प्रत्यक्षस्यानुमानत्वपरीक्षाप्रकरणम्


प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ॥ २ । १ । ३१ ॥


अतः परमिदानीमिति । न ह्यवयवी नाम कश्चिदर्थान्तरभूतोऽवयवेभ्योऽस्ति,
अपि त्ववयवा एव परमार्थसन्तः । तेषु च कतिपयानवयवान् गृहीत्वा तत्सह
चरितानवयवाननुमाय प्रतिसंधानजेयं वृक्षबुद्धिस्तानेवावयवानालम्बमानानुमान
मिति प्रत्यक्षस्यानुमानेऽन्तर्भावाद् विभागसूत्रेण न्यूनाधिकसंख्याव्यवच्छेदो
नोपपद्यत इत्यर्थः ।


निराकरोति—न, यथासंभवं विकल्पानुपपत्तेः । एकदेशो ह्यवयविन आधार
इति । एकश्चासौ देशश्चेत्येकदेशः । देशश्चाधारो न चाधेयो ह्यवयवीति कथमाधार
इत्यर्थः । अहो शब्दार्थकौशलमिति शब्दे चार्थे च1488 कौशलमित्यर्थः । अर्थे तावद
कौशलमाह—अकार्येति । कार्यस्यैकस्य कारणानां तदेव कार्यं कर्तुं परस्पर
प्रत्यासत्तिर्भवति, यथा मृद्दण्डचक्रसूत्राणां घटे कार्ये जनयितव्ये प्रत्यासत्तिः ।
333 कार्यणां चैकसामग्रीजन्मनां परस्परप्रत्यासत्तिः, यथा रूपरसगन्धस्पर्शानाम् । कार्य
कारणयोर्वा यथाग्निधूमयोः । येषां तु न कार्यकारणभावो, नैककार्यत्वं वा, नैककारणत्वं
वा, तेषां कुतो नियमवती प्रत्यासत्तिरित्यर्थः । शब्दाकौशलमाह—न च परस्परेति ।
अवयविनं दधदवयवान्तरमवयवान्तरमपेक्षते, ततश्चावयवाः परस्परोपकारिणो
भवन्ति । अवयव्यभावे तु न परस्परोपकारिणः, कथमवयवा इत्यर्थः ।


न चावृक्षप्रतिसन्धानजेति । स्वस्तिमतीं हि गां गृहीत्वा कालाक्ष्यां गवि
गौरिति प्रतिसन्धानं दृष्टम्, न त्वश्वं गृहीत्वाश्वान्तरे गौरिति प्रतिसन्धानं दृष्टम् । तत्
कस्य हेतोः ? तयोरगोत्वात् । एवमर्वाग्भागपरभागाणामवृक्षत्वाद् वृक्ष इति प्रतिसन्धानं
न भवेदित्यर्थः । यद्युच्येत मा भूद् वृक्षरूपधर्मिग्रहः पूर्वम्, अर्वाग्भागं तु धर्मिणं
वृक्षविशिष्टमनुमाय1489 प्रतिसन्धास्यतीत्यत आह—न चानुमानम् । कस्मादित्यत आह—
अनुमान इति । नायमनुमाता पूर्वमनुपलभ्याग्निमनुमानेन च धूमस्य विशेषणमग्निं
प्रतिपद्य प्रतिसंधत्ते अयं धूमोऽयं चाग्निरिति । अथ पूर्वं प्रतिसन्धानं पश्चादनुमानमित्यत
आह—न च प्रतिसंधायेति । प्रतिसन्धानसमय एवाग्नेरवगतत्वाद् भवितव्यमत्राग्निनेति
व्यर्थमनुमानं स्यादित्यर्थः । अभ्युपेत्याह—प्रतिसंधायापि चेति ।


