(३) भावना-प्रत्यख्यानम्—
भावनेदानीं विचार्यते । भावना हि द्विधा । शब्दभावना अर्थभावना च । यदाह48 (।)
शब्दात्मभावना49 माहुरन्यामेव लिङादयः । इत्यन्त्वन्यैव सर्व्वार्था सर्व्वाख्या तेषु विद्यते ।। १२१ ।।
शब्दभावना शब्दव्यापारः । शब्देन हि पुरुषव्यापारो भाव्यते । पुरुषव्यापारेण
धात्वर्थो धात्वर्थेन च फलं ।
इदं चायुक्तं (।) शब्दव्यापारो हि (न) २ शब्दवाच्यः । तं प्रति कारकः50 शब्दो न
वाचकः । अप्रतिपादकः (।) तथा हि (।)
शब्दभावनैव खलु नियोग इति शब्दान्तरेणोच्यते ।१
तदसत् । यदि शब्दव्यापारः कथमगृहीतसङ्केतो नावगच्छति । स्वभावतो हि
नियोजकत्वे न श(? सं) ङ्केतग्रहणमुपयोगि । सैव सामग्री चेत् । ननु सामग्री यदि
प्रेरणे भावनायां वा व्याप्रियते (। अ) युक्तमेतत् ।२ यावता (।)
इदं कुर्व्विति प्रेरणाध्येषणयोरेव प्रतीतिः । तदप्रतिपत्तौ न नियुक्तत्वप्रतिपत्तिः ।
नियुक्तत्वञ्च नाम कार्ये व्यापारितत्वं । कार्यव्यापृतामवस्थां प्रतिपद्य नियोजको निर्युक्ते ।
सा च तस्य भाविन्यवस्था न स्वरूपेण साक्षात्कर्तुं शक्या । स्वरूपसाक्षात्करणे हि सर्व्वं
तदैव सिद्धमिति न नियोगः स्यात् सफलः ।
यथैव हि प्रयोजकस्य प्रयोज्येन स्वव्यापारशून्यमात्मानं प्रतियता प्रयोजकप्रतीतिर्बा
ध्यमाना निरालम्बना तथा प्रयोज्यप्रतीतिरपि तेनैव स्वव्यापाराविष्ट३मात्मानप्रतियता
बाध्यते । शब्दात् तस्य सा प्रतीतिरिति चेत् । नास्त्येतत् । सोऽपि शब्दो बुद्ध्यर्थमेव
ख्यापयति । एवं मया प्रतिपादितमेवं मया प्रतिपन्नमिति द्वयोरप्यध्यवसायात् । अथवा
(एवं) तावत् प्रतिपन्नं मयास्य त्वभिप्रायो भवतु मा वा भूत् । तथा भवत्वेवमर्थो मा वा
भूत् मया तावदेवं प्रतिपन्नं । अत एवाह ।
016
वक्तृव्यापारविषय इति यत्र वक्तास्ति । बुद्धौ प्रकाशते इति यत्र स नास्ति ।
अथवा तदुक्तेरेव तत्र वक्तास्तीति गम्यतां । (य)ज्जातीयो यत इति न्यायात् । अथवा
तदविशेषात् सर्व्वमेवापौरुषेयं । पुरुषकृतेर्व्वाधनान्नैवं चेद् (।) अत्राप्यतीन्द्रियत्वात्
पुरुषकृतेः सा न बाधिकेति कुत एतत् ।
अथवा अपौरुषेयमेव तद्वचनं पुरुषस्य तु मया कृतमेतदिति भ्रान्तिः । तथाहि ।
कवयोपि जन्मान्तरानुभूतमेव ग्रन्थं कवित्वेनोत्प्रेक्ष्यन्त इति । कुत एतत् । तथा च
सर्व्वमपौरुषेयं । व्यर्थकत्वमपि तथा भवतीति व्यर्थमपौरुषेयत्वं तत्र ।
