पक्षः । नासाधना प्रमाणसिद्धिः, नापि प्रत्यक्षादिव्यतिरिक्तप्रमाणाभ्युपगमो येन
विभागसूत्रव्याघातः स्यात् । नापि च तथैव व्यक्त्या तस्या एव ग्रहणभ्युपेयते
येनात्मनि वृत्तिविरोधो भवेत् । अपि तु प्रत्यक्षादिजातीयेन प्रत्यक्षादिजातीयस्य
ग्रहणमातिष्ठामहे । न चानवस्था । अस्ति किञ्चित् प्रमाणं यत् स्वज्ञानेनान्यधीहेतुः
यथा धूमादिः । किञ्चित् पुनरज्ञातमेव बुद्धिसाधनं यथा चक्षुरादि । तत्र पूर्वं स्वज्ञाने
चक्षुराद्यपेक्षम् । चक्षुरादि च स्वज्ञानमनपेक्षमेव तज्ज्ञानसाधनमिति का अनवस्था ?
बुभुत्सया च तदपि शक्यज्ञानम् । सा च कदाचिदेव क्वचिदिति नानवस्था । न च
प्रामाण्यं प्रमाणानामप्रतीतं न प्रवृत्यङ्गमिति तदर्थं प्रमाणान्तरापेक्षायामनवस्थेति
वाच्यम् । दृष्टार्थेषु संशयादपि प्रवृत्तौ सत्यां प्रवृत्तिसामर्थ्येन तस्य सुज्ञानत्वात् ।
अदृष्टार्थेषु प्रवृत्तिसामर्थ्यावधृतप्रामाण्यप्रमाणसाधर्म्येण तस्य शक्यज्ञानत्वादिति
दर्शितं प्रथमसूत्रे । तस्मात् प्रत्यक्षादिभिः प्रत्यक्षादीनामुपलब्धिर्न चानवस्थेति
सिद्धान्तः ।


भाष्ये भो इत्यामन्त्रणे । कुतः पुनरुपलिब्धहेतुत्वमित्यत आह—संवेद्यानि
चेति ।
चो हेतौ । उपलब्धिविषयत्वं कुत इत्यत आह—प्रत्यक्षं मे ज्ञानमिति ॥ १७ ॥


तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ॥ २ । १ । १८ ॥


तद्वि…द्धिः ॥ १८ ॥


325

न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥ २ । १ । १९ ॥


प्रदीपभावाभावयोर्दर्शनस्य तथाभावात् । ज्ञातृमनसोश्च दर्शनादिति
भाष्यम् ।
तद्व्याचष्टे वार्त्तिककारः । न चायमेकान्त इति । ज्ञाता ज्ञेय इति
सकर्माभिप्रायम्, न ह्यन्यसमवेता ज्ञानक्रिया येनात्मनः कर्मता स्यात्, अपि तु
ज्ञातृस्थैव । परसमवेतक्रियाफलशालि हि कर्मेत्युक्तम् । तस्मात् सुखादीना
मात्मधर्माणामत्र कर्मता, आत्मनस्तु, प्रकाशमानता, तत्र विवक्षया ज्ञेयत्वाभिधानम् ।
मनस्तु यद्यपि स्वज्ञानं प्रति करणं कर्म च तथापि न स्वात्मनि वृत्तिविरोधः । यदि
हि ज्ञानं करणं भवेत् तदात्माश्रयदोषप्रसङ्गः । स्वसत्तया च ज्ञानं प्रति करणम् ।
अन्यच्चास्य ज्ञानम् अन्या च सत्ता । न च तत्समवेता ज्ञानक्रिया, किं त्वात्मसमवेता ।
तस्मात् ज्ञेयत्वं ज्ञानसाधनत्वं च मनसो न दोषमर्हतीति ॥ १९ ॥


क्वचिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः ॥ २ । १ ।
२० ॥


ये तु प्रदीपप्रकाशो यथा न प्रकाशान्तरमपेक्षते, एवं प्रमाणान्यपि प्रमाणान्तरमन
पेक्षमाणान्यपि सन्ति भविष्यन्तीत्याचार्यदेशीया मन्यन्ते, तान् प्रत्याह—क्व…न्तः ।


यथायं प्रसङ्गः प्रमाणानामनपेक्षत्वप्रसङ्गः, प्रदीपे प्रदीपान्तरानपेक्षया
प्रकाशकत्वदर्शनात् प्रमाणान्तरानपेक्षाण्येवालोकवत् प्रमाणानि सेत्स्यन्तीति
एवमर्थमुपादीयते । एवमनपेक्षत्वप्रसङ्गः1471 । प्रमेयाण्यप्यनपेक्षाण्येव सेत्स्यन्तीत्येवम
र्थमप्युपादेयः । तथा च प्रमाणाभाव इत्यर्थः । तदेवं प्रदीपदृष्टान्ताश्रयणेन प्रमाणाभाव
प्रसङ्गमुक्त्वा स्थाल्यादिदृष्टान्तोपादानेन तु प्रमाणस्यापि प्रमाणान्तरापेक्षेत्याह
यथा स्थाल्यादिरूपग्रहणे इति ।


