315 भावः । उत्तरम्—आदौ तावत् संभव इति । न परीक्षा संशयमन्तरेणेति संशयस्य
बीजमाह—सदसतोरिति । पूर्वपक्षमाह—व्युदस्य संशयमिति । अयमत्र पूर्वपक्षिणो
माध्यमिकस्याभिसन्धिः, यद्यपि मम विश्वविचारासहत्ववादिनः प्रमाणं नाम न
किञ्चिदस्ति विचारसहम्, तथापि लोकसिद्धान्येव प्रमाणानि तैरेव प्रमाणैः
पर्यालोच्यमानानि विचारं न सहन्ते । सोऽयं प्रमाणानामपराधो यानि स्वविरोधेन
विलीयन्ते, न तु ममापराध इति ॥ ८ ॥


पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्यत्तिः ॥
२ । १ । ९ ॥


ज्ञानं हि प्रमाणं तद्योगात् प्रमेयमिति चार्थ इति च भवति । तद् यदि प्रमाणं
पूर्वं प्रमेयादर्थादुत्पद्यते ततः प्रमाणात् पूर्वं नासावर्थ इति इन्द्रियार्थेत्यादिसूत्र
व्याघातः ॥ ९ ॥


पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ २ । १ । १० ॥


अथ पूर्वं प्रमेयं पश्चात् प्रमाणं तत्राह—पश्चादिति । यद्यपि च वस्तुस्वरूपं न
प्रमाणाधीनं तथापि तस्य प्रमेयत्वं तदधीनम् । तदपि चेत् प्रमाणात् पूर्वं, न
प्रमाणयोगनिबन्धनं स्यादित्यर्थः । तदिदमुक्तम्—प्रमेयसंज्ञेति ॥ १० ॥


युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥
२ । १ । ११ ॥


यौगपद्ये दृष्टव्याघातः सूत्रव्याघातश्च । प्रयोगस्तु प्रत्यक्षादयो न प्रमाणत्वेन