314 पेक्षया विप्रतिपत्तिः । स्वरूपापेक्षया तु संप्रतिपत्तिरिति । एवमव्यवस्थायामपि
द्रष्टव्यम् ॥ ६ ॥


यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ २ । १ । ७ ॥


कोऽस्य सूत्रस्येति तात्पर्यप्रश्नः । उत्तरम्—स्वयमिति । संशयपूर्वकत्वात्
सर्वपरीक्षाणां परिचिक्षिषमानेन संशयाक्षेपहेतुभिर्न प्रतिषेध्यव्योऽपि तु परैरेवमाक्षिप्तः
संशय उक्तैः समाधानहेतुभिः समाधेयः । शास्त्रे कथायां वा वादलक्षणाया
मित्यर्थः ॥ ७ ॥


॥ इति संशयपरीक्षाप्रकरणम् ॥

सामान्येन प्रमाणपरीक्षाप्रकरणम्


प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ २ । १ । ८ ॥


अथ प्रमाणपरीक्षेत्यादि भाष्यम् । प्रत्य…द्धेः । आर्थेन हि क्रमेण संशय
परीक्षायामुक्तेनोद्देशक्रमो बाधितः । प्रमाणादिषु तु तद्बाधकारणाभावाद्
उद्देशक्रमानुरोधेन प्रमेयादिभ्यः प्राक् प्रमाणान्येव परीक्षणीयानि । तत्रापि प्रथमं
प्रमाणसामान्यलक्षणपरीक्षा, तत्पूर्वकत्वाद् विशेषलक्षणानाम् । तत्र सामान्यलक्षणम्
उपलब्धिसाधनं प्रमाणमिति । तच्चोपलब्धिसाधनत्वं प्रत्यक्षादीनामेवेति प्रत्यक्षा
दीनामित्युक्तम् ।


तदेतदाह वार्त्तिककारः । अथेदानीमिति । परीक्षणीयं पृच्छति—किं
पुनरेषामिति
सर्वैरेव वादिभिः स्वसिद्धान्तव्यवस्थापनाय प्रमाणान्यभ्युपेतव्यानि,
तदभावे तद्व्यवस्थानुपपत्तेः । यस्य तु स्वपक्ष एव नास्ति, नासौ लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्षणीयः । तस्मात् सर्वप्राणभृत्सिद्धेर्न प्रमाणसामान्यं परीक्षणीयमिति