प्रत्यक्षलक्षणपरीक्षाप्रकरणम्


प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ २ । १ । २१ ॥


प्रत्यक्षकारणं1476 वानेन सूत्रेणोच्येत प्रत्यक्षस्वरूपं वा ? न तावत् प्रत्यक्षकारण
मित्याह—यदिदं भवता प्रत्यक्षलक्षणमुच्यत इति प्रत्यक्षकारणमित्यर्थः । कारणे
सति कार्यं ज्ञानं लक्ष्यते प्रज्ञायत इति1477 । द्वितीयकल्पं शङ्कते—अथेति । सिद्धान्तवाद्याह
नोभयथापीति । लक्षणपक्ष एव सिद्धान्तिनोऽभिमतः । कारणपक्षाभ्युपगमस्तु
प्रौढिवादेन द्रष्टव्यः । सकलप्रत्यक्षव्यापकमसाधारणं कारणमवधार्यते । न हीदृशमन्यत्
कारणमात्ममनःसंयोगो वा, इन्द्रियमनःसंयोगो वा प्रत्यक्षस्यास्ति पूर्वस्य साधारणत्वाद्
उत्तरस्य चाव्यापकत्वादिति । समाधानान्तरमाह—अर्थतो वा इत्यादिना मनः
सन्निकर्षोऽपि कारणम्
इत्यन्तेन । तदेवं सिद्धान्तसारमुक्तत् ॥ २१ ॥


नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥ २ । १ । २२ ॥


नात्ममनसोरित्यादिसूत्रमपठित्वैव भाष्यकारो व्याचष्टे—न चासंयुक्ते द्रव्ये
इति ।
सर्वं हि कारणजातं कार्योपजननाय परस्परसमबधानमपेक्षते, अन्यथा यत्र तत्र
व्यवस्थितेभ्योऽपि कारणेभ्यः कार्यमुपजायेत । तदात्मनापि मनःसंबद्धेन कार्यं
जनयितव्यम् । संबन्धश्चात्ममनसोः संयोग एव । भवतु वा संयोगजं ज्ञानम् ।
अथेन्द्रियात्मसंयोगजं कस्मान्न भवति, कृतं मनःसंयोगेनेत्यत आह—मनःसन्निकर्षेति ।
तस्मादात्ममनःसन्निकर्षोऽपि वक्तव्य इति पूर्वः पक्षः । तदिदं1478 नात्मनसोः
सन्निकर्षेत्यादिसूत्रपाठस्य पुरस्तात् कृतभाष्यम् ।


तदेतद् वार्त्तिककारो भाष्यम् अनुभाष्य पूर्वपक्षसूत्रं पठति—


328

तदिदं सूत्रमिति । सूत्रार्थमाह—आत्ममनसोरिति । पूर्वपक्षस्य क्षण
मप्यवस्थानमनिच्छन्1479, वार्त्तिककारः प्रतिषेधमस्योक्तं स्मारयति—न,
उक्तेति
॥ २२ ॥


दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥ २ । १ । २३ ॥


तदेवं द्वाभ्यां सूत्राभ्यां पूर्वपक्षिते सति भावमात्रेण इन्द्रियार्थसन्निकर्षा
दीनामनेन कारणत्वमुक्तमिति मन्यमानः1480 पार्श्वस्थः प्रत्यवतिष्ठते—सति चेन्द्रियार्थेति ।


दिग्दे…ङ्गः । न सति भावमात्रेण कारणत्वम् । आकाशादीनामपि कारणत्वप्रसङ्गात् ।
तादृशश्चात्ममनः संयोग इन्द्रियार्थसन्निकर्षश्चेति न कारणं युक्तमित्यर्थः । दूषयति—
अकारणभावेऽपीति । नान्वयमात्रात् कारणत्वनिश्चयोऽपि त्वन्वयव्यतिरेकाभ्याम् ।
न च दिगादावस्ति व्यतिरेकः । नित्यत्वविभुत्वाभ्यामवर्जनीयः सन्निधिः ।
सेन्द्रियशरीरवर्त्यात्ममनःसंयोगस्त्वन्वयव्यतिरेकावधृतसामर्थ्यः, सुप्तस्य
ज्ञानानुत्पादात् । इन्द्रियार्थसन्निकर्षे त्वसति विप्रकृष्टे व्यवहिते च ज्ञानं न जायते ।
इन्द्रियमनःसन्निकर्षाभावे तु नायुगपज्ज्ञानानि भवन्ति । तस्मात् नाकाशादिभिरतिप्रसङ्ग
इति ।