वेदावेदयोर्व्यर्थता(ऽ)पौरुषेयताकल्पना च समानैव । अन्यार्थकल्पनायां न व्यर्थतेति
चेत् ।
अत आह । वक्तृव्यापार (विषय) इत्यादि । वेदार्थं प्राथमिकं परित्यज्य योर्थो
बुद्धिव्यापारविषयस्तत्र प्रामाण्यं पुरुषबुद्धेरेव नार्थतत्त्वनिबन्धनं न शब्दस्येति व्यस्तपदसम्बन्धः ।
तथा हि तं परित्यज्य वेदार्थं प्रथमं नरः । प्रमाणशुद्धमन्यार्थं52 कल्पयेत् तन्मतिः प्रमा ।। १२८ ।।
वेदेर्थतत्त्वस्य प्राथमिकस्याभावात् चित्रया यजेत पशुकाम इति व्यर्थकत्वात् । कर्मवै
गुण्यवत् तत्रेति चेत् । न (।) प्रमाणाभावात् । अन्यार्थकल्पना तु पुरुषप्रयत्नाद् भवन्ती
पुरुषकृतैव । तथा चोक्तं । सा किमशब्दलिङ्गा स्वयं कथञ्चिदनुस्मरतो न भवति ।
सर्व एव च वेदादात्मानं नियुक्तं मन्यते पूर्व्वानुसारेण । नियोगश्च शब्दभावनारूपः (।)
यदि स वाक्यार्थः । तथा सति देवदत्तः पचेदिति कर्त्तुरनभिधानात् कर्त्तृकरणयोस्तृतीये53
ति तृतीया प्राप्नोति । कर्त्रभिधाने तु अनभिहिताधिकारात्54
तिङ्गैवोक्तत्वान्न भवति ।
किंच । पचतीति कर्त्तापि प्रतीयते । व्यापारसामर्थ्यात् कर्त्तृराक्षेपादेवं प्रतीतिरिति
चेत् (।) न (।)
क्रमप्रतीतिरेवं स्यात् प्रथमं भावनागतिः ।
न च क्रमप्रतीतिरुपलभ्यते । द्विवचनबहुवचने च न प्राप्नुतः एकत्वाद् व्यापारस्य ।
अथ कारकभेदाद् व्यापरभेदो भविष्यतीति चेत् । क्रियते कटो देवदत्तयज्ञदत्ताभ्यामिति
महदसमंजसत्वं स्यात्55 (।) तथा हि ।
017
ननु धात्वर्थस्याभेदादेकवचनं देवदत्तयज्ञदत्ताभ्यामास्यते । स च धात्वर्थो न नियोगः ।
नियोगस्य प्रत्ययार्थत्वात् । स च धात्वर्थातिरिक्तः । कर्त्तृसाध्यस्तस्य कर्त्तृभेदाद् भेद इति
ततः कटं कुरुत इति भवति । धात्वर्थस्तु शुद्धो न कारकभेदाद् भेदी । तदसत् ।
सम्बन्धाद् यदि तद्भेदो धात्वर्थस्याप्यसौ भवेत् ।
अस्माकन्तु ।
क्रिया हि कर्त्तुः कर्मणश्च भेदेन विवक्ष्यते । सा यदि लकारेणाभिधीयते न कर्त्रा
तदा कर्त्तरि तृतीया भवति । यदाभिधीयते तदा प्रथमार्थत्वात् प्रथमा भवति । क्रियते
महात्मना करोति महात्मे ति ।
यदा तु कर्त्तृव्यापारस्तिपा प्रतिपाद्यते (तदा) स एव च भावना । तथा चाह ।
भावार्था कर्म्मशब्दाः । भावनं भावो ण्यन्तस्य प्रत्ययः ।56
तथा च सति भावनैवासौ ।
भावना च कर्त्तृव्यापारः (।) स चोदितः कर्त्रा स्वव्यापारे प्रवर्त्तते । नियोगस्य च तच्छेषत्वाद