किं चार्वाग्भागमयमिति । स भागवान् भागो न भवति किं तु भाग्येव ।
कस्मान्न पश्यतीत्यत आह—नार्वाग्भागपरभागौ संबद्धौ । एकावयविसमवायेन
हि परस्परसंबद्धौ स्याताम्, न चावयव्यस्ति, नापि संयुक्तौ संयोगस्याप्यवय
विनिरासमार्गेणापास्तत्वादित्यर्थः । पृच्छति—कथं पुनरिति । उत्तरम्—नित्यमर्वाग्
भागेनेति ।
संबन्धस्तावन्नास्तीत्युक्तमेव । तमभ्युपेत्य तूत्तरम्—सत्यं संबद्धाविति ।
सत्यपि संबन्धे अशक्यग्रहोऽसावित्यर्थः । सत्यं संबद्धावित्ययमभ्युपगमवाद एव ।


यच्चेदमुच्यते प्रतिसन्धानप्रत्ययजेति । पूर्वं सत्यपि वृक्षे अवयवानाम
वृक्षत्वान्नावययेषु प्रतिसन्धानजा वृक्षबुद्धिरित्युक्तम् । संप्रति तु वृक्षस्यासत्त्वेन
नावयवेषु वृक्ष इति प्रतिसन्धानमित्यपौनरुक्त्यम् । रूपं च मयोपलब्धं रसश्चेति ।
334 य एवोपलब्धा रसप्रत्ययोपरञ्जितः स एव रूपप्रत्ययोपरञ्जित इत्यर्थः । प्रमाणस्य
यथाभूतार्थपरिच्छेदकत्वादिति ।
यथा भ्रान्तमप्यनुमानमर्थसंबन्धेन प्रमाणमिति न
भवति तथा प्रथमेऽध्याये दर्शितम् । प्रधानानुकारेण भ्रान्तिरिति विपरीतख्यातौ
सत्याम् । सा चोपपादिता प्रथमाध्याये ।


न, तथाशब्दस्यार्थानाभिधानदिति । कः पुनरयं तथाशब्दार्थः, परमाणूनां
रूपं वा नैरन्तर्यं वा संयोगभेदो वा उत्पादभेदो वा ? यदि रूपमात्रम्, तद्
घटादिष्वपीति तेष्वपि वृक्षबुद्धिः स्यात् । अथ रूपभेदः, क्षणान्तरेणावृक्षः1490 स्यात्,
न हि तत् पूर्वं रूपम् । अथ नैरन्तर्यम्, तद् घटादिष्वप्यस्ति । न वा क्वचिदपि
गन्धरसरूपस्पर्शपरमाणुव्यवधानात् । न संयोगो भवद्भिरास्थीयत इति कुतस्त
द्भेदः ? उत्पादभेदोऽपि हि परमाणूनां रूपमेव । न हि परमाणुव्यतिरिक्तः कश्चिदस्ति
तेषामुत्पादः । 1491रूपं च पूर्वं विकल्पितम् । यदि हि क्वचिदवयवसन्निवेशो वास्तवः
पूर्वापरभागादिशब्दप्रवृत्तिहेतुरूपलब्धः स्यात्, ततस्तथाशब्दार्थः प्रतीयते । न तु
भवतां क्वचिदेष वास्तवः, वस्तुसतां परमाणूनामभागत्वादित्यर्थः । सामान्यतोदृष्टे
धर्मिविषयकमपि प्रत्यक्षं नास्तीति भ्रान्तः पृच्छति—कः सामान्यतोदृष्टस्येति ।
उत्तरम्—अयं विशेष इति । द्विकस्य प्रत्यक्षेण प्रसिद्धौ सामान्यतोदृष्टं प्रवर्तते त्रिकस्य
तु प्रत्यक्षेण प्रसिद्धौ प्रत्यक्षतो दृष्टमिति विशेषः । सर्वस्याप्रत्यक्षत्वाद् वृक्षबुद्धिस्तु
न प्रत्यक्षतोदृष्टादनुमानात् नापि सामान्यतोदृष्टादित्याह—भवत्पक्षे त्विति ॥ ३१ ॥