326

तदेतद् भाष्यं व्याचष्टे वार्त्तिककारः—यथाप्रदीपप्रकाशः सजातीयानपेक्षः तथा
प्रमाणानि
सजातीयानपेक्षाणि, न पुनर्यथास्थाल्यादिरूपं प्रमाणापेक्षं तथा प्रमाणान्यपि
प्रमाणापेक्षाणीति । कस्मात् पुनः स्थाल्यादिरूपं प्रमाणापेक्षमित्यत आह
स्थाल्यादिरूपप्रकाशने चेति । प्रदीपप्रकाशस्तत्र प्रमाणमिति लोकसिद्धमित्यर्थः ।
कस्मादेवं स्थालीरूपवत्1472 न प्रमाणानि, तान्यपि प्रमाणान्तरेण प्रकाश्य
न्तामित्यर्थः । तदनेन प्रदीपदृष्टान्तेन निरपेक्षत्वम्, न तु स्थाल्यादिदृष्टान्तेन
सापेक्षत्वमित्यत्र नियमहेतुर्नास्तीत्युक्तम् । नियमान्तरहेत्वभावमाह—अयं च
प्रदीपप्रकाशदृष्टान्त
इति । यथा हि प्रमाणानि प्रदीपदृष्टान्तेन निरपेक्षाणि, एवं तेनैव
दृष्टान्तेन कस्मान्न प्रमेयाण्यपि ? ततश्च प्रमाणाभावप्रसङ्गः । न हि प्रमाणानामेव
प्रदीपो दृष्टान्तो न प्रमेयाणामिति नियमहेतुरस्ति । तदनेन यथायं प्रसङ्गः इति भाष्यं
व्याख्यातम् । प्रदीपप्रकाशो दृष्टान्तो भवतु इत्यनेनायमेव दृष्टान्तो नायमिति
नियमो निराकृतः । पूर्वेण तु प्रदीपदृष्टान्तेन निरपेक्षत्वमेव न तु स्थालीदृष्टान्तेन
सापेक्षत्वमित्ययं नियमो निराकृत इति न पुनरुक्तम् । प्रकाशकत्वादिना तु हेतुना
संगृहीतः प्रदीपदृष्टान्तो1473 नियतो भवतीति नानियमः शक्यो वक्तुम् । केवलं
प्रकाशकत्वं सजातीयान्तरानपेक्षत्वे साध्ये विकल्पनीयम् किमत्यन्तसजातीयमाहो
सजातीयमात्रम् यद्यत्यन्तसजातीयम् ततः सिद्धसाधनम् । न हि चक्षुरादि प्रमाणं
स्वग्रहणे चक्षुराद्यन्तरमपेक्षते । अथ कथञ्चित् सजातीयम्, तदपेक्षत्वमालोकस्या
प्यस्ति, तस्यापि चक्षुराद्यपेक्षत्वात् । ततश्च साध्यहीनो दृष्टान्तः, विरुद्धश्च हेतुः ।
विषयज्ञानमपि न विषयज्ञानेन गृह्यते, किंतु ज्ञानविषयेन ज्ञानेनेति नात्यन्तसजातीय
मिति । तदनोभिप्रायेण वार्त्तिककृता उक्तम्—अनेकान्त इत्ययं दोषो न भवति
दोषान्तरं तु भवतीत्यर्थः । 1474उत्तरग्रन्थस्तु सिंद्धान्तं दर्शयाद्भिरस्माभिरुपपादितार्थ इति
न व्याख्यातः । येन प्रयुक्तोऽनवस्थामुपाददीतेति 1475सोत्प्रासम् ॥ २० ॥


॥ इति सामान्येन प्रमाणपरीक्षाप्रकरणम् ॥

327
  1. कारकं हेतु° C

  2. नाभ्युपगमविरुद्धमि°C

  3. व्याघातःJ

  4. चेत्याहC

  5. न्याः सू २. १. ८

  6. सहत्वेन C

  7. तदिदं C

  8. निषेधयति J

  9. मिति च C

  10. कारकान्तराणां कर्तुःC

  11. प्राक् अनु C

  12. बीजादित्याह C

  13. °मानं प्रमाणमाह C

  14. कारकभावःJ

  15. न्या सू. २ । २ । ६२

  16. उपादीयते प्रसङ्गः C

  17. स्थालीवत् C

  18. प्रदीपप्रकाशदृष्टान्तः ?

  19. इतरग्र° C

  20. सोपहासम् C