प्रधानत्वादवाक्यार्थत्वं । नियोगविशिष्टत्वाच्च भावनायास्तथा प्रतिपादने नियमेन प्रवर्त्तते ।
कथञ्चासौ स्वव्यापारं प्रतिपन्ने (? न्नोत्र) न प्रवर्त्तते । अन्यथा स्वव्यापार एव तस्य57
न
चोदितो भवेत् । तदेतद सत् ।
व्यापार एष मम किमवश्यामिति मन्यते । फलम्विनैव नैदं चेत् साफल्ये धिगमः58 कुतः ।। १३७ ।।
यद्यवश्यमेष मम व्यापार इति मतिस्तदयुक्तं । न हि फलमपश्यन्ममेदं कर्त्तव्यमिति
कश्चित् प्रत्येति । सफलत्वे प्रवर्त्तते । सफलत्वं नावगम्यत इति प्रतिपादितं । किंच ।
करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्तिं निर्व्वर्त्तयति । व्यपदेशा एते
यथाकथंचिद् भेदपुरस्सरा (: ।) नैतेभ्योस्ति पदार्थतत्त्वव्यवस्था । शिलापुत्रकस्य शरीरमिति
न भेदव्यवहारा भेदमन्तरेणापि दृश्यन्ते ।59
ननु च किं करोति देवदत्तः पचति यजतीति प्रश्नोत्तरदर्शनात् । करोतीति निश्चिते
सति यज्यादिषु सन्देहादन्यत्त्वं प्रसिद्धमेव । तथा चाह । न च शरीरमेव बुद्धिस्तत्सिद्धावपि
बुद्धिविकल्पे संशयात् । तदेतदयुक्तं ।
018
यदि हि करोति क्रिया अन्या यज्यादिकायाः । तदा करोतीति निश्चिते कथमन्यत्र
संदेहे प्रश्नः । अनिश्चित एव प्रश्नस्य युक्तत्वात् । सामान्यरूपोथ करोत्यर्थो विशेषरूपो
यज्यादिरिति चेत् ।
केवलसामान्यप्रतीतौ हि विशेषांशे संदेह इत्युक्तं ।
अथ सामान्येन विशेष आक्षिप्यते । तथा सति सोपि प्रतीत एव कथं संशयः । नहि
प्रतीतत्वादपर आक्षेपः ।
अथ प्रतीत एवासौ तथापि प्रतीतता विशेषरूपेण नास्ति सामान्येनाक्षेपात् ।
ननु तदेव सामान्यमाक्षेपकं तदेवाक्षेप्यमिति कथमेतत् । न च सामान्यादपरं सामान्य
ताक्षेप्यं । तथा सति ततोप्यपरं ततोप्यपरमित्यनवस्था ।
ननु सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयो युक्त एव । न (।)
अनुपलम्भादभाव एव युक्तः सामान्येनानुपलम्भप्रमाणवादिनः । अन्यथोपलब्धिलक्षणप्राप्तानुप
लम्भादभावो नानुपलब्भिमात्रात् । तथाप्यनुपलब्धेरेव संशयो व्यर्थमेतत् सामान्यप्रत्यक्षादिति ।
यदि सामान्यप्रत्यक्षतायामपि उपलब्भिलक्षणप्राप्तानुपलब्धिर्न सामान्यसंशयः ।
आत्मोपलम्भलक्षणप्राप्तानुपलब्धिरेव न सम्भ(व)ति सामान्यप्रत्यक्षतायाम् (।) एवन्तर्हि
सैवानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्तं । विशेषस्मृतिरिति च व्यर्थं ।
नहि विशेषस्मृतिव्यतिरेकेणापरः संशयः । उभयांशावलम्वि (स्मृति) रूपत्वादस्य । दृश्यते