न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥ २ । १ । ३२ ॥


न प्रत्यक्षस्यानुमानता । कुतः ? यावदेकदेशभूतस्यार्थजातस्य ग्रहणम्


एक देशग्रहणादुपलब्धेः


इत्यत्र हेताविष्यते तावदपि प्रत्यक्षेण, अन्यथैकदेशग्रहणाभावेनानुमानानुदयात्,
335 अनुमानान्तरेण वा तद्ग्रहणेऽनवस्थापातात् । अतस्तावतोऽर्थजातस्य प्रत्यक्षेणोप
लम्भात् सर्वं प्रत्यक्षमनुमानमिति प्रतिज्ञा हेतुना एकदेशग्रहणादुपलब्धेरित्यनेन
बाधिता, एकदेशग्रहणस्य प्रत्यक्षेणानभ्युपगमे वा प्रमाणान्तरस्य तत्रानुपपत्तेरसिद्धो
हेतुः । सेयमुभयतः पाशा रज्जुरित्यर्थः । अनुमानेनैकदेशग्रहणात् नासिद्धो हेतुरित्यत
आह भाष्यकारः—न चैकदेशग्रहणमिति । अनुमितिः अनुमानम् भावयितुं कर्तुम् ।
अनवस्थाप्रसङ्गेन हेत्वभावादिति ।


तदेतत् सूत्रं वार्त्तिककारो व्याचष्टे—विरुद्धश्चायमिति । नन्वेकदेशप्रत्यक्ष
त्वेऽपि तन्मात्रं प्रत्यक्षं न तु सर्वं प्रत्यक्षं स्यादित्यत आह—न चैवं प्रतिज्ञायते
सर्वमिति । अप्रकारवदिति ।
अनुमानस्य हि त्रयः प्रकारा यादृशा न तादृशाः प्रत्य
क्षस्येति । त्रिकालविषयत्वाच्चेति । अनेन परोक्षार्थत्वं सूचयत्यनुमानस्य । प्रत्यक्षं
त्वपरोक्षार्थविषयम् । तस्मादपि भेद इत्यर्थः । लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफल
स्यापि प्रमाणस्य सतो लिङ्गलिङ्गिसंबन्धस्मृत्यनुग्रहोऽस्त्युत्पत्तौ । न त्वेवं प्रत्यक्षस्य
प्रमाणस्य सत1492 उत्पत्तौ वा कार्ये वा लिङ्गलिङ्गिसंबन्धस्मृत्यपेक्षेत्यर्थः ।


अन्यथापि चेत्यादि भाष्यं व्याचष्टे—इतश्चेति । न त्वेतदनुमानम् इत्यादि
भाष्यार्थ माह—इन्द्रियेति । इन्द्रियसंबन्धाच्चार्थस्य प्रत्यक्षमुत्पद्यते, न त्वनुमानमेव
मित्यर्थः ।


अपि चावयविनोऽसत्त्वं मन्यमानेन त्वयैकदेशमात्रोपलब्ध्या वृक्षबुद्धेरनुमान
त्वमुक्तम् । न त्वियमेकदेशमात्रोपलब्धिरपि तु तस्य च तत्सहचरितस्य चावयविन
उपलब्धिलक्षणप्राप्तस्य सिद्धेरित्याह—न चैकदेशोपलब्धिरिति । तदेतद्भाष्य
मनुभाष्य वार्त्तिककारो व्याचष्टे—न चेति ।


अत्र देश्यभाष्यम्—अकृत्स्नग्रहणादिति चेत् ? उत्तरभाष्यम्—न कारणत
इति । देश्यविवरणम्—न चावयवा इति । एकदेशग्रहणनिवृत्त्यर्थं हि त्वया
अवयविग्रहणमास्थीयते । न चैतावता कृत्स्नग्रहणसंभवो यत एकदेशग्रहणनिवृत्तिः
336 स्यात् । न ह्यवययविग्रहणेऽप्यवयवा कृत्स्ना गृहीता भवन्ति, नाप्यवयवी,
तस्यार्वाग्भागस्य ग्रहणेऽपि मध्यपरभागस्थस्याग्रहणादिति देश्यभाष्यार्थः ।


