अबाध्यग्रहणव्यवच्छेद्यां बाधां दर्शयति--
प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥ १४ ॥
प्रत्यक्षादीनि त510द्विरुद्धार्थोपस्थापनेन बाधकत्वात् बाधाः । तत्र प्रत्यक्ष
बाधा यथा अनुष्णो511ऽग्निः, न मधु512 मधुरम्, न सुगन्धि विदलन्मालतीमुकु513लम्, अचा514क्षुषो
घटः, अश्रावणः शब्दः, नास्ति ब515हिरर्थ इत्यादि । अनुमानबाधा यथा स516रोम हस्ततलम्,
नित्यः शब्द इति वा । अत्रानुपलम्भेन कृतकत्वेन चानुमानबाधा । आगमबाधा यथा
प्रेत्याऽसुखप्रदो धर्म इति । परलोके सुखप्रदत्वं धर्मस्य सर्वागमसिद्धम् । लोकबाधा यथा
शुचि नरशिरःकपालमिति । लोके हि नरशिरःकपालादीनामशुचित्वं सुप्रसिद्धम् । स्ववच
नबाधा यथा माता मे वन्ध्ये517ति । प्रतीतिबाधा यथा अचन्द्रः518 शशीति । अत्र शशिनश्च
न्द्रशब्दवाच्यत्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥ १४ ॥
अत्र साध्यं धर्मः, धर्मधर्मिसमुदायो वेति संशयव्यवच्छेदायाह--
साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः ॥ १५ ॥
साध्यम् साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह साध्य
धर्मेण अनित्यत्वादिना विशिष्टो धर्मी शब्दादिः । एतत् प्रयोगकाला519पेक्षं साध्यशब्दवा
च्यत्वम् । क्वचित्तु व्याप्तिग्रहणकाले धर्मः साध्यशब्देनोच्यते, अन्यथा व्याप्तेरघटनात् ।
नहि धूमदर्शनात् सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति ॥ १५ ॥
धर्मिस्वरूपनिरूपणायाह--
धर्मी प्रमाणसिद्धः ॥ १६ ॥
प्रमाणैः प्रत्यक्षादिभिः प्रसिद्धो धर्मी भवति यथाग्निमानयं देश इति । अत्र
हि देशः प्रत्यक्षेण सिद्धः । एतेन--सर्व एवानु520मानानु521मेय522व्यबहारो बुद्ध्यारूढेन
धर्मधर्मिन्यायेन, न बहिः सदसत्त्वमपेक्षते इति सौगतं मतं प्रतिक्षिपति । नहीयं
विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति, तद523वास्तवत्वे तदा524धा
रसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः त525द्बुद्धेः पारम्प526र्येणापि वस्तुव्यवस्थापकत्वायो
गात् । ततो विकल्पेनान्येन527 वा व्यवस्थापितः पर्वतादिर्विष528यभावं भजन्नेव धर्मितां प्रति
पद्यते । तथा च सति प्रमाणसिद्धस्य धर्मिता युक्तैव ॥ १६ ॥
-
साध्य॰ ।
↩ -
कृतकत्वादिति हेतुः ।
↩ -
विचित्ररसप्रभवत्वात् अनेकरससंयोगवत् ।
↩ -
लतैक
↩
देशत्वात् पत्रवत् । -
रूपादत्यन्तव्यतिरिक्तत्वात् बायुवत् ।
↩ -
यथावस्थेन रूपेणाप्रतिभासमानत्वात् यदस्ति
↩
तद्यथावस्थितरूपेणाप्रतिभासमानमपि नास्ति यथा ज्ञानम् । -
शरीरावयबत्वात् बाहुवत् ।
↩ -
वन्व्यास्त्री
↩
समानाङ्गत्वात् । -
चन्द्रशब्दवाच्यः शशी न भवति आकाशोदितत्वात् सूर्यवत् ।
↩ -
--॰लापेक्ष्यं--ता॰ ।
↩ -
साधनम् ।
↩ -
साध्यम् ।
↩ -
--॰मेयस्य व्य॰--ता॰ ।
↩ -
धर्मिणः ।
↩ -
स धर्मी आधारो ययोः ।
↩ -
तद्बुद्धेर्विकल्पज्ञानस्य ।
↩ -
निर्विकल्पकं प्राप्तविषयम्, तद्विकल्पोऽपि प्राप्तविषय इति । एवंलक्षणपारम्पर्येणापि ।
↩ -
निर्विकल्पेन ।
↩ -
विकल्पस्य विषयभावम् ।
↩