द्वितीयः परिच्छेदः


12
उपमापि प्रमा कैश्चिदिष्यते व्यक्त94बुद्धिभिः ।

सादृश्येन परिच्छेदः परोक्षेऽर्थे न तां विना ॥

सादृश्यस्य च वस्तुत्वं न शक्यमप95बाधितुम् ।

भूयोऽवयवसामान्ये योगो जात्यन्तरस्य तत् ॥

उपमापि हि सादृश्ये परोक्षे वित्तिरीक्ष्यते ।

नानुमालक्षणं तत्र प्रथमं सदृशग्रहात् ॥

तस्माद् यत् स्मर्यते तत् स्यात्96 सादृश्येन विशेषितम् ।

प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥

प्रत्यक्षेणावबुद्धेऽपि सादृश्येन गवि स्मृते ।

विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥

प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च 97पावके ।

विशिष्ट-विषयत्वेन नानुमानाप्रमाणता ॥

नवै तस्यानुमानत्वं पक्षधर्माद्यसंभवात् ।

प्राक् प्रमेयं च सादृश्यं न धर्मत्वेन मीयते ॥

गवये गृह्यमाणं च न गवामनुमा98पकम् ।

प्रतिज्ञार्थैकदेशत्वाद् गोगतस्य99 न लिङ्गता ॥

गवयस्याप्यसंबन्धात् न गोर्लिङ्गत्वमृच्छति100

सादृश्यं न101च सर्वेण पूर्वं दृष्टं तदन्वयि102

एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं पश्यतो वने103

सादृश्येन सहैवास्मिंस्तदैवोत्पद्यते मतिः ॥

इति मीमांसकोपमानम्मीमांसकोपमानम् ॥ छ ॥


नैयायिका स्त्वन्यथैव104 वर्णयन्त्यस्य लक्षणम् ।

प्रसिद्धेन हि साधर्म्यादुपमा साध्यसाधनम् ॥

13
श्रुतातिदेशवाक्योऽयमीक्षते105 गवयं यदा ।

प्रत्यक्षैव हि सा वित्तिस्तेनायं सदृशो न तु ॥

समाख्याया हि संबन्धमपूर्वं प्रतिपद्यते ।

अयं स गवयस्तेन तदानीं प्रतिपादितः ॥

यथामुद्गस्तथा मुद्गपर्णी माषो यथा परा ।

नामनामवतोर्योगे106 व्यवहारार्थमीक्ष्यते ॥

उपमानस्य विषय एवमन्योऽपि गम्यताम् ।

अतिदेशवाक्यतो107नाम प्रागेवैषा गतिर्भवेत् ॥

तथापि न विशेषेण पूर्वंयोगस्तथागतः ।

उपयुक्तोऽयं108 मानो हि तुल्यार्थग्रहणे सति ॥

विशिष्टविषयत्वेन संबन्धं प्रतिपद्यते ।

सविकल्पकतो नेदं109 प्रत्यक्षमनुमा पुनः ॥

त्रैरूप्यरहितत्वेन विशेषः110 स पुरोदितः ।

पिण्डस्य हि विशेषेण संप्रत्येव प्रतीयते ॥

संबन्धः संज्ञयेत्येवं111 नान्वयव्यतिरेकिता ॥

इति नैयायिकोपमानम्नैयायिकोपमानम्


अत्रोच्यते च सादृश्यं प्रत्यक्षेण प्रतीयते ।

पुरोद्वयं पश्यतो हि प्रत्यक्षादेव निश्चयः112

ततः परोक्षे113 स्मरणमात्रमेवोपजायते ।

114 एवावयवा यत्र दृष्टिस्मरणगोचराः115

यदापि न द्वयं दृष्टं तस्यैव स्मरणा116त्तदा ।

त एवावयवास्तत्र स्मर्यन्ते प्रत्यभिज्ञया ॥

प्रत्यभिज्ञानमेतच्च व्यवहारेऽनुमैव न ।

तद्रूपदर्शनादेव तत्त्वव्यवहृतिः परा ॥

14
अनादिव्यवहारोऽयमिति न प्रथमा गतिः ।

प्रत्यक्षं प्रत्यभिज्ञेयं तैरेवाभ्युपगम्यते ॥

अनादिवासनासङ्गद्वयं तु व्यवहारिणः ।

अपूर्वं117 तत्त्वतो नास्ति प्रमेयं व्यवहारतः ॥

प्रामाण्येऽस्याः प्रमाणं हि भवतः सप्रमादकम्118

अनेनासौ विसदृशः पूर्वस्मादमुकः119 परः ॥

मध्यमः पृथुरत्यन्तदीर्घः कर्कश इत्यपि ॥

अथ प्रत्यक्षमेवैषानुमानमियमेव120 वा ।

सादृश्यस्य परिच्छेदे किं प्रमाणान्तरं मतम् ॥