तदेतद् वार्त्तिककारो व्याचष्टे—ये च सति भावात् कारणभावं वर्णययन्ति
पूर्वपक्षिणः सिद्धान्तिनो वा, असति न भवतीति दैवादागतो व्यतिरेको न तु
प्रयोजकः, तान् प्रति पार्श्वस्थो ब्रूते तेषां दिग्देशेति । यथा चान्द्रमसं रूपमिति ।
यद्यपि तत्रापि तेजस्यौष्ण्यमस्ति तथाप्यत्यन्ताभिभवेन स्वेचितार्थक्रियानुपयोगाद
सत्कल्पत्वमित्यर्थः ॥ २३ ॥


329

ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥ २ । १ । २४ ॥


एवं पार्श्वस्थे निरस्ते पूर्वपक्षी ब्रूते—यद्येवमिति । सिद्धान्त्याह—नोपसंख्येय
इति ।


ज्ञान…धः । अत्र ज्ञानस्यात्मलिङ्गत्वमुच्यते । ज्ञानं तावत् कार्यमनित्यत्वाद्
घटादिवत् । क्वचित् समचेतं च कार्यत्वाद् घटवत् । न च तत् पृथिव्याद्याश्रितं
मानसप्रत्यक्षत्वात् । यत् पुनः पृथिव्याद्याश्रितं तत् प्रत्यक्षान्तरवेद्यमप्रत्यक्षमेव वा । न
च तथा ज्ञानम्, तस्माद् द्रव्याष्टकातिरिक्ताश्रितम् । तदाश्रयश्च द्रव्यजातीयः
समवायिकारणत्वादाकाशवत् । तस्य च विभुत्वमात्मलक्षणेऽस्माभिरुक्तम् । अतो
गुणजातीयं ज्ञानं कार्यत्वे सति विभुद्रव्यसमवायात् शब्दवत् । एवं व्यवस्थिते
प्रश्नोत्तरे वार्त्तिकगते व्याख्यातव्ये ॥ आत्मसमवायादिति कार्यत्वे सति विभु
द्रव्यसमवायादित्यर्थः । विभुद्रव्यसमवाय एव तस्यासिद्ध इति चेदत1481 आह—
पृथिव्यादिगुणः स्वसंवेद्यत्वात्,
मानसप्रत्यक्षवेद्यत्वादित्यर्थः । स्वपरसंवेद्यं1482
प्रत्यक्षान्तरवेद्यं द्रष्टव्यम्, अन्यथा पृथिव्यादिगुणेन द्वित्वादिना व्यभिचारः स्यादिति ।
तस्मात् ज्ञानलिङ्ग आत्मा । न चासावसंयुक्तो ज्ञानं जनयति, तस्य सदातनत्वेन सदा
ज्ञानोत्पादप्रसङ्गात् । तस्मात् संयोगभेदं कादाचित्कमपेक्षत इति अर्थात् सिद्ध
आत्ममनः संयोग इति न सूत्रकृता उक्तः । प्रौढिवादितयैष1483 समाधिरिति दर्शयितु
मुक्तमेव परमं समाधिं स्मारयति—उक्तं चात्रेति ॥ २४ ॥


तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥ २ । १ । २५ ॥


अन्यार्थमिति प्रमेयभूतमनःस्वरूपप्रतिपादनार्थम् । अन्यार्थस्यापि तदर्थ
प्रकाशकत्वम् । उपपत्ति
र्लिङ्गम् । ईदृशं हि तल्लिङ्गं यदन्यार्थमपि मनसो ज्ञान
330 कारणत्वं प्रतिपादयतीति । न हि ज्ञानं स्वतन्त्रं येन स्वकारणं मनो नापेक्षेत, नापि
चक्षुरादि स्वतन्त्रं ज्ञानोपजनने येन मनो ज्ञानकारणं न स्यादित्याह—न च
चक्षुरादीति ।
तस्मादर्थप्राप्तत्वादात्ममनःसंयोग इन्द्रियमनःसंयोगश्च नोक्तौ
सूत्रकारेण ॥ २५ ॥


प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ॥
२ । १ । २६ ॥


देशयति—अथ कस्मादिति । इन्द्रियार्थसन्निकर्षेऽप्यर्थतः प्राप्तिरविशिष्टेति
भावः ।


प्रत्य…नम् । परिहरति—प्रत्यक्षेति । सर्वानभिधाने हि प्रत्यक्षं न लक्षितं
स्यादिति तल्लक्षणाय किञ्चिद् वक्तव्यम् । तत्रेन्द्रियार्थसन्निकर्ष एव वक्तव्यः
समस्तप्रत्यक्षव्यापकत्वात्, नेतरौ अव्यपकत्वादतिव्यापकत्वाच्चेति परमः
समाधिः ॥ २६ ॥


सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥
२ । १ । २७ ॥


ज्ञानोत्पत्तेरिति सूत्रशेषः । प्रणिधाय संकल्प्य प्रदोषे सुप्तोऽर्धरात्रे
मयोत्थातव्यमिति सोऽर्धरात्र एव प्रबुध्यते । प्रबोधज्ञानमिति, प्रबोधे निद्राविच्छेदे
सति तीव्रस्पर्शस्य1484 ज्ञानं प्रबोधज्ञानमित्यर्थः । सुप्तमनसामिति व्याख्याय
व्यासक्तमनसामिति1485 व्याचष्टे—एकदा खल्वयं विषयान्तरेति ॥ २७ ॥


331

तैश्चापदेशो ज्ञानविशेषाणाम् ॥ २ । १ । २८ ॥


प्राधान्ये च हेत्वन्तरम्—


तैः…णाम् । इन्द्रियैर्व्यपदेशं विग्रहसमासाभ्यां ज्ञानस्य दर्शयति—घ्राणेनेति ।
इन्द्रियविषयसंख्यावरोधात् तज्ज्ञानस्य1486 तद्व्यपदेश इत्याह—इन्द्रियेति । वार्त्तिकम्
यच्चासाधारणं तेनेति ।
दिगादिरप्युपाधिकल्पितेन प्राचीत्वादिना कार्यं विशेषयन्
असाधारण एवेत्यमिप्रायः ॥ २८ ॥


व्याहतत्वादहेतुः ॥ २ । १ । २९ ॥


अनेन प्रबन्धेनेन्द्रियार्थसन्निकर्ष एवं कारणं ज्ञानस्य न त्वात्ममनःसन्निकर्षो न
मन इन्द्रियसन्निकर्षो वा ज्ञानकारणमनेनोक्तमिति मन्वानो देशयति—व्या…तुः ।


व्याहतत्वादिति पूर्वपक्षसूत्रम् । अस्य तात्पर्यमाह वार्त्तिकारः—अनेनेति ।
नन्वियं त्रिसूत्री इन्द्रियार्थसन्निकर्षस्य प्राधान्यमाह न पुनः संयोगान्तरस्य कारणत्वं
प्रत्याचष्ट इत्यत आह—इयं किलेति । कारणत्वं प्रतिषेधतीत्यभिमानः पूर्वपक्षिण
इत्यर्थः । दृष्टव्याघात इति, अयौगपद्यं दृष्टं तस्य व्याघात इत्यर्थः । शेषं तु
भाष्यव्याख्यया गतार्थमिति1487 ॥ २९ ॥


नार्थविशेषप्राबल्यात् ॥ २ । १ । ३० ॥


परिहारसूत्रम्—ना…त् ।


अनेनेन्द्रियार्थसन्निकर्षस्य प्राधान्यमात्रमुच्यते, न त्वात्मममनःसंयोगस्येन्द्रियमनः
संयोगस्य वा अकारणत्वमुच्यत इति न व्याघात इत्यर्थः । पृच्छति—असति संकल्पे
332 प्रणिधाने चेति । प्रयत्नः प्रणिधानम् । संकल्प इच्छा । उत्तरम्—यथैवेति । नन्वस्य
जात्यायुर्भोगनिमित्तत्वमवगतम्, न तु मनःप्रेरकत्वमपीत्याह—तेन ह्यप्रेर्यमाणे
मनसीति ।
भोगो ह्यदृष्टस्य प्रधानं प्रयोजनं तन्नान्तरीयकतया जन्मायुषी अप्याक्षि
पति । स्वसंबन्धिसुखदुःखसाक्षात्कारश्च भोगः । तदायतनं च शरीरम् । अप्राप्तं च
मनो न तत्र भोगं च भोगविषयौ सुखदुःखे च तयोः कारणं च ज्ञानं जनयितुमर्हतीति
नूनं तत्र प्राप्तिहेतोर्मनःकर्मणः कारणमदृष्टं वक्तव्यम् । अन्यथास्य सर्वद्रव्य
गुणकर्मकारणता न स्यात् । मा भूत् सर्वार्थतेत्यत आह—एषितव्यं चास्येति । अणूनां
विशेषणं भूतसूक्ष्माणाम् इति ॥ ३० ॥


॥ प्रत्यक्षलक्षणपरीक्षाप्रकरणम् ॥

  1. लक्षणं C

  2. कार्यं लक्ष्यते ज्ञानमितिC. Var

  3. तदिदं सूत्रमिति C

  4. °मसहमानोC

  5. °मसहमानोC

  6. इति वदतःC

  7. परवेद्यंJ

  8. °तयैवC

  9. द्रव्यस्पर्शस्य C

  10. व्याख्याय व्यासक्तमनसामिति नास्ति K

  11. °संख्यानुरो°C

  12. व्याख्यातमितिC