327

प्रत्यक्षलक्षणपरीक्षाप्रकरणम्


प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ २ । १ । २१ ॥


प्रत्यक्षकारणं1476 वानेन सूत्रेणोच्येत प्रत्यक्षस्वरूपं वा ? न तावत् प्रत्यक्षकारण
मित्याह—यदिदं भवता प्रत्यक्षलक्षणमुच्यत इति प्रत्यक्षकारणमित्यर्थः । कारणे
सति कार्यं ज्ञानं लक्ष्यते प्रज्ञायत इति1477 । द्वितीयकल्पं शङ्कते—अथेति । सिद्धान्तवाद्याह
नोभयथापीति । लक्षणपक्ष एव सिद्धान्तिनोऽभिमतः । कारणपक्षाभ्युपगमस्तु
प्रौढिवादेन द्रष्टव्यः । सकलप्रत्यक्षव्यापकमसाधारणं कारणमवधार्यते । न हीदृशमन्यत्
कारणमात्ममनःसंयोगो वा, इन्द्रियमनःसंयोगो वा प्रत्यक्षस्यास्ति पूर्वस्य साधारणत्वाद्
उत्तरस्य चाव्यापकत्वादिति । समाधानान्तरमाह—अर्थतो वा इत्यादिना मनः
सन्निकर्षोऽपि कारणम्
इत्यन्तेन । तदेवं सिद्धान्तसारमुक्तत् ॥ २१ ॥


नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥ २ । १ । २२ ॥


नात्ममनसोरित्यादिसूत्रमपठित्वैव भाष्यकारो व्याचष्टे—न चासंयुक्ते द्रव्ये
इति ।
सर्वं हि कारणजातं कार्योपजननाय परस्परसमबधानमपेक्षते, अन्यथा यत्र तत्र
व्यवस्थितेभ्योऽपि कारणेभ्यः कार्यमुपजायेत । तदात्मनापि मनःसंबद्धेन कार्यं
जनयितव्यम् । संबन्धश्चात्ममनसोः संयोग एव । भवतु वा संयोगजं ज्ञानम् ।
अथेन्द्रियात्मसंयोगजं कस्मान्न भवति, कृतं मनःसंयोगेनेत्यत आह—मनःसन्निकर्षेति ।
तस्मादात्ममनःसन्निकर्षोऽपि वक्तव्य इति पूर्वः पक्षः । तदिदं1478 नात्मनसोः
सन्निकर्षेत्यादिसूत्रपाठस्य पुरस्तात् कृतभाष्यम् ।


तदेतद् वार्त्तिककारो भाष्यम् अनुभाष्य पूर्वपक्षसूत्रं पठति—


  1. लक्षणं C

  2. कार्यं लक्ष्यते ज्ञानमितिC. Var

  3. तदिदं सूत्रमिति C