यथा सादृश्यवस्तुत्वं121 न शक्यमपबाधितुम् ।

प्रत्यक्षत्वमपि प्राप्तं किं शक्यं बाधितुं त्वया ॥

भूयोऽवयवसामान्ययोगो जात्यन्तरस्य यः ।

गवये व्यक्तदृष्टोऽसौ पूर्वं गव्यपि वीक्षितः122

यदा123ऽवयव सादृश्यं तदाप्रत्यक्षनिश्चितम्124

125तदेव गवयेनापि गोसादृश्यमनूनकम् ॥

एकस्य सदृशत्वं हि न पृथक् संप्रतीयते ।

अपरापेक्षया126 नैव सादृश्यस्य प्रसिद्धता ॥

अनुमा127लक्षणास्तित्वं यथैवोपमितावह128

प्रमेयमपि नास्त्येव प्रत्यक्षं यन्न129 भासते ॥

व्यवहारे तु त्स्याः किंव्यवहारेतु तस्याः किं 130नानुमालक्षणान्वयः ।

तस्माद् यत् स्मर्यते तत्स्यात् सादृश्येन विशेषितम् ॥

प्रमेयमुपमानस्य कथं स्मरण131संभवि ।

प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते132

विशेषस्यान्यतः सिद्धेरुपमानाप्रमाणता ॥

प्रत्यक्षे तु पुनर्देशे स्मर्यमाणे133ऽपि पावके ।

15
विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥

तच्च तस्यानुमानत्वं पक्षधर्मादिसंभवात् ॥

प्राक्प्रतीते च सादृश्ये तदन्यत्र प्रतीतितः ।

गवये तत् प्रतीतं हि गवि व्यवहृतं न किम् ॥

गवा तु नानुमेत्येतत् कस्योपालम्भ उच्यते ।

प्रतिज्ञार्थैकदेशत्वादात्मनो दूषणं परम् ॥

परेणानभ्युपगमात् परस्य तु न दूषणम् ॥

गवयस्या134प्यसंबन्धान्न गोलिङ्गत्वमिच्छति ।135

यदि किं तावता शक्यमुपमानं प्रमान्तरम् ॥

सादृश्यमपि सर्वेण पूर्वं दृष्टं तदन्वयि ।

अवश्यं हि क्वचिद् दृष्टे सादृश्यप्रतिपत्तिमान् ॥

एकस्मिन्नपि दृष्टेऽर्थे द्वितीयं पश्यतो वने ।

सादृश्येन सहैवास्मिन् न तदोत्पद्यते मतिः136

अपूर्वदर्शनात् तत्र केवलं स्मरणोदयः ।

पूर्वपराव्यक्तभावात् प्राग्दृष्टेर्व्यवहारधीः137

सदृशोऽयमितिज्ञानं138 वासनाबलसम्भवि ।

नहि काचिदसादृश्यप्रतिपत्तिरिहेक्ष्यते139

कस्यचित् केनचित् क्वापि सोऽवश्यं सदृशग्रहः ।

न प्रमाणान्तरं140 दृष्टमुपमानं विपश्चिताम् ॥

सादृश्यं हि न वस्तुभ्यो व्यतिरेकेण विद्यते ।

व्यवहारेऽनुमानं141 तु नोपमाऽत्र प्रमान्तरम् ॥ छ ॥

नैयायिकोपमानं तु नानुमानात् पृथक् प्रमा ।

तथाहि तेन संबन्धः साध्यते नाम तद्वतोः ॥

स चास्येदमिति ज्ञाना142न्नोपमानं विनास्ति किम् ।

तथासंनिहितस्तत्र गवयस्तेन तत्र कः ॥

संकेतस्यावतारोऽस्ति नामेदमिति संभवि143

अथास्त्ययमपि न्यायः संकेतस्येति वर्ण्यते ॥

16
तत्रातिदेशवाचैव संबन्धस्य विनिश्चयः ।

सदृशस्तस्य बुद्धिस्थो144 यथैव प्रतिभासते ।

गवये145 तत्र संकेतः सामान्येन गतो न किम् ॥

अतद्रूपपरावृत्ते146 वस्तुमात्रे हि सर्वदा ।

संकेतो गृह्यते पुम्भिर्न विशेषस्य संभवः ॥

न विशेषः सदैवास्ति प्रत्यक्षप्रतिपत्तिभाक् ।

तत्र संकेतकरणं व्यर्थमेवोपजायते ॥

अयं स गवयार्थश्चेद्147 विशेषेणेति गम्यते ।

यदि न व्यवहारोऽस्ति संकेतग्रहणागतः ।

प्रत्यक्षदृष्टेः संकेतग्रहणेनापि किं तदा ॥

परं प्रति व्यवहृतौ सामान्यं स्यात्तथा सति ।

सामान्येन च संबन्धग्रहणादतिदेशतः--।

अयं स गवयः पश्चाद्विशेषमवगच्छति ॥

अनुमानमिदं मुख्यं सामान्यव्याप्तिपूर्वकम् ।

