अपवादमाह--
बुद्धिसिद्धोऽपि ॥ १७ ॥
नैकान्तेन प्रमाणसिद्ध एव ध529र्मी किंतु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी
भवति । अपि शब्देन प्रमाण-बुद्धिभ्यामुभाभ्यामपि सिद्धो धर्मी भवतीति दर्शयति ।
तत्र बुद्धिसिद्धे धर्मिणि साध्यधर्मः सत्त्वमसत्त्वं च प्रमाणबलेन साध्यते यथा अस्ति530
सर्वज्ञः, नास्ति षष्ठं भू531तमिति ।
ननु धर्मिणि साक्षादसति भावा532भावोभयधर्माणामसिद्धविरुद्धानैकान्तिक
त्वेनानुमानविषयत्वायोगात् कथं सत्त्वासत्त्वयोः साध्यत्वम् ? । तदाह--
नैव537म्, मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ
तत्सत्त्व538स्यापि प्रतिपन्नत्वाद् व्यर्थमनुमानम्, त539दभ्युपेतमपि वैयात्याद्यो न प्रति
पद्यते तं प्रत्यनुमानस्य साफल्यात् । न च मानसज्ञानात् खरविषाणादेरपि सद्भावस
म्भावनातोऽतिप्रसङ्गः, तज्ज्ञानस्य बाधकप्रत्ययविप्लावितसत्ताकवस्तु540विषयतया मानस
प्रत्यक्षाभासत्वात् । कथं तर्हि षष्ठभूतादेर्धर्मित्वमिति चेत्; धर्मिप्रयोगकाले बाधक
प्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्त्व541संशीतिः,
सुनिश्चिताऽसम्भवद्बाधकप्रमाणत्वेन सुखादा542विव सत्त्वनिश्चयात्तत्र संशयायोगात् ।
उभयसिद्धो धर्मी यथा अनित्यः शब्द इति । नहि प्रत्यक्षेणार्वाग्दर्शि
भिर543निय544तदिग्देशकालावच्छिन्नाः सर्वे शब्दाः शक्या निश्चेतुमिति शब्दस्य प्रमाणबुद्ध्यु
भयसिद्धता तेना545नित्यत्वादिर्धर्मः प्रसाध्य546त इति ॥ १७ ॥
ननु दृष्टान्तोऽप्यनुमानाङ्गतया प्रतीतः । तत् कथं साध्यसाधने एवानुमा
नाङ्गमुक्ते न दृष्टान्तः ?, इत्याह--
न547 दृष्टान्तोऽनुमानाङ्गम् ॥ १८ ॥
दृष्टान्तः वक्ष्यमाणलक्षणो नानुमानस्य अङ्गम् कारणम् ॥ १८ ॥
कुत इत्याह--
साधनमात्रात् तत्सिद्धेः ॥ १९ ॥
दृष्टान्तरहितात्साध्यान्यथानुपपत्तिलक्षणात् साधनात् अनुमानस्य साध्य
प्रतिपत्तिलक्षणस्य भावान्न दृष्टान्तोऽनुमानाङ्गमिति ।
-
धर्मी भवति किं--डे॰ ।
↩ -
अविसंवादिज्योतिर्ज्ञानान्यथानुपपत्तेः ।
↩ -
उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः ।
↩ -
हेतूनाम् ।
↩ -
धर्मिणि ।
↩ -
हेतुरुभयधर्मः ।
↩ - ↩
-
सत्ता सार्वज्ञी ।
↩ -
मैवम्--डे॰ ।
↩ -
धर्मिणः ।
↩ -
सत्त्वम् ।
↩ -
विषयाणाम् ।
↩ -
सन्देहः ।
↩ -
सुखादिवच्च सत्त्व॰
↩
मु--पा॰ । -
प्रमातृभिः ।
↩ -
--॰रनियतदिग्दर्शिभिर्नियतदिग्देश--डे॰ ।
↩ -
किं सिद्धम् ? ।
↩ -
प्रसाध्य
↩
इति--ता॰ । -
अष्टादशमेकोनविंशतितमं च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते ।
↩
अत्रास्माकमपि द्वयोरेकत्वं सुचारु भाति--सम्पा॰ ।