(कान्य) कुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः (।) तदेव
यज्यादिकमनियमेन प्रतीयमानं सामान्यतो दृष्टादनुमानात् सामान्यं । आह चात्र60 ।
भेदानवधारणमात्रमेव सामान्यपरिच्छेदः । क्वचिद् बुद्धिरेव तदाकारविविक्ता भावा
भावसाधारणत्वात् संशयहेतुः । तथा61
तथाभूतानुपलब्धिरेव संशयहेतुः । बुद्धिरूपा उप
लभ्यमानपदार्थरूपा वा ।
ननु समानाकारानुभवाभावे दृश्यते संशयः स्थाणुर्वा पुरुषो वेति । ऊर्ध्वतासामा
न्यमुपलभ्यते ।62
यद्यस्ति तदा द्वयाकारा बुद्धि63
रुपलभ्यते ।
अथोपलभ्यत एव पुरुषस्थाणुस्वरूपपरिहारेण दूरदेशमूर्ध्वतामात्रमन्यथा स्थाणु
पुरुषाकारान्तर्ग्गतानुभवे न तत्र64 सन्देह उत्पद्येत । तस्मात् तत्परिहारेणावभासनमेव
तद्व्यतिरेक एतावन्मात्रलक्षणत्वाद् व्यतिरेकस्य । (।)
019
तन्न युक्तं ।
यत् खलु दूरदेशनिवेशिदशायामवभासते । तत्सन्निधानविधानाधीनं सुतरामव
भासवत्66 । पदार्थान्तरत्वे च सामान्यस्य तदेव प्रतिभासने । कथम(न्यत्र) त्रास्पष्ट
प्रतिभासव्यवहारः । न खलु नीलपदार्थप्रतिभासनेऽस्पष्टशुक्लप्रतिभासव्यवहारः ।
ननु भवत्पक्षेपि केयमस्पष्टता नाम । अस्पष्टप्रतिभासता नाम 67
(।) अस्पष्टप्रति
भासता हि कदाचिदप्रतिभासता कदाचिदन्यप्रतिभासता (।) कदाचित्तु तत्प्रतिभासतेति68 ।
अन्यस्य प्रतिभासोपि तस्यैवास्पष्टता कुतः ।
तदेतदसत् ।
अथ तदेव सामान्यन्तथा सति वर्ण्णसंस्थानप्रतिभासनं न स्यात् (।) न खलु सामान्यं
वर्ण्णसंस्थानवद् द्रव्याश्रितत्वात् तयोः । अथ द्रव्यगतं वर्ण्णसंस्थानं तथा सति ततोत्पन्न
सामान्यमनवभासनात् । वर्ण्णसंस्थानयोरेव प्रतिभासनं, तयोश्च साधारणत्वात् स्थाणुपुरुषयोः
सन्देह इति युक्तं ।
तदप्यसत् । यतः ।
यदि वर्ण्णसंस्थानमन्यथा प्रतिभाति भ्रान्तिरेव सा (।) कथं सामान्यप्रत्यक्षता ।
अथावयवी तत्र प्रतिभाति न सामान्यं नापि वर्ण्णसंस्थानमिति चेत् ।
श्यामतादि रूपं हि वर्ण्णादिकमवभासते । न च तत्रान्यदेव द्रव्यमवभासते । तद्व्य
तिरेकेणापरस्य द्रव्यस्याप्रतिभासनात् । तदेव द्रव्यमिति चेत् (।) न (।) गुणत्वात्
संस्थानवर्ण्णयोः ।
अथ वर्ण्णसंस्थानवद् द्रव्यम् (।) न (।) तद्व्यतिरकेणान्यथा प्रतिभासनाभावात् ।
न खलु स्पष्टास्पष्टवण्णसंस्थानव्यतिरेकेणापरं द्रव्यमुपलभ्यते । अस्पष्टवर्णसंस्थानस्य च