तत्र विशेषग्रहणं148 धूमादग्न्यनुमानवत् ॥

महानसे हि संबन्धः सामान्येन प्रतीयते ।

पक्षधर्मत्वतः पश्चाद्विशिष्टाग्निपरिग्रहः ॥

सामान्येन हि संबन्धे विशेषेऽनुमितिः कथम् ।

अन्येन योगग्रहणे कथमन्यः प्रतीयते ॥

विचारितमिदं सर्वैर्वस्तुवृत्तं महारथैः ।

अतद्रूपपरावृत्तं149 वस्तुसामान्यमुच्यते ॥

अन्तर्भाव्य विशेषं हि सामान्यव्याप्तिराप्यते ।

अवश्यं तत्र वस्त्वस्ति किंचिदेवाविशेषितम् ॥

तस्मादनुमितिन्यायः समस्त उपमास्वपि ।

अङ्गदी कुण्डली यस्तु150 स राजेति प्रतीयताम् ॥

विशेषेण हि संबन्ध151प्रतीतौ किं प्रमान्तरम् ।

शृङ्गादिसामान्यगतेस्तेनायं सदृशः पुनः ॥

17
शृङ्गादयोऽपि तैक्ष्ण्यादिभावतः सदृशात्मकाः ।

तैक्ष्ण्यमन्येन केनापि पर्यन्ते वासनैव हि ॥

कारणं सदृशत्वेन व्यवहारस्य गम्यताम् ।

तस्मादननुमानत्वं नोपमानस्य भाविकम् ॥

इति सर्वमिदं सुस्थमकारणमतः परम् ॥

इत्यनिन्द्यविधिना निरूपितं

नोपमानमनुमानतः परम् ।

एवमन्यदपि तेन गीयते

प्रज्ञया नहि स दृश्यतेऽधिकः ॥

इत्युपमानान्तर्भावो द्वितीयः परिच्छेदःउपमानान्तर्भावो द्वितीयः परिच्छेदः ॥ छ ॥

  1. Ms. व्यक्ष ।

  2. Ms. मवबाधितुम् ।

  3. Ms. तस्योत्सादृश्येन विशेषतम् ।

  4. Ms. यावके ।

  5. Ms. मायकम् ।

  6. Ms. योगतस्य ।

  7. Ms. गीलिङ्गत्वमर्च्छति । नैयायिकोपमानप्रसङ्गे मिच्छति इति पाठो दृश्यते ।

  8. Ms. सादृश्यन्त ।

  9. Ms. तदन्वपि ।

  10. Ms. वनो ।

  11. Ms. थैवोपवर्णयंति अस्य लक्षणं ।

  12. Ms. मीक्ष्यते ।

  13. Ms. योगे ।

  14. Ms. अत्र अक्षराधिक्यात् छन्दोदोषः ।

  15. Ms. उपयुक्तोऽय ।

  16. Ms. नेदमुप्रत्यक्षामनुमा पुनः ।

  17. Ms. विशेष ।

  18. Ms. संज्ञायेत्येवं ।

  19. Ms. निश्चीयते ।

  20. Ms. स्मरणं ।

  21. Ms. तत ।

  22. Ms. दृष्टिः स्मरणगोचरः ।

  23. Ms. स्मरणा तदा ।

  24. Ms. अपूर्वन्तत्वतो ।

  25. Ms. स प्रमादिकम् ।

  26. Ms. अमुक ।

  27. Ms. अनुमानमियमेवै वा ।

  28. Ms. वस्तुत्वन्न ।

  29. Ms. वीक्षित ।

  30. Ms. यया ।

  31. Ms. निश्चित ।

  32. Ms. न्तदेव ।

  33. Ms. अपरापेक्षानैव ।

  34. Ms. अनुमान ।

  35. Ms. -वह

  36. Ms. सन्न ।

  37. Ms. किन्नानुमा ।

  38. Ms. स्मरणं संभवि ।

  39. Ms. स्मृतम् ।

  40. Ms. स्मर्यमाणोऽपि ।

  41. Ms. गवयश्चा ।

  42. अयं श्लोकः मीमांसकोपमाने एवमेवास्ति ।

  43. Ms. मातिः ।

  44. Ms. प्राक् दृष्टेः व्यवहारधीः ।

  45. Ms. मिति विज्ञानं ।

  46. Ms. कश्चिदसादृश्यप्रतिपत्तिरिहोत्द्यते ।

  47. Ms. प्रमाणान्तराद्दृष्टमुपमानं ।

  48. Ms. मानन्तु ।

  49. Ms. ज्ञाया ।

  50. Ms. संभवी ।

  51. Ms. बुद्धिस्था ।

  52. Ms. गवयस्तत्र ।

  53. Ms. सतद्रूपपरावृत्ते ।

  54. Ms. गवयार्थश्चेत् ।

  55. Ms. विशेष षं तत्र ग्रहणं । अयं पाठोऽशुद्धः--विशेषे तत्रग्रहणमिति तु कथंचिद्भवितुमर्हति विशेषं तत्र गृह्णाति इति वा ।

  56. Ms. परावृत्तम्वस्तु ।

  57. Ms. यो तु ।

  58. Ms. संबन्धं प्रतीतौ ।