तस्माद् वक्तृव्यापारविषये22
शब्दस्य प्रामाण्यं नार्थतत्त्वनिबन्धनं । यदि वक्ता न
सर्वज्ञः । अपौरुषेयेपि योर्थो बुद्धौ प्रकाशते यदा स्वयमेवार्थं प्रतिपद्यते । यदा तु व्याख्यातु
स्तदा वक्तृव्यापारविषयो व्याख्यातैव वक्ता । यश्च बुद्धावर्थः प्रतिभाति न स एवार्थः23 ।
अन्यथा सकलसमीहितार्थसिद्धेर्न्न 24
कश्चिदनुष्ठानार्थी भवेत् । अनुष्ठेयतयैव तस्यार्थस्य
प्रतिपादनान्नैवमिति चेत् । स तर्हि तदा स्वरूपेण नास्ति (इति) न तस्य प्रतिपत्तिः ।
अन्यप्रतिपत्तौ सम्बन्धाभावात् सन्देह एव । ततश्च योर्थः प्रतीयते स सिद्ध एव न तदर्थी
प्रवर्त्तते । यदर्थी च न स प्रतिपन्न इति नार्थतत्त्वनिबन्धनं प्रामाण्यं ।
(२) नियोगप्रत्याख्यानम्—
ननु नियोगो (न) वाक्यार्थः । नियुक्तोहमिति प्रतीतेः । ततो नियोगादेव
नासितुं समर्थः ।
कोयन्नियोगो नाम । निशब्दो निःशेषार्थो योगार्थो युक्तिः । निरवशेषो योगो
नियोगः । निरवशेषत्वं अयोगस्य मनागप्यभावात् । अवश्यकर्त्तव्यता हि नियोगः । नियोगप्रा
माणिका हि नियोगप्रतिपत्तिमात्रतः प्रवर्त्तन्ते ।
अत्राह । वक्तृव्यापार25 इत्यादि । अयमर्थः ।
तस्माद् यो यस्य प्रतिभासते यथाप्रतिभं स वाक्यस्यार्थो न चेदमर्थतत्त्वं26 । यश्च
यथा व्याचष्टे तथा स शब्दो विगुणो न भवति न च तथार्थतत्त्वस्थितिः ।
किञ्च ।
नियुक्तेन निवृत्तिश्चेत्27 सर्व्वस्यातःप्रसज्यते । तत्स्वभावतयाकाशमनाकाशं न कस्यचित् ।। ३६ ।।
यदि विपर्यासान्नियोगपरादपि वचनान्न प्रवर्त्तते । तथा सति विपर्य्यासकल्पना
प्रवर्त्तमानेपि न व्याहन्यते । यथैव हि द्वेषादयं न प्रवर्त्तते विपर्यस्तस्तथा तत्पक्षपातादप
रोपि प्रवर्त्तत इति समानमेतत् ।
न च नियुक्तोहमित्येतत् प्रवर्त्तते । निष्फलनियोगे प्रवृत्तेरभावात् । प्रचण्डप्रभुनियोगे
निष्फलेप्यपायभयात् प्रवर्त्तते । प्रमाणान्तराच्च प्रतिपन्नोऽपायः । अत्र तु न प्रमा
णान्तरं । व्यर्थको नियोगस्तथा चेत् (।) भवतु28 को दोषः । न हि दृष्टेऽनुपपन्नं
नाम । प्रेक्षापूर्वकारी निष्फलनियोगे हि प्रेक्षावत्ता न स्यादित्युपालभ्यते (।) अपौरुषेये तु
कस्योपालम्भः । अपौरुषेये व्यर्थतेयैव न युक्तेति चेत् । नात्र किञ्चित् प्रमाण
मन्यत्रापौरुषेये तथाऽदृष्टेः ।।
यदि च नियोगमात्रात् प्रवर्त्ततेऽपौरुषेयात् स्वर्गकाम इति निष्फलं । जुह्यादिति