तदपरसामग्रीप्रभवज्ञानेन बाध्यमानत्वात् । नेदमेवम्भूतमिति स्पष्टाकारप्रत्ययोदये सति
भवतीति । तदनुपलब्धिरेव च तद्विपर्ययोपलब्धिरूपा69 बाधकं । नेदमिति (कल्पना)
प्रत्ययस्यानुत्पत्तेर्न्नैवमिति चेत् । न (।) उत्पद्यत एव सोपि नेदमिति प्रत्ययः । तथा हि ।
तद्वर्ण्णंमेतत्संस्थानं न भवतीति तद्व्यतिरिक्तसंस्थानबाधकमुपज्ञायत एव ज्ञानं । व्यतिरिक्तस्य
020
न बाधकमिति चेत् । यत एवाव्यतिरिक्तसंस्थानबाधकमत एव व्यतिरेकि संस्थानं
भविष्यति ।
तदसत् ।
यादृशस्य प्रतीतिः प्राग् बाधनं तादृशस्य चेत् । अन्यथा न प्रतीतिश्च70 किमन्यदवशिष्यते ।। १५३ ।।
यादृशं संस्थानं द्रव्यं वा वर्ण्णाव्यतिरिक्तं प्रतिपन्नं (।) यदि तादृशस्य बाधा किमपर
मवशिष्यते । न खलु योगविभागो विद्यते । येन तत्रैकस्य बाधनमपरस्य नेति व्यवस्था
विभागः ।
अथापि स्यात् ।
तस्य वर्ण्णस्य न प्राप्तिः संस्थानद्रव्ययोस्तदा ।
यच्च पूर्वोत्तरभावेन वेद्यते यच्च न तथा (।) तयोर्विरुद्धधर्म्माध्यासयोगो न71
युक्तः ।
प्रभेदो हि सकल एवमेव साधनीयो परस्य भेदसाधनस्याभावात् ।
तदसत् ।
यदि तत् परमार्थतो भिन्नं वर्ण्णसंस्थानं द्रव्यात् संस्थानं वा वर्ण्णात् कथं पूर्व्वत्र परत्र
वा प्रत्यक्षे न प्रतिभाति । प्रत्येकमप्रतिभासने समुदायस्य तद्व्यतिरिक्तस्याभावात् तत्र
प्रतिभासनमिति महन्मोहसामर्थ्यं । न च द्वयोः समवधानमिति कुतः समुदायः । अनु
सन्धानश्च न प्रत्यक्षादिति । तदभावादनुमानमपि नास्तीति कुतो व्यतिरेकप्रतीतिः ।
तस्मान्न साधारणं नाम किञ्चित् । सर्वस्य स्वात्मनि व्यवस्थितत्वात् विशेषतैव ।
तस्मान्न क्रिया करोतीति साधारणरूपा यजनादिक्रिया विशेषाणां (सामान्यम् ।) (।)
ततो न भावना कत्तव्यापाररूपा तद्व्यतिरेकेणाविभावनात् । न च धात्वर्थो पि द्रव्यव्यति
रेकेणास्ति । द्रव्यमेव पूर्वापरीभूतमन्वयव्यतिरेकेण कल्पितव्यतिरेकिस्वभावमभेदेपि भेद
वदुपचर्य क्रियातो भिन्नं क्रिया च ततो भिन्नेति व्यवहारमात्रमेतत् । नेयं वस्तुतत्त्वव्यवस्थितिः ।
स्वव्यापारधात्वर्थौ च नियोगकाले भाविनौ प्रतीयेते । ततः कथन्तदालम्बना प्रतीतिः
पूर्व्ववासनाबलादुपजायमाना न निरालम्बनेत्युक्तं ।
अ8b थापि स्यात् (।) प्रत्यक्षस्य हि वर्त्तमानविष(य)त्वाद् भाविभूतविषये नालम्बनत्वं
शब्दस्य तु तद्विषयत्वेपि न तत्त्वं । तदाह चोदने72त्यादि ।
तदसत् ।