तदेतद् भाष्यं वार्त्तिककारो व्याचष्टे—नावयविन उपलब्धिरिति । यत् खलु
बहुषु वर्तते तत् प्रत्येकं परिसमाप्त्या1493 वा यथा कलविङ्ककण्ठगुणः, एकदेशेन वा
यथास्रक्सूत्रं कुसुमेषु । न च कृत्स्नैकदेशाभ्यां प्रकारान्तरमस्ति । अनयोरन्यतर
निषेधस्यान्यतरविधाननान्तरीयकत्वात् नित्यत्वानित्यत्ववदिति । न चैकत्र
कृत्स्नसमाप्तावन्यत्र तस्यैव संभवः । तथा सति कृत्स्नसमाप्तेरसंभवात्1494 । तस्माद्
योऽवयवान्तरे दृश्यते नासाववयवी । तथा चावयवा एवेति प्राप्तमित्यपि द्रष्टव्यम् ।
ह्मस्य कारणव्यतिरेकेणेति ।
यदि ह्येकदेशान्तराण्यस्य स्युः, ततस्तेष्वपि
वृत्तावेकदेशान्तरकल्पनायामनवस्थाप्रसङ्ग इत्यर्थः । पूर्वपक्षवाद्येव प्रश्नपूर्वकं
क्रियातिपत्तिमाह—अथोपलभ्यमान इति ।


उत्तरभाष्यविवरणपरं भाष्यम्—कृत्स्नमिति वै खल्वित्यादि । तदेकग्रन्थतया
अङ्ग तु भवानित्यादि संबोधनोपक्रमं भाष्यं व्यवस्थितम् ।


तदेतद् वार्त्तिककारो व्याचष्टे—एकस्मिन्निति । अयमभिसन्धिः । यत् तावत्
कुसुमेषु सूत्रमेकदेशेन वर्तमानं दृष्टमिति तदनुपपन्नम् । यदि कुसुमेषु सूत्रावयवा
वर्तन्ते किमायातमवयविनः सूत्रस्य ? न ह्यन्यस्मिन् वर्तमाने अन्यद् वर्तत इति
युक्तम्1495 । न चावयविनोऽभावे भवत्येतदपि सूत्रमवयव्यवयवैर्वर्तत इति । अथ मा
भूत् सूत्रं नामावयवी एकदेशास्तु कुसुमेषु वर्तन्त इति ब्रूमः । तथा च सति
नैकमनेकत्रैकदेशेन वर्तते किं त्वनेमनेकत्रेति । तथा च कुसुमपरमाणावेकस्मिन्
सूत्रपरमाणुरेको वर्तत इत्युक्तं भवति । न च वृत्तिरपि परमाणुभ्यामतिरिच्यते यतो
भवति वर्तत इति । तस्मात् निरन्तरोत्पाद एव परमाण्वोर्वृत्तिरिति व्यवहर्तव्यः, न पुनः
परमाणुस्वरूपातिरिक्ता काचिद् वृत्तिरस्ति वस्तुसती । एतेन कलविङ्ककण्ठगुणवत्
प्रत्येकं कृत्स्नपरिसमाप्तिर्वृत्तिरित्यपि व्याख्यातम् । तथा च वृत्तेरभावादेकदेशेन वा
337 कार्त्स्न्येन वा वर्तत इति रिक्तं वचः । यथालोकप्रत्ययं तु वृत्तेरभ्युपगमे सूत्रं कुसुमेषु
नैकदेशेन वर्तते किन्तु तदेकदेशाः सूत्रं च कुसुमेषु वर्तत इति लौकिकोऽनुभवः ।
तत्र सूत्रस्य वृत्तिः कुसुमेषु नैकदेशेन, नापि कार्त्स्न्येन किं तु स्वरूपतः । एवम
वयवेष्ववयविनोऽपि स्वरूपत एव । इयांस्तु विशेषो यत् सूत्रस्य कुसुमेषु वृत्तिं प्रति
सन्ति भागा अपीति सूत्ररूपं च भागाश्च कुसुमेषु वर्तन्त इति । अवयविनस्तु
स्वावयवेषु वृत्तिं प्रति नावयवान्तराणि सन्तीति रूपमात्रेण तत्र वर्ततेऽवयवीति ।
तस्मात् न किञ्चित् क्वचित् कार्त्स्न्येन एकदेशेन वा वर्तमानं दृष्टमिति तयोर्वृतिं प्रति
व्यापकत्वमसिद्धम् । रूपस्यैव तु व्यापकत्वम् । तच्चावयविन्यप्यस्तीति
व्यापकानुपलब्धेरसिद्धेर्नावयविनोऽवयवेषु वृत्तिनिवृत्तिरिति सिद्धम् । यथा च
कृत्स्नैकदेशशब्दौ नावयविरूपे प्रवर्तेते तथोक्तं वार्त्तिककृतेति । नैकदेशेन वर्तते,
न कार्त्स्न्येन वर्तते, अथ च वर्तत इति कैषा वाचो युक्तिः ? यद् यथाभूतं वस्तु तत्
तथा निर्दिश्यत इत्येषेति योजना ।


