४
१।२ तदेवमुपादेयस्य भगवत्प्रवचनार्थस्य साधकन्तदन्यस्य हेयार्थस्य
वाधकमनुमानमाचार्यदि ग्ना गे नोक्तं त्रिरूपाल्लिङ्गतोऽर्थदृगि (ति ।) अत्र
तद्विषयञ्चाथ शब्दवाच्यमन्यापोहमशेषसंख्यादिविप्रतिपत्तिनिराकरणतः प्रथमं
प्रथमपरिच्छेदेन शास्त्रकृद् व्याख्यातवान् । अनुमानमेव साधकं (प्रवचनार्थस्य)
तीर्थ्यागमस्य वाधकञ्च न प्रत्यक्षं । तस्य सन्निहितविषयत्वात्तत्स्वरूपस्य
चानुमानेनैव व्यवस्थानात्सर्वविमतीनाञ्चानेनैव निराकरणात् । तथा हि
त्रिरूपमेव लिङ्गन्नैकलक्षणादिकं । न च दर्शनादर्शनमात्रेण हेतुर्गमकः किन्तु
प्रतिबन्धात् । स च द्विरूपो नार्थलक्षणो विरोधस्य [परस्य न परिहारस्त्विति
लक्षणोऽभावः कथं भावात्मकः स्यात् वह्निना सहानवस्थित्या आलोकः
कथमनुकाराज्जायेत । अनुकारिण.. ] चात्रैवान्तर्भावात् । तथान्यापोह
एवानुमानस्य विषयो तद्रूपपरावृत्तवस्तुमात्रप्रसाधनान्न परपरिकल्पितं व्यतिरिक्ता
व्यतिरिक्तादिरूपं सामान्यं । न च विधिमुखेन शब्दे वाचकः किन्त्वन्यव्य
वच्छेदेनाभाव [भावव्यवच्छेदवाचकत्वात्] इव भावेप्यन्यव्यव [अब्राह्मणानीत्यादौ
पर्युदासे]च्छेदबलादेव च विशिष्टार्थप्रतीतेरन्यथा यत एव विजातीयान्न निवर्तेतं
सोऽन्यरूपोपि स्यात् । तद्रूपवत्स्वरूपवद्वाऽन्य (ः) स्यादनिवृत्तेर्न चापौरुषेयः
शब्दस्तस्य विवक्षाकार्यत्वादिति सर्वमत्र प्रथमपरिच्छेदे प्रोक्तं । तदेवम् ।
524
अत्र प्र मा ण स मु च्च ये द्वितीयपरिच्छेदश्लोके पूर्ववदिति प्रत्यक्ष इव विषया
धिगतिरूपं प्रमाणादव्यतिरिक्तं फलमनुमानेपि ज्ञेयमर्थस्त्वालम्वनं प्रत्यक्षस्य
स्वलक्षणमितरस्य तु सामान्याकारोन्यापोहो विषयः स्वरूपञ्च स्पष्टास्पष्टप्रतिभा
समतुल्यं प्रत्यक्षानुमानयोरित्येतद्वक्ष्यमाणानुमिति त्यक्त्वातिविवादास्पद.. ।