सर्व्वा हि परोक्षविषया प्रतीतिरर्थसम्बन्धादेवाविसम्वादिनी यथा अनुमानप्रतीतिः ।
न हि यो येनासम्बद्धस्तद््भावे तस्य भावनियमः । निरालम्बना तु त
त्स्वरूपाभावादेव । न
ह्यविद्यमानस्य स्वरूपग्रहणमित्युक्तं । न च भाविना सह सम्बन्धनियमः । अनुमाने तु
021
कारणात् कार्य/?/ प्रतीयते । तथा परम दर्शनात् । न च फलकारणताग्निहोत्रादेरुपलब्धा ।
नापि तदकरणे प्रत्यवा यनिश्चयः73 ।
अथात्मनः सामर्थ्यमवगच्छन् यागकरणतामात्मनः74 प्रतिपद्यमानो यागे75 प्रवर्त्तिष्यते ।
अत एव भावनानियोगधात्वर्थानां परस्परसम्बन्धः फलाभिसम्बन्धो वा विधिर्वाक्यार्थ76
इति न युक्तं । सर्व्वस्य भावित्वेन ज्ञानेनाग्रहणान्निरालम्बनतैव बुद्धेः । अतो दृश्यविक
ल्प्यार्थैकीकरणात् प्रवर्त्तते । स एव चान्यापोह इति । न कश्चित् प्रेक्षापूर्वक री वेदात्
प्रवर्त्तत इत्यलमति
प्रसङ्गेन ।
तस्माद् (।) वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशतेऽध्यारोपितः । प्रामाण्यन्तत्र
शब्दस्य नार्थतत्त्वनिबन्धनं । (२।२)
न खल्वध्यारोपेण सत्त्यार्थविषयेण भवितव्यं प्रतिबन्धमन्तरेणे५ति व्यवस्थितमेतत् ।
प्रथम77वार्त्तिकालङ्कारे विधिभावनादि वार्त्तिकं प्रथमं ।। २ ।।
-
१ श्लोकवार्तिके †
↩ -
२ तमपेक्ष्य कारकः शब्दो न वाच्यः । अथ प्रतिपादकः ।
↩ -
३ स्वव्यापाररहित॰
↩ -
१ व्यर्थतेक्ष्यते
↩ -
२ परिशुद्धार्थं
↩ -
३ पाणिनिः २।३।१८
↩ -
४ पाणिनिः २।३।१
↩ -
५ अधिकं—एकत्वाद् व्यापारस्य
↩ -
१ शवबरभाष्ये (?)
↩ -
२ त्यक्तः—तस्य
↩ -
३ साफल्याधिगमः
↩ -
४ T. पद्मनिबद्धं—शिलापुत्रेत्यारभ्य दृश्यन्त इत्यन्तं वाक्यम् ।
↩ -
१ अधिकः—तस्मात् करोतीति
↩ -
२ त्यक्तः—तथा
↩ -
३ यदि संस्थानस्य ऊर्ध्वतो
↩
सामान्यदर्शनात् अयं स्थाणुरस्ति नवेति समानाकारानुभवभावे संशयो न दृश्यत इति
पुरुषस्थाण्वाकारोऽत ऊर्ध्व सामान्यं क्वापि नोपलभ्यते—अधिकम् -
४ द्वयाकारो भावः
↩ -
५ स्थाणुपुरुषविकल्पानुभवेन तेन ।
↩ -
१ तस्मात् तद्व्यतिरेकश्चेत्
↩ -
२ सुतरामवभासत एव
↩ -
३ त्यक्तः—अस्पष्ट॰
↩ -
४ T. तदस्पष्टप्रतिभासिता वा
↩ -
५ T. तद्विपर्ययरूपोपलब्धिः
↩ -
१ T. चेत्
↩ -
२ विरुद्ध धर्मस्थानाभेदः
↩ -
३ मीमांसा-भाष्ये
↩ -
५ T. त्यक्तं—प्रतिबन्धमन्तेरण
↩ -
२ T. यागादिकारणतामात्मनः
↩ -
३ T. त्यक्तः—यागे
↩ -
४ T. मीमांसा . . .
↩ -
६ T. त्यक्तं—प्रथम
↩