उभयेन व्याघातादिति । एकस्यानेकवृत्तेरेकदेशेन कार्त्स्न्येन च व्याघात
इत्यर्थः । स एव हि धर्मो विकल्प्यते यो विकल्प्यमानो धर्मिणं न बाधते । यथा शब्दो
नित्योऽनित्यो वेति । यस्त्वधिकरणं धर्मिणमेव बाधते नासौ धर्मविकल्पो
न्याय्यः, आश्रयस्याप्रसिद्ध्या तस्यानुपपत्तेरिति ।


यस्तु मन्यते यत् सत् तत् सर्वमनवयवम्, यथा विज्ञानम् । सच्चेदं
नीलाद्यनुभूतावसितमिति स्वभावहेतुः, सत्तामात्रानुवर्तित्वाद् अनवयवत्वस्य । तथा
हि एकस्य सत्त्वं विरुद्धधर्मासंसर्गेण व्याप्तम् । तद्विरुद्धश्च विरुद्धधर्मसंसर्गो
नीलादीनां सावयवत्वे प्रसजन् स्वविरुद्धं विरुद्धधर्मासंसर्गं निवर्तयंस्तद्व्याप्यं
सत्त्वमपि निवर्तयति । तथा हि पाण्यादिकम्पे तत्स्थानोऽवयव्यपि कम्पत इति तस्य
जङ्घादिष्वप्यवयवेष्वविशेषावस्थानस्याप्यवयविनः कम्प उपलभ्येत । न चोपलभ्यते,
तस्मात् स एव तदानीमेव कम्पते न कम्पते चेति विरुद्धधर्मसंसर्गः । अथावयवेषु
कम्पमानेष्वपि नावयवी तत्समवेतः कम्पते, ततश्चलाचलयोर्वस्त्रोदकवद्
338 युतसिद्धिप्रसङ्गः । एवम् एकस्य1496 चावयवस्यावरणे तत्तदवस्थानोऽवयव्यावृत इति
अवयवान्तरस्थानस्याप्यावरणप्रसङ्गः, अभेदात् । न वास्य क्वचिदप्यावरणमित्यविकलो
दृश्येत । अवयवस्यावरणं नावयविनस्तस्यान्यत्वात् । न ह्यन्यस्यावरणेऽन्यदावृतं
भवत्यतिप्रसङ्गादिति चेत् ? न, अर्धावरणेऽप्यनावृतत्वादवयविनः प्राग्वदविकल
ग्रहणप्रसङ्गः । अवयवदर्शनद्वारेणावयविनो दर्शनाददृष्टावयवस्यावयविनोऽप्रति
पत्तिरिति चेत् ? न, विकल्पासहत्वात् । किं सर्वावयवदर्शनद्वारेणावयविनः प्रति
पत्तिरुत कतिपयावयवदर्शनद्वारेण ? पूर्वस्मिन् कल्पे नावयवी कदाचिदपि दृश्येत ।
न ह्यसर्ववित् सर्वावयवोपलम्भक्षमः, अर्वाग्भागेन मध्यपरभागयोर्व्यवधानात् ।
कतिपयदर्शनेन तु तदभिव्यक्तौ अल्पावयवदर्शनेऽपि बह्ववयवदर्शनवत् स्थूलोप
लम्भप्रसङ्गः । रक्ते चैकस्मिन्नवयवे तत्स्थानोऽवयव्यपि रक्त इत्यवयवान्तरेऽपि
तस्याभेदाद्रागोपलम्भप्रसङ्गः । अवयवमात्ररागे वा तत्स्थानस्यावयविनो रूपमरक्तं
दृश्येत, सोऽयं विरुद्धधर्मसंसर्ग इति ।


