49

लक्षितं स्वार्थमनुमानमिदानीं क्रमप्राप्तं परार्थमनुमानं लक्षयति--


यथोक्त563साधनाभिधानजः परार्थम् ॥ १ ॥


यथोक्त564म् स्वनिश्चितसाध्याविनाभावैकलक्षणं यत् साधनम् तस्याभिधानम् ।
अभिधीयते परस्मै प्रतिपाद्यते अनेनेति अभिधानम् वचनम्, तस्माज्जातः सम्यगर्थ
निर्णयः परार्थम् अनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः ॥ १ ॥


ननु वचनं परार्थमनुमानमित्याहुस्तत्कथमित्याह--


वचनमुपचारात् ॥ २ ॥


अचेतनं हि वचनं न साक्षात्प्रमितिफलहेतुरिति न निरुपचरितप्रमाण
भावभाजनम्, मुख्यानुमानहेतुत्वेन तूपचरितानुमानाभिधानपात्र565तां प्रतिपद्यते । उपचार
श्चात्र कारणे कार्यस्य । यथोक्तसाधनाभिधानात् तद्विषया स्मृतिरुत्पद्यते, स्मृतेश्चानुमा
नम्, तस्मादनुमानस्य परम्परया यथोक्तसाधनाभिधानं कारणम्, तस्मिन् कारणे वचने
कार्यस्यानुमानस्योपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचनमनुमान
शब्देनोच्यते । कार्ये वा प्रतिपादकानुमानजन्ये वचने कारणस्यानुमानस्योपचारः ।
वचनमौपचारिकमनुमानं न मुख्यमित्यर्थः ।


इह च मुख्यार्थबाधे प्रयोजने निमित्ते चोप566चारः प्रवर्तते । तत्र मुख्यो
ऽर्थः साक्षात्प्रमितिफलः सम्यगर्थनिर्णयः प्रमाणश567ब्दसमानाधिकरणस्य परार्थानुमान
शब्दस्य, तस्य568 बाधा, वचनस्य निर्णयत्वानुपपत्तेः । प्रयोजनम् अनुमानावयवाः प्रति
ज्ञादय इति शास्त्रे व्यवहार एव, निर्ण569यात्मन्यनंशे त570द्व्यवहारानुपपत्तेः । निमि571त्तं तु निर्ण
यात्मकानुमानहेतुत्वं वचनस्येति ॥ २ ॥


तद् द्वेधा ॥ ३ ॥


तद् वचनात्मकं परार्थानुमानं द्वेधा द्विप्रकारम् ॥ ३ ॥


प्रकारभेदमाह--


तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥ ४ ॥

  1. प्रथमं द्वितीयं च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते ।

  2. यथा उक्तम् ।

  3. अनुमानशब्दवाच्यताम् ।

  4. मुख्यार्थस्योपचारः ।

  5. --॰शब्दः समा--॰डे॰

  6. अग्निर्माणवक इव
    इत्यत्र मुख्यार्थो दाहकत्वम्, वर्जनीयत्वबुद्धिः प्रयोजनम्, शाब्दप्रवृत्तौ निमित्तमुपतापकत्वम् ।

  7. परार्थानुमाने ।

  8. पूर्वोक्त॰ ।

  9. प्रवृत्तौ ।