तदनेनाभिप्रायेण वार्त्तिककारो ग्रहणाग्रहणलक्षणेन विरुद्धधर्मसंसर्गेण सर्वानेव
विरुद्धधर्मसंसर्गानुपलक्षयति—ग्रहणाग्रहणेति । निराकरोति—न भेद इति । इदं
तावदत्र वक्तव्यम्, यद्यनुभूतावसितं नीलमनवयवत्वेन साध्यते ततः सिद्धसाधनम् ।
नो खलु रूपविशेषो नीलादिरस्माकमपि सावयवो गुणत्वात् । तदाश्रयो घट इति
चेत् ? ननु घट इत्यपि च रूपरसगन्धस्पर्शा एवार्थक्रियाकारिणः 1497तथा व्यपदिश्यन्ते
ते च गुणत्वेन निरवयवा एव न तु तदाश्रयोऽस्ति द्रव्यं1498 नाम । अथ परसिद्धं द्रव्यं
रूपाद्याश्रयं पक्षीकृत्य परसिद्धेनैव तस्य सत्त्वेनानवयवत्वं साधयति । सोऽयम
सिद्धमसिद्धेन साधयन् महानैयायिकत्वमात्मनो दर्शयति । न हि स्वयमप्रतीतौ
हेतुधर्मसाध्यधर्मिणौ परप्रत्यायनाय कल्पेते । यदाहुः


योऽपि तावत् परासिद्धः स्वयं सिद्धोऽभिधीयते ।

भवेत् तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ॥ इति ।

339

न च प्रसङ्गसाधनेऽप्येतद्1499 भवितुमर्हति । सत्त्वस्य1500 सावयवत्वेन विरोधाभावात् ।
न चैकस्य विरुद्धधर्मसंसर्गो1501 बाधकं प्रमाणम् । न तावदेकस्यावयविनो ग्रहणाग्रहणे,
अवयवावरणेऽपि तस्य कतिपयावयवावस्थानस्य ग्रहणादेव । न च बह्ववयव
स्थानस्य ग्रहण इव कतिपयावयवस्थानस्य ग्रहणे तादृशस्थौल्यानवभा
सादनवभासोऽवयविन इति साम्प्रतम् । परिमाणभेदो हि स्थौल्यमवयविधर्मः । न च
तस्य तादृशस्यानवभासेऽवयवी नावभासितो भवति । तस्य ततोऽन्यत्वात् ।
तस्मादिन्द्रियसन्निकर्षमात्रादवयावनो ग्रहणम् । इन्द्रियेणार्थस्य, इन्द्रियावयवैरर्थस्य,
इन्द्रियेणार्थावयवानाम्, इन्द्रियावयवैरर्थावयवानां सन्निकर्षात् परिमाणभेदग्रणमिति
सामग्रीभेदादवयवितत्परिमाणभेदयोर्ग्रहणाग्रहणे उपपद्येते । एतेनार्वाग्भागसहितस्य
ग्रहणेऽपि न मध्यभागपरभागसहितस्याग्रहणं कथञ्चिद् विरोधमावहतीत्युक्तं
भवति । न चावयवकम्पेऽप्यवयविनः कम्पो येनावयवान्तरेऽपि कम्पप्रसङ्गः,
भिन्नत्वादवयवावयविनोः । तथा सति युतसिद्धिप्रसङ्ग इति चेत् ? का पुनरियं
युतसिद्धिः ? किं भेदोऽवयवावयविनोः, आहोस्विदसंबद्धस्य विद्यमानत्वम् ? यदि
भेदः सोऽस्माभिरिष्यत एव । अथासंबद्धस्य विद्यमानत्वम्, तत् सत्यपि पृथग्गतिमत्त्वे
नावयविनोऽस्ति । जातः संबद्धश्चेत्येकः कालः1502 । तथा हि नावयवी अवयवा
संबद्धोऽस्ति । न हि जातिमान् जात्यसंबद्धोऽस्ति । न गुणकर्मणी द्रव्यासंबद्धे
स्तः । न च विशेषो द्रव्यासंबद्ध इति ।


ये त्वप्राप्तिसंयोगौ युतसिद्धिमाहुः, तैरवयवावयविनोरसंयोगे हेतुर्वक्तव्यः ।
अयुतसिद्धिरिति चेत् ? न, तस्या एवासंयोगेन बुभुत्सनादिति । रक्तारक्तत्वं च
नावयविन एकस्य, तस्यारक्तत्वादेव । तत्संयोगिनस्तु महारजनस्य रक्तत्वात् तस्य
च पटादरक्तादन्यत्वात् । पटो रक्त इति तु भ्रमः । न त्वनेन विभ्रमेण सर्वत्र भवित
व्यम्, तस्य महारजनयोगनिमित्तत्वात् । तस्य च पटवृत्तित्वात् । पटस्य च सर्वत्राविशेषात् ।
340 पटस्य वा क्वचिदसंयोगे संयुक्तासंयुक्तभेदप्रसङ्गः । न हि स एव तदैव तत्रैव भवति
न भवति चेति युज्यते । तस्मात् संयुक्तात् पटादन्योऽसंयुक्तः पट इति प्राप्तम् ।


अत्रोच्यते । एषा तावत् प्रमेयगतिः, भावाभावौ परस्पराभावात्मानौ1503 भावनिवृ
त्तिरेवाभावः । अभावनिवृत्तिरेव भावः । न तु भावाभावाभ्यामन्या तयोर्निवृत्तिः ।
तेन नैतयोः कदाचिदपि परस्परात्मत्वं भवितुमर्हति अदर्शनात् । एवमनयो
राश्रयैकत्वनानात्वे अपि यथादर्शनं व्यवस्थापनीये । यथा तस्यैव श्वैत्यस्य यदा
प्रासादे सद्भावस्तदैवाभावः काक इति । एवं च य एव कुम्भः श्यामः स एव
पश्चादग्निसंयोगादश्यामः । यः पुनरस्य परिमाणभेदो नासौ सति कुम्भे विनश्यति ।
तत्र किमेवमुच्यतां 1504परिमाणवत् श्यामतापि न नश्यतीति ? एवं प्रमेयवैचित्र्यं दर्शन
वैचित्र्यव्यवस्थापितं यथाभ्युपेयते, तथा तस्यैव संयोगस्य तस्मिन्नेवैकदा भावाभावौ
व्यवस्थापनीयौ तथैव दर्शनादिति । न हि दृश्यमानस्य दृश्यमानान्तरवैधर्म्येण
रूपमुपलभ्यमानं शक्यमपाकर्तुम् । मा भूद् दृश्यमानवैधर्म्येण दृश्यमानरूपान्तरा
पाकरणम्1505 अविशेषात् । तद्दर्शनानुरोधात् प्रमेयवैचित्र्यसिद्धेरुपपन्नः संयोगशब्द
बुद्ध्यादीनां तत्रैव तदानीमभावो भावश्चेति । अत एवैषामव्याप्यवृत्तित्वमास्थीयते ।
रूपादीनां तु न दृष्टस्तत्रैव तदानीमभावो भावश्चेति तेषां व्याप्यवृत्तीनां भावाभावौ
युगपदेकत्र विरोधिनाविति सिद्धो रक्तारक्तयोरेकत्राविरोधः सह दर्शनादिति ।


यत् पुनर्यदनेकवृत्ति तन्नाना, अनेकवृत्तिश्चावयव्यभ्युपगतः इति प्रसङ्गसाधनं
स्वभावहेतुः । नानात्वाभावादनेकवृत्तित्वाभाव इति च प्रसङ्गविपर्ययो व्यापकानुप
लब्धिरिति । तत्र ब्रूमः । एकत्वानेकवृत्तित्वयोरविरोधेन नानात्वस्य व्योपकत्वासिद्धेर्न
प्रसङ्गो नापि तद्विपर्ययः । यथैव नीले परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, अन्यथा
न नीलं परिच्छिन्नं स्यात् । एवं तदभावाविनाभावि पीतमपि नीलपरिच्छेदकं प्रत्यक्षं
व्यवच्छिनत्ति, तथैकावयवसंसर्गे अवयविनः परिच्छिद्यमाने तदभावो व्यवच्छिद्यते
तदभाववन्तश्चावयवान्तरसंसर्गा इति तेऽपि व्यवच्छेत्तव्याः । तदव्यवच्छेदे
341 तदभावोऽपि न व्यवच्छिद्येतेति स एव तदानीमेव तत्र भवेच्च न भवेच्चेति1506
दुर्घटमापद्येत । सोऽयमेकत्वानेकवृत्तित्वयोर्विरोध इति चेत् ? हन्त, भावपरिच्छेदे
तदभावो व्यवच्छिद्यत इति युक्तम्, भावपरिच्छेदलक्षणत्वात् तदभावव्यवच्छेदस्य ।
न हि भावादन्यस्तव भावाभावो नाम । भावान्तराणि तु कस्माद् व्यवच्छिद्यन्ते ?
तदभावाविनाभावादिति चेत् ? कुतः पुनरयं भावान्तराणां भावाभावाविनाभावः ?
पीतादिभावतादात्म्येन कदाचिदपि नीलस्य भावस्यानुपलम्भादिति चेत् ? यत्र
तर्ह्येकावयववृत्तेरप्येकस्यावयवान्तरेषु1507 वर्तमानस्य तादात्म्यं दृश्यते, न तत्रैका
वयवसंसृष्टाभावाविनाभावोऽवयवान्तरसंसृष्टस्य । तस्मान्नैकत्वनानावृत्तित्वयो
र्विरोधः । अपि चैकं विज्ञानमनेकै रूपचक्षुरालोकनमनस्कारैः कथं संबध्यते ?
संबध्यमानं वा कथमेकम् ? न वास्तवः कश्चित् कार्यकारणभावो नामास्ति
संबन्धः, प्रतीत्यसमुत्पादमात्रं तदिति चेत् ? अथ कस्माद् रूपाद्येव प्रतीत्य रूपज्ञानं
जायते न पुना रसाद्यपि ? स्वभाव एव तेषां तादृशो यतस्तानेव प्रतीत्य विज्ञानं जायते,
न पुना रासभादीनिति चेत् ? हन्त भोः स्वभावान् भिन्नान् प्रतीत्य कथमेको भावो
जायते ? को विरोधः ? न हि कार्यकारणयोस्तादात्म्यं येन कारणस्वभावानुरोधः
कार्यस्य भवेदिति चेत् ? तत् किमवयवावयविनोरप्यभेदः, समवायस्य वा ताभ्याम्,
येनावयवभेदेऽवयविनो वा समवायस्य वाभेदो भवेदिति समः समाधिः । तस्माद्
यद् यदवयविनि प्रमाणं वक्ष्यामः, तत्तदसति बाधकेऽप्रत्यूहमवयविनमवस्था
पयिष्यतीति सिद्धम् । यः पुनर्मन्यते अवयवसमुदाय एवावयवीति, तं प्रत्याह
भाष्यकारः—समुदाय्यशेषतेत्यादि । सुगमम् ॥ ३२ ॥


॥ इति प्रत्यक्षस्यानुमानत्वपरीक्षाप्रकरणम् ॥

342
  1. शब्देऽर्थे वाC

  2. वृक्षविशेषम्C

  3. °रेण वृक्षःJ

  4. स्वरूपं च तेषां Pañjikā

  5. अतःC

  6. समष्ट्याC

  7. °रभावात्C

  8. इत्युक्तम्C

  9. एकस्यावयस्य C

  10. एवैकार्थक्रि J

  11. इत्थं C

  12. °नमप्येतद्J

  13. न चC

  14. °द्धधर्मोC

  15. °त्येकोऽर्थःJ

  16. °रविरहात्माC

  17. परिमाणावस्थापत्तावपिC

  18. दृश्यमानान्तररूपापा°J

  19. भवेन्न भवेद्वेति C

  20. वृत्तेरप्यवय° J